Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 7: atha śrītantrāloke

Light on the Tantras

तन्त्रालोकः

SK
अथ परमरहस्योयं चक्राणां भण्यतेभ्युदयः // १ब्
SK
इत्ययत्नजमाख्यातं यत्नजं तु निगद्यते / बीजपिण्डात्मकं सर्वं संविदः स्पन्दनात्मताम् // २
SK
विदधत्परसंवित्तावुपाय इति वर्णितम् / यथारघट्टचक्राग्रघटीयन्त्रौघवाहनम् // ३
SK
एकानुसंधियत्नेन चित्रं यन्त्रोदयं भजेत् / एकानुसंधानबलाज्जाते मन्त्रोदयेनिशम् // ४
SK
तन्मन्त्रदेवता यत्नात्तादात्म्येन प्रसीदति / खे रसैकाक्षि नित्योत्थे तदर्धं द्विकपिण्डके // ५
SK
त्रिके सप्त सहस्राणि द्विशतीत्युदयो मतः / चतुष्के तु सहस्राणि पञ्च चैव चतुःशती // ६
SK
पञ्चार्णेब्धिसहस्राणि त्रिशती विंशतिस्तथा / षट्के सहस्रत्रितयं षट्शती चोदयो भवेत् // ७
SK
सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम् / शतैस्तु सप्तविंशत्या वर्णाष्टकविकल्पिते // ८
SK
चतुर्विंशतिशत्या तु नवार्णेषूदयो भवेत् / अधिषष्ट्येकविंशत्या शतानां दशवर्णके // ९
SK
एकान्नविंशतिशतं चतुःषष्टिः शिवार्णके / अष्टादश शतानि स्युरुदयो द्वादशार्णके // १०
SK
त्रयोदशार्णे द्वाषष्ट्या शतानि किल षोडश / त्रिचत्वारिंशता पञ्चदशेति भुवनार्णके // ११
SK
चतुर्दशशती खाब्धिः स्यात्पञ्चदशवर्णके / त्रयोदशशती सार्धा षोडशार्णे तु कथ्यते // १२
SK
शतद्वादशिका सप्तदशार्णे सैकसप्ततिः / अष्टादशार्णे विज्ञेया शतद्वादशिका बुधैः // १३
SK
चतुर्विंशतिसंख्याके चक्रे नवशती भवेत् / सप्तविंशतिसंख्याते तूदयोष्टशतात्मकः // १४
SK
द्वात्रिंशके महाचक्रे षट्शती पञ्चसप्ततिः / द्विचतुर्विंशके चक्रे सार्धां शतचतुष्टयीम् // १५
SK
उदयं पिण्डयोगज्ञः पिण्डमन्त्रेषु लक्षयेत् / चतुष्पञ्चाशके चक्रे शतानां तु चतुष्टयम् // १६
SK
सप्तत्रिंशत्सहार्धेन त्रिशत्यष्टाष्टके भवेत् / अर्धमर्धत्रिभागश्च षट्षष्टिर्द्विशती भवेत् // १७
SK
एकाशीतिपदे चक्रे उदयः प्राणचारगः / चक्रे तु षण्णवत्याख्ये सपादा द्विशती भवेत् // १८
SK
अष्टोत्तरशते चक्रे द्विशतस्तूदयो भवेत् / क्रमेणेत्थमिदं चक्रं षट्कृत्वो द्विगुणं यदा // १९
SK
ततोपि द्विगुणेष्टांशस्यार्धमध्यर्धमेककम् / ततोपि सूक्ष्मकुशलैरर्धार्धादिप्रकल्पने // २०
SK
भागषोडशकस्थित्या सूक्ष्मश्चारोभिलक्ष्यते / एवं प्रयत्नसंरुद्धप्राणचारस्य योगिनः // २१
SK
क्रमेण प्राणचारस्य ग्रास एवोपजायते / प्राणग्रासक्रमावाप्तकालसंकर्षणस्थितिः // २२
SK
संविदेकैव पूर्णा स्याज्ज्ञानभेदव्यपोहनात् / तथा हि प्राणचारस्य नवस्यानुदये सति // २३
SK
न कालभेदजनितो ज्ञानभेदः प्रकल्पते / संवेद्यभेदान्न ज्ञानं भिन्नं शिखरिवृत्तवत् // २४
SK
कालस्तु भेदकस्तस्य स तु सूक्ष्मः क्षणो मतः / सौक्ष्म्यस्य चावधिर्ज्ञानं यावत्तिष्ठति स क्षणः // २५
SK
अन्यथा न स निर्वक्तुं निपुणैरपि पार्यते / ज्ञानं कियद्भवेत्तावत्तदभावो न भासते // २६
SK
तदभावश्च नो तावद्यावत्तत्राक्षवर्त्मनि / अर्थे वात्मप्रदेशे वा न संयोगविभागिता // २७
SK
सा चेदुदयते स्पन्दमयी तत्प्राणगा ध्रुवम् / भवेदेव ततः प्राणस्पन्दाभावे न सा भवेत् // २८
SK
तदभावान्न विज्ञानाभावः सैवं तु सैव धीः / न चासौ वस्तुतो दीर्घा कालभेदव्यपोहनात् // २९
SK
वस्तुतो ह्यत एवेयं कालं संविन्न संस्पृशेत् / अत एकैव संवित्तिर्नानारूपे तथातथा // ३०
SK
विन्दाना निर्विकल्पापि विकल्पो भावगोचरे / स्पन्दान्तरं न यावत्तदुदितं तावदेव सः // ३१
SK
तावानेको विकल्पः स्याद्विविधं वस्तु कल्पयन् / ये त्वित्थं न विदुस्तेषां विकल्पो नोपपद्यते // ३२
SK
स ह्येको न भवेत्कश्चित् त्रिजगत्यापि जातुचित् / शब्दारूषणया ज्ञानं विकल्पः किल कथ्यते // ३३
SK
सा च स्यात्क्रमिकैवेत्थं किं कथं को विकल्पयेत् / घट इत्यपि नेयान्स्याद्विकल्पः का कथा स्थितौ // ३४
SK
न विकल्पश्च कोप्यस्ति यो मात्रामात्रनिष्ठितः / न च ज्ञानसमूहोस्ति तेषामयुगपत्स्थितेः // ३५
SK
तेनास्तङ्गत एवैष व्यवहारो विकल्पजः / तस्मात्स्पन्दान्तरं यावन्नोदियात्तावदेककम् // ३६
SK
विज्ञानं तद्विकल्पात्मधर्मकोटीरपि स्पृशेत् / एकाशीतिपदोदारशक्त्यामर्शात्मकस्ततः // ३७
SK
विकल्पः शिवतादायी पूर्वमेव निरूपितः / यथा कर्णौ नर्तयामीत्येवं यत्नात्तथा भवेत् // ३८
SK
चक्रचारगताद्यत्नात्तद्वत्तच्चक्रगैव धीः / जपहोमार्चनादीनां प्राणसाम्यमतो विधिः // ३९
SK
सिद्धामते कुण्डलिनीशक्तिः प्राणसमोन्मना / उक्तं च योगिनीकौले तदेतत्परमेशिना // ४०
SK
पदमन्त्राक्षरे चक्रे विभागं शक्तितत्त्वगम् / पदेषु कृत्वा मन्त्रज्ञो जपादौ फलभाग्भवेत् // ४१
SK
द्वित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम् / इति शक्तिस्थिता मन्त्रा विद्या वा चक्रनायकाः // ४२
SK
पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये / नित्योदये महातत्त्वे उदयस्थे सदाशिवे // ४३
SK
अयुक्ताः शक्तिमार्गे तु न जप्ताश्चोदयेन ये / ते न सिद्ध्यन्ति यत्नेन जप्ताः कोटिशतैरपि // ४४
SK
मालामन्त्रेषु सर्वेषु मानसो जप उच्यते / उपांशुर्वा शक्त्युदयं तेषां न परिकल्पयेत् // ४५
SK
पदमन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् / शक्यते सततं युक्तैस्तावज्जप्यं तु साधकैः // ४६
SK
तावती तेषु वै संख्या पदेषु पदसंज्ञिता / तावन्तमुदयं कृत्वा त्रिपदोक्त्यादितः क्रमात् // ४७
SK
द्वादशाख्ये द्वादशिते चक्रे सार्धं शतं भवेत् / उदयस्तद्धि सचतुश्चत्वारिंशच्छतं भवेत् // ४८
SK
षोडशाख्ये द्वादशिते द्वानवत्यधिके शते / चारार्धेन समं प्रोक्तं शतं द्वादशकाधिकम् // ४९
SK
षोडशाख्ये षोडशिते भवेच्चतुरशीतिगः / उदयो द्विशतं तद्धि षट्पञ्चाशत्समुत्तरम् // ५०
SK
चाराष्टभागांस्त्रीनत्र कथयन्त्यधिकान्बुधाः / अष्टाष्टके द्वादशिते पादार्धं विंशतिं वसून् // ५१
SK
उदयः सप्तशतिका साष्टा षष्टिर्यतो हि सः / एष चक्रोदयः प्रोक्तः साधकानां हितावहः // ५२
SK
निरुद्ध्य मानसीर्वृत्तीश्चक्रे विश्रान्तिमागतः / व्युत्थाय यावद्विश्राम्येत्तावच्चारोदयो ह्ययम् // ५३
SK
पूर्णे समुदये त्वत्र प्रवेशैकात्म्यनिर्गमाः / त्रय इत्यत एवोक्तः सिद्धौ मध्योदयो वरः // ५४
SK
आद्यन्तोदयनिर्मुक्ता मध्यमोदयसंयुताः / मन्त्रविद्याचक्रगणाः सिद्धिभाजो भवन्ति हि // ५५
SK
मन्त्रचक्रोदयज्ञस्तु विद्याचक्रोदयार्थवित् / क्षिप्रं सिद्ध्येदिति प्रोक्तं श्रीमद्द्विंशतिके त्रिके // ५६
SK
द्विस्त्रिश्चतुर्वा मात्राभिर्विद्यां वा चक्रमेव वा / तत्त्वोदययुतं नित्यं पृथग्भूतं जपेत्सदा // ५७
SK
पिण्डाक्षरपदैर्मन्त्रमेकैकं शक्तितत्त्वगम् / बह्वक्षरस्तु यो मन्त्रो विद्या वा चक्रमेव वा // ५८
SK
शक्तिस्थं नैव तं तत्र विभागस्त्व्ॐनमोन्तगः / अस्मिंस्तत्त्वोदये तस्मादहोरात्रस्त्रिशस्त्रिशः // ५९
SK
विभज्यते विभागश्च पुनरेव त्रिशस्त्रिशः / पूर्वोदये तु विश्रम्य द्वितीयेनोल्लसेद्यदा // ६०
SK
विशेच्चार्धर्धिकायोगात्तदोक्तार्धोदयो भवेत् / यदा पूर्णोदयात्मा तु समः कालस्त्रिके स्फुरेत् // ६१
SK
प्रवेशविश्रान्त्युल्लासे स्यात्स्वत्र्यंशोदयस्तदा / एत्येष कालविभवः प्राण एव प्रतिष्ठितः // ६२
SK
स स्पदे खे स तच्चित्यां तेनास्यां विश्वनिष्ठिअतिः / अतः संवित्प्रतिष्ठानौ यतो विश्वलयोदयौ // ६३
SK
शक्त्यन्तेध्वनि तत्स्पन्दासंख्याता वास्तवी ततः / उक्तं श्रीमालिनीतन्त्रे गात्रे यत्रैव कुत्रचित् // ६४
SK
विकार उपजायेत तत्तत्त्वं तत्त्वमुत्तमम् / प्राणे प्रतिष्ठितः कालस्तदाविष्टा च यत्तनुः // ६५
SK
देहे प्रतिष्ठितस्यास्य ततो रूपं निरूप्यते / चित्स्पन्दप्राणवृत्तीनामन्त्या या स्थूलता सुषिः // ६६
SK
सा नाडीरूपतामेत्य देहं संतानयेदिमम् / श्रीस्वच्छन्देत एवोक्तं यथा पर्णं स्वतन्तुभिः // ६७
SK
व्याप्तं तद्वत्तनुर्द्वारद्वारिभावेन नाडिभिः / पादाङ्गुष्ठादिकोर्ध्वस्थब्रह्मकुण्डलिकान्तगः // ६८
SK
कालः समस्तश्चतुरशीतावेवाङ्गुलेष्वितः / द्वादशान्तावधिं किंचित्सूक्ष्मकालस्थितिं विदुः // ६९
SK
षण्णवत्यामधः षड्द्विक्रमाच्चाष्टोत्तरं शतम् / अत्र मध्यमसंचारिप्राणोदयलयान्तरे // ७०
SK
विश्वे सृष्टिलयास्ते तु चित्रा वाय्वन्तरक्रमात् / इत्येष सूक्ष्मपरिमर्शनशीलनीयश्चक्रोदयोनुभवशास्त्रदृशा मयोक्तः // ७१

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya