Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 23: atha śrītantrāloke trayoviṃśatitamamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथाभिषेकस्य विधिः कथ्यते पारमेश्वरः // १
SK
यैषा पुत्रकदीक्षोक्ता गुरुसाधकयोरपि / सैवाधिकारिणी भोग्यतत्त्वयुक्तिमती क्रमात् // २
SK
स्वभ्यस्तज्ञानिनं सन्तं बुभूषुमथ भाविनम् / योग्यं ज्ञात्वा स्वाधिकारं गुरुस्तस्मै समर्पयेत् // ३
SK
यो नैवं वेद नैवासावभिषिक्तोपि दैशिकः / समय्यादिक्रमेणेति श्रीमत्कामिक उच्यते // ४
SK
यो न वेदाध्वसन्धानं षोढा बाह्यान्तरस्थितम् / स गुरुर्मोचयेन्नेति सिद्धयोगीश्वरीमते // ५
SK
सर्वलक्षणहीनोपि ज्ञानवान् गुरुरिष्यते / ज्ञानप्राधान्यमेवोक्तमिति श्रीकचभार्गवे // ६
SK
पदवाक्यप्रमाणज्ञः शिवभक्त्येकतत्परः / समस्तशिवशास्त्रार्थबोद्धा कारुणिको गुरुः // ७
SK
न स्वयंभूस्तस्य चोक्तं लक्षणं परमेशिना / अभक्तो जीवितधिया कुर्वन्नीशानधिष्ठितः // ८
SK
पश्चात्मना स्वयंभूष्णुर्नाधिकारी स कुत्रचित् / भस्माङ्कुरो व्रतिसुतो दुःशीलातनयस्तथा // ९
SK
कुण्डो गोलश्च ते दुष्टा उक्तं देव्याख्ययामले / पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः // १०
SK
श्रीपूर्वशास्त्रे न त्वेष नियमः कोपि चोदितः / यथार्थतत्त्वसंघज्ञस्तथा शिष्ये प्रकाशकः // ११
SK
यः पुनः सर्वतत्त्वानि वेत्तीत्यादि च लक्षणम् / योगचारे च यद्यत्र तन्त्रे चोदितमाचरेत् // १२
SK
तथैव सिद्धये सेयमाज्ञेति किल वर्णितम् / यस्तु कर्मितयाचार्यस्तत्र काणादिवर्जनम् // १३
SK
यतः कारकसामग्र्यात्कर्मणो नाधिकः क्वचित् / देव्या यामलशास्त्रे च काञ्च्यादिपरिवर्जनम् // १४
SK
तद्दृष्टदोषात्क्रोधादेः सम्यक्ज्ञातर्यसौ कुतः / गुरवस्तु स्वयंभ्वादि वर्ज्यं यद्यामलादिषु // १५
SK
कर्म्यभिप्रायतः सर्वं तदिति व्याचचक्षिरे / अतो देशकुलाचारदेहलक्षणकल्पनाम् // १६
SK
अनादृत्यैव संपूर्णज्ञानं कुर्याद्गुरुर्गुरुम् / प्राग्वत्संपूज्य हुत्वा च श्रावयित्वा चिकीर्षितम् // १७
SK
ततोभिषिञ्चेत्तं शिष्यं चतुःषष्ट्या ततः सकृत् / तन्मन्त्ररसतोयेन पूर्वोक्तविधिना गुरुः // १८
SK
विभवेन सुविस्तीर्णं ततस्तस्मै वदेत्स्वकम् / सर्वं कर्तव्यसारं यच्छास्त्राणां परमं रहः // १९
SK
अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः / उक्तं ज्ञानोत्तरे चैतद्ब्राह्मणाः क्षत्रिया विशः // २०
SK
नपुंसकाः स्त्रियः शूद्रा ये चान्येपि तदर्थिनः / ते दीक्षायां न मीमांस्या ज्ञानकाले विचारयेत् // २१
SK
ज्ञानमूलो गुरुः प्रोक्तः सप्तसत्रीं प्रवर्तयेत् / दीक्षा व्याख्या कृपा मैत्री शास्त्रचिन्ता शिवैकता // २२
SK
अन्नादिदानमित्येतत्पालयेत्सप्तसत्रकम् / अभिषेकविधौ चास्मै करणीखटिकादिकम् // २३
SK
सर्वोपकरणव्रातमर्पणीयं विपश्चिते / सोभिषिक्तो गुरुं पश्चाद्दक्षिणाभिः प्रपूजयेत् // २४
SK
ज्ञानहीनो गुरुः कर्मी स्वाधिकारं समर्प्य नो / दीक्षाद्यधिकृतिं कुर्याद्विना तस्याज्ञया पुनः // २५
SK
इत्येवं श्रावयेत्सोपि नमस्कृत्याभिनन्दयेत् / ततः प्रभृत्यसौ पूर्वो गुरुस्त्यक्ताधिकारकः // २६
SK
यथेच्छं विचरेद्व्याख्यादीक्षादौ यन्त्रणोज्झितः / कुर्वन्न बाध्यते यस्माद्दीपाद्दीपवदीदृशः // २७
SK
सन्तानो नाधिकारस्य च्यवोकुर्वन्न बाध्यते / प्राक् च कुर्वन्विहन्येत सिद्धातन्त्रे तदुच्यते // २८
SK
यथार्थमुपदेशं तु कुर्वन्नाचार्य उच्यते / न चावज्ञा क्रियाकाले संसारोद्धरणं प्रति // २९
SK
न दीक्षेत गुरुः शिष्यं तत्त्वयुक्तस्तु गर्वतः / योस्य स्यान्नरके वास इह च व्याधितो भवेत् // ३०
SK
प्राप्ताभिषेकः स गुरुः षण्मासान्मन्त्रपद्धतिम् / सर्वां तन्त्रोदितां ध्यायेज्जपेच्चातन्मयत्वतः // ३१
SK
यदैव तन्मयीभूतस्तदा वीर्यमुपागतः / छिन्द्यात्पाशांस्ततो यत्नं कुर्यात्तन्मयतास्थितौ // ३२
SK
हृच्चक्रादुत्थिता सूक्ष्मा शशिस्फटिकसंनिभा / लेखाकारा नादरूपा प्रशान्ता चक्रपङ्क्तिगा // ३३
SK
द्वादशान्ते निरूढा सा सौषुम्ने त्रिपथान्तरे / तत्र हृच्चक्रमापूर्य जपेन्मन्त्रं ज्वलत्प्रभम् // ३४
SK
चक्षुर्लोमादिरन्ध्रौघवहज्ज्वालौर्वसंनिभम् / यावच्छान्तशिखाकीर्णं विश्वाज्यप्रविलापकम् // ३५
SK
तदाज्यधारासंतृप्तमानाभिकुहरान्तरम् / एवं मन्त्रा मोक्षदाः स्युर्दीप्ता बुद्धाः सुनिर्मलाः // ३६
SK
मूलकन्दनभोनाभिहृत्कण्ठालिकतालुगम् / अर्धेन्दुरोधिकानादतदन्तव्यापिशक्तिगम् // ३७
SK
समनोन्मनशुद्धात्मपरचक्रसमाश्रितम् / यत्र यत्र जपेच्चक्रे समस्तव्यस्तभेदनात् // ३८
SK
तत्र तत्र महामन्त्र इति देव्याख्ययामले / विद्याव्रतमिदं प्रोक्तं मन्त्रवीर्यप्रसिद्धये // ३९
SK
तच्च तादात्म्यमेवेति यदुक्तं स्पन्दशासने / तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः // ४०
SK
प्रवर्तन्तेधिकाराय करणानीव देहिनाम् / कृतविद्याव्रतः पश्चाद्दीक्षाव्याख्यादि सर्वतः // ४१
SK
कुर्याद्योग्येषु शिष्येषु नायोग्येषु कदाचन / रहस्ये योजयेद्विप्रं परीक्ष्य विपरीततः // ४२
SK
आचाराच्छक्तिमप्येव नान्यथेत्यूर्मिशासने / नित्याद्यल्पाल्पकं कुर्याद्यदुक्तं ब्रह्मयामले // ४३
SK
चीर्णविद्याव्रतः सर्वं मनसा वा स्मरेत्प्रिये / देहसंबन्धसंछन्नसार्वज्ञ्यो दम्भभाजनम् // ४४
SK
अविदन्दीक्षमाणोपि न दुष्येद्दैशिकः क्वचित् / ज्ञात्वा त्वयोग्यतां नैनं दीक्षेत प्रत्यवायिताम् // ४५
SK
बुद्ध्वा ज्ञाने शास्त्रसिद्धिगुरुत्वादौ च तं पुनः / भूय एव परीक्षेत तत्तदौचित्यशालिनम् // ४६
SK
तत्र तत्र नियुञ्जीत नतु जातु विपर्ययात् / ननु तद्वस्त्वयोग्यस्य तत्रेच्छा जायते कुतः // ४७
SK
तदीशाधिष्ठितेच्छैव योग्यतामस्य सूचयेत् / सत्यं कापि प्रबुद्धासाविच्छा रूढिं न गच्छति // ४८
SK
विद्युद्वत्पापशीलस्य यथा पापापवर्जने / रूढ्यरूढी तदिच्छाया अपि शंभुप्रसादतः // ४९
SK
अप्ररूढतथेच्छाकस्तत एव न भाजनम् / यः सम्यग्ज्ञानमादाय गुरुविश्वासवर्जितः // ५०
SK
लोकं विप्लावयेन्नास्मिञ्ज्ञाते विज्ञानमर्पयेत् / अज्ञातेपि पुनर्ज्ञाते विज्ञानहरणं चरेत् // ५१
SK
पुनःपुनर्यदा ज्ञातो विश्वासपरिवर्जितः / तदा तमग्रतो ध्यायेत्स्फुरन्तं चन्द्रसूर्यवत् // ५२
SK
ततो निजहृदम्भोजबोधाम्बरतलोदिताम् / स्वर्भानुमलिनां ध्यायेद्वामां शक्तिं विमोहनीम् // ५३
SK
वामाचारक्रमेणैनां निःसृतां साध्यगामिनीम् / चिन्तयित्वा तया ग्रस्तप्रकाशं तं विचिन्तयेत् // ५४
SK
अनेन क्रमयोगेन मूढबुद्धेर्दुरात्मनः / विज्ञानमन्त्रविद्याद्याः प्रकुर्वन्त्यपकारिताम् // ५५
SK
ननु विज्ञानमात्मस्थं कथं हर्तुं क्षमं भवेत् / अतो विज्ञानहरणं कथं श्रीपूर्व उच्यते // ५६
SK
उच्यते नास्य शिष्यस्य विज्ञानं रूढिमागतम् / तथात्वे हरणं कस्मात्पूर्णयोग्यत्वशालिनः // ५७
SK
किंत्वेष वामया शक्त्या मूढो गाढं विभोः कृतः / स्वभावादेव तेनास्य विद्याद्यमपकारकम् // ५८
SK
गुरुः पुनः शिवाभिन्नः सन्यः पञ्चविधां कृतिम् / कुर्याद्यदि ततः पूर्णमधिकारित्वमस्य तत् // ५९
SK
अतो यथा शुद्धतत्त्वसृष्टिस्थित्योर्मलात्यये / योजनानुग्रहे कार्यचतुष्केधिकृतो गुरुः // ६०
SK
शिवाभेदेन तत्कुर्यात्तद्वत्पञ्चममप्ययम् / तिरोभावाभिधं कृत्यं तथासौ शिवतात्मकः // ६१
SK
अत एव शिवे शास्त्रे ज्ञाने चाश्वासभाजनम् / गुरोर्मूढतया कोपधामापि न तिरोहितः // ६२
SK
गुरुर्हि कुपितो यस्य स तिरोहित उच्यते / संसारी सतु देवो हि गुरुर्न च मृषाविदः // ६३
SK
तत एव च शास्त्रादिदूषको यद्यपि क्रुधा / न दह्यतेसौ गुरुणा तथाप्येष तिरोहितः // ६४
SK
अस्मद्गुर्वागमस्त्वेष तिरोभूते स्वयं शिशौ / न कुप्येन्न शपेद्धीमान् स ह्यनुग्राहकः सदा // ६५
SK
ईशेच्छाचोदितः पाशं यदि कण्ठे निपीडयेत् / किमाचार्येण तत्रास्य कार्या स्यात्सहकारिता // ६६
SK
शिवाभिन्नोपि हि गुरुरनुग्रहमयीं विभोः / मुख्यां शक्तिमुपासीनोनुगृह्णीयात्स सर्वथा // ६७
SK
स्वातन्त्र्यमात्रज्ञप्त्यै तु कथितं शास्त्र ईदृशम् / न कार्यं पततां हस्तालम्बः सह्यो न पातनम् // ६८
SK
अत एव स्वतन्त्रत्वादिच्छायाः पुनरुन्मुखम् / प्रायश्चित्तैर्विशोध्यैनं दीक्षेत कृपया गुरुः // ६९
SK
ऊर्ध्वदृष्टौ प्रपन्नः सन्ननाश्वस्तस्ततः परम् / अधःशास्त्रं प्रपद्यापि न श्रेयःपात्रतामियात् // ७०
SK
अधोदृष्टौ प्रपन्नस्तु तदनाश्वस्तमानसः / ऊर्ध्वशासनभाक् पापं तच्चोज्झेच्च शिवीभवेत् // ७१
SK
राज्ञे द्रुह्यन्नमात्याङ्गभूतोपि हि विहन्यते / विपर्ययस्तु नेत्येवमूर्ध्वां दृष्टिं समाश्रयेत् // ७२
SK
श्रीपूर्वशास्त्रे तेनोक्तं यावत्तेनैव नोद्धृतः / अत्र ह्यर्थोयमेतावत्पूर्वोक्तज्ञानवृंहितः // ७३
SK
गुरुस्तावत्स एवात्र तच्छब्देनावमृश्यते / तादृक्स्वभ्यस्तविज्ञानभाजोर्ध्वपदशालिना // ७४
SK
अनुद्धृतस्य न श्रेय एतदन्यगुरूद्धृतेः / अत एवाम्बुजन्मार्कदृष्टान्तोत्र निरूपितः // ७५
SK
त्रिजगज्ज्योतिषो ह्यन्यत्तेजोन्यच्च निशाकृतः / ज्ञानमन्यत्त्रिकगुरोरन्यत्त्वधरवर्तिनाम् // ७६
SK
अत एव पुराभूतगुर्वभावो यदा तदा / तदन्यं लक्षणोपेतमाश्रयेत्पुनरुन्मुखः // ७७
SK
सति तस्मिंस्तून्मुखः सन्कस्माज्जह्याद्यदि स्फुटम् / स्यादन्यतरगो दोषो योधिकारापघातकः // ७८
SK
दोषश्चेह न लोकस्थो दोषत्वेन निरूप्यते / अज्ञानख्यापनायुक्तख्यापनात्मा त्वसौ मतः // ७९
SK
शिष्यस्यापि तथाभूतज्ञानानाश्वस्तरूपता / मुख्यो दोषस्तदन्ये हि दोषास्तत्प्रभवा यतः // ८०
SK
न ध्वस्तव्याधिकः को हि भिषजं बहु मन्यते / असूयुर्नूनमध्वस्तव्याधिः स्वस्थायते बलात् // ८१
SK
एवं ज्ञानसमाश्वस्तः किं किं न गुरवे चरेत् / नो चेन्नूनमविश्वस्तो विश्वस्त इव तिष्ठति // ८२
SK
अज्ञानादय एवैते दोषा न लौकिका गुरोः / इति ख्यापयितुं प्रोक्तं मालिनीविजयोत्तरे // ८३
SK
न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम् / स एव तद्विजानाति युक्तं चायुक्तमेव वा // ८४
SK
अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु / तदा निवारणीयोसौ प्रणतेन विपश्चिता // ८५
SK
विशेषणमकार्याणामुक्ताभिप्रायमेव यत् / तेनातिवार्यमाणोपि यद्यसौ न निवर्तते // ८६
SK
तदान्यत्र क्वचिद्गत्वा शिवमेवानुचिन्तयेत् / न ह्यस्य स गुरुत्वे स्याद्दोषो येनोषरे कृषिम् // ८७
SK
कुर्याद्व्रजेन्निशायां वा स त्वर्थप्राणहारकः / तदीयाप्रियभीरुस्तु परं तादृशमाचरेत् // ८८
SK
यतस्तदप्रियं नैष शृणुयादिति भाषितम् / श्रीमातङ्गे तदुक्तं च नाधीतं भूमभीतितः // ८९
SK
यच्चैतदुक्तमेतावत्कर्तव्यमिति तद्ध्रुवम् / तीव्रशक्तिगृहीतानां स्वयमेव हृदि स्फुरेत् // ९०
SK
उपदेशस्त्वयं मन्दमध्यशक्तेर्निजां क्रमात् / शक्तिं ज्वलयितुं प्रोक्तः सा ह्येवं जाज्वलीत्यलम् // ९१
SK
दृढानुरागसुभगसंरम्भाभोगभागिनः / स्वोल्लासि स्मरसर्वस्यं दार्ढ्यायान्यत्र दृश्यते // ९२
SK
नन्वेष कस्माद्दृष्टान्तः किमेतेनाशुभं कृतम् / चित्स्पन्दः सर्वगो भिन्नादुपाधेः स तथा तथा // ९३
SK
भवेत्कोपि तिरोभूतः पुनरुन्मुखितोपि सन् / विनापि दैशिकात्प्राग्वत्स्वयमेव विमुच्यते // ९४
SK
प्रकारस्त्वेष नात्रोक्तः शक्तिपातबलाद्गतः / असंभाव्यतया चात्र दृढकोपप्रसादवत् // ९५
SK
इत्येष यो गुरोः प्रोक्तो विधिस्तं पालयेद्गुरुः / अन्यथा न शिवं यायाच्छ्रीमत्सारे च वर्णितम् // ९६
SK
अन्यायं ये प्रकुर्वन्ति शास्त्रार्थं वर्जयन्त्यलम् / तेर्धनारीशपुरगा गुरवः समयच्युताः // ९७
SK
अन्यत्राप्यधिकारं च नेयाद्विद्येशतां व्रजेत् / अन्यत्र समयत्यागात्क्रव्यादत्वं शतं समाः // ९८
SK
इयत्तत्रत्यतात्पर्यं सिद्धान्तगुरुरुन्नयः / भवेत्पिशाचविद्येशः शुद्ध एव तु तान्त्रिकः // ९९
SK
षडर्धदैशिकश्चार्धनारीशभुवनस्थितिः / एषा कर्मप्रधानानां गुरूणां गतिरुच्यते // १००
SK
ज्ञानिनां चैष नो बन्ध इति सर्वत्र वर्णितम् / साधकस्याभिषेकेपि सर्वोयं कथ्यते विधिः // १०१
SK
अधिकारार्पणं नात्र नच विद्याव्रतं किल / साध्यमन्त्रार्पणं त्वत्र स्वोपयोगिक्रियाक्रमे // १०२
SK
समस्तेप्युपदेशः स्यान्निजोपकरणार्पणम् / अभिषेकविधिर्निरूपितः परमेशेन यथा निरूपितः // १०३

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source