3.0 SK अथ परौपयिकं प्रणिगद्यते पदमनुत्तरमेव महेशितुः // ०ब्
3.1 SK प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः / तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते // १
3.2 SK यः प्रकाशः स सर्वस्य प्रकाशत्वं प्रयच्छति / न च तद्व्यतिरेक्यस्ति विश्वं सद्वावभासते // २
3.3 SK अतोसौ परमेशानः स्वात्मव्योमन्यनर्गलः / इयतः सृष्टिसंहाराडम्बरस्य प्रदर्शकः // ३
3.4 SK निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः / अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः // ४
3.5 SK सदृशं भाति नयनदर्पणाम्बरवारिषु / तथा हि निर्मले रूपे रूपमेवावभासते // ५
3.6 SK प्रच्छन्नरागिणी कान्तप्रतिबिम्बितसुन्दरम् / दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि न तृप्यति // ६
3.7 SK न हि स्पर्शोस्य विमलो रूपमेव तथा यतः / नैर्मल्यं चातिनिविडसजातीयैकसंगतिः // ७
3.8 SK स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या / अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् // ८
3.9 SK नैर्मल्यं मुख्यमेकस्य संविन्नाथस्य सर्वतः / अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया // ९
3.10 SK भावानां यत्प्रतीघाति वपुर्मायात्मकं हि तत् / तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् // १०
3.11 SK तदेवमुभयाकारमवभासं प्रकाशयन् / विभाति वरदो बिम्बप्रतिबिम्बदृशाखिले // ११
3.12 SK यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम् / विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति स पृच्छ्यते // १२
3.13 SK देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः / तेनैव तेजसा ज्ञत्वे कोर्थः स्याद्दर्पणेन तु // १३
3.14 SK विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः / रूपं दृश्येत वदने निजे न मकुरान्तरे // १४
3.15 SK स्वमुखे स्पर्शवच्चैतद्रूपं भायान्ममेत्यलम् / न त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः // १५
3.16 SK रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः / न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् // १६
3.17 SK न्यग्भावो ग्राह्यताभावात्तदभावोप्रमाणतः / स चार्थसंगमाभावात्सोप्यादर्शेनवस्थितेः // १७
3.18 SK अत एव गुरुत्वादिर्धर्मो नैतस्य लक्ष्यते / नह्यादर्शे संस्थितोसौ तद्दृष्टौ स उपायकः // १८
3.19 SK तस्मात्तु नैष भेदेन यद्भाति तत उच्यते / आधारस्तत्र तूपाया दीपदृक्संविदः क्रमात् // १९
3.20 SK दीपचक्षुर्विबोधानां काठिन्याभावतः परम् / सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् // २०
3.21 SK एतच्च देवदेवेन दर्शितं बोधवृद्धये / मूढानां वस्तु भवति ततोप्यन्यत्र नाप्यलम् // २१
3.22 SK प्रतीघाति स्वतन्त्रं नो न स्थाय्यस्थायि चापि न / स्वच्छस्यैवैष कस्यापि महिमेति कृपालुना // २२
3.23 SK न देश्ॐ नो रूपं न च समययोगो न परिमा न चान्योन्यासंगो न च तदपहानिर्न घनता / न चावस्तुत्वं स्यान्न च किमपि सारं निजमिति ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः // २३
3.24 SK इत्थं प्रदर्शितेमुत्र प्रतिबिम्बनवर्त्मनि / शब्दस्य प्रतिबिम्बं यत् प्रतिश्रुत्केति भण्यते // २४
3.25 SK न चासौ शब्दजः शब्द आगच्छत्त्वेन संश्रवात् / तेनैव वक्त्रा दूरस्थैः शब्दस्याश्रवणादपि // २५
3.26 SK पिठिरादिपिधानांशविशिष्टछिद्रसंगतौ / चित्रत्वाच्चास्य शब्दस्य प्रतिबिम्बं मुखादिवत् // २६
3.27 SK इदमन्यस्य वेद्यस्य रूपमित्यवभासते / यथादर्शे तथा केनाप्युक्तमाकर्णये त्विति // २७
3.28 SK नियमाद्बिम्बसांमुख्यं प्रतिबिम्बस्य यत्ततः / तन्मध्यगाः प्रमातारः शृण्वन्ति प्रतिशब्दकम् // २८
3.29 SK मुख्यग्रहं त्वपि विना प्रतिबिम्बग्रहो भवेत् / स्वपश्चात्स्थं प्रियं पश्येट्टङ्कितं मुकुरे वपुः // २९
3.30 SK सांमुख्यं चोच्यते तादृग्दर्पणाभेदसंस्थितेः // ३०
3.31 SK अतः कूपादिपिठिराकाशे तत्प्रतिबिम्बितम् / वक्त्राकाशं सशब्दं सद्भाति तत्परवक्तवत् // ३१
3.32 SK यथा चादर्शपाश्चात्यभागस्थो वेत्ति नो मुखम् / तथा तथाविधाकाशपश्चात्स्थो वेत्ति न ध्वनिम् // ३२
3.33 SK शब्दो न चानभिव्यक्तः प्रतिबिम्बति तद्ध्रुवम् / अभिव्यक्तिश्रुती तस्य समकालं द्वितीयके // ३३
3.34 SK क्षणे तु प्रतिबिम्बत्वं श्रुतिश्च समकालिका / तुल्यकालं हि नो हस्ततच्छायारूपनिश्चयः // ३४
3.35 SK इत्थं प्रदर्शितेमुत्र प्रतिबिम्बसतत्त्वके / प्रकृतं ब्रूमहे तत्र प्रतिबिम्बनमर्हति // ३५
3.36 SK शब्दो नभसि सानन्दे स्पर्शधामनि सुन्दरः / स्पर्शोन्योपि दृढाघातशूलशीतादिकोद्भवः / परस्थः प्रतिबिम्बत्वात्स्वदेहोद्धूलनाकरः // ३६
3.37 SK न चैष मुख्यस्तत्कार्यपारम्पर्याप्रकाशनात् // ३७
3.38 SK एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः // ३८
3.39 SK यथा च रूपं प्रतिबिम्बितं दृशोर्न चक्षुषान्येन विना हि लक्ष्यते / तथा रसस्पर्शनसौरभादिकं न लक्ष्यतेक्षेण विना स्थितं त्वपि // ३९
3.40 SK न चान्तरे स्पर्शनधामनि स्थितं बहिःस्पृशोन्याक्षधियः स गोचरः // ४०
3.41 SK अतोन्तिकस्थस्वकतादृगिन्द्रियप्रयोजनान्तःकरणैर्यदा कृता / तदा तदात्तं प्रतिबिम्बमिन्द्रिये स्वकां क्रियां सूयत एव तादृशीम् // ४१
3.42 SK न तु स्मृतान्मानसगोचरादृता भवेत्क्रिया सा किल वर्तमानतः / अतः स्थितः स्पर्शवरस्तदिन्द्रिये समागतः सन्विदितस्तथाक्रियः // ४२
3.43 SK असंभवे बाह्यगतस्य तादृशः स्व एव तस्मिन्प्रतिबिम्बितस्तथा / करोति तां स्पर्शवरः सुखात्मिकां स चापि कस्यामपि नाडिसंततौ // ४३
3.44 SK तेन संवित्तिमकुरे विश्वमात्मानमर्पयत् / नाथस्य वदतेमुष्य विमलां विश्वरूपताम् // ४४
3.45 SK यथा च गन्धरूपस्पृग्रसाद्याः प्रतिबिम्बिताः / तदाधारोपरागेण भान्ति खङ्गे मुखादिवत् // ४५
3.46 SK तथा विश्वमिदं बोधे प्रतिबिम्बितमाश्रयेत् / प्रकाशत्वस्वतन्त्रत्वप्रभृतिं धर्मविस्तरम् // ४६
3.47 SK यथा च सर्वतः स्वच्छे स्फटिके सर्वतो भवेत् / प्रतिबिम्बं तथा बोधे सर्वतः स्वच्छताजुषि // ४७
3.48 SK अत्यन्तस्वच्छता सा यत्स्वाकृत्यनवभासनम् / अतः स्वच्छतमो बोधो न रत्नं त्वाकृतिग्रहात् // ४८
3.49 SK प्रतिबिम्बं च बिम्बेन बाह्यस्थेन समर्प्यते / तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम् // ४९
3.50 SK यद्वापि कारणं किंचिद्बिम्बत्वेनाभिषिच्यते / तदपि प्रतिबिम्बत्वमेति बोधेन्यथा त्वसत् // ५०
3.51 SK इत्थमेतत्स्वसंवित्तिदृढन्यायास्त्ररक्षितम् / साम्राज्यमेव विश्वत्र प्रतिबिम्बस्य जृम्भते // ५१
3.52 SK ननु बिम्बस्य विरहे प्रतिबिम्बं कथं भवेत् / किं कुर्मो दृश्यते तद्धि ननु तद्बिम्बमुच्यताम् // ५२
3.53 SK नैवं तल्लक्षणाभावाद्बिम्बं किल किमुच्यते / अन्यामिश्रं स्वतन्त्रं सद्भासमानं मुखं यथा // ५३
3.54 SK स्वरूपानपहानेन पररूपसदृक्षताम् / प्रतिबिम्बात्मतामाहुः खड्गादर्शतलादिवत् // ५४
3.55 SK उक्तं च सति बाह्येपि धीरेकानेकवेदनात् / अनेकसदृशाकारा न त्वनेकेति सौगतैः // ५५
3.56 SK नन्वित्थं प्रतिबिम्बस्य लक्षणं किं तदुच्यते / अन्यव्यामिश्रणायोगात्तद्भेदाशक्यभासनम् / प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा // ५६
3.57 SK बोधमिश्रमिदं बोधाद्भेदेनाशक्यभासनम् / परतत्त्वादि बोधे किं प्रतिबिम्बं न भण्यते // ५७
3.58 SK लक्षणस्य व्यवस्थैषाकस्माच्चेद्बिम्बमुच्यताम् / प्राज्ञा वस्तुनि युज्यन्ते न तु सामयिके ध्वनौ // ५८
3.59 SK ननु न प्रतिबिम्बस्य विना बिम्बं भवेत्स्थितिः / किं ततः प्रतिबिम्बे हि बिम्बं तादात्म्यवृत्ति न // ५९
3.60 SK अतश्च लक्षणस्यास्य प्रोक्तस्य तदसंभवे / न हानिर्हेतुमात्रे तु प्रश्नोयं पर्यवस्यति // ६०
3.61 SK तत्रापि च निमित्ताख्ये नोपादाने कथंचन / निमित्तकारणानां च कदाचित्क्वापि संभवः // ६१
3.62 SK अत एव पुरोवर्तिन्यालोके स्मरणादिना / निमित्तेन घनेनास्तु संक्रान्तदयिताकृतिः // ६२
3.63 SK अन्यथा संविदारूढा कान्ता विच्छेदयोगिनी / कस्माद्भाति न वै संविद् विच्छेदं पुरतो गता // ६३
3.64 SK अत एवान्तरं किंचिद्धीसंज्ञं भवतु स्फुटम् / यत्रास्य विच्छिदा भानं संकल्पस्वप्नदर्शने // ६४
3.65 SK अतो निमित्तं देवस्य शक्तयः सन्तु तादृशे / इत्थं विश्वमिदं नाथे भैरवीयचिदम्बरे / प्रतिबिम्बमलं स्वच्छे न खल्वन्यप्रसादतः // ६५
3.66 SK अनन्यापेक्षिता यास्य विश्वात्मत्वं प्रति प्रभोः / तां परां प्रतिभां देवीं संगिरन्ते ह्यनुत्तराम् // ६६
3.67 SK अकुलस्यास्य देवस्य कुलप्रथनशालिनी / कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः // ६७
3.68 SK तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः / आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते // ६८
3.69 SK परापरात्परं तत्त्वं सैषा देवी निगद्यते / तत्सारं तच्च हृदयं स विसर्गः परः प्रभुः // ६९
3.70 SK देवीयामलशास्त्रे सा कथिता कालकर्षिणी / महाडामरके यागे श्रीपरा मस्तके तथा // ७०
3.71 SK श्रीपूर्वशास्त्रे सा मातृसद्भावत्वेन वर्णिता / संघट्टेस्मिंश्चिदात्मत्वाद्यत्तत्प्रत्यवमर्शनम् // ७१
