Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 14: atha śrītantrāloke caturdaśamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
तिरोभावस्वरूपं तु कथ्यमानं विविच्यताम् / स्वभावात् परमेशानो नियत्यनियतिक्रमम् // १
SK
स्पृशन्प्रकाशते येन ततः स्वच्छन्द उच्यते / नियतिं कर्मफलयोराश्रित्यैष महेश्वरः // २
SK
सृष्टिसंस्थितिसंहारान्विधत्तेवान्तरस्थितीन् / महासर्गे पुनः सृष्टिसंहारानन्त्यशालिनि // ३
SK
एकः स देवो विश्वात्मा नियतित्यागतः प्रभुः / अवान्तरे या च सृष्टिः स्थितिश्चात्राप्ययन्त्रितम् // ४
SK
नोज्झत्येष वपुस्त्यक्तनियतिश्च स्थितोत्र तत् / नियत्यैव यदा चैष स्वरूपाच्छादनक्रमात् // ५
SK
भुङ्क्ते दुःखविमोहादि तदा कर्मफलक्रमः / त्यक्त्वा तु नियमं कार्मं दुःखमोहपरीतताम् // ६
SK
बिभासयिषुरास्तेयं तिरोधानेनपेक्षकः / यथा प्रकाशस्वातन्त्र्यात् प्रतिबुद्धोप्यबुद्धवत् // ७
SK
आस्ते तद्वदनुत्तीर्णोप्युत्तीर्ण इव चेष्टते / यथा च बुद्धस्तां मूढचेष्टां कुर्वन्नपि द्विषन् // ८
SK
हृद्यास्ते मूढ एवं हि प्रबुद्धानां विचेष्टितम् / श्रीविद्याधिपतिश्चाह मानस्तोत्रे तदीदृशम् // ९
SK
ये यौष्माके शासनमार्गे कृतदीक्षाः संगच्छन्तो मोहवशाद्विप्रतिपत्तिम् / नूनं तेषा नास्ति भवद्भानुनियोगः सङ्कोचः किं सूर्यकरैस्तामरसानाम् // १०
SK
ज्ञातज्ञेया धातृपदस्था अपि सन्तो ये त्वन्मार्गात्कापथगास्तेपि न सम्यक / प्रायस्तेषां लैङ्गिकबुद्ध्यादिसमुत्थो मिथ्याबोधः सर्पवसादीपजकल्पः // ११
SK
यस्माद्विद्धं सूतकमुख्येन नु ताम्रं तद्यद्भूयः स्वां प्रकृतिं नो समुपेयात् / नो तैः पीतं भूतलसंस्थैरमृतं तद्येषां तृट्क्षुद्दुःखविबाधाः पुनरस्मिन् // १२
SK
ततः प्रबुद्धचेष्टासौ मन्त्रचर्यार्चनादिका / द्वेषेद्धान्तर्दहत्येनं दाहः शङ्कैव सा यतः // १३
SK
न चास्य कर्ममहिमा तादृग्येनेत्थमास्त सः / किं हि तत्कर्म कस्माद्वा पूर्वेणात्र समो विधिः // १४
SK
तस्मात्सा परमेशेच्छा ययायं मोहितस्तथा / अनन्तकालसंवेद्यदुःखपात्रत्वमीहते // १५
SK
तत्रापि चेच्छावैचित्र्यादिहामुत्रोभयात्मकः / दुःखस्यापि विभेदोस्ति चिरशैघ्र्यकृतस्तथा // १६
SK
कालकामान्धकादीनां पौलस्त्यपुरवासिनाम् / तथान्येषां तिरोभावस्तावद्दुःखो ह्यमुत्र च // १७
SK
अन्योपि च तिरोभावः समयोल्लङ्घनात्मकः / यदुक्तं परमेशेन श्रीमदानन्दगह्वरे // १८
SK
समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः / तत्रापि मन्दतीव्रादिभेदाद्बहुविधः क्रमः // १९
SK
स्वातन्त्र्याच्च महेशस्य तिरोभूतोप्यसौ स्वयम् / परद्वारेण वाभ्येति भूयोनुग्रहमप्यलम् // २०
SK
भूयोनुग्रहतः प्रायश्चित्ताद्याचरणे सति / अनुसारेण दीक्षादौ कृते स्याच्छिवतामयः // २१
SK
तिरोभूतः परेतासुरपि बन्धुसुहृद्गुरून् / आलम्ब्य शक्तिपातेन दीक्षाद्यैरनुगृह्यते // २२
SK
तत्रापि कालशीघ्रत्वचिरत्वादिविभेदताम् / तथैति शक्तिपातोसौ येनायाति शिवात्मताम् // २३
SK
इत्थं सृष्टिस्थितिध्वंसतिरोभावमनुग्रहः / इति पञ्चसु कर्तृत्वं शिवत्वं संविदात्मनः // २४
SK
पञ्चकृत्यस्वतन्त्रत्वसंपूर्णस्वात्ममानिनः / योगिनोर्चाजपध्यानयोगाः संस्युः सदोदिताः // २५
SK
ऐन्द्रजालिकवृत्तान्ते न रज्येत कदाचन / सादाशिवोपि यो भोगो बन्धः सोप्युचितात्मनाम् // २६
SK
ज्ञातृत्वमेव शिवता स्वातन्त्र्यं तदिहोच्यते / कुलालवत्तु कर्तृत्वं न मुख्यं तदधिष्ठितेः // २७
SK
इति ज्ञात्वा ग्रहीतव्या नैव जात्वपि खण्डना / शिवोहं चेन्मदिच्छानुवर्ति किं न जगत्त्विति // २८
SK
ममेच्छामनुवर्तन्तामित्यत्राहंविदि स्फुरेत् / शिवो वा परमेशानो देहादिरथ निर्मितः // २९
SK
शिवस्य तावदस्त्येतद्देहस्त्वेष तथा त्वया / कृतः कान्या देहतास्य तत्किं स्याद्वाच्यतापदम् // ३०
SK
उक्तं च सिद्धसन्तानश्रीमदूर्मिमहाकुले / पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः // ३१
SK
कुहकादिषु ये भ्रान्तास्ते भ्रान्ताः परमे पदे / सर्वत्र बहुमानेन याप्युत्क्रान्तिर्विमुक्तये // ३२
SK
प्रोक्ता सा सारशास्त्रेषु भोगोपायतयोदिता / यदि सर्वगता देवो वदोत्क्रम्य क्व यास्यति // ३३
SK
अथासर्वगतस्तर्हि घटतुल्यस्तदा भवेत् / उत्क्रान्तिविधियोगोयमेकदेशेन कथ्यते // ३४
SK
निरंशे शिवतत्त्वे तु कथमुत्क्रान्तिसंगतिः / यथा धरादौ वाय्वन्ते भृग्वम्ब्वग्न्युपवासकैः // ३५
SK
आत्मनो योजनं व्योम्नि तद्वदुत्क्रान्तिवर्तना / तस्मान्नोत्क्रमयेज्जीवं परतत्त्वसमीहया // ३६
SK
श्रीपूर्वशास्त्रे तूक्तं यदुत्क्रान्तेर्लक्षणं न तत् / मुक्त्युपायतया किंतु भोगहान्यै तथैषणात् // ३७
SK
जपध्यानादिसंसिद्धः स्वातन्त्र्याच्छक्तिपाततः / भोगं प्रति विरक्तश्चेदित्थं देहं त्यजेदिति // ३८
SK
स्वच्छन्दमृत्योरपि यद् भीष्मादेः श्रूयते किल / भोगवैरस्यसंप्राप्तौ जीवितान्तोपसर्पणम् // ३९
SK
योगमन्त्रामृतद्रव्यवराद्यैः सिद्धिभाक्तनुः / हातुं नह्यन्यथा शक्या विनोक्तक्रमयोगतः // ४०
SK
उक्तं च मालिनीतन्त्रे परमेशेन तादृशम् / सर्वमप्यथवा भोगं मन्यमानो विरूपकम् // ४१
SK
इत्यादि वदता सर्वैरलक्ष्यान्तःसतत्त्वकम् / एवं सृष्ट्यादिकर्तव्यस्वस्वातन्त्र्योपदेशनम् // ४२
SK
यत्सैव मुख्यदीक्षा स्याच्छिष्यस्य शिवदायिनी / उक्तं श्रीनिशिचारे च भैरवीयेण तेजसा // ४३
SK
व्याप्तं विश्वं प्रपश्यन्ति विकल्पोज्झितचेतसः / विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् // ४४
SK
बाह्यदीक्षादियोगेन चर्यासमयकल्पनैः / अविकल्पस्तथाद्यैव जीवन्मुक्तो न संशयः // ४५
SK
संसारजीर्णतरुमूलकलापकल्पसंकल्पसान्तरतया परमार्थवह्नेः / स्युर्विस्फुलिङ्गकणिका अपि चेत्तदन्ते देदीप्यते विमलबोधहुताशराशिः // ४६
SK
इत्थं दीक्षोपक्रमोयं दर्शितः शास्त्रसंमतः /

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya