Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 31: atha śrītantrāloke ekatriṃśamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथ मण्डलसद्भावः संक्षेपेणाभिधीयते / साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम् // १
SK
तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः / ततोप्यर्धतदर्धार्धमानतः पूर्वपश्चिमौ // २
SK
अङ्कयेत्तावता दद्यात् सूत्रेण भ्रमयुग्मकम् / मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत् // ३
SK
तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये / यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे // ४
SK
अङ्कयेदपरादङ्कात् पूर्वादपि तथैव ते / मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे // ५
SK
मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः / सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः // ६
SK
मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम् / एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः // ७
SK
सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते / यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम् // ८
SK
मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम् / तत्र शूलविधानं यदुक्तं भेदैरनन्तकैः // ९
SK
तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम् / वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत् // १०
SK
भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत् / ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम् // ११
SK
कृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः / ततस्तिर्यग्व्रजेत् सूत्रं चतुर्थं तदनन्तरे // १२
SK
कोष्ठे चेन्दुद्वयं कुर्याद्बहिर्भागार्धभागतः / तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम् // १३
SK
कोष्ठकार्धेपरं चेति युग्ममन्तर्मुखं भवेत् / ब्रह्मसूत्राद्द्वितीयस्मिन् हस्ते मर्मणि निश्चलम् // १४
SK
कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः / ब्रह्मसूत्रगतात् षष्ठात् तिर्यग्भागात्तृतीयके // १५
SK
कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम् / भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम् // १६
SK
तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः / कोणं यावत्तथा स्याच्च कुर्यात् खण्डं भ्रमद्वयम् // १७
SK
सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते / द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः // १८
SK
मध्यशृङ्गेथ कर्तव्ये तृतीये ऊर्ध्वकोष्ठके / चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत् // १९
SK
तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा / अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते // २०
SK
एवं द्वितीयपार्श्वेस्य खण्डेन्दुद्वयवर्तनात् / मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत् // २१
SK
सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम् / पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम् // २२
SK
अवधानेन संग्राह्यमाचार्येणोहवेदिना / भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके // २३
SK
मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः / ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम् // २४
SK
ततो द्वयेन कर्तव्या गण्डिकान्तःसुसंगता / द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत् // २५
SK
अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम् / ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत् // २६
SK
मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा / पद्मं वाथ षडरं वा वियद्द्वादशकं च वा // २७
SK
त्रित्रिशूलेत्र सप्तारे श्लिष्टमात्रेण मध्यतः / पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् // २८
SK
मिश्रितं वाथ संकीर्णं समासव्यासभेदतः / ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत् // २९
SK
तत्र दण्डः स्मृतो भागः षडरामलसारकः / सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः // ३०
SK
या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी / सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका // ३१
SK
अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः / ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात् // ३२
SK
वेदाश्रायतरूपाणि यदिवा वृत्तमात्रतः / स्पष्टशृङ्गमथो कुर्याद्यदिवा वैपरीत्यतः // ३३
SK
उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम् / कुटिलो मध्यतः स्पष्टोधोमुखः पार्श्वगः स्थितः // ३४
SK
उत्तानोर्धोसमः पूर्णः श्लिष्टो ग्रन्थिगतस्तथा / चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी // ३५
SK
अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता / तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः // ३६
SK
पीठवीथीबहिअर्भूमिकण्ठकर्णकपोलतः / शोभोपशोभासंभेदाद्गुणरेखाविकल्पतः // ३७
SK
स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः / भावाभावविकल्पेन मण्डलानामनन्तता // ३८
SK
ततो रजांसि देयानि यथाशोभानुसारतः / सिन्दूरं राजवर्तं च खटिका च सितोत्तमा // ३९
SK
उत्तमानि रजांसीह देवतात्रययोगतः / परा चन्द्रसमप्रख्या रक्ता देवी परापरा // ४०
SK
अपरा सा परा काली भीषणा चण्डयोगिनी / दृष्ट्वैतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा // ४१
SK
अनर्चितेप्यदीक्षेण दृष्टे दीक्ष्येत मातृभिः / किंवातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः // ४२
SK
शूलयागाः षट् सहस्राण्येवं सार्धशतद्वयम् / या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता // ४३
SK
विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता / तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम् // ४४
SK
अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलारगाः स्थिताः / आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः // ४५
SK
तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः / तस्मादेनं महायागं महाविभवविस्तरैः // ४६
SK
पूजयेद्भूतिकामो वा मोक्षकामोपिवा बुधः / अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः // ४७
SK
पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति / मन्दशक्तिबलाविद्धोप्येतन्मण्डलपूजनात् // ४८
SK
सततं मासषट्केन त्रिकज्ञानं समश्नुते / यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः // ४९
SK
देहान्ते स्याद्भैरवात्मा सिद्धिकामोथ सिद्ध्यति / मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च // ५०
SK
वर्तनां च विजानाति स गुरुस्त्रिकशासने / तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना // ५१
SK
अत्र सृष्टिस्थितिध्वंसान् क्रमात् त्रीनपि पूजयेत् / तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम् // ५२
SK
चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत् / तत्र तत् पूजयेत्सम्यक् स्फुटं क्रमचतुष्टयम् // ५३
SK
इत्येतत्कथितं गुप्ते षडर्धहृदये परे / षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते // ५४
SK
अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम् / महाशूलसमोपेतं पद्मचक्रादिभूषितम् // ५५
SK
द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम् / कोणेष्वपिच वा कार्यं महाशूलं द्रुमान्वितम् // ५६
SK
अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम् / शूल इत्थं प्रकर्तव्यमष्टधा तत् त्रिधापिवा // ५७
SK
एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति / स्थानान्तरेपि कथितं श्रीसिद्धातन्त्रशासने // ५८
SK
कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु / शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे // ५९
SK
अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते / सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः // ६०
SK
यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः / तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः // ६१
SK
वेदाश्रिते त्रिहस्ते प्राक् पूर्वमर्ध विभाजयेत् / हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम् // ६२
SK
त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् चाष्टद्विधात्मकैः / द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ // ६३
SK
ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात् पूर्वतस्तथा / भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् // ६४
SK
तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः / जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः // ६५
SK
तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् / बहिर्मुखं भ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् // ६६
SK
तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम् / ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः // ६७
SK
द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः / एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम् // ६८
SK
सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये / तदग्रपार्श्वयोर्जीवात् सूत्रमेकान्तरे धृतम् // ६९
SK
आदिद्वितीयखण्डेन्दुकोणात् कोणान्तमानयेत् / तयोरेवापराज्जीवात् प्रथमार्धेन्दुकोणतः // ७०
SK
तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये / क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः // ७१
SK
षड्विस्तृतं चतुर्दीर्घं तदधोमलसारकम् / वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते // ७२
SK
आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् / हस्तायामं तदर्धं वा विस्तारादपि तत्समम् // ७३
SK
द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु / एकैकभागमानानि कुर्याद्वृत्तानि वेदवत् // ७४
SK
दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश / द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत् // ७५
SK
एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् / एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् // ७६
SK
यत्रैव कुत्रचित्सङ्गस्तत्संबन्धे स्थिरीकृते / तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये // ७७
SK
एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् / द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम् // ७८
SK
कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः / सितं रक्तं तथा पीतं कार्यं केसरजालकम् // ७९
SK
दलानि शुक्लवर्णानि प्रतिवारणया सह / पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः // ८०
SK
सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात् / चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते // ८१
SK
दण्डः स्यान्नीलरक्तेन पीतमामलसारकम् / रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम् // ८२
SK
पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् / द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् // ८३
SK
एकद्वित्रिपुरं तुल्यं सामुद्गमथवोभयम् / कपोलकण्ठशोभोपशोभादिबहुचित्रितम् // ८४
SK
विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् / श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति // ८५
SK
अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम् / भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत् // ८६
SK
मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ / भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः // ८७
SK
तृतीयांशोर्ध्वतो भ्राम्यमूर्ध्वांशं यावदन्ततः / चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः // ८८
SK
तन्मानादूर्ध्वमाभ्राम्य चतुर्थेन नियोजयेत् / ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात् // ८९
SK
क्रमाद्वैपुल्यतः कृत्वा अंशं वै ह्रासयेत् पुनः / अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते // ९०
SK
भागं भागं गृहीत्वा तु उभयोरथ गोचरात् / भ्राम्यं पिप्पलवत् पत्रं वर्तनैषा त्वधो भवेत् // ९१
SK
षोडशांशे लिखेत्पद्मं द्वादशाङ्गुललोपनात् / तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत् // ९२
SK
मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः / सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत् // ९३
SK
कर्णिका पीतला रक्तपीतशुक्लं च केसरम् / दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी // ९४
SK
शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः / शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः // ९५
SK
शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा / अस्योर्ध्वे तु परां दक्षेन्यां वामे चापरां बुधः // ९६
SK
या सा कालान्तका देवी परातीता व्यवस्थिता / ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा // ९७
SK
शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत् / अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा // ९८
SK
भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम् / चतस्रः शक्तयस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा // ९९
SK
एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः / अथ त्रैशिरसे शूलाब्जविधिर्दृष्टोभिलिख्यते // १००
SK
वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः / भूमिं रजांसि करणीं खटिकां मूलतोर्चयेत् // १०१
SK
चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम् / चण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ // १०२
SK
वस्वङ्गुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः / द्वादशाङ्गुलमानेन दण्डमूले तु पीठिका // १०३
SK
दैर्घ्यात्तूच्छ्रायाच्चोर्ध्वे च चतुरङ्गुलमानतः / ऊर्ध्वेप्युच्छ्रायतो वेदाङ्गुला दैर्घ्याद्दशाङ्गुला // १०४
SK
शूलमूलगतं पीठीमध्यं खाब्धिसमाङ्गुलम् / कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः // १०५
SK
अष्टाङ्गुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः / शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत् // १०६
SK
वेदी मध्ये प्रकर्तव्या उभयोश्च षडङ्गुलम् / द्वादशाङ्गुलदीर्घा तु उभयोः पार्श्वयोस्तथा // १०७
SK
चतुरङ्गुलमुच्छ्रायान्मूले वेदीं प्रकल्पयेत् / उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा // १०८
SK
भ्रामयेत् खटिकासूत्रं कटिं कुर्याद्द्विरङ्गुलाम् / वैपुल्याद्दैर्घ्यतो देवि चतुरङ्गुलमानतः // १०९
SK
यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत् / मध्ये शूलाग्रवैपुल्यादङ्गुलश्च अधोर्ध्वतः // ११०
SK
चतुरङ्गुलमानेन वैपुल्यात्तु षडङ्गुला / उच्छ्रायात्तु ततः कार्या गण्डिका तु स्वरूपतः // १११
SK
पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते / शूलाग्रमङ्गुलं कार्यं सुतीक्ष्णं तु षडङ्गुलम् // ११२
SK
अरामध्यं प्रकर्तव्यमराधस्तु षडङ्गुलम् / चतुरङ्गुलनिम्नं तु मध्यं तु परिकल्पयेत् // ११३
SK
पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः / कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च // ११४
SK
कजत्रयं तु शूलाग्रं वेदांशैर्द्वादशाङ्गुलम् / क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम् // ११५
SK
चक्रत्रयं वातपुरं पद्ममष्टाङ्गुलारकम् / विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत् // ११६
SK
त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत् / सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत् // ११७
SK
शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत् / रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम् // ११८
SK
शुक्लेन व्योमरेखा स्यात् सा स्थौल्यादङ्गुलं बहिः / तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणातः // ११९
SK
वैपुल्यत्रिगुणं दैर्घ्यात् प्राकारं चतुरश्रकम् / समन्ततोथ दिक्षु स्युर्द्वाराणि करमात्रतः // १२०
SK
त्रिधा विभज्य क्रमशो द्वादशाङ्गुलमानतः / कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः // १२१
SK
प्राकारं चतुरश्रं तु सभूरेखासमन्वितम् / सितरक्तपीतकृष्णै रजोभिः कारयेत्ततः // १२२
SK
रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत् / अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत् // १२३
SK
अरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः / अनाहतपदव्याप्तिः कुण्डल्या उदयः परः // १२४
SK
हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे / नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम् // १२५
SK
शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत् / उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः // १२६
SK
शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम् / प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि // १२७
SK
अस्पन्दकरणं कृत्वा एकदा स्पन्दवर्तनम् / मूलमानन्दमापीड्य शक्तित्रयपदं विशेत् // १२८
SK
तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः / समस्ताध्वसमायोगात् षोढाध्वव्याप्तिभावतः // १२९
SK
समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः / षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत् // १३०
SK
विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे / कार्योस्मिन् पूजिते यत्र सर्वेश्वरपदं भजेत् // १३१
SK
स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः / नाडिकाः स्थापयेत्पूर्वं मुहूर्तं परिमाणतः // १३२
SK
शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा / एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा // १३३
SK
अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते / वंशैर्विषयसंख्यैश्च पद्मं युग्मेन्दुमण्डलम् // १३४
SK
रससंख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम् / वसुसंख्यैर्द्वारवीथावेवं भागपरिक्रमः // १३५
SK
रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात् / मर्माणि च चतुर्दिक्षु मध्याद्द्वारेषु सुन्दरि // १३६
SK
वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च / लोपयेच्चैव मर्माणि अन्तर्नाडिविवर्जितान् // १३७
SK
द्वारप्राकारकोणेषु नेत्रानलशरानृतून् / नाडयो ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः // १३८
SK
वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात् / नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात् // १३९
SK
लोकस्था नाडिका हित्वा नेत्राद्वेदाग्नयः क्रमात् / शरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात् // १४०
SK
नेत्रात् पूर्वगताच्चैव सुमेरुर्द्वारसंज्ञितः / स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ // १४१
SK
मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः / नेत्रादिकांश्च संमार्ज्य मार्गमध्यात् सुशोभने // १४२
SK
ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत् / नेत्रीकृतान्वसून् पत्रं नेत्रं सकृद्विभाजितम् // १४३
SK
वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत् / वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि // १४४
SK
ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत् / सागरे नेत्रकं लोप्यं नाडयः पूर्वदिग्गताः // १४५
SK
भूतनेत्रगतान्मूर्ध्ना नेत्राद्द्विवह्निदृक्त्रिकात् / सौम्यगात् पीठकोणेषु लोपयेत चतुर्ष्वपि // १४६
SK
दलानि कार्याणि सितैः केसरं रक्तपीतलैः / कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः // १४७
SK
व्योमरेखा तु सुसिता वर्तुलाब्जान्तनीलभाः / पीठं रेखात्रयोपेतं सितलोहितपीतलम् // १४८
SK
स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः / वीथी विद्रुमसंकाशा स्वदिक्ष्वस्त्राणि बाह्यतः // १४९
SK
इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम् / दण्डं हाटकसंकाशं वक्त्रं तस्यातिलोहितम् // १५०
SK
नीलद्युतिसमं खड्गं पाशं वत्सकसप्रभम् / ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम् // १५१
SK
गदा हेमनिभात्युग्रा नानारत्नविभूषिता / शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम् // १५२
SK
तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम् / चक्रं हेमनिभं दीप्तमरा वैडूर्यसंनिभाः // १५३
SK
अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत् / मन्दिरं देवदेवस्य सर्वकामफलप्रदम् // १५४
SK
श्रीसिद्धायां शूलविधिः प्राक् क्षेत्रे चतुरश्रिते / हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत् // १५५
SK
मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत् / नवभिः कोष्ठकैर्युक्तं ततोयं विधिरुच्यते // १५६
SK
मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु / अधस्ताद्भ्रामयेत्सूत्रं शशाङ्कशकलाकृति // १५७
SK
उभयतो भ्रामयेत्तत्र यथाग्रे हाकृतिर्भवेत् / कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम् // १५८
SK
अपरद्वारपूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् / रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत् // १५९
SK
शूलाग्रे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत् / अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम् // १६०
SK
मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत् / मध्ये चोर्ध्वं ततः कुर्यादधस्तादङ्गुलद्वयम् // १६१
SK
रेखाद्वयं पातयेत यथा शूलं भवत्यपि / अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते // १६२
SK
समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु / मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि // १६३
SK
इत्येष मण्डलविधिः कथितः संक्षेपयोगतो महागुरुभिः /

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya