SKकलाध्वा वक्ष्यते श्रीमच्छांभवाज्ञानुसारतः // १ब्
SKयथा पूर्वोक्तभुवनमध्ये निजनिजं गणम् / अनुयत्परतो भिन्नं तत्त्वं नामेति भण्यते // २
SKतथा तेष्वपि तत्त्वेषु स्ववर्गेनुगमात्मकम् / व्यावृत्तं परवर्गाच्च कलेति शिवशासने // ३
SKकेचिदाहुः पुनर्यासौ शक्तिरन्तः सुसूक्ष्मिका / तत्त्वानां सा कलेत्युक्ता धरण्यां धारिका यथा // ४
SKअत्र पक्षद्वये वस्तु न भिन्नं भासते यतः / अनुगामि न सामान्यमिष्टं नैयायिकादिवत् // ५
SKअन्ये वदन्ति दीक्षादौ सुखसंग्रहणार्थतः / शिवेन कल्पितो वर्गः कलेति समयाश्रयः // ६
SKकृतश्च देवदेवेन समयोपरमार्थताम् / न गच्छतीति नासत्यो न चान्यसमयोदयः // ७
SKनिवृत्तिः पृथिवीतत्त्वे प्रतिष्ठाव्यक्तगोचरे / विद्या निशान्ते शान्ता च शक्त्यन्तेण्डमिदं चतुः // ८
SKशान्तातीता शिवे तत्त्वे कलातीतः परः शिवः / नह्यत्र वर्गीकरणं समयः कलनापि वा // ९
SKयुज्यते सर्वतोदिक्कं स्वातन्त्र्योल्लासधामनि / स्वातन्त्र्यात्तु निजं रूपं बोद्धृधर्मादविच्युतम् // १०
SKउपदेशतदावेशपरमार्थत्वसिद्धये / बोध्यतामानयन्देवः स्फुटमेव विभाव्यते // ११
SKयतोतः शिवतत्त्वेपि कलासंगतिरुच्यते / अण्डं च नाम भुवनविभागस्थितिकारणम् // १२
SKप्राहुरावरणं तच्च शक्त्यन्तं यावदस्ति हि / यद्यपि प्राक् शिवाख्येपि तत्त्वे भुवनपद्धतिः // १३
SKउक्ता तथाप्यप्रतिघे नास्मिन्नावृतिसंभवः / नन्वेवं धरणीं मुक्त्वा शक्तौ प्रकृतिमाययोः // १४
SKअपि चाप्रतिघत्वेपि कथमण्डस्य संभवः / अत्रास्मद्गुरवः प्राहुर्यत्पृथिव्यादिपञ्चकम् // १५
SKप्रत्यक्षमिदमाभाति ततोन्यन्नास्ति किंचन / मेयत्वे स्थूलसूक्ष्मत्वान्मानत्वे करणत्वतः // १६
SKकर्तृतोल्लासतः कर्तृभावे स्फुटतयोदितम् / त्रिंशत्तत्त्वं विभेदात्म तदभेदो निशा मता // १७
SKकार्यत्वकरणत्वादिविभागगलने सति / विकासोत्कस्वतन्त्रत्वे शिवान्तं पञ्चकं जगुः // १८
SKश्रीमत्कालोत्तरादौ च कथितं भूयसा तथा / पञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत् // १९
SKपञ्चमन्त्रतनौ तेन सद्योजातादि भण्यते / ईशानान्तं तत्र तत्र धरादिगगनान्तकम् // २०
SKशिवतत्त्वमतः शून्यातिशून्यं स्यादनाश्रि[वृ]तम् / यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम् // २१
SKसप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम् / तस्याप्युक्तनयाद्वेद्यभावेत्र परिकल्पिते // २२
SKयदास्ते ह्यनवच्छिन्नं तदष्टात्रिंशमुच्यते / न चानवस्था ह्येवं स्याद्दृश्यतां हि महात्मभिः // २३
SKयद्वेद्यं किंचिदाभाति तत्क्षये यत्प्रकाशते / तत्तत्त्वमिति निर्णीतं षट्त्रिंशं हृदि भासते // २४
SKतत्किं न किंचिद्वा किंचिदित्याकाङ्क्षावशे वपुः / चिदानन्दस्वतन्त्रैकरूपं तदिति देशने // २५
SKसप्तत्रिंशं समाभाति तत्राकाङ्क्षा च नापरा / तच्चापि क्लृप्तवेद्यत्वं यत्र भाति स चिन्मयः // २६
SKअष्टात्रिंशत्तमः सोपि भावनायोपदिश्यते / यदि नाम ततः सप्तत्रिंश एव पुनर्भवेत् // २७
SKअविभागस्वतन्त्रत्वचिन्मयत्वादिधर्मता / समैव वेद्यीकरणं केवलं त्वधिकं यतः // २८
SKधरायां गुणतत्त्वान्ते मायान्ते क्रमशः स्थिताः / गन्धो रसो रूपमन्तः सूक्ष्मभावक्रमेण तु // २९
SKइति स्थिते नये शक्तितत्त्वान्तेप्यस्ति सौक्ष्म्यभाक् / स्पर्शः कोपि सदा यस्मै योगिनः स्पृहयालवः // ३०
SKतत्स्पर्शान्ते तु संवित्तिः शुद्धचिद्व्योमरूपिणी / यस्यां रूढः समभ्येति स्वप्रकाशात्मिकां पराम् // ३१
SKअतो विन्दुरतो नादो रूपमस्मादतो रसः / इत्युक्तं क्षोभकत्वेन स्पन्दे स्पर्शस्तु नो तथा // ३२
SKमतं चैतन्महेशस्य श्रीपूर्वे यदभाषत / धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा // ३३
SKएभिः शब्दैर्व्यवहरन् निवृत्त्यादेर्निजं वपुः / पञ्चतत्त्वविधिः प्रोक्तस्त्रितत्त्वमधुनोच्यते // ३४
SKविज्ञानाकलपर्यन्तमात्मा विद्येश्वरान्तकम् / शेषे शिवस्त्रितत्त्वे स्यादेकतत्त्वे शिवः परम् // ३५
SKइमौ भेदावुभौ तत्त्वभेदमात्रकृताविति / तत्त्वाध्वैवायमित्थं च न षडध्वस्थितेः क्षतिः // ३६
SKप्रकृत् पुमान्यतिः कालो माया विद्येशसौशिवौ / शिवश्च नवतत्त्वेपि विधौ तत्त्वाध्वरूपता // ३७
SKएवमष्टादशाख्येपि विधौ न्यायं वदेत्सुधीः / यत्र यत्र हि भोगेच्छा तत्प्राधान्योपयोगतः // ३८
SKअन्यान्तर्भावनातश्च दीक्षानन्तविभेदभाक् / तेन षट्त्रिंशतो यावदेकतत्त्वविधिर्भवेत् // ३९
SKतत्त्वाध्वैव स देवेन प्रोक्तो व्याससमासतः / एकतत्त्वविधिश्चैष सुप्रबुद्धं गुरुं प्रति // ४०
SKशिष्यं च गतभोगाशमुदितः शंभुना यतः / भेदं विस्फार्य विस्फार्य शक्त्या स्वच्छन्दरूपया // ४१
SKस्वात्मन्यभिन्ने भगवान्नित्यं विश्रमयन् स्थितः / इत्थं त्र्यात्माध्वनो भेदः स्थूलसूक्ष्मपरत्वतः // ४२
SKमेयभागगतः प्रोक्तः पुरतत्त्वकलात्मकः / अधुना मातृभागस्थं रूपं त्रेधा निरूप्यते // ४३
SKयत्प्रमाणात्मकं रूपमध्वनो मातृभागगम् / पदं ह्यवगमात्मत्वसमावेशात्तदुच्यते // ४४
SKतदेव च पदं मन्त्रः प्रक्षोभात्प्रच्युतं यदा / गुप्तभाषी यतो माता तूष्णींभूतो व्यवस्थितः // ४५
SKतथापि न विमर्शात्म रूपं त्यजति तेन सः / प्रमाणात्मविमर्शात्मा मानवत्क्षोभभाङ्नतु // ४६
SKमन्त्राणां च पदानां च तेनोक्तं त्रिकशासने / अभिन्नमेव स्वं रूपं निःस्पन्दक्षोभिते परम् // ४७
SKऔदासीन्यपरित्यागे प्रक्षोभानवरोहणे / वर्णाध्वा मातृभागे स्यात् पूर्वं या कथिता प्रमा // ४८
SKसा तु पूर्णस्वरूपत्वादविभागमयी यतः / तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः // ४९
SKकृत्वा शैवे परे प्रोक्ताः षोडशार्णा विसर्गतः / तत्र शक्तिपरिस्पन्दस्तावान् प्राक् च निरूपितः // ५०
SKसंकलय्योच्यते सर्वमधुना सुखसंविदे / पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः / तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या // ५१
SKमुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला / अग्न्यर्णतत्त्वमेककपदमन्त्रं सैन्यभुवनमिति तुर्या // ५२
SKषोडश वर्णाः पदमन्त्रतत्त्वमेकं च शान्त्यतीतेयम् / अभिनवगुप्तेनार्यात्रयमुक्तं संग्रहाय शिष्येभ्यः // ५३
SKसोयं समस्त एवाध्वा भैरवाभेदवृत्तिमान् / तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानोवभासते // ५४
SKतथाहि मातृरूपस्थो मन्त्राध्वेति निरूपितः / तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा // ५५
SKशिवज्ञानक्रियायत्तमननत्राणतत्परा / अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् // ५६
SKच्युता मानमयाद्रूपात् संविन्मन्त्राध्वतां गता / प्रमाणरूपतामेत्य प्रयात्यध्वा पदात्मताम् // ५७
SKतथा हि मातुर्विश्रान्तिर्वर्णान्संघट्य तान्बहून् / संघट्टनं च क्रमिकं संजल्पात्मकमेव तत् // ५८
SKविकल्पस्य स्वकं रूपं भोगावेशमयं स्फुटम् / अतः प्रमाणतारूपं पदमस्मद्गुरुर्जगौ // ५९
SKप्रमाणरूपतावेशमपरित्यज्य मेयताम् // ६०
SKगच्छन्कलनया योगादध्वा प्रोक्तः कलात्मकः / शुद्धे प्रमेयतायोगे सूक्ष्मस्थूलत्वभागिनि // ६१
SKतत्त्वाध्वभुवनाध्वत्वे क्रमेणानुसरेद्गुरुः / प्रमेयमानमातॄणां यद्रूपमुपरि स्थितम् // ६२
SKप्रमात्मात्र स्थितोध्वायं वर्णात्मा दृश्यतां किल / उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः // ६३
SKसर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः / सृष्टाः स्वात्मसहोत्थेर्थे धरापर्यन्तभागिनि // ६४
SKआमृशन्तः स्वचिद्भूमौ तावतोर्थानभेदतः / वर्णौघास्ते प्रमारूपां सत्यां बिभ्रति संविदम् // ६५
SKबालास्तिर्यक्प्रमातारो येप्यसंकेतभागिनः / तेप्यकृत्रिमसंस्कारसारामेनां स्वसंविदम् // ६६
SKभिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् / अस्या चाकृत्रिमानन्तवर्णसंविदि रूढताम् // ६७
SKसंकेता यान्ति चेत्तेपि यान्त्यसंकेतवृत्तिताम् / अनया तु विना सर्वे संकेता बहुशः कृताः // ६८
SKअविश्रान्ततया कुर्युरनवस्थां दुरुत्तराम् / बालो व्युत्पाद्यते येन तत्र संकेतमार्गणात् // ६९
SKअङ्गुल्यादेशनेप्यस्य नाविकल्पा तथा मतिः / विकल्पः शब्दमूलश्च शब्दः संकेतजीवितः // ७०
SKतेनानन्तो ह्यमायीयो यो वर्णग्राम ईदृशः / संविद्विमर्शसचिवः सदैव स हि जृम्भते // ७१
SKयत एव च मायीया वर्णाः सूतिं वितेनिरे / ये च मायीयवर्णेषु वीर्यत्वेन निरूपिताः // ७२
SKसंकेतनिरपेक्षास्ते प्रमेति परिगृह्यताम् / तथा हि परवाक्येषु श्रुतेष्वाव्रियते निजा // ७३
SKप्रमा यस्य जडोसौ नो तत्रार्थेभ्येति मातृताम् / शुकवत्स पठत्येव परं तत्क्रमितैकभाक् // ७४
SKस्वातन्त्र्यलाभतः स्वाक्यप्रमालाभे तु बोद्धृता / यस्य हि स्वप्रमाबोधो विपक्षोद्भेदनिग्रहात् // ७५
SKवाक्यादिवर्णपुञ्जे स्वे स प्रमाता वशीभवेत् / यथा यथा चाकृतकं तद्रूपमतिरिच्यते // ७६
SKतथा तथा चमत्कारतारतम्यं विभाव्यते / आद्यामायीयवर्णान्तर्निमग्ने चोत्तरोत्तरे // ७७
SKसकेते पूर्वपूर्वांशमज्जने प्रतिभाभिदः / आद्योद्रेकमहत्त्वेपि प्रतिभात्मनि निष्ठिताः // ७८
SKध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः / यावद्धामनि संकेतनिकारकलनोज्झिते // ७९
SKविश्रान्तश्चिन्मये किं किं न वेत्ति कुरुते न वा / अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता // ८०
SKसर्वज्ञत्वादिसिद्धौ वा का सिद्धिर्या न तन्मयी / तदुक्तं वरदेन श्रीसिद्धयोगीश्वरीमते // ८१
SKतेन गुप्तेन गुप्तास्ते शेषा वर्णास्त्विति स्फुटम् / एवं मामातृमानत्वमेयत्वैर्योवभासते // ८२
SKषड्विधः स्ववपुःशुद्धौ शुद्धिं सोध्वाधिगच्छति / एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम् // ८३
SKअन्तर्भाव्याचरेच्छुद्धिमनुसंधानवान् गुरुः / अनन्तर्भावशक्तौ तु सूक्ष्मं सूक्ष्मं तु शोधयेत् // ८४
SKतद्विशुद्धं बीजभावात् सूते नोत्तरसंततिम् / शोधनं बहुधा तत्तद्भोगप्राप्त्येकतानता // ८५
SKतदाधिपत्यं तत्त्यागस्तच्छिवात्मत्ववेदनम् / तल्लीनता तन्निरासः सर्वं चैतत्क्रमाक्रमात् // ८६
SKअत एव च ते मन्त्राः शोधकाश्चित्ररूपिणः / सिद्धान्तवामदक्षादौ चित्रां शुद्धिं वितन्वते // ८७
SKअनुत्तरत्रिकानामक्रममन्त्रास्तु ये किल / ते सर्वे सर्वदाः किन्तु कस्याचित् क्वापि मुख्यता // ८८
SKअतः शोधकभावेन शास्त्रे श्रीपूर्वसंज्ञिते / परापरादिमन्त्राणामध्वन्युक्ता व्यवस्थितिः // ८९
SKशोधकत्वं च मालिन्या देवीनां त्रितयस्य च / देवत्रयस्य वक्त्राणामङ्गानामष्टकस्य च // ९०
SKकिं वातिबहुना द्वारवास्त्वाधारगुरुक्रमे / लोकपास्त्रविधौ मन्त्रान् मुक्त्वा सर्वं विशोधकम् // ९१
SKयच्चैतदध्वनः प्रोक्तं शोध्यत्वं शोद्धृता च या / सा स्वातन्त्र्याच्छिवाभेदे युक्तेत्युक्तं च शासने // ९२
SKसर्वमेतद्विभात्येव परमेशितरि ध्रुवे / प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः // ९३
SKचिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी / भिन्ना संसारिणां रज्जौ सर्पस्रग्वीचिबुद्धिवत् // ९४
SKयतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः / देहान्तरादिर्मरणे कीदृग्वा देहसंभवः // ९५
SKस्वप्नेपि प्रतिभामात्रसामान्यप्रथनाबलात् / विशेषाः प्रतिभासन्ते न भाव्यन्तेपि ते यथा // ९६
SKशालग्रामोपलाः केचिच्चित्राकृतिभृतो यथा / तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः // ९७
SKनगरार्णवशैलाद्यास्तदिच्छानुविधायिनः / न स्वयं सदसन्तो नो कारणाकारणात्मकाः // ९८
SKनियतेश्चिररूढायाः समुच्छेदात्प्रवर्तनात् / अरूढायाः स्वतन्त्रोयं स्थितश्चिद्व्योमभैरवः // ९९
SKएकचिन्मात्रसंपूर्णभैरवाभेदभागिनि / एवमस्मीत्यनामर्शो भेदको भावमण्डले // १००
SKसर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा / स्वसंविदः स्वसिद्धायास्तथा सर्वत्र बुद्ध्यताम् // १०१
SKचित्तचित्रपुरोद्याने क्रीडेदेवं हि वेत्ति यः / अहमेव स्थितो भूतभावतत्त्वपुरैरिति // १०२
SKएवं जातो मृतोस्मीति जन्ममृत्युविचित्रताः / अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वनिर्मिताः // १०३
SKपरेहसंविदामात्रं परलोकेहलोकते / वस्तुतः संविदो देशः कालो वा नैव किंचन // १०४
SKअभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः / तदवेक्ष्यत तन्मध्यात् केनैकोपि धराधरः // १०५
SKभूततन्मात्रवर्गादेराधाराधेयताक्रमे / अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी // १०६
SKतस्मात्प्रतीतिरेवेत्थं कर्त्री धर्त्री च सा शिवः / ततो भावास्तत्र भावाः शक्तिराधारिका ततः // १०७
SKसांकल्पिकं निराधारमपि नैव पतत्यधः / स्वाधारशक्तौ विश्रान्तं विश्वमित्थं विमृश्यताम् // १०८
SKअस्या घनाहमित्यादिरूढिरेव धरादिता / यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता // १०९
SKमणाविन्द्रायुधे भास इव नीलादयः शिवे / परमार्थत एषां तु नोदयो न व्ययः क्वचित् // ११०
SKदेशे कालेत्र वा सृष्टिरित्येतदसमञ्जसम् / चिदात्मना हि देवेन सृष्टिर्दिक्कालयोरपि // १११
SKजागराभिमते सार्धहस्तत्रितयगोचरे / प्रहरे च पृथक् स्वप्नाश्चित्रदिक्कालमानिनः // ११२
SKअत एव क्षणं नाम न किंचिदपि मन्महे / क्रियाक्षणे वाप्येकस्मिन् बह्व्यः संस्युर्द्रुताः क्रियाः // ११३
SKतेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे / ते नूनमेनया नाड्या शून्यदृष्ट्यवलम्बिनः // ११४
SKतद्य एष सतो भावाञ् शून्यीकर्तुं तथासतः / स्फुटीकर्तुं स्वतन्त्रत्वादीशः सोस्मत्प्रभुः शिवः // ११५
SKतदित्थं परमेशानो विश्वरूपः प्रगीयते / न तु भिन्नस्य कस्यापि धरादेरुपपन्नता // ११६
SKउक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते / भूयोभिश्चापि बाह्यार्थदूषणैः प्रव्यरम्यत // ११७
SKतदित्थमेष निर्णीतः कलादेर्विस्तरोध्वनः // ११८