Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 19: atha śrītantrāloke ekānnaviṃśamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते / तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत् / इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना // १
SK
देहपाते समीपस्थे शक्तिपातस्फुटत्वतः / आसाद्य शांकरीं दीक्षां तस्माद्दीक्षाक्षणात्परम् // २
SK
शिवं व्रजेदित्यर्थोत्र पूर्वापरविवेचनात् / व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना // ३
SK
यदा ह्यासन्नमरणे शक्तिपातः प्रजायते / तत्र मन्देथ गुर्वादिसेवयायुः क्षयं व्रजेत् // ४
SK
अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत् / पूर्वं वा समयी नैव परां दीक्षामवाप्तवान् // ५
SK
आप्तदीक्षोपि वा प्राणाञ्जिहासुः क्लेशवर्जितम् / अन्त्यान्गुरुस्तदा कुर्यात्सद्य+उत्क्रान्तिदीक्षणम् // ६
SK
नत्वपक्वमले नापि शेषकार्मिकविग्रहे / कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम् // ७
SK
दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् / उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् // ८
SK
विशेषणविशेष्यत्वे कामचारविधानतः / पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम् // ९
SK
विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः / क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम् // १०
SK
कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम् / संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु // ११
SK
आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम् / पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम् // १२
SK
तमुत्कृष्य ततोङ्गुष्ठादूर्ध्वान्तं वक्ष्यमाणया / कृन्तेन्मर्माणि रन्ध्रान्तात् कालरात्र्या विसर्जयेत् // १३
SK
अनेन क्रमयोगेन योजितो हुतिवर्जितः / समय्यप्येति तां दीक्षामिति श्रीमालिनीमते // १४
SK
षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात् / क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत् // १५
SK
प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात् / पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत् // १६
SK
ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्ज्वलम् / चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् // १७
SK
दीपनं ताडनं तोदं चलनं च पुनः पुनः / कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे // १८
SK
द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत् / निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः // १९
SK
न तस्य कुर्यात्संस्कारं कंचिदित्याह गह्वरे / देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः // २०
SK
श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः / हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः // २१
SK
शिष्यदेहे नियोज्यैतदनुद्वग्नः शतं जपेत् / उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत् // २२
SK
एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते / इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः // २३
SK
अनभ्यस्तप्राणचारः कथमेनां करिष्यति / वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम् // २४
SK
कर्णेस्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत् / स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः // २५
SK
मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे / योगाभ्यासमकृत्वापि सद्य+उत्क्रान्तिदां गुरुः // २६
SK
ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः / अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम् // २७
SK
कालस्योल्लङ्घ्य भोगो हि क्षणिकोस्यास्तु किं ततः / सद्य+उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा // २८
SK
दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः / विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः // २९
SK
कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः / निःसारयन्यथाभीष्टे सकले निष्कले द्वये // ३०
SK
तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात् / समयी पुत्रको वापि पठेद्विद्यामिमां तथा // ३१
SK
तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते / एतौ जपे चाध्ययने यस्मादधिकृतावुभौ // ३२
SK
नाध्यापनोपदेशे वा स एषोध्ययनादृते / पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः // ३३
SK
यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम् / आविष्टेपि क्वचिन्नैति लोपं कर्तृत्ववर्जनात् // ३४
SK
यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि / न लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः // ३५
SK
तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः / तस्मिन्मुक्ते न लुप्येत यतो किंचित्करोत्र सः // ३६
SK
ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम् // ३७
SK
हन्त कुड्याग्रतोप्यस्य निषेधस्त्वथ कथ्यते / पर्युदासेन यः श्रोतुमवधारयितुं क्षमः // ३८
SK
स एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः / तर्हि पाषाणतुल्योसौ विलीनेन्द्रियवृत्तिकः // ३९
SK
तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम् / स तु वस्तुस्वभावेन गलिताक्षोपि बुध्यते // ४०
SK
अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया / प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान् // ४१
SK
मध्ये प्रबोधकबलात् प्रतिबुध्येत् पुद्गलः / मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम् // ४२
SK
अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः / तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम् // ४३
SK
स्वचित्समानजातीयमन्त्रामर्शनसंनिधेः / यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः // ४४
SK
जवी तथात्मा संसुप्तामर्शोप्येवं प्रबुध्यते / प्रबुद्धः स च संजातो न चादीक्षित उच्यते // ४५
SK
दीक्षा हि नाम संस्कारो न त्वन्यत्सोस्ति चास्य हि / अत एव निजं शास्त्रं पठति क्वापि सामये // ४६
SK
तच्छ्रुत्वा कोपि धन्यश्चेन्मुच्यते नास्य सा क्षतिः / शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम् // ४७
SK
इत्येवंपरमेतन्नादीक्षिताग्रे पठेदिति / यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम् // ४८
SK
कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि / यतोस्य प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा // ४९
SK
प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः / साधकस्तु सदा साध्ये फले नियतियन्त्रणात् // ५०
SK
मक्षिकाश्रुतमन्त्रोपि प्रायश्चित्तौचितीं चरेत् / इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः // ५१
SK
समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये / स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः // ५२
SK
अकृताधिकृतिर्वापि गुरुः समयशुद्धये / अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः // ५३
SK
इतीयं सद्य+उत्क्रान्तिः सूचिता मालिनीमते / स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना // ५४
SK
सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि / तदा तेन क्रमेणाशु योजितः समयी शिवः // ५५
SK
उक्तेयं सद्य+उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः // ५६

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya