SKदेशाध्वनोप्यथ समासविकासयोगात्संगीयते विधिरयं शिवशास्त्रदृष्टः // १ब्
SKविचारितोयं कालाध्वा क्रियाशक्तिमयः प्रभोः / मूर्तिवैचित्र्यजस्तज्जो देशाध्वाथ निरूप्यते // २
SKअध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः / यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते // ३
SKसंविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च / नाडीचक्रानुचक्रेषु बर्हिर्देहेध्वसंस्थितिः // ४
SKतत्राध्वैवं निरूप्योयं यतस्तत्प्रक्रियाक्रमम् / अनुसंदधदेव द्राग् योगी भैरवतां व्रजेत् // ५
SKदिदृक्षयैव सर्वार्थान् यदा व्याप्यावतिष्ठते / तदा किं बहुनोक्तेन इत्युक्तं स्पन्दशासने // ६
SKज्ञात्वा समस्तमध्वानं तदीशेषु विलापयेत् / तान् देहप्राणधीचक्रे पूर्ववद् गालयेत्क्रमात् // ७
SKतत्समस्तं स्वसंवित्तौ सा संविद्भरितात्मिका / उपास्यमाना संसारसागरप्रलयानलः // ८
SKश्रीमहीक्षोत्तरे चैतानध्वेशान् गुरुरब्रवीत् / ब्रह्मानन्तात्प्रधानान्तं विष्णुः पुंसः कलान्तगम् // ९
SKरुद्रो ग्रन्थौ च मायायामीशः सादाख्यगोचरे / अनाश्रितः शिवस्तस्माद्व्याप्ता तद्व्यापकः परः // १०
SKएवं शिवत्वमापन्नमिति मत्वा न्यरूप्यत / न प्रक्रियापरं ज्ञानमिति स्वच्छन्दशासने // ११
SKत्रिशिरःशासने बोधो मूलमध्याग्रकल्पितः / षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना // १२
SKअव्याहतविभागोस्मिभावो मूलं तु बोधगम् / समस्ततत्त्वभावोयं स्वात्मन्येवाविभागकः // १३
SKबोधमध्यं भवेत्किंचिदाधाराधेयलक्षणम् / तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम् // १४
SKबोधाग्रं तत्तु विद्बोधं निस्तरङ्गं बृहत्सुखम् / संविदेकात्मतानीतभूतभावपुरादिकः // १५
SKअव्यवच्छिन्नसंवित्तिर्भैरवः परमेश्वरः / श्रीदेव्यायामले चोक्तं षट्त्रिंशत्तत्त्वसुन्दरम् // १६
SKअध्वानं षड्विधं ध्यायन्सद्यः शिवमयो भवेत् / यद्यप्यमुष्य नाथस्य संवित्त्यनतिरेकिणः // १७
SKपूर्णस्योर्ध्वादिमध्यान्तव्यवस्था नास्ति वास्तवी / तथापि प्रतिपत्तॄणां प्रतिपादयितुस्तथा // १८
SKस्वस्वरूपानुसारेण मध्यादित्वादिकल्पनाः / ततः प्रमातृसंकल्पनियमात् पार्थिवं विदुः // १९
SKतत्त्वं सर्वान्तरालस्थं यत्सर्वावरणैर्वृतम् / तदत्र पार्थिवे तत्त्वे कथ्यते भुवनस्थितिः // २०
SKनेता कटाहरुद्राणामनन्तः कामसेविनाम् / पोतारूढो जलस्यान्तर्मद्यपानविघूर्णितः // २१
SKस देवं भैरवं ध्यायन् नागैश्च परिवारितः / कालाग्रेर्भुवनं चोर्ध्वे कोटियोजनमुच्छ्रितम् // २२
SKलोकानां भस्मसाद्भावभयान्नोर्ध्व स वीक्षते / स च व्याप्तापि विश्वस्य यस्मात्प्लुष्यन्निमां भुवम् // २३
SKनरकेभ्यः पुरा व्यक्तस्तेनासौ तदधो मतः / दश कोट्यो विभोर्ज्वाला तदर्ध शून्यमूर्ध्वतः // २४
SKतदूर्ध्वे नरकाधीशाः क्रमाद्दुःखैकवेदनाः / श्धो मध्ये तदूर्ध्वे च स्थिता भेदान्तरैर्वृताः // २५
SKअवीचिकुम्भीपाकाख्यरौरवास्तेष्वनुक्रमात् / एकादशैकादश च दशेत्यन्तः शराग्नि तत् // २६
SKप्रत्येकमेषामेकोना कोटिरुच्छ्रितिरन्तरम् / लक्षमत्र खवेदास्यसंख्यानामन्तरा स्थितिः // २७
SKकूष्माण्ड ऊर्ध्वे लक्षोनकोटिस्थानस्तदीशिता / शास्त्रविरुद्धाचरणात् कृष्णं ये कर्म विदधते // २८
SKतत्र भीमैर्लोकपुरुषैः पीड्यन्ते भोगपर्यन्तम् / ये सकृदपि परमेशं शिवमेकाग्रेण चेतसा शरणम् // २९
SKयान्ति न ते नरकयुजः कृष्णं तेषां सुखाल्पतादायि / सहस्रनवकोत्सेधमेकान्तरमथ क्रमात् // ३०
SKपातालाष्टकमेकैकमष्टमे हाटकः प्रभुः / प्रतिलोकं नियुक्तात्मा श्रीकण्ठो हठतो बहूः // ३१
SKसिद्धीर्ददात्यसावेवं श्रीमद्रौरवशासने / व्रतिनो ये चिकर्मस्था निषिद्धाचारकारिणः // ३२
SKदीक्षिता अपि ये लुप्तसमया नच कुर्वते / प्रायश्चित्तांस्तथा तत्स्था वामाचारस्य दूषकाः // ३३
SKदेवाग्निद्रव्यवृत्त्यंशजीविनश्चोत्तमस्थिताः / अधःस्थगारुडाद्यन्यमन्त्रसेवापरायणाः // ३४
SKते हाटकविभोरग्रे किङ्करा विविधात्मकाः / ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते // ३५
SKतदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे / अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः // ३६
SKते कालवह्निसंतापदीनाक्रन्दपरायणाः / गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः // ३७
SKपात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम् / अधमाधमदेहेषु निजकर्मानुरूपतः // ३८
SKमानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात् / मुच्यन्तेन्ये तु बध्यन्ते पूर्वकृत्यानुसारतः // ३९
SKइत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना / प्रोक्तं भगवता श्रीमदानन्दाधिकशासने // ४०
SKपातालोर्ध्वे सहस्राणि विंशतिर्भूकटाहकः / सिद्धातन्त्रे तु पातालपृष्ठे यक्षीसमावृतम् // ४१
SKभद्रकाल्याः पुरं यत्र ताभिः क्रीडन्ति साधकाः / ततस्तमस्तप्तभूमिस्ततःशून्यं ततोहयः // ४२
SKएतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम् / ततो भूम्यूर्ध्व [मध्य] तो मेरुः सहस्राणि स षोडश // ४३
SKमग्नस्तन्मूलविस्तारस्तद्द्वयेनोर्ध्वविस्तृतिः / सहस्राब्धिवसूच्छ्रायो हैमः सर्वामरालयः // ४४
SKमध्योर्ध्वाधः समुद्वृत्तशरावचतुरश्रकः / भैरवीयं च तल्लिङ्गं धरणी चास्य पीठिका // ४५
SKसर्वे देवा निलीना हि तत्र तत्पूजितं सदा / मध्ये मेरुसभा धातुस्तदीशदिशि केतनम् // ४६
SKज्योतिष्कशिखरं शंभोः श्रीकण्ठांशश्च स प्रभुः / अवरुह्य सहस्राणि मनोवत्याश्चतुर्दश // ४७
SKचक्रवाटश्चतुर्दिक्को मेरुरत्र तु लोकपाः / अमरावतिकेन्द्रस्य पूर्वस्यां दक्षिणेन ताम् // ४८
SKअत्सरःसिद्धसाध्यास्तामुत्तरेण विनायकाः / तेजोवती स्वदिश्यग्नेः पुरी तां पश्चिमेन तु // ४९
SKविश्वेदेवा विश्वकर्मा क्रमात्तदनुगाश्च ये / याम्यां संयमनी तां तु पश्चिमेन क्रमात् स्थिताः // ५०
SKमातृनन्दा स्वसंख्याता रुद्रास्तत्साधकास्तथा / कृष्णाङ्गारा निरृतिश्च तां पूर्वेण पिशाचकाः // ५१
SKरक्षांसि सिद्धगन्धर्वास्तूत्तरेणोत्तरेण ताम् / वारुणी शुद्धवत्याख्या भूतौघो दक्षिणेन ताम् // ५२
SKउत्तरेणोत्तरेणैनां वसुविद्याधराः क्रमात् / वायोर्गन्धवती तस्या दक्षिणे किन्नराः पुनः // ५३
SKवीणासरस्वती देवी नारदस्तुम्बुरुस्तथा / महोदयेन्दोर्गुह्याः स्युः पश्चिमेस्याः पुनः पुनः // ५४
SKकुबेरः कर्मदेवाश्च तथा तत्साधका अपि / यशस्विनी महेशस्य तस्याः पश्चिमतो हरिः // ५५
SKदक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात् / मैरवे चक्रवाटेस्मिन्नेवं मुख्याः पुरोष्टधा // ५६
SKअन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः / इष्टापूर्तरताः पुण्ये वर्षेये भारते नराः // ५७
SKते मेरुगाः सकृच्छम्भुं ये वार्चन्ति यथोचितम् / मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः // ५८
SKमन्दरो गन्धमादश्च विपुलोथ सुपार्श्वकः / सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः // ५९
SKएतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः / चैत्ररथनन्दनाख्ये वैश्राजं पितृवनं वनान्याहुः // ६०
SKरक्तोदमानससितं भद्रं चैतच्चतुष्टयं सरसाम् / वृक्षाः कदम्बजम्ब्वश्वत्थन्यग्रोधकाः क्रमशः // ६१
SKएषु च चतुर्ष्वचलेषु त्रयं त्रयं क्रमश एतदाम्नातम् / मेर्वधो लवणाब्ध्यन्तं जम्बुद्वीपः समन्ततः // ६२
SKलक्षमात्रः स नवधा जातो मर्यादपर्वतैः / निषधो हेमकूटश्च हिमवान्दक्षिणे त्रयः // ६३
SKलक्षं सहस्रनवतिस्तदशीतिरिति क्रमात् / नीलः श्वेतस्त्रिशृङ्गश्च तावन्तः सव्यतः पुनः // ६४
SKमेरोः षडेते मर्यादाचलाः पूर्वापरायताः / पूर्वतो माल्यवान्पश्चाद्गन्धमादनसंज्ञितः // ६५
SKसव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ / अष्टावेते ततोप्यन्यौ द्वौ द्वौ पूर्वादिषु क्रमात् // ६६
SKजाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः / एवं स्थितो विभागोत्र वर्षसिद्ध्यै निरूप्यते // ६७
SKसमन्ताच्चक्रवाटाधोनर्केन्दु चतुरश्रकम् / सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम् // ६८
SKमेरोः पश्चिमतो गन्धमादो यस्तस्य पश्चिमे / केतुमालं कुलाद्रीणां सप्तकेन विभूषितम् // ६९
SKमेरोः पूर्व माल्यवान्यो भद्राश्वस्तस्य पूर्वतः / सहस्रदशकायुस्तत्सपञ्चकुलपर्वतम् // ७०
SKपूर्वपश्चिमतः सव्योत्तरतश्च क्रमादिमे / द्वात्रिंशच्च चतुस्त्रिंशत्सहस्राणि निरूपिते // ७१
SKमेरोरुदक् शृङ्गवान्यस्तद्बहिः कुरुवर्षकम् / चापवन्नवसाहस्रमायुस्तत्र त्रयोदश // ७२
SKकुरुवर्षस्योत्तरेथ वायव्येब्धौ क्रमाच्छराः / दश चेति सहस्राणि द्वीपौ चन्द्रोथ भद्रकः // ७३
SKयौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम् / तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश // ७४
SKतत्र वै वामतः श्वेतनीलयो रम्यकोन्तरे / सहस्रनवविस्तीर्णमायुर्द्वादश तानि च // ७५
SKमेरोर्दक्षिणतो हेमनिषधौ यौ तदन्तरे / हर्याख्यं नवसाहस्रं तत्सहस्राधिकायुषम् // ७६
SKतत्रैव दक्षिणे हेमहिमवद्द्वितयान्तरे / कैन्नरं नवसाहस्रं तत्सहस्राधिकायुषम् // ७७
SKतत्रैव दक्षिणे मेरोर्हिमवान्यस्य दक्षिणे / भारतं नवसाहस्रं चापवत्कर्मभोगभूः // ७८
SKइलावृतं केतुभद्रं कुरुहैरण्यरम्यकम् / हरिकिन्नरवर्षे च भोगभूर्न तु कर्मभूः // ७९
SKअत्र बाहुल्यतः कर्मभूभावोत्राप्यकर्मणाम् / पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः // ८०
SKसंभवन्त्यप्यसंस्कारा भारतेन्यत्र चापि हि / दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम् // ८१
SKस्थानान्तरेपि कर्मास्ति दृष्टं तच्च पुरातने / तत्र त्रेता सदा कालो भारते तु चतुर्युगम् // ८२
SKभारते नवखण्डं च सामुद्रेणाम्भसात्र च / स्थलं पञ्चशती तद्वज्जलं चेति विभज्यते // ८३
SKइन्द्रः कशेरुस्ताम्राभो नागीयः प्राग्गभस्तिमान् / सौम्यगान्धर्ववाराहाः कन्याख्यं चासमुद्रतः // ८४
SKकन्याद्वीपे च नवमे दक्षिणेनाब्धिमध्यगाः / उपद्वीपाः षट् कुलाद्रिसप्तकेन विभूषिते // ८५
SKअङ्गयवमलयशङ्कुः कुमुदवराहौ च मलयगोगस्त्य / तत्रैव च त्रिकूटे लङ्का षडमी ह्युपद्वीपाः // ८६
SKद्वीपोपद्वीपगाः प्रायो म्लेच्छा नानाविधा जनाः / मुक्ताकाञ्चनरत्नाढ्या इति श्रीरुरुशासने // ८७
SKभारते यत्कृतं कर्म क्षपितं वाप्यवीचितः / शिवान्तं तेन मुक्तिर्वा कन्याख्ये तु विशेषतः // ८८
SKमहाकालादिका रुद्रकोटिरत्रैव भारते / गङ्गादिपञ्चशतिका जन्म तेनात्र दुर्लभम् // ८९
SKअन्यवर्षेषु पशुवद् भोगात्कर्मातिवाहनम् / प्राप्यं मनोरथातीतमपि भारतजन्मनाम् // ९०
SKनानावर्णाश्रमाचारसुखदुःखविचित्रता / कन्याद्वीपे यतस्तेन कर्मभूः सेयमुत्तमा // ९१
SKपुंसा सितासितान्यत्र कुर्वतां किल सिद्ध्यतः / परापरौ स्वर्निरयाविति रौरववार्तिके // ९२
SKएवं मेरोरधो जम्बूरभितो यः स विस्तरात् / स्यात् सप्तदशधा खण्डैर्नवभिस्तु समासतः // ९३
SKमनोः स्वायंभुवस्यासन् सुता दश ततस्त्रयः / प्राव्रजन्नथ जम्ब्वाख्ये राजा योग्नीध्रनामकः // ९४
SKतस्याभवन्नव सुतास्ततोयं नवखण्डकः / नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः // ९५
SKतस्याष्टौ तनयाः साकं कन्यया नवम्ॐशकः / भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात् // ९६
SKलक्षैकमात्रो लवणस्तद्बाह्येस्य पुरोद्रयः / ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक् // ९७
SKवराहनन्दनाशोकाः पश्चात् सहबलाहकौ / दक्षिण चक्रमैनाकौ वाडवोन्तस्तयोः स्थितः // ९८
SKअब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद् गिरिः / विद्युत्वांस्त्रिसहस्रोच्छ्रिदायामोत्र फलाशिनः // ९९
SKमलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः / नग्नाः संवत्सराशीतिजीविनस्तृणभोजिनः // १००
SKनिर्यन्त्राणि सदा तत्र द्वाराणि बिलसिद्धये / इत्येतद् गुरुभिर्गीतं श्रीमद्रौरवशासने // १०१
SKइत्थं य एष लवणसमुद्रः प्रतिपादितः / तद्बहिः षडमी द्वीपाः प्रत्येकं स्वार्णवैर्वृताः // १०२
SKक्रमद्विगुणिताः षड्भिर्मनुपुत्रैरधिष्ठिताः / शाककुशक्रौञ्चाः शल्मलिगोमेधाब्जमिति षड्द्वीपाः / क्षीरदधिसर्पिरैक्षवमदिरामधुराम्बुकाः षडम्बुधयः // १०३
SKमेधातिथिर्वपुष्माञ्ज्योतिष्मान्द्युतिमता हवी राजा / संवर इति शाकादिषु जम्बुद्वीपे न्यरूपि चाग्नीध्रः // १०४
SKगिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः / पुष्करसंज्ञो द्विदलो हरियमवरुणेन्दवोत्र पूर्वादौ // १०५
SKत्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम् / स्वाद्वर्णवान्तं मेर्वर्धाद्योजननामियं प्रमा // १०६
SKसप्तमजलधेर्बाह्ये हैमी भूः कोटिदशकमथ लक्षम् / उच्छ्रित्या विस्तारादयुतं लोकेतराचलः कथितः // १०७
SKलोकालोकदिगष्टक संस्थं रुद्राष्टकं सलोकेशम् / केवलमित्यपि केचिल्लोकालोकान्तरे रविर्न बहिः // १०८
SKपितृदेवपथावस्योदग्दक्षिणगौ स्वजात्परे वीथ्यौ / भानोरुत्तरदक्षिणमयनद्वयमेतदेव कथयन्ति // १०९
SKऽसर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः.ऽ
SKउदयास्तमयावित्थं सूर्यस्य परिभावयेत् // ११०
SKअर्धरात्रोमरावत्यां याम्यायामस्तमेव च / मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः // १११
SKउदयो योमरावत्यां सोर्धरात्रो यमालये / केस्तं सौम्ये च मध्याह्न इत्थं सूर्यगतागते // ११२
SKपञ्चत्रिं शत्कोटिसंख्या लक्षाण्येकोनविंशतिः / चत्वारिंशत्सहस्राणि ध्वान्तं लोकाचलाद्बहिः // ११३
SKसप्तसागरमानस्तु गर्भोदाख्यः समुद्रराट् / लोकालोकस्य परतो यद्गर्भे निखिलैव भूः // ११४
SKसिद्धातन्त्रेत्र गर्भाब्धेस्तीरे कौशेयसंज्ञितम् / मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः // ११५
SKक्रीडन्तिं पर्वताग्रे ते नव चात्र कुलाद्रयः / तत उष्णोदकास्त्रिंशन्नद्यःपातालगास्ततः // ११६
SKचतुर्दिङ्नैमिरोद्यानं योगिनीसेवितं सदा / ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः // ११७
SKब्रह्मणोण्डकटाहेन मेरोरर्धेन कोटयः / पञ्चाशदेवं दशसु दिचु भूर्लोकसंज्ञितम् // ११८
SKपशुखगमृगतरुमानुषसरीसृपैः षड्भिरेष भूर्लोकः / व्याप्तः पिशाचरक्षोगन्धर्वाणां सयक्षाणाम् // ११९
SKविद्याभृतां च किं वा बहुना सर्वस्य भूतसर्गस्य / अभिमानतो यथेष्टं भोगस्थानं निवासश्च // १२०
SKभुवर्लोकस्तथा त्वार्काल्लक्षमेकं तदन्तरे / दश वायुपथास्ते च प्रत्येकमयुतान्तराः // १२१
SKआद्यो वायुपथस्तत्र विततः परिचर्च्यते / पञ्चाशद्योजनोर्ध्वे स्यादृतर्द्धिर्नाम मारुतः // १२२
SKआप्यायकः स जन्तूनां ततः प्राचेतसो भवेत् / पञ्चाशद्योजनादूर्ध्व तस्मादूर्ध्व शतेन तु // १२३
SKसेनानीवायुरत्रैते मूकमेघास्तडिन्मुचः / ये मह्याः क्रोशमात्रेण तिष्ठन्ति जलवर्षिणः // १२४
SKतेभ्य ऊर्ध्व शतान्मेघा भेकादिप्राणिवर्षिणः / पञ्चाशदूर्ध्वमोघोत्र विषवारिप्रवर्षिणः // १२५
SKमेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते / ततः पञ्चाशदूर्ध्वं स्युर्मेघा मारकसंज्ञकाः // १२६
SKतत्र स्थाने महादेवजन्मानस्ते विनायकाः / ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् // १२७
SKपञ्चाशदूर्ध्वं वज्राङ्को वायुरत्रोपलाम्बुदाः / विद्याधराधमाश्चात्र वज्राङ्के संप्रतिष्ठिताः // १२८
SKये विद्यापौरुषे ये च श्मशानादिप्रसाधने / मृतास्तत्सिद्धिसिद्धास्ते वज्रांके मरुति स्थिताः // १२९
SKपञ्चाशदूर्ध्वं वज्रांकाद्वैद्युतोशनिवर्षिणः / अब्दा अप्सरसश्चात्र ये च पुण्यकृतो नराः // १३०
SKभृगौ वह्नौ जले ये च संग्रामे चानिवर्तिनः / गोग्रहे वध्यमोक्षे वा मृतास्ते वैद्युते स्थिताः // १३१
SKवैद्युताद्रैवतस्तावांस्तत्र पुष्टिवहाम्बुदाः / ऊर्ध्वं च रोगाम्बुमुचः संवर्तास्तदनन्तरे // १३२
SKरोचनाञ्जनभस्मादिसिद्धास्तत्रैव रैवते / क्रोधोदकमुचां स्थानं विषावर्तः स मारुतः // १३३
SKपञ्चाशदूर्ध्वं तत्रैव दुर्दिनाब्दा हुताशजाः / विद्याधरविशेषाश्च तथा ये परमेश्वरम् // १३४
SKगान्धर्वेण सदार्चन्ति विषावर्तेथ ते स्थिताः / विषावर्ताच्छतादूर्ध्व दुर्जयः श्वाससंभवः // १३५
SKब्रह्मणोत्र स्थिता मेघाः प्रलये वातकारिणः / पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे // १३६
SKजीमूतमेघास्तत्संज्ञास्तथा विद्याधरोत्तमाः / ये च रूपव्रता लोका आवहे ते प्रतिष्ठिताः // १३७
SKमहावहे त्वीशकृताः प्रजाहितकराम्बुदाः / महापरिवहे मेघाः कपालोत्था महेशितुः // १३८
SKमहापरिवहान्तोयमृतर्द्धेः प्राङ्मरुत्पथः / अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः // १३९
SKद्वितीये तत्परे सिद्धचारणा निजकर्मजाः / तुर्ये देवायुधान्यष्टौ दिग्गजाः पञ्चमे पुनः // १४०
SKषष्ठे गरुत्मानन्यस्मिङ्गङ्गान्यत्र वृषो विभुः / दक्षस्तु नवमे ब्रह्मशक्त्या समधिति[नि]ष्ठितः // १४१
SKदशमे वसवो रुद्रा आदित्याश्च मरुत्पथे / नवयोजनसाहस्रो विग्रहोर्कस्य मण्डलम् // १४२
SKत्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः / स्वर्लोकस्तु भुवर्लोकाद्ध्रुवान्तं परिभाष्यते // १४३
SKसूर्याल्लक्षेण शीतांशुः क्रियाशक्तिः शिवस्य सा / चन्द्राल्लक्षेण नाक्षत्रं ततो लक्षद्वयेन तु // १४४
SKप्रत्येकं भौमतः सूर्यसुतान्ते पञ्चकं विदुः / सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद्ध्रुवस्तथा // १४५
SKब्रह्मैवापररूपेण ब्रह्मस्थाने ध्रुवोचलः / मेधीभूतो विमानानां सर्वेषामुपरि ध्रुवः // १४६
SKअत्र बद्धानि सर्वाण्यप्यूह्यन्तेनिलमण्डले / स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः // १४७
SKइतश्च क्रतुहोत्रादि कृत्वा ज्ञानविवर्जिताः / स्वर्यान्ति तत्क्षये लोकं मानुष्यं पुण्यशेषतः // १४८
SKएवं भूमेर्ध्रुवान्तं स्याल्लक्षाणि दश पञ्च च / द्वे कोटी पञ्च चाशीतिर्लक्षाणि स्वर्गतो महान् // १४९
SKमार्कण्डाद्या ऋषिमुनिसिद्धास्तत्र प्रतिष्ठिताः / निवर्तिताधिकाराश्च देवा महति संस्थिताः // १५०
SKमहान्तराले तत्रान्ये त्वधिकारभुजो जनाः / अष्टौ कोट्यो महल्लोकाज्जनोत्र कपिलादयः // १५१
SKतिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः / जनात्तपोर्ककोट्योत्र सनकाद्या महाधियः // १५२
SKप्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम् / ब्रह्मालयस्तु तपसः सत्यः षोडश कोटयः // १५३
SKतत्र स्थितः स स्वयम्भूर्विश्वमाविष्करोत्यदः / सत्ये वेदास्तथा चान्ये कर्मध्यानेन भाविताः // १५४
SKआनन्दनिष्ठास्तत्रोर्ध्वेकोटिर्वैरिञ्चमासनम् / ब्रह्मासनात्कोटियुग्मं पुरं विष्णोर्निरूपितम् // १५५
SKध्यानपूजाजपैर्विष्णोर्भक्ता गच्छन्ति तत्पदम् / वैष्णवात्सप्तकोटीभिर्भुवनं परमेशितुः // १५६
SKरुद्रस्य सृष्टिसंहारकर्तुर्ब्रह्माण्डवर्त्मनि / दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः // १५७
SKते यान्त्यण्डान्तरे रौद्रं पुरं नाधः कदाचन / तत्स्थाः सर्वे शिवं यान्ति रुद्राः श्रीकण्ठदीक्षिताः // १५८
SKअधिकारक्षये साकं रुद्रकन्यागणेन ते / पुरं पुरं च रुद्रोर्ध्वमुत्तरोत्तरवृद्धितः // १५९
SKब्रह्माण्डाधश्च रुद्रोर्ध्व दण्डपाणेः पुरं स च / शिवेच्छया दृणात्यण्डं मोक्षमार्ग करोति च // १६०
SKशर्वरुद्रौ भीमभवावुग्रो देवो महानथ / ईशान इति भूर्लोकात् सप्त लोकेश्वराः शिवाः // १६१
SKस्थूलैर्विशेषैरारब्धाः सप्त लोकाः परे पुनः / सूक्ष्मैरिति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत् // १६२
SKये ब्रह्मणादिसर्गे स्वशरीरान्निर्मिताः प्रभूताख्याः / स्थूलाः पञ्च विशेषाः सप्तामी तन्मया लोकाः // १६३
SKपरतो लिङ्गाधारैः सूक्ष्मैस्तन्मात्रजैर्महाभूतैः / लोकानामावरणैर्विष्टभ्य परस्पेरण गन्धाद्यैः // १६४
SKकालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः / अत ऊर्ध्वं कटाहोण्डे स घनः कोटियोजनम् // १६५
SKपञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा / एवं कोटिशतं भूः स्यात् सौवर्णस्तण्डुलस्ततः // १६६
SKशतरुद्रावधिर्हुफट् भेदयेत्तत्तु दुःशमम् / प्रतिदिक्कं दश दशेत्येवं रुद्रशतं बहिः // १६७
SKब्रह्माण्डाधारकं तच्च स्वप्रभावेण सर्वतः / अण्डस्वरूपं गुरुभिश्चोक्तं श्रीरौरवादिषु // १६८
SKव्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः / आवापवाननिर्भक्तो वस्तुपिण्डोण्ड उच्यते // १६९
SKतमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम् / रजोनुविद्धं निर्मृष्टं सत्त्वमस्याधरं तमः // १७०
SKवस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक् / अण्डः स्यादिति तद्व्यक्तौ संमुखीभाव उच्यते // १७१
SKतथापि शिवमग्नानां शक्तीनामण्डता भवेत् / तदर्थ वाक्यमपरं ता हि न च्युतशक्तितः // १७२
SKतन्वक्षादौ मा प्रसाङ्क्षीदण्डतेति पदान्तरम् / तन्वक्षादिषु नैवास्ते कस्याप्यावापनं यतः // १७३
SKतन्वक्षसमुदायत्वे कथमेकत्वमित्यतः / अनिर्भक्त इति प्रोक्तं साजात्यपरिदर्शकम् // १७४
SKविनापि वस्तुपिण्डाख्यपदेनैकैकशो भवेत् / तत्त्वेष्वण्डस्वभावत्वं नन्वेवमपि किं न तत् // १७५
SKगुणतन्मात्रभूतौघमये तत्त्वे प्रसज्यते / उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम् // १७६
SKरूपमुक्तं यतस्तेन तत्समूहोण्ड उच्यते / भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः // १७७
SKतदर्थ भेदकान्यन्यान्युपात्तानीति दर्शितम् / तावन्मात्रास्ववस्थासु मायाधीनेध्वमण्डले // १७८
SKमा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम् / इत्थमुक्तविरिञ्चाण्डमृतो रुद्राः शतं हि यत् // १७९
SKतेषां स्वे पतयो रुद्रा एकादश महार्चिषः / अनन्तोथ कपाल्याग्निर्यमनैरृतकौ बलः // १८०
SKशीघ्रो निधीशो विद्येशः शम्भुः सवीरभद्रकः / मधु मधुकृतः कदम्बं केसरजालानि यद्वदावृणते // १८१
SKतद्वत्ते शिवरुद्रा ब्रह्माण्डमसंख्यपरिवाराः / शराष्टनियुतं कोटिरित्येषां सन्निवेशनम् // १८२
SKश्रीकण्ठाधिष्ठितास्ते च सृजन्ति संहरन्ति च / ईश्वरत्वं दिविषदामिति रौरववार्तिके // १८३
SKसिद्धातन्त्रे तु हेमाण्डाच्छतकोटेर्बहिः शतम् / अण्डानां क्रमशो द्विद्विगुणं रूप्यादियोजितम् // १८४
SKतेषु क्रमेण ब्रह्माणः संस्युर्द्विगुणजीविताः / क्षीयन्ते क्रमशस्ते च तदन्ते तत्त्वमम्मयम् // १८५
SKधरातोत्र जलादि स्यादुत्तरोत्तरतः क्रमात् / दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः // १८६
SKसहस्रधा व्यक्तमतः पौंस्नं दशसहस्रधा / नियतिर्लक्षधा तस्मात्तस्यास्तु दशलक्षधा // १८७
SKकलान्तं कोटिधा तस्मान्माया विद्दशकोटिधा / ईश्वरः शतकोटिः स्यात्तस्मात्कोटिसहस्रधा // १८८
SKसादाख्यं व्यश्नुते तच्च शक्तिर्वृन्देन संख्यया / व्यापिनी सर्वमध्वानं व्याप्यदेवी व्यवस्थिता // १८९
SKअप्रमेयं ततः शुद्धं शिवतत्त्वं परं विदुः / जलादेः शिवतत्त्वान्तं न दृष्टं केनचिच्छिवात् // १९०
SKऋते ततः शिवज्ञानं परमं मोक्षकारणम् / तथा चाह महादेवः श्रीमत्स्वच्छन्दशासने // १९१
SKनान्यथा मोक्षमायाति पशुर्ज्ञानशतैरपि / शिवज्ञानं न भवति दीक्षामप्राप्य शाङ्करीम् // १९२
SKप्राक्तनी पारमेशी सा पौरुषेयी च सा पुनः / शतरुद्रोर्ध्वतो भद्रकाल्या नीलप्रभं जयम् // १९३
SKन यज्ञदानतपसा प्राप्यं काल्याः पुरं जयम् / तद्भक्तास्तत्र गच्छन्ति तन्मण्डलसुदीक्षिताः // १९४
SKनिर्बीजदीक्षया मोक्षं ददाति परमेश्वरी / विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम् // १९५
SKतावतीं गतिमायान्ति भुवनेत्र निवेशिताः / ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः // १९६
SKविजयाख्यं पुरं चास्य ये स्मरन्तो महेश्वरम् / जलेषु मरुषु चाग्नौ शिरश्छेदेन वा मृताः // १९७
SKते यान्ति बोधमैशानं वीरभद्रं महाद्युतिम् / वैरभद्रोर्ध्वतः कोटिर्विष्कम्भाद्विस्तृतं त्रिधा // १९८
SKरुद्राण्डं सालिलं त्वण्डं शक्रचापाकृति स्थितम् / आ वीरभद्रभुवनाद्भद्रकाल्यालयात्तथा // १९९
SKत्रयोदशभिरन्यैश्च भुवनैरुपशोभितम् / ततो भुवः सहाद्रेः पूर्गन्धतन्मात्रधारणात् // २००
SKमृता गच्छन्ति तां भूमिं धरित्र्याः परमां बुधाः / अब्धेः पुरं ततस्त्वाप्यं रसतन्मात्रधारणात् // २०१
SKततः श्रियः पुरं रुद्रक्रीडावतरणेष्वथ / प्रयागादौ श्रीगिरौ च विशेषान्मरणेन तत् // २०२
SKसारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम् / रुद्रोचितास्ता मुख्यत्वाद्रुद्रेभ्योन्यास्तथा स्थिताः // २०३
SKपुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती / लकुलाद्यमरेशान्ता अष्टावप्सु सुराधिपाः // २०४
SKततस्तु तैजसं तत्त्वं शिवाग्नेरत्र संस्थितिः / ते चैनं वह्निमायान्ति वाह्नीं ये धारणां श्रिताः // २०५
SKभैरवादिहरीन्द्वन्तं तैजसे नायकाष्टकम् / प्राणस्य भुवनं वायोर्दशधा दशधा तु तत् // २०६
SKध्यात्वा त्यक्त्वाथ वा प्राणान् कृत्वा तत्रैव धारणाम् / तं विशन्ति महात्मानो वायुभूताः खमूर्तयः // २०७
SKभीमादिगयपर्यन्तमष्टकं वायुतत्त्वगम् / खतत्त्वे भुवनं व्योम्नः प्राप्यं तद्व्योमधारणात् // २०८
SKवस्त्रापदान्तं स्थाण्वादि व्योमतत्त्वे सुराष्टकम् / अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः // २०९
SKज्ञानहीना अपि प्रौढधारणास्तेण्डतो बहिः / धराब्धितेजोनिलखपुरगा दीक्षिताश्च वा // २१०
SKतावत्संस्कारयोगार्थं न परं पदमीहितुम् / तथाविधावतारेषु मृताश्चायतनेषु ये // २११
SKतत्पदं ते समासाद्य क्रमाद्यान्ति शिवात्मताम् / पुनः पुनरिदं चोक्तं श्रीमद्देव्याख्ययामले // २१२
SKश्रीकामिकायां कश्मीरवर्णने चोक्तवान्विभुः / सुरेश्वरीमहाधाम्नि ये म्रियन्ते च तत्पुरे // २१३
SKब्राह्मणाद्याः सङ्करान्ताः पशवः स्थावरान्तगाः / रुद्रजातय एवैते इत्याह भगवाञ्छिवः // २१४
SKआकाशावरणादूर्ध्वमहङ्कारादधः प्रिये / तन्मात्रादिमनोन्तानां पुराणि शिवशासने // २१५
SKपञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत् / आच्छाद्य योजनानेककोटिभिः स्थितमन्तरा // २१६
SKएवं रसादिमात्राणां मण्डलानि स्ववर्णत / शर्वो भवः पशुपतिरीशो भीम इति क्रमात् // २१७
SKतन्मात्रेशा यदिच्छातः शब्दाद्याः खादिकारिणः / ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान् // २१८
SKउग्रश्चेत्येषु पतयस्तेभ्योर्केन्दू सयाजकौ / इत्यष्टौ तनवः शंभोर्याः पराः परिकीर्तिताः // २१९
SKअपरा ब्रह्मणोण्डे ता व्याप्य सर्वं व्यवस्थिताः / कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु // २२०
SKततो वागादिकर्माक्षयुक्तं करणमण्डलम् / अग्नीन्द्रविष्णुमित्राः सब्रह्माणस्तेषु नायकाः // २२१
SKप्रकाशमण्डलं तस्माच्छ्रुतं बुद्ध्यक्षपञ्चकम् / दिग्विद्युदर्कवरुणभुवः श्रोत्रादिदेवताः // २२२
SKप्रकाशमण्डलादूर्ध्वं स्थितं पञ्चार्थमण्डलम् / मनोमण्डलमेतस्मात् सोमेनाधिष्ठितं यतः // २२३
SKबाह्यदेवेष्वधिष्ठाता साम्यैश्वर्यसुखात्मकः / मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः // २२४
SKततोपि सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः / स्थूलादिच्छगलान्ताष्टयुक्तं चाहङ्कृतेः पुरम् // २२५
SKबुद्धितत्त्वं ततो देवयोन्यष्टकपुराधिपम् / पैशाचप्रभृतिब्राह्मपर्यन्तं तच्च कीर्तितम् // २२६
SKएतानि देवयोनीनां स्थानान्येव पुराण्यतः / अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति ते // २२७
SKपरमेशनियोगाच्च चोद्यमानाश्च मायया / नियामिता नियत्या च ब्रह्मणोव्यक्तजन्मनः // २२८
SKव्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा / स्वांशनैव महात्मानो न त्यजन्ति स्वकेतनम् // २२९
SKउक्तं च शिवतनाविदमधिकारपदस्थितेन गुरुणा नः / अष्टानां देवानां शक्त्याविर्भावयोनयो ह्येताः // २३०
SKतनुभोगाः पुनरेषामधः प्रभूतात्मकाः प्रोक्ताः / चत्वारिंशत्तुल्योपभोगदेशाधिकानि भुवनानि // २३१
SKसाधनभेदात्केवलमष्टकपञ्चकतयोक्तानि / एतानि भक्तियोगप्राणत्यागादिगम्यानि // २३२
SKतेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा / तरतमयोगेन ततोपि देवयोन्यष्टकं लक्ष्यं तु // २३३
SKलोकानामक्षाणि च विषयपरिच्छित्तिकरणानि / गन्धादेर्महदन्तादेकाधिक्येन जातमैश्वर्यम् // २३४
SKअणिमाद्यात्मकमस्मिन्पैशाचाद्ये विरिञ्चान्ते / ज्ञात्वैवं शोधयेद्बुद्धिं सार्धं पुर्यष्टकेन्द्रियैः // २३५
SKक्रोधेशाष्टकमानीलं संवर्ताद्यं ततो विदुः / तेजोष्टकं बलाध्यक्षप्रभृतिक्रोधनाष्तकात् // २३६
SKअकृतादि ततो बुद्धौ योगाष्टकमुदाहृतम् / स्वच्छन्दशासने तत्तु मूले श्रीपूर्वशासने // २३७
SKयोगाष्टकपदे यत्तु सोमे श्रैकण्ठमेव च / ततो मायापुरं भूयः श्रीकण्ठस्य च कथ्यते // २३८
SKतेन द्वितीयं भुवनं तयोः प्रत्येकमुच्यते / तत्र मायापुरं देव्या यया विश्वमधिष्ठितम् // २३९
SKप्रतिकल्पं नामभेदैर्भण्यते सा महेश्वरी / उमापतेः पुरं पश्चान्मातृभिः परिवारितम् // २४०
SKश्रीकण्ठ एव परया मूर्त्योमापतिरुच्यते / ब्राह्म्यैशी स्कन्दजा हारी वाराह्यैन्द्री सविच्चिका [चर्चिका] // २४१
SKपीता शुक्ला पीतनीले नीला शुक्लारुणा क्रमात् / अग्नीशसौम्ययाम्याप्यपूर्वनैरृतगास्तु ताः // २४२
SKअंशेन मानुषे लोके धात्रा ता ह्यवतारिताः / स्वच्छन्दास्ताः पराश्चान्याः परे व्योम्नि व्यवस्थिताः // २४३
SKस्वच्छन्दं ता निषेवन्ते सप्तधेयमुमा यतः / उमापतिपुरस्योर्ध्व स्थितं मूर्त्यष्टकं परम् // २४४
SKशर्वादिकं यस्य सृष्टिर्धराद्या याजकान्ततः / ताभ्य ईशानमूर्तिर्या सा मेरौ संप्रतिष्ठिता // २४५
SKश्रीकण्ठः स्फटिकाद्रौ सा व्याप्ता तन्वष्टकैर्जगत् / ये योगं सगुणं शम्भोः संयताः पर्युपासते // २४६
SKतन्मण्डलं वा दृष्ट्वैव मुक्तद्वैता हृतत्रयाः / गुणानामाधरौत्तर्याच्छुद्धाशुद्धत्वसंस्थितेः // २४७
SKतारतम्याच्च योगस्य भेदात्फलविचित्रता / ततो भोगफलावाप्तिभेदाद्भेदोयमुच्यते // २४८
SKमूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः / वामाद्येकशिवान्तास्ते कुङ्कुमाभाः सुतेजसः // २४९
SKतदूर्ध्व वीरभद्राख्यो मण्डलाधिपतिः स्थितः / यत्त [स्त] त्सायुज्यमापन्नः स तेन सह मोदते // २५०
SKततोप्यङ्गुष्ठमात्रान्तं महादेवाष्टकं भवेत् / बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः // २५१
SKमहादेवाष्टकान्ते तद् योगाष्टकमिहोदितम् / तत्र श्रैकण्ठमुक्तं यत् तस्यैवोमापतिस्तथा // २५२
SKमूर्तयः सुशिवा वीरो महादेवाष्टकं वपुः / उपरिष्टाद्धियोधश्च प्रकृतेर्गुणसंज्ञितम् // २५३
SKतत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम् / न वैषम्यमनापन्नं कारणं कार्यसूतये // २५४
SKगुणसाम्यत्मिका तेन प्रकृतिः कारणं भवेत् / नन्वेवं सापि संक्षोभं विना तान्विषमान्गुणान् // २५५
SKकथं सुवीत तत्राद्ये क्षोभे स्यादनवस्थितिः / सांख्यस्य दोष एवायं यदि वा तेन ते गुणाः // २५६
SKअव्यक्तमिष्टाः साम्यं तु सङ्गमात्रं न चेतरत् / अस्माकं तु स्वतन्त्रेशतथेच्छाक्षोभसंगतम् // २५७
SKअव्यक्तं बुद्धितत्त्वस्य कारणं क्षोभिता गुणाः / ननु तत्त्वेश्वरेच्छातो यः क्षोभः प्रकृतेः पुरा // २५८
SKतदेव बुद्धितत्त्वं स्यात् किमन्यैः कल्पितैर्गुणैः / नैतत्कारणतारूपपरामर्शावरोधि यत् // २५९
SKक्षोभान्तरं ततः कार्य बीजोच्छूनाङ्कुरादिवत् / क्रमात्तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः // २६०
SKतिस्रो द्वात्रिंशदेकातस्त्रिंशदप्येकविंशतिः / स्वज्ञनयोगबलतः क्रीडन्तो दैशिकोत्तमाः // २६१
SKत्रिनेत्राः पाशनिर्मुक्तास्तेत्रानुग्रहकारिणः / बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते // २६२
SKरुद्राणां भुवनानां च मुख्यतोन्ये तदन्तरे / योगाष्टकं गुणस्कन्धे प्रोक्तं शिवतनौ पुनः // २६३
SKयोनीरतीत्य गौणे स्कन्धे स्युर्योगदातारः / अकृतकृतविभुविरिञ्चा हरिर्गुहः क्रमवशात्ततो देवी // २६४
SKकरणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च / अव्यक्तादुत्पन्ना गुणाश्च सत्त्वादयोमीषाम् // २६५
SKधर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि / यच्छन्ति गुणेभ्योमी पुरुषेभ्यो योगदातारः // २६६
SKतेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य / सकलजगदेकमातुर्भर्तुः श्रीकण्ठनाथस्य // २६७
SKयेनोमागुहनीलब्रह्मऋभुक्षकृताकृतादिभुवनेषु / ग्रहरूपिण्या शक्त्या प्राभ्व्याधिष्ठानि भूतानि // २६८
SKउपसंजिहीर्षुरिह यश्चतुराननपङ्कजं समाविश्य / दग्ध्वा चतुरो लोकाञ्जनलोकान्निर्मिणोति पुनः // २६९
SKयस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी / अनुकल्पो रुद्राण्या वेदी तत्रेज्यतेनुकल्पेन // २७०
SKपशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः / गन्धर्वयक्षराक्षसपितृमुनिभिश्चित्रितास्तथा यागाः // २७१
SKगुणानां यत्परं साम्यं तदव्यक्तं गुणोर्ध्वतः / क्रोधेशचण्डसंवर्ता ज्योतिःपिङ्गलसूरकौ // २७२
SKपञ्चान्तकैकवीरौ च शिखोदश्चाष्ट तत्र ते / गहनं पुरुषनिधानं प्रकृतिर्मूलं प्रधानमव्यक्तम् // २७३
SKगुणकारणमित्येते मायाप्रभवस्य पर्यायाः / यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः // २७४
SKते सर्वेत्र विनिहिता रुद्राश्च तदुत्थभोगभुजः / मूढविवृत्तविलीनैः करणैः केचित्तु विकरणकाः // २७५
SKअकृताधिष्ठानतया कृत्याशक्तानि मूढानि / प्रतिनियतविषयभाञ्जि स्फुटानि शास्त्रे विवृत्तानि // २७६
SKभग्नानि महाप्रलये सृष्टौ नोत्पादितानि लीनानि / इच्छाधीनानि पुनर्विकरणसंज्ञानि कार्यमप्येवम् // २७७
SKपुंस्तत्त्वे तुष्टिनवकं सिद्धयोष्टौ च तत्पुरः / तावत्य एवाणिमादिभुवनाष्टकमेव च // २७८
SKअतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा / हेयेप्यादेयधीः सिद्धिः तथा चोक्तं हि कापिलैः // २७९
SKआध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः / पञ्च विषयोपरमतोर्जनरक्षासङ्गसंक्षयविघातैः // २८०
SKऊहः शब्दोध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः / दानं च सिद्धयोष्टौ सिद्धेः पूर्वोङ्कुशस्त्रिविधः // २८१
SKअणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः / तत्रापि त्रिगुणच्छायायोगात् त्रित्वमुदाहृतम् // २८२
SKनाडीविद्याष्टकं चोर्ध्वं पङ्क्तीनां स्यादिडादिकम् / पुंसि नादमयी शक्तिः प्रसराख्या च यत्स्थिता // २८३
SKन ह्यकर्ता पुमान्कर्तुः कारणत्वं च संस्थितम् / अकर्तर्यपि वा पुंसि सहकारितया स्थिते // २८४
SKशेषकार्यात्मतैष्टव्यान्यथा सत्कार्यहानितः / तस्मात्तथाविधे कार्ये या शक्तिः पुरुषस्य सा // २८५
SKतावन्ति रूपाण्यादाय पूर्णतामधिगच्छति / नाड्यष्टकोर्ध्वे कथितं विग्रहाष्टकमुच्यते // २८६
SKकार्यं हेतुर्दुःखं सुखं च विज्ञानसाध्यकरणानि / साधनमिति विग्रहतायुगष्टकं भवति पुंस्तत्त्वे // २८७
SKभुवनं देहधर्माणां दशानां विग्रहाष्टकात् / अहिंसा सत्यमस्तेयं ब्रह्माकल्काक्रुधो गुरोः // २८८
SKशुश्रूषाशौचसन्तोषा ऋजुतेति दशोदिताः / पुंस्तत्त्व एव गन्धान्तं स्थितं षोडशकं पुनः // २८९
SKआरभ्य देहपाशाख्यं पुरं बुद्धिगुणास्ततः / तत्रैवाष्टावहंकारस्त्रिधा कामादिकास्तथा // २९०
SKपाशा आगन्तुकगाणेशवैद्येश्वरभेदिताः / त्रिविधास्ते स्थिताः पुंसि मोक्षमार्गोपरोधकाः // २९१
SKयत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् / पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते // २९२
SKतदेवं पुंस्त्वमापन्ने पूर्णेपि परमेश्वरे / तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः // २९३
SKउक्तानुक्तास्तु ये पाशाः परतन्त्रोक्तलक्षणाः / ते पुंसि सर्वे तांस्तत्र शोधयन्मुच्यते भवात् // २९४
SKपुंस ऊर्ध्व तु नियतिस्तत्रस्थाः शंकरा दश / हेमाभाः सुसिताः कालतत्त्वे तु दश ते शिवाः // २९५
SKकोटिः षोडशसाहस्रं प्रत्येकं परिवारिणः / रागे वीरेशभुवनं गुर्वन्तेवासिनां पुरम् // २९६
SKपुरं चाशुद्धविद्यायां स्याच्छक्तिनवकोज्ज्वलम् / मनोन्मन्यन्तगास्ताश्च वामाद्याः परिकीर्तिताः // २९७
SKकलायां स्यान्महादेवत्रयस्य पुरमुत्तमम् / ततो माया त्रिपुटिका मुख्यतोनन्तकोटिभिः // २९८
SKआक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः / अङ्गुष्ठमात्रपर्यन्तं महादेवाष्टकं निशि // २९९
SKचक्राष्टकाधिपत्येन तथा श्रीमालिनीमते / वामाद्याः पुरुषादौ ये प्रोक्ताः श्रीपूर्वशासने // ३००
SKते मायातत्त्व एवोक्तास्तनौ शैव्यामनन्ततः / कपालव्रतिनः स्वाङ्गहोतारः कष्टतापसाः // ३०१
SKसर्वाभयाः खड्गधाराव्रतास्तत्तत्त्ववेदिनः / क्रमात्तत्तत्त्वमायान्ति यत्रेशोनन्त उच्यते // ३०२
SKउक्तं च तस्य परतः स्थानमनन्ताधिपस्य देवस्य / स्थितिविलयसर्गकर्तुर्गुहाभगद्वारपालस्य // ३०३
SKधर्मानणिमादिगुणाञ्ज्ञानानि तपःसुखानि योगांश्च / मायाबिलात्प्रदत्ते पुंसां निष्कृष्य निष्कृष्य // ३०४
SKतच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः / सर्वेनन्तप्रमुखा दीप्यन्ते शतभवप्रमुखान्ताः // ३०५
SKसोव्यक्तमधिष्ठाय प्रकरोति जगन्नियोगतः शम्भोः / शुद्धाशुद्धस्रोतोधिकारहेतुः शिवो यस्मात् // ३०६
SKशिवगुणयोगे तस्मिन् महति पदे ये प्रतिष्ठिताः प्रथमम् / तेनन्तादेर्जगतः सर्गस्थितिविलयकर्तारः // ३०७
SKमायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः / उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु // ३०८
SKयोनिविवरेषु नानाकामसमृद्धेषु भगसंज्ञा / कामयते पतिरेनामिच्छानुविधायिनीं यदा देवीम् // ३०९
SKप्रतिभगमव्यक्ताद्याः प्रजास्तदास्याः प्रजायन्ते / तेषामतिसूक्ष्माणामेतावत्त्वं न वर्ण्यते विधिषु // ३१०
SKअववरकाण्येकस्मिन्यद्वत्साले बहूनि बद्धानि / योनिबिलान्येकस्मिंस्तद्वन्मायाशिरःसाले // ३११
SKमायापटलैः सूक्ष्मैः कुड्यैः पिहिताः परस्परमदृश्याः / निवसन्ति तत्र रुद्राः सुखिनः प्रतिबिलमसंख्याताः // ३१२
SKस्थाने सायुज्यगताः सामीप्यगताः परे सलोकस्थाः / प्रतिभुवनमेवमयं निवासिनां गुरुभिरुद्दिष्टः // ३१३
SKअपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुद्गीर्णाः / न पुनर्योन्यानन्त्यादुच्यन्ते स्रोतसां संख्याः // ३१४
SKतस्मान्निरयाद्येकं यत्प्रोक्तं द्वारपालपर्यन्तम् / स्रोतस्तेनान्यान्यपि तुल्यविधानानि वेद्यानि // ३१५
SKअव्यक्तकले गुहया प्रकृतिकलाभ्यां विकार आत्मीयः / ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः // ३१६
SKमध्ये पुटत्रयं तस्या रुद्राः षडधरेन्तरे / एक ऊर्ध्वे च पञ्चेति द्वादशैते निरूपिताः // ३१७
SKगहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे / मध्येनन्तः क्षेमो द्विजेशविद्येशविश्वशिवाः // ३१८
SKइति पञ्च तेषु पञ्चसु षट्सु च पुटगेषु तत्परावृत्त्या / परिवर्त्तते स्थितिः किल देवोनन्तस्तु सर्वथा मध्ये // ३१९
SKऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या / मध्यतोष्टाभिर्दिक्स्थैर्व्याप्तो ग्रन्थिर्मतङ्गशास्त्रोक्तः // ३२०
SKश्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा / ग्रन्थ्याख्यमिदं तत्त्वं मायाकार्यं ततो माया // ३२१
SKमायातत्त्वं विभु किल गहनमरूपं समस्तविलयपदम् / तत्र न भुवनविभागो युक्तो ग्रन्थावसौ तस्मात् // ३२२
SKमायातत्त्वाधिपतिः सोनन्तः समुदितान्विचार्याणून् / युगपत्क्षोभयति निशां सा सूते संपुटैरनन्तैः स्वैः // ३२३
SKतेन कलादिधरान्तं यदुक्तमावरणजालमखिलं तत् / निःसंख्यं च विचित्रं मायैवैका त्वभिन्नेयम् // ३२४
SKउक्तं श्रीपूर्वशास्त्रे च धराव्यक्तात्मकं द्वयम् / असंख्यातं निशाशक्तिसंज्ञं त्वेकस्वरूपकम् // ३२५
SKपाशाः पुरोक्ताः प्रणवाः पञ्चमानाष्टकं मुनेः / कुलं योनिश्च वागीशी यस्यां जातो न जायते // ३२६
SKदीक्षाकालेधराध्वस्थशुद्धौ यच्चाधराध्वगम् / अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम् // ३२७
SKसाध्यो दाता दमनो ध्यानो भस्मेति बिन्दवः पञ्च / पञ्चार्थगुह्यरुद्राङ्कुशहृदयलक्षणं च सव्यूहम् // ३२८
SKआकर्षादर्शौ चेत्यष्टकमेतत्प्रमाणानाम् / अलुप्तविभवाः सर्वे मायातत्त्वाधिकारिणः // ३२९
SKमायामयशरीरास्ते भोगं स्वं परिभुञ्जते / प्रलयान्ते ह्यनन्तेन संहृतास्ते त्वहर्मुखे // ३३०
SKअन्यानन्तप्रसादेन विबुधा अपि तं परम् / सुप्तबुद्धं मन्यमानाः स्वतन्त्रम्मन्यताजडाः // ३३१
SKस्वात्मानमेव जानन्ति हेतुं मायान्तरालगाः / अतः परं स्थिता माया देवी जन्तुविमोहिनी // ३३२
SKदेवदेवस्य सा शक्तिरतिदुर्घटकारिता / निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः // ३३३
SKइदं तत्त्वमिदं नेति विवदन्तीह वादिनः / गुरुदेवाग्निशास्त्रेषु ये न भक्ता नराधमाः // ३३४
SKसत्पथं तान्परित्याज्य सोत्पथं नयति ध्रुवम् / असद्युक्तिविचारज्ञाञ्छुष्कतर्कावलम्बिनः // ३३५
SKभ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया / शिवदीक्षासिना च्छिन्ना शिवज्ञानासिना तथा // ३३६
SKन प्ररोहेत्पुनर्नान्यो हेतुस्तच्छेदनं प्रति / महामायोर्ध्वतः शुद्धा महाविद्याथ मातृका // ३३७
SKवागीश्वरी च तत्रस्थं वामादिनवसत्पुरम् / वामा ज्येष्ठा रौद्री काली कलविकरणीबलविकारिके तथा // ३३८
SKमथनी दमनी मनोन्मनी च त्रिदृशः पीताः समस्तास्ताः / सप्तकोट्यो मुख्यमन्त्रा विद्यातत्त्वेत्र संस्थिताः // ३३९
SKएकैकार्बुदलक्षांशाः पद्माकारपुरा इह / विद्याराज्ञ्यस्त्रिगुण्याद्याः सप्त सप्तार्बुदेश्वराः // ३४०
SKविद्यातत्त्वोर्ध्वमैशं तु तत्त्वं तत्र क्रमोर्ध्वगम् / शिखण्ड्याद्यमनन्तान्तं पुराष्टकयुतं पुरम् // ३४१
SKशिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ / शिवोत्तमः सूक्ष्मरुद्रोनन्तो विद्येश्वराष्टकम् // ३४२
SKक्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः / अनन्त एव ध्येयश्च पूज्यश्चाप्युत्तरोत्तरः // ३४३
SKमुख्यमन्त्रेश्वराणां यत् सार्धं कोटित्रयं स्थितम् / तन्नायका इमे तेन विद्येशाश्चक्रवर्तिनः // ३४४
SKउक्तं च गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत् / भगबिलशतकलितगुहामूर्धासनगोष्टशक्तियुग्देवः // ३४५
SKगहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते / उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः // ३४६
SKते तेनोदस्तचितः परतत्त्वालोचनेभिनिविशन्ते / स पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन // ३४७
SKअवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः / निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु // ३४८
SKअनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने / इत्यष्टौ परिपाट्या यावद्धामानि याति गुरुरेकः // ३४९
SKतावदसंख्यातानां जन्तूनां निर्वृतिं कुरुते / तेष्टावपि शक्त्यष्टकयोगामलजलरुहासनासीनाः // ३५०
SKआलोकयन्ति देवं हृदयस्थं कारणं परमम् / तं भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम् // ३५१
SKसप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः / मायादिरवीच्यन्तो भवस्त्वनन्तादिरुच्यतेप्यभवः // ३५२
SKशिवशुद्धगुणाधीकारान्तः सोप्येष हेयश्च / अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी // ३५३
SKइष्टा च तन्निवृत्तिर्ह्यभवस्त्वधरे न भूयते यस्मात् / पत्युरपसर्पति यतः कारणता कार्यता च सिद्धेभ्यः // ३५४
SKकञ्चुकवच्छिवसिद्धौ तावतिभवसंज्ञयातिमध्यस्थौ / धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत् // ३५५
SKरूपावरणसंज्ञं तत्तत्त्वेस्मिन्नैश्वरे विदुः / वामा ज्येष्ठा च रौद्रीति भुवनत्रयशोभितम् // ३५६
SKसूक्ष्मावरणमाख्यातमीशतत्त्वे गुरूत्तमैः / ऐशात्सादाशिवं ज्ञानक्रियायुगलमण्डितम् // ३५७
SKशुद्धावरणमित्याहुरुक्ता शुद्धावृतेः परम् / विद्यावृतिस्ततो भावाभावशक्तिद्वयोज्ज्वला // ३५८
SKशक्त्यावृतिः प्रमाणाख्या ततः शास्त्रे निरूपिता / शक्त्यावृतेस्तु तेजस्विध्रुवेशाभ्यामलङ्कृतम् // ३५९
SKतेजस्व्यावरणं वेदपुरा मानावृतिस्ततः / मानावृतेः सुशुद्धावृत्पुरत्रितयशोभिता // ३६०
SKसुशुद्धावरणादूर्ध्व शैवमेकपुरं भवेत् / शिवावृतेरूर्ध्वमाहुर्मोक्षावरणसंज्ञितम् // ३६१
SKअस्यां मोक्षावृतौ रुद्रा एकादश निरूपिताः / मोक्षावरणतस्त्वेकपुरमावरणं ध्रुवम् // ३६२
SKऊर्ध्वे ध्रुवावृतेरिच्छावरणं तत्र ते शिवाः / ईश्वरेच्छागृहान्तस्थास्तत्पुरं चैकमुच्यते // ३६३
SKइच्छावृतेः प्रबुद्धाख्यं दिग्रुद्राष्टकचर्चितम् / प्रबुद्धावरणादूर्ध्व समयावरणं महत् // ३६४
SKभुवनैः पञ्चभिर्गर्भीकृतानन्तसमावृति / सामयात्सौशिवं तत्र सादाख्यं भुवनं महत् // ३६५
SKतस्मिन्सदाशिवो देवस्तस्य सव्यापसव्ययोः / ज्ञानक्रिये परेच्छा तु शक्तिरुत्सङ्गगामिनी // ३६६
SKसृष्ट्यादिपञ्चकृत्यानि कुरुते स तयेच्छया / पञ्च ब्रह्माण्यङ्गषट्कं सकलाद्यष्टकं शिवाः // ३६७
SKदशाष्टादश रुद्राश्च तैरेव सुशिवो वृतः / सद्यो वामाघोरौ पुरुषेशौ ब्रह्मपञ्चकं हृदयम् // ३६८
SKमूर्धशिखावर्मदृगस्त्रमङ्गानि षट् प्राहुः / सकलाकलशून्यैः सह कलाढ्यखमलङ्कृते क्षपणमन्त्यम् // ३६९
SKकण्ठ्यौष्ठ्यमष्टमं किल सकलाष्टकमेतदाम्नातम् / ॐ कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ // ३७०
SKसूक्ष्मसुतेजःशर्वाः शिवाः दशैतेत्र पूर्वादेः / विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः // ३७१
SKमुकुटविसरेन्दुविन्दुप्रोद्गीता ललितसिद्धरुद्रौ च / सन्तानशिवौ परकिरणपारमेशा इति स्मृता रुद्राः // ३७२
SKसर्वेषामेतेषां ज्ञानानि विदुः स्वतुल्यनामानि / मन्त्रमुनिकोटिपरिवृत मथ विभुवामादिरुद्रतच्छक्तियुतम् // ३७३
SKतारादिशक्तिजुष्टं सुशिवासनमतिसितकजमसंख्यदलम् / यः शक्तिरुद्रवर्गः परिवारे विष्टरे च सुशिवस्य // ३७४
SKप्रत्येकमस्य निजनिजपरिवारे परार्धकोटयोसंख्याः / मायामलनिर्मुक्ताः केवलमधिकारमात्रसंरूढाः // ३७५
SKसुशिवावरणे रुद्राः सर्वज्ञाः सर्वशक्तिसम्पूर्णाः / अधिकारबन्धविलये शान्ताः शिवरूपिणो पुनर्भविनः // ३७६
SKऊर्ध्वे बिन्द्वावृतिर्दीप्ता तत्र तत्र पद्मं शशिप्रभम् / शान्त्यतीतः शिवस्तत्र तच्छक्त्युत्सङ्गभूषितः // ३७७
SKनिवृत्त्यादिकलावर्गपरिवारसमावृतः / असंख्यरुद्रतच्छक्तिपुरकोटिभिरावृतः // ३७८
SKश्रीमन्मतङ्गशास्त्रे च लयाख्यं तत्त्वमुत्तमम् / पारिभाषिकमित्येतन्नाम्ना बिन्दुरिहोच्यते // ३७९
SKचतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् / तस्मिन्भोगः समुद्दिष्ट इत्यत्रेदं च वर्णितम् // ३८०
SKनिवृत्त्यादेः सुसूक्ष्मत्वाद्धराद्यारब्धदेहता / मातुः स्फूर्जन्महाज्ञानलीनत्वान्न विभाव्यते // ३८१
SKउद्रिक्त तैजसत्वेन हेम्नो भूपरमाणवः / यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः // ३८२
SKबिन्दूर्ध्वेर्धेन्दुरेतस्य कला ज्योत्स्ना च तद्वती / कान्तिः प्रभा च विमला पञ्चैता रोधिकास्ततः // ३८३
SKरुन्धनी रोधनी रोद्ध्री ज्ञानबोधा तमोपहा / एताः पञ्च कलाः प्राहुर्निरोधिन्यां गुरूत्तमाह् // ३८४
SKअर्धमात्रः स्मृतो बिन्दुर्व्योमरूपी चतुष्कलः / तदर्धमर्धचन्द्रस्तदष्टांशेन निरोधिका // ३८५
SKहेतून्ब्रह्मादिकान् रुन्द्धे रोधिकां तां त्यजेत्ततः / निरोधिकामिमां भित्त्वा सादाख्यं भुवनं परम् // ३८६
SKपररूपेण यत्रास्ते पञ्चमन्त्रमहातनुः / इत्यर्धेन्दुनिरोध्यन्तबिन्द्वावृत्यूर्ध्वतो महान् // ३८७
SKनादः किञ्जल्कसदृशो महद्भिः पुरुषैर्वृतः / चत्वारि भुवनान्यत्र दिक्षु मध्ये च पञ्चमम् // ३८८
SKइन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा / मध्येत्र पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः // ३८९
SKनादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः / तदीशः पिङ्गलेलाभ्यां वृतः सव्यापसव्ययोः // ३९०
SKया प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा / ग्रथितोध्वा तया सर्व ऊर्ध्वश्चाधस्तनस्तथा // ३९१
SKनादःसुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत् / अधःशक्त्या विनिर्गच्छेदूर्ध्वशक्त्या च मूर्धतः // ३९२
SKनाड्या ब्रह्मबिले लीनः सोव्यक्तध्वनिरक्षरः / नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः // ३९३
SKसुषुम्नोर्ध्वे ब्रह्मबिलसंज्ञयावरणं त्रिदृक् / तत्र ब्रह्मा सितः शूली पञ्चास्यः शशिशेखरः // ३९४
SKतस्योत्सङ्गे परा देवी ब्रह्माणी मोक्षमार्गगा / रोद्ध्री दात्री च मोक्षस्य तां भित्त्वा चोर्ध्वकुण्डली // ३९५
SKशक्तिः सुप्ताहिसदृशी सा विश्वाधार उच्यते / तस्यां सूक्ष्मा सुसूक्ष्मा च तथान्ये अमृतामिते // ३९६
SKमध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः / शक्तितत्त्वमिदं यस्य प्रपञ्चोयं धरान्तकः // ३९७
SKशिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः / व्यापी व्योमात्मकोनन्तोनाथस्तच्छक्तिभागिनः // ३९८
SKमध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः / तच्छक्त्युत्सङ्गभृत्सूर्यशतकोटिसमप्रभः // ३९९
SKशिवतत्त्वोर्ध्वतः शक्तिः परा सा समनाह्वया / सर्वेषां कारणानां सा कर्तृभूता व्यवस्थिता // ४००
SKबिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता / तदारूढः शिवः कृत्यपञ्चकं कुरुते प्रभुः // ४०१
SKसमना करणं तस्य हेतुकर्तुर्महोशितुः / अनाश्रितं तु व्यापारे निमित्तं हेतुरुच्यते // ४०२
SKतयाधितिष्ठति विभुः कारणानां तु पञ्चकम् / अनाश्रितोनाथमयमनन्तं खवपुः सदा // ४०३
SKस व्यापिनं प्रेरयति स्वशक्त्या करणेन तु / कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली // ४०४
SKनादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवः / यत्सदाशिवपर्यन्तं पार्थिवाद्यं च शासने // ४०५
SKतत्सर्व प्राकृतं प्रोक्तं विनाशोत्पत्तिसंयुतम् / अथ सकलभुवनमानं यन्मह्यं निगदितं निजैर्गुरुभिः // ४०६
SKतद्वक्ष्यते समासाद्बुद्धौ येनाशु सङ्क्रामेत् / अण्डस्यान्तरनन्तः कालः कूष्माण्डहाटकौ ब्रह्महरी // ४०७
SKरुद्राः शतं सवीरं बहिर्निवृत्तिस्तु साष्टशतभुवना स्यात् / जलतेजःसमीरनभोहंकृद्धीमूलसप्तके प्रत्येकम् // ४०८
SKअष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता / अत्र प्राहुः शोध्यानष्टौ केचिन्निजाष्टकाधिपतीन् // ४०९
SKअन्ये तु समस्तानां शोध्यत्वं वर्णयन्ति भुवनानाम् / श्रीभूतिराजमिश्रा गुरवः प्राहुः पुनर्बही रुद्रशतम् // ४१०
SKअष्टावन्तः साकं शर्वेणेतीदृशी निवृत्तिरियं स्यात् / रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम् // ४११
SKइत्यष्टकं जलेनौ वह्न्यतिगुह्यद्वयं मरुति वायोः / स्वपुरं गयादि खे च व्योम पवित्राष्टकं च भुवनयुगम् // ४१२
SKअभिमानेहङ्कारच्छगलाद्यष्टकमथान्तरा नभोहंकृत् / तन्मात्रार्केन्दुश्रतिपुराष्टकं बुद्धिकर्मदेवानाम् // ४१३
SKदश तन्मात्रसमूहे भुवनं पुनरक्षवर्गविनिपतिते / मनसश्चेत्यभिमाने द्वाविंशतिरेव भुवनानाम् // ४१४
SKधियि दैवीनामष्टौ क्रुत्तेजोयोगसंज्ञकं त्रयं तदुमा / तत्पतिरथ मूर्त्यष्टकसुशिवद्वादशकवीरभद्राः स्युः // ४१५
SKतदथ महादेवाष्टकमिति बुद्धौ सप्तदश संख्या / गुणतत्त्वे पङ्क्तित्रयमिति षट्पञ्चाशतं पुराणि विदुः // ४१६
SKयद्यपि गुणसाम्यात्मनि मूले क्रोधेश्वराष्टकं तथापि धियि / तच्छोधितमिति गणनां न पुनः प्राप्तं प्रतिष्ठायाम् // ४१७
SKइति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम् / अम्बादितुष्टिवर्गस्ताराद्याः सिद्धयोणिमादिगणः // ४१८
SKगुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च विग्रहाष्टकयुक् / गन्धादिविकारपुरं बुद्धिगुणाष्टकमहंक्रिया विषयगुणाः // ४१९
SKकामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ / इति पाशेषु पुरत्रयमित्थं पुरुषेत्र भुवनषोडशकम् // ४२०
SKनियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम् / रागे सुहृष्टभुवनं गुरुशिष्यपुरं च वित्कलायुगले // ४२१
SKभुवनं भुवनं निशि पुटपुरत्रयं वाक्पुरं प्रमाणपुरम् / इति सप्तविंशतिपुरा विद्या पुरुषादितत्त्वसप्तकयुक् // ४२२
SKवामेशरूपसूक्ष्मं शुद्धं विद्याथ शक्तितेजस्विमितिः / सुविशुद्धिशिवौ मोक्ष धुवेषिसंबुद्धसमयसौशिवसंज्ञाः // ४२३
SKसप्तदशपुरा शान्ता विद्येशसदाशिवपुरत्रितययुक्ता / बिन्द्वर्धेन्दुनिरोध्यः परसौशिवमिन्धिकादिपुरसौषुम्ने // ४२४
SKपरनादो ब्रह्मबिलं सूक्ष्मादियुतोर्ध्वकुण्डली शक्तिः / व्यापिव्योमानन्तानाथानाश्रितपुराणि पञ्च ततः // ४२५
SKषष्ठं च परममनाश्रितमथ समनाभुवनषोडशी यदि वा / बिन्द्वावरणं परसौशिवं च पञ्चेन्धिकादिभुवनानि // ४२६
SKसौषुम्नं ब्रह्मबिलं कुण्डलिनी व्यापिपञ्चकं समना / इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात् // ४२७
SKश्रीमन्मतङ्गशास्त्रे च क्रमोयं पुरपूगगः / कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम् // ४२८
SKकूष्माण्डः सप्तपाताली सप्तलोकी महेश्वरः / इत्यण्डमध्यं तद्बाह्ये शतं रुद्रा इति स्थिताः // ४२९
SKस्थानानां द्विशती भूमिः सप्तपञ्चाशता युता / पञ्चाष्टकस्य मध्याद्द्वात्रिंशद्भूतचतुष्टये // ४३०
SKतन्मात्रेषु च पञ्च स्युर्विश्वेदेवास्ततोष्टकम् / पञ्चमं सेन्द्रिये गर्वे बुद्धौ देवाष्टकं गुणे // ४३१
SKयोगाष्टकं क्रोधसंज्ञं मूले काले सनैयते / पतद्रुगाद्याश्चाङ्गुष्ठमात्राद्या रागतत्त्वगाः // ४३२
SKद्वादशैकशिवाद्याः स्युर्विद्यायां कलने दश / वामाद्यास्त्रिशती सेयं त्रिपर्वण्यब्धिरस्ययुक् // ४३३
SKशैवाः केचिदिहानन्ताः श्रैकण्ठा इति संग्रहः / यत्र यदा परभोगान् बुभुक्षते तत्र योजनं कार्यम् // ४३४
SKशोधनमथ तद्धानौ शेषं त्वन्तर्गतं कार्यम् / इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन // ४३५
SKअन्येपि बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः / श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् // ४३६
SKतदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम् / कालाग्निः कूष्माण्डो नरकेशो हाटकोथ भूतलपः // ४३७
SKब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः / अधरेनन्तः प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः // ४३८
SKलघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति / एकादशभिर्बाह्ये ब्रह्माण्डं पञ्चभिस्तथान्तरिकैः // ४३९
SKइति षोडशपुरमेतन्निवृत्तिकलयेह कलनीयम् / लकुलीशभारभूती दिण्ड्याषाढी च पुष्करनिमेषौ // ४४०
SKप्रभाससुरेशाविति सलिले प्रत्यात्मकं सपरिवारे / भैरवकेदारमहाकाला मध्याम्रजल्पाख्याः // ४४१
SKश्रीशैलहरिश्चन्द्राविति गुह्याष्टकमिदं महसि / भीमेन्द्राट्टहासविमलकनखलनाखलकुरुस्थितिगयाख्याः // ४४२
SKअतिगुह्याष्टकमेतन्मरुति च सतन्मात्रके च साक्षे च / स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकः // ४४३
SKअविमुक्तरुद्रकोटी वस्त्रापद इत्यदः पवित्रं खे / स्थूलस्थूलेशशङ्कुश्रुतिकालञ्जराश्च मण्डलभृत् // ४४४
SKमाकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे / अन्येहङ्कारान्तस्तन्मात्राणीन्द्रियाणि चाप्याहुः // ४४५
SKधियि योन्यष्टकमुक्तं प्रकृतौ योगाष्टकं किलाकृतप्रभृति / इति सप्ताष्टकभुवना प्रतिष्ठितिः सलिलतो हि मूलान्ता // ४४६
SKनरि वामो भीमोग्रौ भवेशवीराः प्रचण्डगौरीशौ / अजसानन्तैकशिवौ विद्यायां क्रोधचण्डयुग्मं स्यात् // ४४७
SKसंवर्तो ज्योतिरथो कलानियत्यां च सूरपञ्चान्तौ / वीरशिखीशश्रीकण्ठसंज्ञमेतत्त्रयं च काले स्यात् // ४४८
SKसमहातेजा वामो भवोद्भवश्चैकपिङ्गलेशानौ / भुवनेशपुरःसरकावङ्गुष्ठ इमे निशि स्थिता ह्यष्टौ // ४४९
SKअष्टाविंशतिभुवना विद्या पुरुषान्निशान्तमियम् / हालाहलरुद्रक्रुदम्बिकाघोरिकाः सवामाः स्युः // ४५०
SKविद्यायां विद्येशास्त्वष्टावीशे सदाशिवे पञ्च / वामा ज्येष्ठा रौद्री शक्तिः सकला च शोन्तयम् // ४५१
SKअष्टादश भुवना स्यात् शान्त्यतीता त्वभुवनैव / इति देशाध्वविभागः कथितः श्रीशम्भुना समादिष्टः // ४५२