3.72 SK इच्छाशक्तिरघोराणां शक्तीनां सा परा प्रभुः / सैव प्रक्षुब्धरूपा चेदीशित्री संप्रजायते // ७२
3.73 SK तदा घोराः परा देव्यो जाताः शैवाध्वदैशिकाः / स्वात्मप्रत्यवमर्शो यः प्रागभूदेकवीरकः // ७३
3.74 SK ज्ञातव्यविश्वोन्मेषात्मा ज्ञानशक्तितया स्थितः / इयं परापरा देवी घोरां या मातृमण्डलीम् // ७४
3.75 SK सृजत्यविरतं शुद्धाशुद्धमार्गैकदीपिकाम् / ज्ञेयांशः प्रोन्मिषन्क्षोभं यदैति बलवत्त्वतः // ७५
3.76 SK ऊनताभासनं संविन्मात्रत्वे जायते तदा / रूढं तज्ज्ञेयवर्गस्य स्थितिप्रारम्भ उच्यते // ७६
3.77 SK रूढिरेषा विबोधाब्धेश्चित्राकारपरिग्रहः / इदं तद्बीजसंदर्भबीजं चिन्वन्ति योगिनः // ७७
3.78 SK इच्छाशक्तिर्द्विरूपोक्ता क्षुभिताक्षुभिता च या / इष्यमाणं हि सा वस्तुद्वैरूप्येणात्मनि श्रयेत् // ७८
3.79 SK अचिरद्युतिभासिन्या शक्त्या ज्वलनरूपया / इष्यमाणसमापत्तिः स्थैर्येणाथ धरात्मना // ७९
3.80 SK उन्मेषशक्तावस्त्येतज्ज्ञेयं यद्यपि भूयसा / तथापि विभवस्थानं सा न तु प्राच्यजन्मभूः // ८०
3.81 SK इच्छाशक्तेरतः प्राहुश्चातूरूप्यं परामृतम् / क्षोभान्तरस्यासद्भावान्नेदं बीजं च कस्यचित् // ८१
3.82 SK प्रक्षोभकत्वं बीजत्वं क्षोभाधारश्च योनिता / क्षोभकं संविदो रूपं क्षुभ्यति क्षोभयत्यपि // ८२
3.83 SK क्षोभः स्याज्ज्ञेयधर्मत्वं क्षोभणा तद्बहिष्कृतिः / अन्तःस्थविश्वाभिन्नैकबीजांशविसिसृक्षुता // ८३
3.84 SK क्षोभोतदिच्छे तत्त्वेच्छाभासनं क्षोभणां विदुः / यदैक्यापत्तिमासाद्य तदिच्छा कृतिनी भवेत् // ८४
3.85 SK क्षोभाधारमिमं प्राहुः श्रीसोमानन्दपुत्रकाः / संविदामीषणादीनामनुद्भिन्नविशेषकम् // ८५
3.86 SK यज्ज्ञेयमात्रं तद्बीजं यद्योगाद्बीजता स्वरे / तस्य बीजस्य सैवोक्ता विसिसृक्षा य उद्भवः / यतो ग्राह्यमिदं भास्यद्भिन्नकल्पं चिदात्मनः // ८६
3.87 SK एष क्षोभः क्षोभणा तु तूष्णींभूतान्यमातृगम् / हठाद्यदौदासीन्यांशच्यावनं संविदो बलात् // ८७
3.88 SK जातापि विसिसृक्षासौ यद्विमर्शान्तरैक्यतः / कृतार्था जायते क्षोभाधारोत्रैतत्प्रकीर्तितम् // ८८
3.89 SK ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमिच्छति / विश्वबीजादतः सर्व बाह्यं बिम्बं विवर्त्स्यति // ८९
3.90 SK क्षोभ्यक्षोभकभावस्य सतत्त्वं दर्शितं मया / श्रीमन्महेश्वरेणोक्तं गुरुणा यत्प्रसादतः // ९०
3.91 SK प्रकृतं ब्रूमहे नेदं बीजं वर्णचतुष्टयम् / नापि योनिर्यतो नैतत्क्षोभाधारत्वमृच्छति // ९१
3.92 SK आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् / इत्थं प्रागुदितं यत्तत्पञ्चकं तत्परस्परम् // ९२
3.93 SK उच्छलद्विविधाकारमन्योन्यव्यतिमिश्रणात् / योनुत्तरः परः स्पन्दो यश्चानन्दः समुच्छलन् // ९३
3.94 SK ताविच्छोन्मेषसंघट्टाद्गच्छतोतिविचित्रताम् / अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते // ९४
3.95 SK त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् / अनुत्तरानन्दशक्ती तत्र रूढिमुपागते // ९५
3.96 SK त्रिकोणद्वित्वयोगेन व्रजतः षडरस्थितिम् / त एवोन्मेषयोगेपि पुनस्तन्मयतां गते // ९६
3.97 SK क्रियाशक्तेः स्फुटं रूपमभिव्यङ्क्तः परस्परम् / इच्छोन्मेषगतः क्षोभो यः प्रोक्तस्तद्गतेरपि // ९७
3.98 SK ते एव शक्ती ताद्रूप्यभागिन्यौ नान्यथास्थिते / नन्वनुत्तरतानन्दौ स्वात्मना भेदवर्जितौ // ९८
3.99 SK कथमेतावतीमेनां वैचित्रीं स्वात्मनि श्रितौ / शृणु तावदयं संविन्नाथोपरिमितात्मकः // ९९
3.100 SK अनन्तशक्तिवैचित्र्यलयोदयकलेश्वरः / अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः // १००
3.101 SK महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्धटादिवत् / परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् // १०१
3.102 SK जडाद्विलक्षणो बोधो यतो न परिमीयते / तेन बोधमहसिन्धोरुल्लासिन्यः स्वशक्तयः // १०२
3.103 SK आश्रयन्त्यूर्मय इव स्वात्मसंघट्टचित्रताम् / स्वात्मसंघट्टवैचित्र्यं शक्तीनां यत्परस्परम् // १०३
3.104 SK एतदेव परं प्राहुः क्रियाशक्तेः स्फुटं वपुः / अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके // १०४
3.105 SK त्रिशूलत्वमतः प्राह शास्ता श्रीपूर्वशासने / निरञ्जनमिदं चोक्तं गुरुभिस्तत्त्वदर्शिभिः // १०५
3.106 SK शक्तिमानञ्ज्यते यस्मान्न शक्तिर्जातु केनचित् / इच्छा ज्ञानं क्रिया चेति यत्पृथक्पृथगञ्ज्यते // १०६
3.107 SK तदेव शक्तिमत्स्वैः स्वैरिष्यमाणादिकैः स्फुटम् / एतत्त्रितयमैक्येन यदा तु प्रस्फुरेत्तदा // १०७
3.108 SK न केनचिदुपाधेयं स्वस्वविप्रतिषेधतः / लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् / यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः // १०८
3.109 SK इत्थं परामृतपदादारभ्याष्टकमीदृशम् / ब्राह्म्यादिरूपसंभेदाद्यात्यष्टाष्टकतां स्फुटम् // १०९
3.110 SK अत्रानुत्तरशक्तिः सा स्वं वपुः प्रकटस्थितम् / कुर्वन्त्यपि ज्ञेयकलाकालुष्याद्विन्दुरूपिणी // ११०
3.111 SK उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि / अविभागः प्रकाशो यः स बिन्दुः परमो हि नः // १११
3.112 SK तत्त्वरक्षाविधाने च तदुक्तं परमेशिना / हृत्पद्ममण्डलान्तःस्थो नरशक्तिशिवात्मकः // ११२
3.113 SK बोद्धव्यो लयभेदेन विन्दुर्विमलतारकः / योसौ नादात्मकः शब्दः सर्वप्राणिष्ववस्थितः // ११३
3.114 SK अध+ऊर्ध्वविभागेन निष्क्रियेणावतिष्ठते / ह्लादतैक्ष्ण्यादि वैचित्र्यं सितरक्तादिकं च यत् // ११४
3.115 SK स्वयं तन्निरपेक्षोसौ प्रकाशो गुरुराह च / यन्न सूर्यो न वा सोमो नाग्निर्भासयतेपि च // ११५
3.116 SK न चार्कसोमवह्नीनां तत्प्रकाशाद्विना महः / किमप्यस्ति निजं किं तु संविदित्थं प्रकाशते // ११६
3.117 SK स्वस्वातन्त्र्यप्रभावोद्यद्विचित्रोपाधिसंगतः / प्रकाशो याति तैक्ष्ण्यादिमवान्तरविचित्रताम् // ११७
3.118 SK दुर्दर्शनोपि घर्मांशुः पतितः पाथसां पथि / नेत्रानन्दत्वमभ्येति पश्योपाधेः प्रभाविताम् // ११८
3.119 SK सूर्यादिषु प्रकाशोसावुपाधिकलुषीकृतः / संवित्प्रकाशं माहेशमत एव ह्यपेक्षते // ११९
3.120 SK प्रकाशमात्रं सुव्यक्तं सूर्य इत्युच्यते स्फुटम् / प्रकाश्यवस्तुसारांशवर्षि तत्सोम उच्यते // १२०
3.121 SK सूर्य प्रमाणमित्याहुः सोमं मेयं प्रचक्षते / अन्योन्यमवियुक्तौ तौ स्वतन्त्रावप्युभौ स्थितौ // १२१
3.122 SK भोक्तृभोग्योभयात्मैतदन्योन्योन्मुखतां गतम् / ततो ज्वलनचिद्रूपं चित्रभानुः प्रकीर्तितः // १२२
3.123 SK योयं वह्नेः परं तत्त्वं प्रमातुरिदमेव तत् / संविदेव तु विज्ञेयतादात्म्यादनपेक्षिणी // १२३
3.124 SK स्वतन्त्रत्वात्प्रमातोक्ता विचित्रो ज्ञेयभेदतः / सोमांशदाह्यवस्तूत्थवैचित्र्याभासबृंहितः // १२४
3.125 SK तत एवाग्निरुदितश्चित्रभानुर्महेशिना / ज्ञेयाद्युपायसंघातनिरपेक्षैव संविदः // १२५
3.126 SK स्थितिर्माताहमस्मीति ज्ञाता शास्त्रज्ञवद्यतः / अज्ञ एव यतो ज्ञातानुभवात्मा न रूपतः // १२६
3.127 SK न तु सा ज्ञातृता यस्यां शुद्धज्ञेयाद्यपेक्षते / तस्यां दशायां ज्ञातृत्वमुच्यते योग्यतावशात् // १२७
3.128 SK मानतैव तु सा प्राच्यप्रमातृपरिकल्पिता / उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् // १२८
3.129 SK उदितैव सती पूर्णा मातृमेयादिरूपिणी / पाकादिस्तु क्रिया कालपरिच्छेदात्क्रमोचिता // १२९
3.130 SK मतान्त्यक्षणवन्ध्यापि न पाकत्वं प्रपद्यते / इत्थं प्रकाशतत्त्वस्य सोमसूर्याग्निता स्थिता // १३०
3.131 SK अपि मुख्यं तत्प्रकाशमात्रत्वं न व्यपोह्यते / एषां यत्प्रथमं रूपं ह्रस्वं तत्सूर्य उच्यते // १३१
3.132 SK क्षोभानन्दवशाद्दीर्घविश्रान्त्या सोम उच्यते / यत्तत्परं प्लुतं नाम सोमानन्दात्परं स्थितम् // १३२
3.133 SK प्रकाशरूपं तत्प्राहुराग्नेयं शास्त्रकोविदाः / अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति // १३३
3.134 SK उक्तं विन्दुतया शास्त्रे शिवविन्दुरसौ मतः / मकारादन्य एवायं तच्छायामात्रधृद्यथा // १३४
3.135 SK रलहाः षण्ठवैसर्गवर्णरूपत्वसंस्थिताः / इकार एव रेफांशच्छाययान्यो यथा स्वरः // १३५
3.136 SK तथैव महलेशादः सोन्यो द्वेधास्वरोपि सन् / अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा // १३६
3.137 SK सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् / उक्तं च त्रिशिरःशास्त्रे कलाव्याप्त्यन्तचर्चने // १३७
3.138 SK कला सप्तदशी तस्मादमृताकाररूपिणी / परापरस्वस्वरूपबिन्दुगत्या विसर्पिता // १३८
3.139 SK प्रकाश्यं सर्ववस्तूनां विसर्गरहिता तु सा / शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा // १३९
3.140 SK विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च / शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते // १४०
3.141 SK विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः / स्वात्मनः स्वात्मनि स्वात्मक्षेपो वैसर्गिकी स्थितिः // १४१
3.142 SK विसर्ग एवमुत्सृष्ट आश्यानत्वमुपागतः / हंसः प्राणो व्यञ्जनं च स्पर्शश्च परिभाष्यते // १४२
3.143 SK अनुत्तरं परं धाम तदेवाकुलमुच्यते / विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते // १४३
3.144 SK विसर्गता च सैवास्या यदानन्दोदयक्रमात् / स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः // १४४
3.145 SK विसर्ग एव तावान्यदाक्षिप्तैतावदात्मकः / इयद्रूपं सागरस्य यदनन्तोर्मिसंततिः // १४५
3.146 SK अत एव विसर्गोयमव्यक्तहकलात्मकः / कामतत्त्वमिति श्रीमत्कुलगुह्वर उच्यते // १४६
3.147 SK यत्तदक्षरमव्यक्त कान्ताकण्ठे व्यवस्थितम् / ध्वनिरूपमनिच्छं तु ध्यानधारणवर्जितम् // १४७
3.148 SK तत्र चित्तं समाधाय वशयेद्युगपज्जगत् / अत एव विसर्गस्य हंसे यद्वत्स्फुटा स्थितिः // १४८
3.149 SK तद्वत्सानुत्तरादीनां कादिसान्ततया स्थितिः / अनुत्तरात्कवर्गस्य सूतिः पञ्चात्मनः स्फुटम् // १४९
3.150 SK पञ्चशक्त्यात्मतोवश एकैकत्र यथा स्फुटः / इच्छाशक्तेः स्वस्वरूपसंस्थाया एकरूपतः // १५०
3.151 SK चवर्गः पञ्चशक्त्यात्मा क्रमप्रस्फुटतात्मकः / या तूक्ता ज्ञेयकालुष्यभाक्क्षिप्रचरयोगतः // १५१
3.152 SK द्विरूपायास्ततो जातं ट-ताद्यं वर्गयुग्मकम् / उन्मेषात्पादिवर्गस्तु यतो विश्वं समाप्यते // १५२
3.153 SK ज्ञेयरूपमिदं पञ्चविंशत्यन्तं यतः स्फुटम् / ज्ञेयत्वात्स्फुटतः प्रोक्तमेतावत्स्पर्शरूपकम् // १५३
3.154 SK इच्छाशक्तिश्च या द्वेधा क्षुभिताक्षुभितत्वतः / सा विजातीयशक्त्यंशप्रोन्मुखी याति यात्मताम् // १५४
3.155 SK सैव शीघ्रतरोपात्तज्ञेयकालुष्यरूषिता / विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति // १५५
3.156 SK तद्वदुन्मेषशक्तिर्द्विरूपा वैजात्यशक्तिगा / वकारत्वं प्रपद्येत सृष्टिसारप्रवर्षकम् // १५६
3.157 SK इच्छैवानुत्तरानन्दयाता शीघ्रत्वयोगतः / वायुरित्युच्यते वह्निर्भासनात्स्थैर्यतो धरा // १५७
3.158 SK इदं चतुष्कमन्तःस्थमत एव निगद्यते / इच्छाद्यन्तर्गतत्वेन स्वसमाप्तौ च संस्थितेः // १५८
3.159 SK सजातीयकशक्तीनामिच्छाद्यानां च योजनम् / क्षोभात्मकमिदं प्राहुः क्षोभाक्षोभात्मनामपि // १५९
3.160 SK अनुत्तरस्य साजात्ये भवेत्तु द्वितयी गतिः / अनुत्तरं यत्तत्रैकं तच्चेदानन्दसूतये // १६०
3.161 SK प्रभविष्यति तद्योगे योगः क्षोभात्मकः स्फुटः / अत्राप्यनुत्तरं धाम द्वितीयमपि सूतये // १६१
3.162 SK न पर्याप्तं तदा क्षोभं विनैवानुत्तरात्मता / इच्छा या कर्मणा हीना या चैष्टव्येन रूषिता // १६२
3.163 SK शीघ्रस्थैर्यप्रभिन्नेन त्रिधा भावमुपागता / अनुन्मिषितमुन्मीलत्प्रोन्मीलितमिति स्थितम् // १६३
3.164 SK इष्यमाणं त्रिधैतस्यां ताद्रूप्यस्यापरिच्युतेः / तदेव स्वोष्मणा स्वात्मस्वातन्त्र्यप्रेरणात्मना // १६४
3.165 SK बहिर्भाव्य स्फुटं क्षिप्तं श-ष-सत्रितयं स्थितम् / तत एव सकारेस्मिन्स्फुटं विश्वं प्रकाशते // १६५
3.166 SK अमृतं च परं धाम योगिनस्तत्प्रचक्षते / क्षोभाद्यन्तविरामेषु तदेव च परामृतम् // १६६
3.167 SK सीत्कारसुखसद्भावसमावेशसमाधिषु / तदेव ब्रह्म परममविभक्तं प्रचक्षते // १६७
3.168 SK उवाच भगवानेव तच्छ्रीमत्कुलगुह्करे / शक्तिशक्तिमदैकात्म्यलब्धान्वर्थाभिधानके // १६८
3.169 SK काकचञ्चुपुटाकारं ध्यानधारणवर्जितम् / विषतत्त्वमनच्काख्यं तव स्नेहात्प्रकाशितम् // १६९
3.170 SK कामस्य पूर्णता तत्त्वं संघट्टे प्रविभाव्यते / विषस्य चामृतं तत्त्वं छाद्यत्वेणोश्च्युते सति // १७०
3.171 SK व्याप्त्री शक्तिर्विषं यस्मादव्याप्तुश्छादयेन्महः / निरञ्जनं परं धाम तत्त्वं तस्य तु साञ्जनम् // १७१
3.172 SK क्रियाशक्त्यात्मकं विश्वमयं तस्मात्स्फुरेद्यतः / इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् // १७२
3.173 SK एतत्त्रयसमावेशः शिवो भैरव उच्यते / अत्र रूढिं सदा कुर्यादिति नो गुरवो जगुः // १७३
3.174 SK विषतत्त्वे संप्रविश्य न भूतं न विषं न च / ग्रहः केवल एवाहमिति भावनया स्फुरेत् // १७४
3.175 SK नन्वत्र षण्ठवर्णेभ्यो जन्मोक्तं तेन षण्ठता / कथं स्यादिति चेद्ब्रूमो नात्र षण्ठस्य सोतृता // १७५
3.176 SK तथाहि तत्रगा यासाविच्छाशक्तिरुदीरिता / सैव सूते स्वकर्तव्यमन्तःस्थं स्वेष्टरूपकम् // १७६
3.177 SK यत्त्वत्र रूषणाहेतुरेषितव्यं स्थितं ततः / भागान्न प्रसवस्तज्जं कालुष्यं तद्वपुश्च तत् // १७७
3.178 SK ज्ञेयारूषणया युक्तं समुदायात्मकं विदुः / षण्ठं क्षोभकताक्षोभधामत्वाभावयोगतः // १७८
3.179 SK एतद्वर्णचतुष्कस्य स्वोष्मणाभासनावशात् / ऊष्मेति कथितं नाम भैरवेणामलात्मना // १७९
3.180 SK कादि-हान्तमिदं प्रहुः क्षोभाधारतया बुधाः / योनिरूपेण तस्यापि योगे क्षोभान्तरं व्रजेत् // १८०
3.181 SK तन्निदर्शनयोगेन पञ्चाशत्तमवर्णता / पञ्चविंशकसंज्ञेयप्राग्वद्भूमिसुसंस्थितम् // १८१
3.182 SK चतुष्कं च चतुष्कं च भेदाभेदगतं क्रमात् / आद्यं चतुष्कं संवित्तेर्भेदसंधानकोविदम् // १८२
3.183 SK भेदस्याभेदरूढ्येकहेतुरन्यच्चतुष्टयम् / इत्थं यद्वर्णजातं तत्सर्व स्वरमयं पुरा // १८३
3.184 SK व्यक्तियोगाद्व्यञ्जनं तत्स्वरप्राणं यतः किल / स्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ // १८४
3.185 SK षड्देवतास्तु ता एव ये मुख्याः सूर्यरश्मयः / सौराणामेव रश्मीनामन्तश्चान्द्रकला यतः // १८५
3.186 SK अतोत्र दीर्घत्रितयं स्फुटं चान्द्रमसं वपुः / चन्द्रश्च नाम नैवान्यो भोग्यं भोक्तुश्च नापरम् // १८६
3.187 SK भोक्तैव भोग्यभावेन द्वैविध्यात्संव्यवस्थितः / घटस्य न हि भोग्यत्वं स्वं वपुर्मातृगं हि तत् // १८७
3.188 SK अतो मातरि या रूढिः सास्य भोग्यत्वमुच्यते / अनुत्तरं परामृश्यपरामर्शकभावतः // १८८
3.189 SK संघट्टरूपतां प्राप्तं भोग्यमिच्छादिकं तथा / अनुत्तरानन्दभुवामिच्छाद्ये भोग्यतां गते // १८९
3.190 SK संध्यक्षराणामुदयो भोक्तृरूपं च कथ्यते / अनुत्तरानन्दमयो देवो भोक्तैव कथ्यते // १९०
3.191 SK इच्छादिकं भोग्यमेव तत एवास्य शक्तिता / भोग्यं भोक्तरि लीनं चेद् भोक्ता तद्वस्तुतः स्फुटः // १९१
3.192 SK अतः षण्णां त्रिकं सारं चिदिष्युन्मेषणात्मकम् / तदेव त्रितयं प्राहुर्भैरवस्य परं महः // १९२
3.193 SK तत्त्रिकं परमेशस्य पूर्णा शक्तिः प्रगीयते / तेनाक्षिप्तं यतो विश्वमतोस्मिन्समुपासिते // १९३
3.194 SK विश्वशक्ताववच्छेदवन्ध्ये जातमुपासनम् / इत्येष महिमैतावानिति तावन्न शक्यते // १९४
3.195 SK अपरिच्छिन्नशक्तेः कः कुर्याच्छक्तिपरिच्छिदाम् / तस्मादनुत्तरो देवः स्वाच्छन्द्यानुत्तरत्वतः // १९५
3.196 SK विसर्गशक्तियुक्तत्वात्संपन्नो विश्वरूपकः / एवं पञ्चाशदामर्शपूर्णशक्तिर्महेश्वरः // १९६
3.197 SK विमर्शात्मैक एवान्याः शक्तयोत्रैव निष्ठिताः / एकाशीतिपदा देवी ह्यत्रान्तर्भावयिष्यते // १९७
3.198 SK एकामर्शस्वभावत्वे शब्दराशिः स भैरवः / आमृश्यच्छायया योगात्सैव शक्तिश्च मातृका // १९८
3.199 SK सा शब्दराशिसंघट्टाद्भिन्नयोनिस्तु मालिनी / प्राग्वन्नवतयामर्शात्पृथग्वर्गस्वरूपिणी // १९९
3.200 SK एकैकामर्शरूढौ तु सैव पञ्चाशदात्मिका / इत्थं नादानुवेधेन परामर्शस्वभावकः // २००
3.201 SK शिवो मातापितृत्वेन कर्ता विश्वत्र संस्थितः / विसर्ग एव शाक्तोयं शिवबिन्दुतया पुनः // २०१
3.202 SK गर्भीकृतानन्तविश्वः श्रयतेनुत्तरात्मताम् / अपरिच्छिन्नविश्वान्तःसारे स्वात्मनि यः प्रभोः // २०२
3.203 SK परामर्शः स एवोक्तो द्वयसंपत्तिलक्षणः / अनुत्तरविसर्गात्मशिवशक्त्यद्वयात्मनि // २०३
3.204 SK परामर्शो निर्भरत्वादहमित्युच्यते विभोः / अनुत्तराद्या प्रसृतिर्हान्ता शक्तिस्वरूपिणी // २०४
3.205 SK प्रत्याहृताशेषविश्वानुत्तरे सा निलीयते / तदिदं विश्वमन्तःस्थं शक्तौ सानुत्तरे परे // २०५
3.206 SK तत्तस्यामिति यत्सत्यं विभुना संपुटीकृतिः / तेन श्रीत्रीशिकाशास्त्रे शक्तेः संपुटिताकृतिः // २०६
3.207 SK संवित्तौ भाति यद्विश्वं तत्रापि खलु संविदा / तदेतत्त्रितयं द्वन्द्वयोगात्संघाततां गतम् // २०७
3.208 SK एकमेव परं रूपं भैरवस्याहमात्मकम् / विसर्गशक्तिर्या शंभोः सेत्थं सर्वत्र वर्तते // २०८
3.209 SK तत एवसमस्तोयमानन्दरसविभ्रमः / तथाहि मधुरे गीते स्पर्शे वा चन्दनादिके // २०९
3.210 SK माध्यस्थ्यविगमे यासौ हृदये स्पन्दमानता / आनन्दशक्तिः सैवोक्ता यतः सहृदयो जनः // २१०
3.211 SK पूर्व विसृज्यसकलं कर्तव्यं शून्यतानले / चित्तविश्रान्तिसंज्ञोयमाणवस्तदनन्तरम् // २११
3.212 SK दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि / चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः // २१२
3.213 SK तत्रोन्मुखत्वतद्वस्तुसंघट्टाद्वस्तुनो हृदि / रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे // २१३
3.214 SK प्राग्वद्भविष्यदौन्मुख्यसंभाव्यमिततालयात् / चित्तप्रलयनामासौ विसर्गः शाम्भवः परः // २१४
3.215 SK तत्त्वरक्षाविधानेतो विसर्गत्रैधमुच्यते / हृत्पद्मकोशमध्यस्थस्तयोः संघट्ट इष्यते // २१५
3.216 SK विसर्गोन्तः स च प्रोक्तश्चित्तविश्रान्तिलक्षणः / द्वितीयः स विसर्गस्तु चित्तसंबोधलक्षणः // २१६
3.217 SK एकीभूतं विभात्यत्र जगदेतच्चराचरम् / ग्राह्यग्राहकभेदो वै किंचिदत्रेष्यते यदा // २१७
3.218 SK तदासौ सकलः प्रोक्तो निष्कलः शिवयोगतः / ग्राह्यग्राहकविच्छित्तिसंपूर्णग्रहणात्मकः // २१८
3.219 SK तृतीयः स विसर्गस्तु चित्तप्रलयलक्षणः / एकीभावात्मकः सूक्ष्मो विज्ञानात्मात्मनिर्वृतः // २१९
3.220 SK निरूपितोयमर्थः श्रीसिद्धयोगीश्वरीमते / सात्र कुण्डलिनी बीजं जीवभूता चिदात्मिका // २२०
3.221 SK तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः / आ इत्यवर्णादित्यादियावद्वैसर्गिकी कला // २२१
3.222 SK ककारादिसकारान्ता विसर्गात्पञ्चधा स च / बहिश्चान्तश्च हृदये नादेथ परमे पदे // २२२
3.223 SK बिन्दुरात्मनि मूर्धान्तं हृदयाद्व्यापको हि सः / आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् // २२३
3.224 SK गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् / पूज्यः सोहमिव ज्ञानी भैरवो देवतात्मकः // २२४
3.225 SK श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं ततः / तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति // २२५
3.226 SK विसर्गशक्तिर्विश्वस्य कारणं च निरूपिता / ऐतरेयाख्यवेदान्ते परमेशेन विस्तरात् // २२६
3.227 SK यल्लोहितं तदग्निर्यद्वीर्यं सूर्येन्दुविग्रहम् / अ इति ब्रह्म परमं तत्संघट्टोदयात्मकम् // २२७
3.228 SK तस्यापि च परं वीर्य पञ्चभूतकलात्मकम् / भोग्यत्वेनान्नरूपं च शब्दस्पर्शरसात्मकम् // २२८
3.229 SK शब्दोपि मधुरो यस्माद्वीर्योपचयकारकः / तद्धि वीर्यं परं शुद्धं विसिसृक्षात्मकं मतम् // २२९
3.230 SK तद्बलं च तदोजश्च ते प्राणाः सा च कान्तता / तस्माद्वीर्यात्प्रजास्ताश्च वीर्य कर्मसु कथ्यते // २३०
3.231 SK यज्ञादिकेषु तद्वृष्टौ सौषधीष्वथ ताः पुनः / वीर्ये तच्च प्रजास्वेवं विसर्गे विश्वरूपता // २३१
3.232 SK शब्दराशिः स एवोक्तो मातृका साच कीर्तिता / क्षोभ्यक्षोभकतावेशान्मालिनीं तां प्रचक्षते // २३२
3.233 SK बीजयोनिसमापत्तिविसर्गोदयसुन्दरा / मालिनी हि परा शक्तिर्निर्णीता विश्वरूपिणी // २३३
3.234 SK एषा वस्तुत एकैव परा कालस्य कर्षिणी / शक्तिमद्भेदयोगेन यामलत्वं प्रपद्यते // २३४
3.235 SK तस्य प्रत्यवमर्शो यः परिपूर्णोहमात्मकः / स स्वात्मनि स्वतन्त्रत्वाद्विभागमवभासयेत् // २३५
3.236 SK विभागाभासने चास्य त्रिधा वपुरुदाहृतम् / पश्यन्ती मध्यमा स्थूला वैखरीत्यभिशब्दितम् // २३६
3.237 SK तासामपि त्रिधा रूपं स्थूलसूक्ष्मपरत्वतः / तत्र या स्वरसन्दर्भसुभगा नादरूपिणी // २३७
3.238 SK सा स्थूला खलु पश्यन्ती वर्णाद्यप्रविभागतः / अविभागैकरूपत्वं माधुर्यं शक्तिरुच्यते // २३८
3.239 SK स्थानवाय्वादिघर्षोत्था स्फुटतैव च पारुषी / तदस्यां नादरूपायां संवित्सविधवृत्तितः // २३९
3.240 SK साजात्यान्तर्म[त्तम] यीभूतिर्झगित्येवोपलभ्यते / येषां न तन्मयीभूतिस्ते देहादिनिमज्जनम् // २४०
3.241 SK अविदन्तो मग्नसंविन्मानास्त्वहृदया इति / यत्तुचर्मावनद्धादि किंचित्तत्रैष यो ध्वनिः // २४१
3.242 SK स स्फुटास्फुटरूपत्वान्मध्यमा स्थूलरूपिणी / मध्यायाश्चाविभागांशसद्भाव इति रक्तता // २४२
3.243 SK अविभागस्वरमयी यत्र स्यात्तत्सुरञ्जकम् / अविभागो हि निर्वृत्यै दृश्यतां तालपाठतः // २४३
3.244 SK किलाव्यक्तध्वनौ तस्मिन्वादने परितुष्यति / या तु स्फुटानां वर्णानामुत्पत्तौ कारणं भवेत् // २४४
3.245 SK सा स्थूला वैखरी यस्याः कार्यं वाक्यादि भूयसा / अस्मिन्स्थूलत्रये यत्तदनुसन्धानमादिवत् // २४५
3.246 SK पृथक्पृथक्तत्त्रितयं सूक्ष्ममित्यभिशब्द्यते / षड्जं करोमि मधुरं वादयामि ब्रुवे वचः // २४६
3.247 SK पृथगेवानुसन्धानत्रयं संवेद्यते किल / एतस्यापि त्रयस्याद्यं यद्रुपमनुपाधिमत् // २४७
3.248 SK तत्परं त्रितयं तत्र शिवः परचिदात्मकः / विभागाभासनायां च मुख्यास्तिस्रोत्र शक्तयः // २४८
3.249 SK अनुत्तरा परेच्छा च परापरतया स्थिता / उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते // २४९
3.250 SK क्षोभरूपात्पुनस्तासामुक्ताः षट् संविदोमलाः / आसामेव समावेशात्क्रियाशक्तितयोदितात् // २५०
3.251 SK संविदो द्वादश प्रोक्ता यासु सर्वं समाप्यते / एतावद्देवदेवस्य मुख्यं तच्छक्तिचक्रकम् // २५१
3.252 SK एतावता देवदेवः पूर्णशक्तिः स भैरवः / परामर्शात्मकत्वेन विसर्गाक्षेपयोगतः // २५२
3.253 SK इयत्ताकलनाज्ज्ञानात्ताः प्रोक्ताः कालिकाः क्वचित् / श्रीसारशास्त्रे चाप्युक्तं मध्य एकाक्षरां पराम् // २५३
3.254 SK पूजयेद्भैरवात्माख्यां योगिनीद्वादशावृताम् / ताभ्य एव चतुःषष्टिपर्यन्तं शक्तिचक्रकम् // २५४
3.255 SK एकारतः समारभ्य सहस्रारं प्रवर्तते / तासां च कृत्यभेदेन नामानि बहुधागमे // २५५
3.256 SK उपासाश्च द्वयाद्वैतव्यामिश्राकारयोगतः / श्रीमत्त्रैशिरमे तच्च कथितं विस्तराद्बहु // २५६
3.257 SK इह नो लिखितं व्यासभयाच्चानुपयोगतः / ता एव निर्मलाः शुद्धा अघोराः परिकीर्तिताः // २५७
3.258 SK घोरघोरतराणां तु सोतृत्वाच्च तदात्मिकाः / सृष्टौ स्थितौ च संहारे तदुपाधित्रयात्यये // २५८
3.259 SK तासामेव स्थितं रूपं बहुधा प्रविभज्यते / उपाध्यतीतं यद्रूपं तद्द्विधा गुरवो जगुः // २५९
3.260 SK अनुल्लासादुपाधीनां यद्वा प्रशमयोगतः / प्रशमश्च द्विधा शान्त्या हठपाकक्रमेण तु // २६०
3.261 SK अलं ग्रासरसाख्येन सततं ज्वलनात्मना / हठपाकप्रशमनं यत्तृतीयं तदेव च / उपदेशाय युज्येत भेदेन्धनविदाहकम् // २६१
3.262 SK निजबोधजठरहुतभुजि भावाः सर्वे समर्पिता हठतः / विजहति भेदविभागं निजशक्त्या तं समिन्धानाः // २६२
3.263 SK हठपाकेन भावानां रूपे भिन्ने विलापिते / अश्नन्त्यमृतसाद्भूतं विश्वं संवित्तिदेवताः // २६३
3.264 SK तास्तृप्ताः स्वात्मनः पूर्ण हृदयैकान्तशायिनम् / चिद्व्योमभैरवं देवमभेदेनाधिशेरते // २६४
3.265 SK एवं कृत्यक्रियावेशान्नामोपासाबहुत्वतः / आसां बहुविधं रूपमभेदेप्यवभासते // २६५
3.266 SK आसामेव च देवीनामावापोद्वापयोगतः / एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवोत्तरैः // २६६
3.267 SK रुद्रार्कान्यकलासेनाप्रभृतिर्भेदविस्तरः / अलमन्येन बहुना प्रकृतेथ नियुज्यते // २६७
3.268 SK संविदात्मनि विश्वोयं भाववर्गः प्रपञ्चवान् / प्रतिबिम्बतया भाति यस्य विश्वेश्वरो हि सः // २६८
3.269 SK एवमात्मनि यस्येदृगविकल्पः सदोदयः / परामर्शः स एवासौ शांभवोपायमुद्रितः // २६९
3.270 SK पूर्णाहन्तापरामर्शो योस्यायं प्रविवेचितः / मन्त्रमुद्राक्रियोपासास्तदन्या नात्र काश्चन // २७०
3.271 SK भूयोभूयः समावेशं निर्विकल्पमिमं श्रितः / अभ्येति भैरवीभावं जीवन्मुक्त्यपराभिधम् // २७१
3.272 SK इत एव प्रभृत्येषा जीवन्मुक्तिर्विचार्यते / यत्र सूत्रणयापीयमुपायोपेयकल्पना // २७२
3.273 SK प्राक्तने त्वाह्निके काचिद्भेदस्य कलनापि नो / तेनानुपाये तस्मिन्को मुच्यते वा कथं कुतः // २७३
3.274 SK निर्विकल्पे परामर्शे शाम्भवोपायनामनि / पञ्चाशद्भेदतां पूर्वसूत्रितां योजयेद्बुधः // २७४
3.275 SK धरामेवाविकल्पेन स्वात्मनि प्रतिबिम्बिताम् / पश्यन्भैरवतां याति जलादिष्वप्ययं विधिः // २७५
3.276 SK यावदन्ते परं तत्त्वं समस्तावरणोर्ध्वगम् / व्यापि स्वतन्त्रं सर्वज्ञं यच्छिवं परिकल्पितम् // २७६
3.277 SK तदप्यकल्पितोदारसंविद्दर्पणबिम्बितम् / पश्यन्विकल्पविकलो भैरवीभवति स्वयम् // २७७
3.278 SK यथा रक्तं पुरः पश्यन्निर्विकल्पकसंविदा / तत्तद्द्वारनिरंशैकघटसंवित्तिसुस्थितः // २७८
3.279 SK तद्वद्धरादिकैकैकसंघातसमुदायतः / परामृशन्स्वमात्मानं पूर्ण एवावभासते // २७९
3.280 SK मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् / मदभिन्नमिदं चेति त्रिधोपायः स शाम्भवः // २८०
3.281 SK सृष्टेः स्थितेः संहृतेश्च तदेतत्सूत्रणं कृतम् / यत्र स्थितं यतश्चेति तदाह स्पन्दशासने // २८१
3.282 SK एतावतैव ह्यैश्वर्य संविदः ख्यापितं परम् / विश्वात्मकत्वं चेत्यन्यल्लक्षणं किं नु कथ्यताम् // २८२
3.283 SK स्वात्मन्येव चिदाकाशे विश्वमस्म्यवभासयन् / स्रष्टा विश्वात्मक इति प्रथया भैरवात्मता // २८३
3.284 SK षडध्वजातं निखिलं मय्येव प्रतिबिम्बितम् / स्थितिकर्ताहमस्मीति स्फुटेयं विश्वरूपता // २८४
3.285 SK सदोदितमहाबोधज्वालाजटिलतात्मनि / विश्वं द्रवति मय्येतदिति पश्यन्प्रशाम्यति // २८५
3.286 SK अनन्तचित्रसद्गर्भसंसारस्वप्नसद्मनः / प्लोषकः शिव एवाहमित्युल्लासी हुताशनः // २८६
3.287 SK जगत्सर्वं मत्तः प्रभवति विभेदेन बहुधा तथाप्येतद्रूढं मयि विगलिते त्वत्र न परः / तदित्थं यः सृष्टिस्थितिविलयभेकीकृतिवशादनंशं पश्येत्स स्फुरति हि तुरीयं पदभितः // २८७
3.288 SK तदस्मिन्परमोपाये शाम्भवाद्वैतशालिनि / केप्येव यान्ति विश्वासं पस्मेशेन भाविताः // २८८
3.289 SK स्नानं व्रतं देहशुद्धिर्धारणा मन्त्रयोजना / अध्वक्लृप्तिर्यागविधिर्होमजप्यसमाधयः // २८९
3.290 SK इत्यादिकल्पना कापि नात्र भेदेन युज्यते / परानुग्रहकारित्वमत्रस्थस्य स्फुटं स्थितम् // २९०
3.291 SK यदि तादृगनुग्राह्यो दैशिकस्योपसर्पति / अथासौ तादृशो न स्याद्भवभक्त्या च भावितः // २९१
3.292 SK तं चाराधयते भावितादृशानुग्रहेरितः / तदा विचित्रं दीक्षादिविधिं शिक्षेत कोविंदः // २९२
3.293 SK भाविन्योपि ह्युपासास्ता स्त्रैवायान्ति निष्ठितिम् / एतन्मयत्वं परमं प्राप्यं निर्वर्ण्यतेशिवम् // २९३
3.294 SK इति कथितमिदं सुविस्तरं परमं शाम्भवमात्मवेदनम् // २९४अ
Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.
Source