Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 30: atha śrītantrāloke triṃśamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथ यथोचितमन्त्रकदम्बकं त्रिककुलक्रमयोगि निरूप्यते / तावद्विमर्शानारूढधियां तात्सिद्धये क्रमात् // १
SK
प्रतिबुद्धा हि ते मन्त्रा विमर्शैकस्वभावकाः / स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात् कर्तृतामयाः // २
SK
यमाविशन्ति चाचार्यं तं तादात्म्यनिरूढितः / स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् // ३
SK
आधारशक्तौ ह्रीं पृथ्वीप्रभृतौ तु चतुष्टये / क्ष्लां क्ष्वीं वं क्षमिति प्राहुः क्रमाद्वर्णचतुष्टयम् // ४
SK
हं नाले यं तथा रं लं वं धर्मादिचतुष्टये / ऋं ॠं ऌं ऌऌं चतुष्के च विपरीतक्रमाद्भवेत् // ५
SK
ॐ औं हस्त्रयमित्येतद्विद्यामायाकलात्रये / अनुस्वारविसर्गौ च विद्येशेश्वरतत्त्वयोः // ६
SK
कादिभान्ताः केसरेषु प्राणोष्टस्वरसंयुतः / सबिन्दुको दलेष्वष्टस्वथ स्वं नाम दीपितम् // ७
SK
शक्तीनां नवकस्य स्याच्छषसा मण्डलत्रये / सबिन्दुकाः क्ष्मं प्रेते ज्रं शूलशृङ्गेषु कल्पयेत् // ८
SK
पृथगासनपूजायां क्रमान्मन्त्रा इमे स्मृताः / संक्षेपपूजने तु प्रागाद्यमन्त्यं च बीजकम् // ९
SK
आदायाधारशक्त्यादिशूलशृङ्गान्तमर्चयेत् / अग्निमारुतपृथ्व्यम्बुसषष्ठस्वरबिन्दुकम् // १०
SK
रतिशेखरमन्त्रोस्य वक्त्राङ्गं ह्रस्वदीर्घकैः / अग्निप्राणाग्निसंहारकालेन्द्राम्बुसमीरणाः // ११
SK
सषष्ठस्वरबिर्न्द्वधचन्द्राद्याः स्युर्नवात्मनः / बिन्दुनादादिका व्याप्तिः श्रीमत्त्रैशिरसे मते // १२
SK
क्षेपाक्रान्तिचिदुद्बोधदीपनस्थापनान्यथ / तत्संवित्तिस्तदापत्तिरिति संज्ञाभिशब्दिता // १३
SK
एतावती महाव्याप्तिर्मूर्तित्वेनात्र कीर्तिता / परिणामस्तल्लयश्च नमस्कारः स उच्यते // १४
SK
एष त्र्यर्णोज्झितोधस्ताद्दीर्घैः षड्भिः स्वरैर्युतः / षडङ्गानि हृदादीनि वक्त्राण्यस्य च कल्पयेत् // १५
SK
क्षयरवलबीजैस्तु दीप्तैर्बिन्दुविभूषितैः / झकारसंहृतिप्राणाः सषष्ठस्वरबिन्दुकाः // १६
SK
एष भैरवसद्मावश्चन्द्रार्धादिविभूषितः / मातृकामालिनीमन्त्रौ प्रागेव समुदाहृतौ // १७
SK
ॐकारोथ चतुर्थ्यन्ता संज्ञा नतिरिति क्रमात् / गणेशादिषु मन्त्रः स्याद्बीजं येषु न चोदितम् // १८
SK
नामाद्यक्षरमाकारबिन्दुचन्द्रादिदीपितम् / सर्वेषामेव बीजानां तच्चतुर्दशषष्ठयुक् // १९
SK
आमन्त्रितान्यघोर्यादित्रितयस्य क्रमोदितैः / बीजैर्विसर्गिणी माया हुं हकारो विसर्गवान् // २०
SK
पुनर्देवीत्रयस्यापि क्रमादामन्त्रणत्रयम् / द्वितीयस्मिन्पदेकार एकारस्येह च स्मृतः // २१
SK
ततः शक्तिद्वयामन्त्रो लुप्तं तत्रान्त्यमक्षरम् / हेग्निवर्णावुभौ पञ्चस्वरयुक्तौ परौ पृथक् // २२
SK
अकारयुक्तावस्त्रं हुं ह विसर्गी पुनः शरः / तारेण सह वस्वग्निवर्णार्धार्णद्वयाधिका // २३
SK
एषा परापरादेव्या विद्या श्रीत्रिकशासने / पञ्चषट्पञ्चवेदाक्षिवह्निनेत्राक्षरं पदम् // २४
SK
अघोर्यादौ सप्तके स्यात् पिवन्याः परिशिष्टकम् / प्रत्येकवर्णगोप्युक्तः सिद्धयोगीश्वरीमते // २५
SK
देवताचक्रविन्यासः स बहुत्वान्न लिप्यते / माया विसर्गिणी हुं फट् चेति मन्त्रोपरात्मकः // २६
SK
परायास्तूक्तसद्व्याप्तिर्जीवः सहचतुर्दशः / सानेकभेदा त्रिशिरःशास्त्रे प्रोक्ता महेशिना // २७
SK
स्वरूपतो विभिन्नापि रचनानेकसङ्कुला / जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः // २८
SK
आधाराधेयभावेन अविनाभावयोगतः / हंसं चामृतमध्यस्थं कालरुद्रविभेदितम् // २९
SK
भुवनेशशिरोयुक्तमनङ्गद्वययोजितम् / दीप्ताद्दीप्ततरं ज्ञेयं षट्चक्रक्रमयोजितम् // ३०
SK
प्राणं दण्डासनस्थं तु गुह्यशक्तीच्छया युतम् / परेयं वाचिकोद्दिष्टा महाज्ञानस्वरूपतः // ३१
SK
स्फुटं भैरवहृज्ज्ञानमिदं त्वेकाक्षरं परम् / अमृतं केवलं खस्थं यद्वा सावित्रिकायुतम् // ३२
SK
शून्यद्वयसमोपेतं पराया हृदयं परम् / युग्मयागे प्रसिद्धं तु कर्तव्यं तत्त्ववेदिभिः // ३३
SK
अन्येप्येकाक्षरा ये तु एकवीरविधानतः / गुप्ता गुप्ततरास्ते तु अंगाभिजनवर्जिताः // ३४
SK
यष्टव्याः साधकेन्द्रैस्तु कुलस्थाः सिद्धिदायकाः / कुलक्रमविधानेन सूक्ष्मविज्ञानयोगतः // ३५
SK
अनुष्ठेयाः सदा देवि स्त्रिया वा पुरुषेण वा / सकारो दीर्घषट्केन युक्तोङ्गान्याननानि तु // ३६
SK
स्यात् स एव परं ह्रस्वपञ्चस्वरखसंयुतः / ॐकारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत् // ३७
SK
प्रणवश्चामृते तेजोमालिनि स्वाहया सह / एकादशाक्षरं ब्रह्मशिरस्तन्मालिनीमते // ३८
SK
वेदवेदनि हूं फट्च प्रणवादियुता शिखा / वज्रिणे वज्रधराय स्वाहेत्य्ॐकारपूर्वकम् // ३९
SK
एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम् / तारो द्विजिह्वः खशरस्वरयुग्जीव एव च // ४०
SK
नेत्रमेतत्प्रकाशात्म सर्वसाधारणं स्मृतम् / तारः श्लीं पशु हुं फत् च तदस्त्रं रसवर्णकम् // ४१
SK
लरटक्षवयैर्दीर्घैः समयुक्तैः सबिन्दुकैः / इन्द्रादयस्तदस्त्राणि ह्रस्वैर्विष्णुप्रजापती // ४२
SK
स्मृतौ तुर्यद्वितीयाभ्यां ह्रस्वाभ्यां पद्मचक्रके / नमः स्वाहा तथा वौषट् हुं वषट् फट् च जातयः // ४३
SK
अङ्गेषु क्रमशः षट्सु कर्मस्वथ तदात्मिकाः / जपे होमे तथाप्याये समुच्चाटेथ शान्तिके // ४४
SK
अभिचारे च मन्त्राणां नमस्कारादिजातयः / अक्षिषण्मुनिवर्गेभ्यो द्वितीयाः सह बिन्दुना // ४५
SK
योन्यर्णेन च मातॄणां सद्मावः कालकर्षिणी / आद्योज्झितो वाप्यन्तेन वर्जितो वाथ संमतः // ४६
SK
जीवः प्राणपुटान्तःस्थः कालानलसमद्युतिः / अतिदीप्तस्तु वामांघ्रिर्भूषितो मूर्ध्नि बिन्दुना // ४७
SK
दक्षजानुगतश्चायं सर्वमातृगणार्चितः / अनेन प्राणिताः सर्वे ददते वाञ्छितं फलम् // ४८
SK
सद्भावः परमो ह्येष मातॄणां भैरवस्य च / तस्मादेनं जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम् // ४९
SK
रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः / यस्मादेषा परा शक्तिर्भेदेनान्येन कीर्तिता // ५०
SK
यावत्यः सिद्धयस्तन्त्रे ताः सर्वाः कुरुते त्वियम् / अङ्गवक्त्राणि चाप्यस्याः प्राग्वत्स्वरनियोगतः // ५१
SK
दण्डो जीवस्त्रिशूलं च दक्षाङ्गुल्यपरस्तनौ / नाभिकण्ठौ मरुद्रुद्रौ विसर्गः सत्रिशूलकः // ५२
SK
सर्वयोगिनिचक्राणामधिपोयमुदाहृतः / अस्याप्युच्चारणादेव संवित्तिः स्यात्पुरोदिता // ५३
SK
महाचण्डेति तु योगेश्वऋ इत्यष्टवर्णकम् / नवार्णेयं गुप्ततरा सद्भावः कालकर्षिणी // ५४
SK
श्रीडामरे महायागे परात्परतरोदिता / सुधाच्छेदकषण्ठाद्यैर्बीजं छेदकमस्वरम् // ५५
SK
अध्यर्धार्णा कालरात्रिः क्षुरिका मालिनीमते / शतावर्तनया ह्यस्या जायते मूर्ध्नि वेदना // ५६
SK
एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत् / नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् // ५७
SK
द्विर्दण्डाग्नी शूलनभःप्राणाश्छेत्त्रनलौ तथा / कूटाग्नी सविसर्गाश्च पञ्चाप्येतेथ पञ्चसु // ५८
SK
व्योमस्विति शिवेनोक्तं तन्त्रसद्भावशासने / छेदिनी क्षुरिकेयं स्याद्यया योजयते परे // ५९
SK
बिन्द्विन्द्वनलकूटाग्निमरुत्षष्ठस्वरैर्युतम् / आपादतलमूर्धान्तं स्मरेदस्त्रमिदं ज्वलत् // ६०
SK
कुञ्चनं चाङ्गुलीनां तु कर्तव्यं चोदनं ततः / जान्वादिपरचक्रान्तं चक्राच्चक्रं तु कुञ्चयेत् // ६१
SK
कथितं सरहस्यं तु सद्योनिर्वाणकं परम् / अथोच्यते ब्रह्मविद्या सद्यःप्रत्ययदायिनी // ६२
SK
शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् / सर्वेषामेव भूतानां मरणे समुपस्थिते // ६३
SK
यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् / या ज्ञानिनोपि संपूर्णकृत्यस्यापि श्रुता सती // ६४
SK
प्राणादिच्छेदजां मृत्युव्यथां सद्यो व्यपोहति / यामाकर्ण्य महामोहविवशोपि क्रमाद्गतः // ६५
SK
प्रबोधं वक्तृसांमुख्यमभ्येति रभसात्स्वयम् / परमपदात्त्वमिहागाः सनातनस्त्वं जहीहि देहान्तम् // ६६
SK
पादाङ्गुष्ठादि विभो निबन्धनं बन्धनं ह्युग्रम् / आर्यावाक्यमिदं पूर्वं भुवनाख्यैः पदैर्भवेत् // ६७
SK
गुल्फान्ते जानुगतं जत्रुस्थं बन्धनं तथा मेढ्रे / जहिहि पुरमग्र्यमध्यं हृत्पद्मात्त्वं समुत्तिष्ठ // ६८
SK
एतावद्भिः पदैरेतदार्यावाक्यं द्वितीयकम् / हंस हयग्रीव विभो सदाशिवस्त्वं परोसि जीवाख्यः // ६९
SK
रविसोमवह्निसङ्घदृबिन्दुदेहो हहह समुत्क्राम / तृतीयमार्यावाक्यं प्राक्संख्यैरेकाधिकैः पदैः // ७०
SK
हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी / मण्डलमध्यनिविष्टः शक्तिमहासेतुकारणमहार्थः // ७१
SK
कमलोभयविनिविष्टः प्रबोधमायाहि देवतादेह / आर्यावाक्यमिदं सार्धं रुद्रसंख्यपदेरितम् // ७२
SK
निःश्वासे त्वपशब्दस्य स्थानेस्त्युप इति ध्वनिः / अज्ञानात्त्वं बद्धः प्रबोधितोत्तिष्ठ देवादे // ७३
SK
एतत्पञ्चममार्यार्धवाक्यं स्यात्सप्तभिः पदैः / व्रज तालुसाह्वयान्तं ह्यौडम्बरघट्टितं महाद्वारम् // ७४
SK
प्राप्य प्रयाहि हंहो हंहो वा वामदेवपदम् / आर्य्यावाक्यमिदं षष्ठं स्याच्चतुर्दशभिः पदैः // ७५
SK
ग्रन्थीश्वर परमात्मन् शान्त महातालुरन्ध्रमासाद्य / उत्क्रम हे देहेश्वर निरञ्जनं शिवपदं प्रयाह्याशु // ७६
SK
आर्यावाक्यं सप्तमं स्यात्तच्चतुर्दशभिः पदैः / प्रभञ्जनस्त्वमित्येवं पाठो निःश्वासशासने // ७७
SK
आक्रम्य मध्यमार्गं प्राणापानौ समाहृत्य / धर्माधर्मौ त्यक्त्वा नारायण याहि शान्तान्तम् // ७८
SK
आर्यावाक्यमिदं प्रोक्तमष्टमं नवभिः पदैः / हे ब्रह्मन् हे विष्णो हे रुद्र शिवोसि वासुदेवस्त्वम् // ७९
SK
अग्नीषोमसनातनमृत्पिण्डं जहिहि हे महाकाश / एतद्भुवनसंख्यातैरार्य्यावाक्यं प्रकीर्तितम् // ८०
SK
सनात्म त्रिपिण्डमिति महाकोशमिति स्थितम् / पदत्रयं तु निःश्वासमुकुटोत्तरकादिषु // ८१
SK
अङ्गुष्ठमात्रममलमावरणं जहिहि हे महासूक्ष्म / आर्य्यावाक्यमिदं षड्भिः पदैर्दशममुच्यते // ८२
SK
अलं द्विरिति सूक्ष्मं चेत्येवं श्रीमुकुटोत्तरे / पुरुषस्त्वं प्रकृतिमयैर्बद्धोहङ्कारतन्तुना बन्धैः // ८३
SK
अभवाभव नित्योदित परमात्मंस्त्यज सरागमध्वानम् / एतत्त्रयोदशपदं स्यादार्यावाक्यमुत्तमम् // ८४
SK
ह्रींहूंमन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् / आर्यार्धवाक्यमेतत्स्याद् द्वादशं षट्पदं परम् // ८५
SK
तदिदं गुणभूतमयं त्यज स्व षोट्कोशिकं पिण्डम् / स्यात् त्रयोदशमार्यार्धं पदैः सप्तभिरीदृशम् // ८६
SK
मा देहं भूतमयं प्रगृह्यतां शाश्वतं महादेहम् / आर्यार्धवाक्यं तावद्भिः पदैरेतच्चतुर्दशम् // ८७
SK
मण्डलममलमनन्तं त्रिधा स्थितं गच्छ भित्त्वैतत् / आर्यार्धवाक्यमष्टाभिः पदैः पञ्चदशं त्विदम् // ८८
SK
सकलेयं ब्रह्मविद्या स्यात्पञ्चदशभिः स्फुटैः / वाक्यैः पञ्चाक्षरैस्त्वस्या निष्कला परिकीर्त्यते // ८९
SK
प्रतिवाक्यं ययाद्यन्तयोजिता परिपठ्यते / तारो माया वेदकलो मातृतारो नवात्मकः // ९०
SK
इति पञ्चाक्षराणि स्युः प्रोक्तव्याप्त्यनुसारतः / बिन्दुप्राणामृतजलं मरुत्षष्ठस्वरान्वितम् // ९१
SK
एतेन शक्त्युच्चारस्थबीजेनालभ्यते पशुः / कृतदीक्षाविधिः पूर्वं ब्रह्मघ्नोपि विशुद्ध्यति // ९२
SK
लघुत्वेन तुलाशुद्धिः सद्यःप्रत्ययकारिणी / तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् // ९३
SK
शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम् / षष्ठप्राणत्रिकूटोर्ध्वबाहुशूलाख्यबिन्दुभिः // ९४
SK
अनच्कनासाधोवक्त्रचन्द्रखण्डैश्च मण्डितम् / हृदयं भैरवाख्यं तु सर्वसंहारकारकम् // ९५
SK
अग्निमण्डलमध्यस्थभैरवानलतापिताः / वशमायान्ति शाकिन्यः स्थानमेतेन चेद्दहेत् // ९६
SK
विसर्जयेत्ताः प्रथममन्यथा च्छिद्रयन्ति ताः / ह्रीं क्लीं व्लें क्लें एभिर्वर्णैर्द्वादशस्वरभूषितैः // ९७
SK
प्रियमेलापनं नाम हृदयं सम्पुटं जपेत् / प्रत्येकमथवा द्वाभ्यां सर्वैर्वा विधिरुत्तमः // ९८
SK
तुलामेलकयोगः श्रीतन्त्रसद्भावशासने / य उक्तः शम्भुनाथेन स मया दर्शितः क्रमात् // ९९
SK
अथ वित्तविहीनानां प्रपन्नानां च तत्त्वतः / देशकालादिदोषेण न तथाध्यवसायिनाम् // १००
SK
प्रकर्तव्या यथा दीKषा श्रीसन्तत्यागमोदिता / कथ्यते हाटकेशानपातालाधिपचोदिता // १०१
SK
श्रीनाथ आर्य भगवन्नेतत्त्रितयं हि कन्द आधारे / वरुणो मच्छन्दो भगवत्त इति त्रयमिदं हृदये // १०२
SK
धर्मादिवर्गसंज्ञाश्चत्वारः कण्ठदेशगाः पूज्याः / ह्रींश्रींपूर्वाः सर्वे सम्बोधजुषश्च पादशब्दान्ताः // १०३
SK
मूर्धतले विद्यात्रयमुक्तं भाव्यथ मनोभियोगेन / कुसुमैरानन्दैर्वा भावनया वापि केवलया // १०४
SK
गुरुणा तत्त्वविदा किल शिष्यो यदि मोक्षमात्रकृतहृदयः / मोक्षैकदानचतुरा दीक्षा सेयं परोपनिषदुक्ता // १०५
SK
एतद्दीक्षादीक्षित एतद्विद्यात्रयं स्मरन् हृदये / बाह्यार्चादि विनैव हि व्रजति परं धाम देहान्ते // १०६
SK
प्रणवो माया बिन्दुर्वर्णत्रयमादितः कुर्यात् / पदपञ्चकस्य संबोधनयुक्तस्याग्निदयितान्ते // १०७
SK
सिद्धसाधनि तत्पूर्वं शब्दब्रह्मस्वरूपिणि / समस्तबन्धशब्देन सहितं च निकृन्तनि // १०८
SK
बोधनि शिवसद्भावजनन्यामन्त्रितं च तत् / पञ्चाष्टरन्ध्रत्र्यष्टार्णक्रमेण पदपञ्चकम् // १०९
SK
खपञ्चार्णा परब्रह्मविद्येयं मोक्षदा शिवा / अनुत्तरेच्छे घान्तश्च सत्रयोदशसुस्वरः // ११०
SK
अस्य वर्णत्रयस्यान्ते त्वन्तःस्थानां चतुष्टयम् / वर्गाद्यश्वौ त्र्यस्रबिन्दुयुक् पान्तोर्णत्रयादतः // १११
SK
महाहाटकशब्दाद्यमीश्वरीत्यर्णसप्तकम् / आमन्त्रितं क्षमस्वेति त्र्यर्णं पापान्तकारिणि // ११२
SK
षडर्णं पापशब्दादिविमोहनिपदं ततः / पापं हन धुन द्विर्द्विर्दशार्णं पदमीदृशम् // ११३
SK
पञ्चम्यन्तं षडर्णं स्याद्रुद्रशक्तिवशादिति / तत एकाक्षरं यत्तद्विसर्गब्रह्म कीर्तितम् // ११४
SK
तदनच्कतकारेण सहैकीभावतः पठेत् / रन्ध्राब्धिवर्णा विद्येयं दीक्षाविद्येति कीर्तिता // ११५
SK
मायार्णञ्च परे ब्रह्मे चतुर्विद्ये पदत्रयम् / अष्टार्णमथ पञ्चार्णं योगधारिणिसंज्ञितम् // ११६
SK
आत्मान्तरात्मपरमात्मरूपं च पदत्रयम् / एकारान्तं बोधनस्थं दशार्णं परिकीर्तितम् // ११७
SK
रुद्रशक्तीति वेदार्णं स्याद्रुद्रदयितेथ मे / पापं दहदहेत्येषा द्वादशार्णा चतुष्पदी // ११८
SK
सौम्ये सदाशिवे युग्मं षट्कं बिन्द्विषुसावहा / सार्धवर्णचतुष्कं तदित्येषा समयापहा // ११९
SK
विद्या सार्धार्णखशरसंख्या सा पारमेश्वरी / एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् // १२०
SK
यः साक्षादभजच्छ्रीमाञ्श्रीकण्ठो मानुषीं तनुम् / अत्र वीर्यं पुरैवोक्तं सर्वत्रानुसरेद्गुरुः // १२१
SK
अर्थबीजप्रवेशान्तरुच्चाराद्यनुसारतः / नहि तत्किंचनाप्यस्ति यत्पुरा न निरूपितम् // १२२
SK
निष्फला पुनरुक्तिस्तु नास्मभ्यं जातु रोचते / इत्येवं मन्त्रविद्यादिस्वरूपमुपवर्णितम् // १२३

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya