Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 2: atha śrītantrālokasya dvitīyamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं / तन्निर्णेतुं प्रकरणमिदमारभेहं द्वितीयम् // १
SK
अनुपायं हि यद्रूपं कोर्थो देशनयात्र वै / सकृत्स्याद्देशना पश्चादनुपायत्वमुच्ययते // २
SK
अनुपायमिदं तत्त्वमित्युपायं विना कुतः / स्वयं तु तेषां तत्तादृक् किं ब्रूमः किल तान्प्रति // ३
SK
यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ / स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः // ४
SK
एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते / केप्यंशांशिकया तेन विशन्त्यन्ये निरंशतः // ५
SK
तत्रापि चाभ्युपायादिसापेक्षान्यत्वयोगतः / उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता // ६
SK
तत्र ये निर्मलात्मानो भैरवीयां स्वसंविदम् / निरुपायामुपासीनास्तद्विधिः प्रणिगद्यते // ७
SK
तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति / स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते // ८
SK
ज्ञप्तावुपाय एव स्यादिति चेज्ज्ञप्तिरुच्यते / प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् // ९
SK
संवित्तत्त्वं स्वप्रकाशमित्यस्मिन्कं नु युक्तिभिः / तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् // १०
SK
यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन / स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक्कथम् // ११
SK
त्यजावधानानि ननु क्व नाम धत्सेवधानं विचिनु स्वयं तत् / पूर्णेवधानं न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् // १२
SK
तेनावधानप्राणस्य भावनादेः परे पथि / भैरवीये कथंकारं भवेत्साक्षादुपायता // १३
SK
येपि साक्षादुपायेन तद्रूपं प्रविविञ्चते / नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः // १४
SK
किं च यावदिदं बाह्यमान्तरोपायसंमतम् / तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः // १५
SK
नीलं पीतं सुखमिति प्रकाशः केवलः शिवः / अमुष्मिन्परमाद्वैते प्रकाशात्मनि कोपरः // १६
SK
उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः // १७
SK
इदं द्वैतमयं भेद इदमद्वैतमित्यपि / प्रकाशवपुरेवायं भासते परमेश्वरः // १८
SK
अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितर्जडः / घटकुम्भवदेकार्थाः शब्दास्तेप्येकमेव च // १९
SK
प्रशाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् / प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः // २०
SK
अप्रकाशेथ तस्मिन्वा वस्तुता कथमुच्यते / न प्रकाशविशेषत्वमत एवोपपद्यते // २१
SK
अत एकप्रकाशोयमिति वादेत्र सुस्थिते / दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः // २२
SK
प्रकाशमात्रमुदितमप्रकाशनिषेधनात् / एकशब्दस्य न त्वर्थः संख्या चिद्व्यक्तिभेदभाक् // २३
SK
नैष शक्तिर्महादेवी न परत्राश्रितो यतः / न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः // २४
SK
नैष ध्येयो ध्यात्रभावान्न ध्याता ध्येयवर्जनात् / न पूज्यः पूजकाभावात्पूज्याभावान्न पूजकः // २५
SK
न मन्त्रो न च मन्त्र्योसौ न च मन्त्रयिता प्रभुः / न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः // २६
SK
स्थानासननिरोधार्घसंघानावाहनादिकम् / विसर्जनान्तं नास्त्यत्र कर्तृकर्मक्रियोज्झिते // २७
SK
न सन्न चासत्सदसन्न च तन्नोभयोज्झितम् / दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् // २८
SK
अयमित्यवभासो हि यो भावोवच्छिदात्मकः / स एव घटवल्लोके संस्तथा नैष भैरवः // २९
SK
असत्त्वं चाप्रकाशत्वं न कुत्राप्युपयोगिता / विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः // ३०
SK
आभ्यामेव तु हेतुभ्यां न द्व्यात्मा न द्वयोज्झितः / सर्वात्मना हि भात्येष केन रूपेण मन्त्र्यताम् // ३१
SK
श्रीमत्त्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम् / शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भ परं पदम् // ३२
SK
न भावो नाप्यभावो न द्वयं वाचामगोचरात् / अकथ्यपदवीरूढं शक्तिस्थं शक्तिवर्जितम् // ३३
SK
इति ये रूढसंवित्तिपरमार्थपवित्रिताः / अनुत्तरपथे रूढास्तेभ्युपायानियन्त्रिताः // ३४
SK
तेषामिदं समाभाति सर्वतो भावमण्डलम् / पुरःस्थमेव संवित्तिभैरवाग्निविलापितम् // ३५
SK
एतेषां सुखदुःखांशशंकातंकविकल्पनाः / निर्विकल्पपरावेशमात्रशेषत्वमागताः // ३६
SK
एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना / न समय्यादिकाचार्यपर्यन्तः कोपि विश्रमः // ३७
SK
समस्तयन्त्रणातन्त्रत्रोटनाटंकधर्मिणः / नानुग्रहात्परं किंचिच्छेषवृत्तौ प्रयोजनम् // ३८
SK
स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्नान्नो पारार्थ्यं प्रति घटयते कांचन स्वप्रवृत्तिम् / यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् // ३९
SK
तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः / तेपि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता // ४०
SK
एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते / दीक्षान्तं विभुना श्रीमत्सिद्धयोगीश्वरीमते // ४१
SK
स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः / पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा // ४२
SK
ततोपि योगजं रूपं ततोपि ज्ञानमुत्तरम् / ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति // ४३
SK
सोपि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् / अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् // ४४
SK
अनुग्राह्यानुसारेण विचित्रः स च कथ्यते / परापराद्युपायौघसंकीर्णत्वविभेदतः // ४५
SK
तदर्थमेव चास्यापि परमेश्वररूपिणः / तदभ्युपायशास्त्रादिश्रवणाध्ययनादरः // ४६
SK
नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना / नानिर्मलचितः पुंसोनुग्रहस्त्वनुपायकः // ४७
SK
श्रीमदूर्मिमहाशास्त्रे सिद्धसंतानरूपके / इदमुक्तं तथा श्रीमत्सोमानन्दादिदैशिकैः // ४८
SK
गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् / विलीने शंकाभ्रे त्दृदयगगनोद्भासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः // ४९
SK
इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् // ५०

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya