Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 25: atha śrītantrāloke pañcaviṃśatitamamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथ श्राद्धविधिः श्रीमत्षडर्धोक्तो निगद्यते // १ब्
SK
सिद्धातन्त्रे सूचितोसौ मूर्तियागनिरूपणे / अन्त्येष्ट्या सुविशुद्धानामशुद्धानां च तद्विधिः // २
SK
त्र्यहे तुर्येह्नि दशमे मासि मास्याद्यवत्सरे / वर्षे वर्षे सर्वकालं कार्यस्तत्स्वैः स पूर्ववत् // ३
SK
तत्र प्राग्वद्यजेद्देवं होमयेदनले तथा / ततो नैवेद्यमेव प्राग्गृहीत्वा हस्तगोचरे // ४
SK
गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम् / ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः // ५
SK
ततोस्य यः पाशव्ॐशो भोग्यरूपस्तमर्पयेत् / भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत् // ६
SK
भोग्यतान्या तनुर्देह इति पाशात्मका मताः / श्राद्धे मृतोद्धृतावन्तयागे तेषां शिवीकृतिः // ७
SK
एकेनैव विधानेन यद्यपि स्यात्कृतार्थता / तथापि तन्मयीभावसिद्ध्यै सर्वं विधिं चरेत् // ८
SK
बुभुक्षोस्तु क्रियाभ्यासभूमानौ फलभूमनि / हेतु ततो मृतोद्धारश्राद्धाद्यस्मै समाचरेत् // ९
SK
तत्त्वज्ञानार्कविध्वस्तध्वान्तस्य तु न कोप्ययम् / अन्त्येष्टिश्राद्धविध्यादिरुपयोगी कदाचन // १०
SK
तेषां तु गुरु तद्वर्गवर्ग्यसब्रह्मचारिणाम् / तत्सन्तानजुषामैक्यदिनं पर्वदिनं भवेत् // ११
SK
यदाहि बोधस्योद्रेकस्तदा पर्वाह पूरणात् / जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः // १२
SK
पुत्रकोपि यदा कस्मैचन स्यादुपकारकः / तदा मातुः पितुः शक्तेर्वामदक्षान्तरालगाः // १३
SK
नाडीः प्रवाहयेद्देवायार्पयेत निवेदितम् / श्रीमद्भरुणतन्त्रे च तच्छिवेन निरूपितम् // १४
SK
तद्वाहकालापेक्षा च कार्या तद्रूपसिद्धये / स्वाच्छन्द्येनाथ तत्सिद्धिं विधिना भाविना चरेत् // १५
SK
यस्य कस्यापि वा श्राद्धे गुरुदेवाग्नितर्पणम् / सचक्रेष्टि भवेच्छ्रौतो नतु स्यात्पाशवो विधिः // १६
SK
श्रीमौकुटे तथा चोक्तं शिवशास्त्रे स्थितोपि यः / प्रत्येति वैदिके भग्नघण्टावन्न स किंचन // १७
SK
तथोक्तदेवपूजादिचक्रयागान्तकर्मणा / रुद्रत्वमेत्यसौ जन्तुर्भोगान्दिव्यान्समश्नुते // १८
SK
अथ वच्मः स्फुटं श्रीमत्सिद्धये नाडिचारणम् / या वाहयितुमिष्येत नाडी तामेव भावयेत् // १९
SK
भावनातन्मयीभावे सा नाडी वहति स्फुटम् / यद्वा वाहयितुं येष्टा तदङ्गं तेन पाणिना // २०
SK
आपीड्य कुक्षिं नमयेत्सा वहेन्नाडिका क्षणात् / एवं श्राद्धमुखेनापि भोगमोक्षोभयस्थितिम् // २१
SK
कुर्यादिति शिवेनोक्तं तत्र तत्र कृपालुना / शक्तिपातोदये जन्तोर्येनोपायेन दैशिकः // २२
SK
करोत्युद्धरणं तत्तन्निर्वाणायास्य कल्पते / उद्धर्ता देवदेवो हि स चाचिन्त्यप्रभावकः // २३
SK
उपायं गुरुदीक्षादिद्वारमात्रेण संश्रयेत् / उक्तं श्रीमन्मतङ्गाख्ये मुनिप्रश्नादनन्तरम् // २४
SK
मुक्तिर्विवेकात्तत्त्वानां दीक्षातो योगतो यदि / चर्यामात्रात्कथं सा स्यादित्यतः सममुत्तरम् // २५
SK
प्रहस्योचे विभुः कस्माद्भ्रान्तिस्ते परमेशितुः / सर्वानुग्राहकत्वं हि संसिद्धं दृश्यतां किल // २६
SK
प्राप्तमृत्योर्विषव्याधिशस्त्रादि किल कारणम् / अल्पं वा बहु वा तद्वदनुध्या मुक्तिकारणम् // २७
SK
मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु / इति ज्ञात्वा न सन्देह इत्थं कार्यो विपश्चिता // २८
SK
इयतैव कथं मुक्तिरिति भक्तिं परां श्रयेत् / उक्तः श्राद्धविधिर्भ्रान्तिगरातङ्कविमर्दनः // २९

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya