SKइति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते // १ब्
SKनियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते / मुख्यत्वं तन्मयीभूतिः सर्वं नैमित्तिकं ततः // २
SKदिनादिकल्पनोत्थे तु नैयत्ये सर्वनित्यता / दिनमासर्क्षवर्षादिनैयत्यादुच्यते तदा // ३
SKअशङ्कितव्यावश्यन्तासत्ताकं जातुचिद्भवम् / प्रमात्रनियतं प्राहुर्नैमित्तिकमिदं बुधाः // ४
SKसन्ध्यादि पर्वसंपूजा पवित्रकमिदं सदा / नित्यं नियतरूपत्वात्सर्वस्मिन् शासनाश्रिते // ५
SKज्ञानशास्त्रगुरुभ्रातृतद्वर्गप्राप्तयस्तथा / तज्जन्मसंस्क्रियाभेदाः स्वजन्मोत्सवसंगतिः // ६
SKश्राद्धं विपत्प्रतीकारः प्रमोदोद्भुतदर्शनम् / योगिनीमेलकः स्वांशसन्तानाद्यैश्च मेलनम् // ७
SKशास्त्रव्याख्यापुरामध्यावसानानि क्रमोदयः / देवतादर्शनं स्वाप्नमाज्ञा समयनिष्कृतिः // ८
SKइति नैमित्तिकं श्रीमत्तन्त्रसारे निरूपितम् / त्रयोविंशतिभेदेन विशेषार्चानिबन्धनम् // ९
SKतत्र पर्वविधिं ब्रूमो द्विधा पर्व कुलाकुलम् / कुलाष्टककृतं पूर्वं प्रोक्तं श्रीयोगसंचरे // १०
SKअब्धीन्दु मुनिरित्येतन्माहेश्या ब्रह्मसन्ततेः / प्रतिपत्पञ्चदश्यौ द्वे कौमार्या रसवह्नियुक् // ११
SKअब्धिरक्षीन्दु वैष्णव्या ऐन्द्र्यास्त्वस्त्रं त्रयोदशी / वाराह्या रन्ध्ररुद्रौ द्वे चण्ड्या वस्वक्षियुग्मकम् // १२
SKद्वे द्वे तिथी तु सर्वासां योगेश्या दशमी पुनः / तस्या अप्यष्टमी यस्माद्द्वितिथिः सा प्रकीर्तिता // १३
SKअन्याश्चाकुलपर्वापि वैपरीत्येन लक्षितम् / कुलपर्वेति तद्ब्रूमो यथोक्तं भैरवे कुले // १४
SKहैडरे त्रिकसद्भावे त्रिककालीकुलादिके / योयं प्राणाश्रितः पूर्वं कालः प्रोक्तः सुविस्तरात् // १५
SKस चक्रभेदसंचारे कांचित् सूते स्वसंविदम् / स्वसंवित्पूर्णतालाभसमयः पर्व भण्यते // १६
SKपर्व पूरण इत्येव यद्वा पॄ पूरणार्थकः / पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति // १७
SKहैडरेत्र च शब्दोयं द्विधा नान्तेतरः श्रुतः / तच्चक्रचारनिष्णाता ये केचित् पूर्णसंविदः // १८
SKतन्मेलकसमायुक्तास्ते तत्पूजापराः सदा / योप्यतन्मय एषोपि तत्काले स्वक्रमार्चनात् // १९
SKतद्योगिनीसिद्धसङ्घमेलकात् तन्मयीभवेत् / यथा प्रेक्षणके तत्तद्द्रष्टृसंविदभेदिताम् // २०
SKक्रमोदितां सद्य एव लभते तत्प्रवेशनात् / योगाभ्यासक्रमोपात्तां तथा पूर्णां स्वसंविदम् // २१
SKलभन्ते सद्य एवैतत्संविदैक्यप्रवेशनात् / तत्कालं चापि संवित्तेः पूर्णत्वात् कामदोग्धृता // २२
SKतेन तत्तत्फलं तत्र काले संपूजयाचिरात् / यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात् // २३
SKअतिथिं सोनुगृह्णाति तत्कालाभिज्ञमागतम् / तथा सुफलसंसिद्ध्यै योगिनीसिद्धनायकाः // २४
SKयत्नवन्तोपि तत्कालाभिज्ञं तमनुगृह्णते / उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम् // २५
SKयस्य यद्धृदये देवि वर्तते दैशिकाज्ञया / मन्त्रो योगः क्रमश्चैव पूजनात् सिद्धिदो भवेत् // २६
SKकुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये / ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः // २७
SKगुरूणां देवतानां च न कुर्वन्ति प्रमादतः / दुराचारा हि ते दुष्टाः पशुतुल्या वरानने // २८
SKअभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत् / अटनं ज्ञानशक्त्यादिलाभार्थं यत्प्रकीर्तितम् // २९
SKशक्तियागश्च यः प्रोक्तो वश्याकर्षणमारणम् / तत्सर्वं पर्वदिवसेष्वयत्नेनैव सिद्ध्यति // ३०
SKतत्सामान्यविशेषाभ्यां षोढा पर्व निरूपितम् / मासस्याद्यं पञ्चमं च श्रीदिनं परिभाष्यते // ३१
SKउत्कृष्टत्वात् पर्वदिनं श्रीपूर्वत्वेन भाष्यते / समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत् // ३२
SKतुर्याष्टमान्यभुवनचरमाणि द्वयोरपि / पक्षयोरिह सामान्यसामान्यं पर्व कीर्तितम् // ३३
SKयदेतेषु दिनेष्वेव भविष्यद्ग्रहभात्मकः / उभयात्मा विशेषः स्यात्तत्सामान्यविशेषता // ३४
SKसा चैकादशधैकस्मिन्नेकस्मिन्विभुनोदिता / सजातीया तु सोत्कृष्टेत्येवं शम्भुर्न्यरूपयत् // ३५
SKकृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः / अर्केन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात् // ३६
SKपरफल्गुश्चैत्रमघे तिष्यः प्राक्फल्गुकर्णशतभिषजः / मूलप्राजापत्ये विशाखिका श्रवणसंज्ञया भानि // ३७
SKरन्ध्रे तिथ्यर्कपरे वसुरन्ध्रे शशिवृषाङ्करसरन्ध्रयुगम् / प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम् // ३८
SKप्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु / कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती // ३९
SKव्याससमासात् क्रमशः पूज्याश्चक्रेनुयागाख्ये / सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः // ४०
SKगुप्तागुप्तविधानादियागचर्याक्रमेण सम्पूर्णम् / अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे // ४१
SKअनुयागकाललाभे तस्मात्प्रयतेत तत्परमः / भग्रहसमयविशेषो नाश्वयुजे कोपि तेन तद्वर्जम् // ४२
SKवेलाभग्रहकलना कथितैकादशसु मासेषु / फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व // ४३
SKअग्रतिथिवेधयोगो मुख्यतमोसौ विशेषोत्र / दिवसनिशे किल कृत्वा त्रिभागशः प्रथममध्यमापरविभागः // ४४
SKपूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः / यदि संघटेत वेला मुख्यतमा भग्रहौ तथा चक्रम् // ४५
SKतद्याग आदियागस्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत् / दिनवेलाभग्रहकल्पनेन तत्रापि सौम्यरौद्रत्वम् // ४६
SKज्ञात्वा साधकमुख्यस्तत्तत्कार्यं तदा तदा कुर्यात् / उक्तो योर्चाकालस्तं चेदुल्लङ्घ्य भग्रहतिथिः स्यात् // ४७
SKतमनादृत्य विशेषं प्रधानयेत्सामयमिति केचित् / नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला // ४८
SKसंवेद्यरूपशशधरभागः संवेदकार्ककरनिकरैः / यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति // ४९
SKतस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहर्क्षयोगेन / वेलात्र न प्रधानं युक्तं चैतत्तथाहि परमेशः // ५०
SKश्रीत्रिकभैरवकुलशास्त्रेषूचे न पर्वदिवसेषु / वेलायोगं कंचन तिथिभग्रहयोगतो ह्यन्यम् // ५१
SKतिथिस्तु पूज्या प्रधानरूपत्वात् / श्वेताभावे कृष्णच्छागालम्भं हि कथयन्ति // ५२
SKयत्पुनरूर्मिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम् / मुख्यतयोद्दिश्य विधिं तथाच तत्र पौषपर्वदिने // ५३
SKकृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा / आदेशः फलति तथा माघे चक्राद्वचः फलति // ५४
SKअचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः / चक्रस्थाने क्रोधात् पाषाणस्फोटनेन रिपुनाशः // ५५
SKसिद्धादेशप्राप्तिर्मार्गान्तं कथ्यते विभुना / भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत // ५६
SKसा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात् / भग्रहतिथिवेलांशानुयायि सर्वाङ्गसुन्दरं तु दिनम् // ५७
SKयदि लभ्येत तदास्मिन्विशेषतमपूजनं रचयेत् / नच काम्यमेव केवलमेतत्परिवर्जने यतः कथितः // ५८
SKसमयविलोपः श्रीमद्भैरवकुल ऊर्मिशास्त्रे च / दुष्टा हि दुराचाराः पशुतुल्याः पर्व ये न विदुः // ५९
SKनच काम्यस्याकरणे स्याज्जातु प्रत्यवायित्वम् / तत्रानुयागसिद्ध्यर्थं चक्रयागो निरूप्यते // ६०
SKमूर्तियाग इति प्रोक्तो यः श्रीयोगीश्वरीमते / नित्यं नैमित्तिकं कर्म यदत्रोक्तं महेशिना // ६१
SKसर्वत्र चक्रयागोत्र मुख्यः काम्ये विशेषतः / ज्ञानी योगी च पुरुषः स्त्री वास्मिन्मूर्तिसंज्ञके // ६२
SKयोगे प्रयत्नतो योज्यस्तद्धि पात्रमनुत्तरम् / तत्संपर्कात्पूर्णता स्यादिति त्रैशिरसादिषु // ६३
SKतेन सर्वं हुतं चेष्टं त्रैलोक्यं सचराचरम् / ज्ञानिने योगिने वापि यो ददाति करोति वा // ६४
SKदीक्षोत्तरेपि च प्रोक्तमन्नं ब्रह्मा रसो हरिः / भोक्ता शिव इति ज्ञानी श्वपचानप्यथोद्धरेअत् // ६५
SKसर्वतत्त्वमयो भूत्वा यदि भुङ्क्ते स साधकः / तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता // ६६
SKअथ तत्त्वविदेतस्मिन्यदि भुञ्जीत तत् प्रिये / परिसंख्या न विद्येत तदाह भगवाञ्छिवः // ६७
SKभोज्यं मायात्मकं सर्वं शिवो भोक्ता स चाप्यहम् / एवं यो वै विजानाति दैशिकस्तत्त्वपारगः // ६८
SKतं दृष्ट्वा देवमायान्तं क्रीडन्त्योषधयो गृहे / निवृत्तमद्यैवास्माभिः संसारगहनार्णवात् // ६९
SKयदस्य वक्त्रं संप्राप्ता यास्यामः परमं पदम् / अन्येपानभुजो ह्यूर्ध्वे प्राणोपानस्त्वधोमुखः // ७०
SKतस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि / आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात् // ७१
SKश्रीमन्निशाटनेप्युक्तं कथनान्वेषणादपि / श्रोत्राभ्यन्तरसंप्राप्ते गुरुवक्त्राद्विनिर्गते // ७२
SKमुक्तस्तदैव काले तु यन्त्रं तिष्ठति केवलम् / सुरापः स्तेयहारी च ब्रह्महा गुरुतल्पगः // ७३
SKअन्त्यजो वा द्विजो वाथ बालो वृद्धो युवापि वा / पर्यन्तवासी यो ज्ञानी देशस्यापि पवित्रकः // ७४
SKतत्र संनिहितो देवः सदेवीकः सकिङ्करः / तस्मात्प्राधान्यतः कृत्वा गुरुं ज्ञानविशारदम् // ७५
SKमूर्तियागं चरेत्तस्य विधिर्योगीश्वरीमते / पवित्रारोहणे श्राद्धे तथा पर्वदिनेष्वलम् // ७६
SKसूर्यचन्द्रोपरागादौ लौकिकेष्वपि पर्वसु / उत्सवे च विवाहादौ विप्राणां यज्ञकर्मणि // ७७
SKदीक्षायां च प्रतिष्ठायां समयानां विशोधने / कामनार्थं च कर्तव्यो मूर्तियागः स पञ्चधा // ७८
SKकेवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः / केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः // ७९
SKसाधकाद्यैः सपत्नीकैर्यामलः स द्विधा पुनः / पत्नीयोगात् क्रयानीतवेश्यासंयोगतोथवा // ८०
SKचक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगाद्यथोचिताः / तत्संयोगाच्चक्रयुक्तो यागः सर्वफलप्रदः // ८१
SKसर्वैस्तु सहितो यागो वीरसङ्कर उच्यते / मध्ये गुरुर्भवेत्तेषां गुरुवर्गस्तदावृतिः // ८२
SKतिस्र आवृतयो बाह्ये समय्यन्ता यथाक्रमम् / पङ्क्तिक्रमेण वा सर्वे मध्ये तेषां गुरुः सदा // ८३
SKतदा तद्गन्धधूपस्रक्समालम्भनवाससा / पूज्यं चक्रानुसारेण तत्तच्चक्रमिदं त्विति // ८४
SKएकारके यथा चक्रे एकवीरविधिं स्मरेत् / द्व्यरे यामलमन्यत्र त्रिकमेवं षडस्रके // ८५
SKषड्योगिनीः सप्तकं च सप्तारेष्टाष्टके च वा / अन्यद्वा तादृशं तत्र चक्रे तादृक्स्वरूपिणि // ८६
SKततः पात्रेलिसंपूर्णे पूर्वं चक्रं यजेत्सुधीः / आधारयुक्ते नाधाररहितं तर्पणं क्वचित् // ८७
SKआधारेण विना भ्रंशो नच तुष्यन्ति रश्मयः / प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः // ८८
SKभोक्त्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः / अणुशक्तिशिवात्मेत्थं ध्यात्वा संमिलितं त्रयम् // ८९
SKततस्तु तर्पणं कार्यमावृतेरावृतेः क्रमात् / प्रतिसंचरयोगेन पुनरन्तः प्रवेशयेत् // ९०
SKयावद्गुर्वन्तिकं तद्धि पूर्णं भ्रमणमुच्यते / तत्रादौ देवतास्तर्प्यास्ततो वीरा इति क्रमः // ९१
SKवीरश्च वीरशक्तिश्चेत्येवमस्मद्गुरुक्रमः / ततोवदंशान्विविधान् मांसमत्स्यादिसंयुतान् // ९२
SKअग्रे तत्र प्रविकिरेत् तृप्त्यन्तं साधकोत्तमः / पात्राभावे पुनर्भद्रं वेल्लिताशुक्तिमेव च // ९३
SKपात्रे कुर्वीत मतिमानिति सिद्धामते क्रमः / दक्षहस्तेन भद्रं स्याद्वेल्लिता शुक्तिरुच्यते // ९४
SKदक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम् / तर्जन्यङ्गुष्ठयोगेन दक्षाधो वामकाङ्गुलीः // ९५
SKनिःसन्धिबन्धौ द्वावित्थं वेल्लिता शुक्तिरुच्यते / ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम् // ९६
SKतैस्तुष्यन्ति हि वेतालगुह्यकाद्या गभस्तयः / धारया भैरवस्तुष्येत् करपानं परं ततः // ९७
SKप्रवेशोत्र न दातव्यः पूर्वमेव हि कस्यचित् / प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत् // ९८
SKएवं कृत्वा क्रमाद्यागमन्ते दक्षिणया युतम् / समालम्भनताम्बूलवस्त्राद्यं वितरेद्बुधः // ९९
SKरूपकार्धात् परं हीनां न दद्याद्दक्षिणां सुधीः / समयिभ्यः क्रमाद्द्विद्विगुणा गुर्वन्तकं भवेत् // १००
SKएष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः / काम्ये तु संविधौ सप्तकृत्वः कार्यस्तथाविधः // १०१
SKजानन्ति प्रथमं गेहं ततस्तस्य समर्थताम् / बलाबलं ततः पश्चाद्विस्मयन्तेत्र मातरः // १०२
SKततोपि संनिधीयन्ते प्रीयन्ते वरदास्ततः / देवीनामथ नाथस्य परिवारयुजोप्यलम् // १०३
SKवल्लभो मूर्तियागोयमतः कार्यो विपश्चिता / राक्तौ गुप्ते गृहे वीराः शक्तयोन्योन्यमप्यलम् // १०४
SKअसंकेतयुजो योज्या देवताशब्दकीर्तनात् / अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत् // १०५
SKकाम्यार्थे तु न तां व्यङ्गां स्तनपुष्पवतीं तथा / प्रतिपच्छ्रुतिसंज्ञे च चतुर्थी चोत्तरात्रये // १०६
SKहस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ / सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा // १०७
SKमूले तु द्वादशी ब्राह्मे भूताश्विन्यां च पूर्णिमा / धनिष्ठायाममावस्या सोयमेकादशात्मकः // १०८
SKअर्कादित्रयशुक्रान्यतमयुक्तोप्यहर्गणः / योगपर्वेति विख्यातो रात्रौ वा दिन एव वा // १०९
SKयोगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा / यः सर्वान्योगपर्वाख्यान् वासरान् पूजयेत्सुधीः // ११०
SKमूर्तियागेन सोपि स्यात् समयी मण्डलं विना / इत्येष मूर्तियागः श्रीसिद्धयोगीश्वरीमते // १११
SKअथोच्यते शिवेनोक्तः पवित्रकविधिः स्फुटः / श्रीरत्नमालात्रिशिरःशास्त्रयोः सूचितः पुनः // ११२
SKश्रीसिद्धाटनसद्भावमालिनीसारशासने / तत्र प्राधान्यतः श्रीमन्मालोक्तो विधिरुच्यते // ११३
SKक्षीराब्धिमथनोद्भूतविषनिद्राविमूर्च्छितः / नागराजः स्वभुवने मेघकाले स्म नावसत् // ११४
SKकेवलं तु पवित्रोयं वायुभक्षः समाः शतम् / दिव्यं दशगुणं नाथं भैरवं पर्यपूजयत् // ११५
SKव्यजिज्ञपच्च तं तुष्टं नाथं वर्षास्वहं निजे / पाताले नासितुं शक्तः सोप्येनं परमेश्वरः // ११६
SKनागं निजजटाजूटपीठगं पर्यकल्पयत् / ततः समस्तदेवौघैर्धारितोसौ स्वमूर्धनि // ११७
SKमहतां महितानां हि नाद्भुत विश्वपूज्यता / तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः // ११८
SKआत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम् / दश कोट्यो न पूजानां पवित्रारोहणे समाः // ११९
SKवृथा दीक्षा वृथा ज्ञानं गुर्वाराधनमेव च / विना पवित्राद्येनैतद्धरेन्नागः शिवाज्ञया // १२०
SKतस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः / आषाढशुक्लान्मिथुनकर्कटस्थे रवौ विधिः // १२१
SKकर्तव्यः सोनिरोधेन यावत्सा तुलपूर्णिमा / तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम् // १२२
SKकुलशब्दं पठन्तोन्ये व्याख्याभेदं प्रकुर्वते / नित्यातन्त्रविदः कृष्णं कार्तिकाच्चरमं दिनम् // १२३
SKकुलस्य नित्याचक्रस्य पूर्णत्वं यत्र तन्मतम् / माघशुक्लान्त्यदिवसः कुलपर्वेति तन्मतम् // १२४
SKपूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा / दक्षिणोत्तरगः कालः कुलाकुलतयोदितः // १२५
SKकुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते / दक्षिणायनषण्मासकर्तव्यत्वमतो विधौ // १२६
SKपवित्रके प्रकाशत्वसिद्ध्यै कृष्णस्य वर्त्मनः / तदेतद्बहुशास्त्रोक्तं रूपं देवो न्यरूपयत् // १२७
SKएकेनैव पदेन श्रीरत्नमालाकुलागमे / तदत्र समये सर्वविधिसंपूरणात्मकः // १२८
SKपवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा / पूरणं शक्तियोगेन शक्त्यात्म च सितं दलम् // १२९
SKदक्षिणायनसाजात्यात् तेन तद्विधिरुच्यते / एकद्वित्रिचतुःपञ्चषड्लतैकतमं महत् // १३०
SKहेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम् / सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ // १३१
SKपरे गुरौ तु त्र्यधिकमध्यब्धि परमेष्ठिनि / प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम् // १३२
SKअष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम् / विद्यापीठाक्षसूत्रादौ गुरुवच्छिववत् पुनः // १३३
SKवटुके कनकाभावे रौप्यं तु परिकल्पयेत् / पाट्टसूत्रमथ क्षौमं कार्पासं त्रित्रितानितम् // १३४
SKतस्मान्नवगुणात् सूत्रात्त्रिगुणादिक्रमात् कुरु / चण्डांशुगुणपर्यन्तं ततोपि त्रिगुणं च वा // १३५
SKतेनाष्टादशतन्तूत्थमधमं मध्यमं पुनः / अष्टोत्तरशतं तस्मात् त्रिगुणं तूत्तमं मतम् // १३६
SKग्रन्थयस्तत्त्वसंख्याताः षडध्वकलनावशात् / यद्वा व्याससमासाभ्यां चित्राः सद्गन्धपूरिताः // १३७
SKविशेषविधिना पूर्वं पूजयित्वार्पयेत्ततः / पवित्रकं समस्ताध्वपरिपूर्णत्वभावनात् // १३८
SKगुर्वात्मनोर्जानुनाभिकण्ठमूर्धान्तगं च वा / ततो महोत्सवः कार्यो गुरुपूजापुरःसरः // १३९
SKतर्प्याः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः / महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान् // १४०
SKचातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः / तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत् // १४१
SKवह्निं च पश्चात्कर्तव्यश्चक्रयागः पुरोदितः / मासे मासे चतुर्मासे वर्षे वापि पवित्रकम् // १४२
SKसर्वथैव प्रकर्तव्यं यथाविभवविस्तरम् / वित्ताभावे पुनः कार्यं काशैरपि कुशोम्भितैः // १४३
SKसति वित्ते पुनः शाठ्यं व्याधये नरकाय च / नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात् // १४४
SKतत्रापि परिपूर्णत्वं पवित्रकसमर्चनात् / पवित्रकविलोपे तु प्रायश्चित्तं जपेत्सुधीः // १४५
SKसुशुद्धः सन्पुनः कुर्यादित्याज्ञा परमेशितुः / अथ त्रिशिरसि प्रोक्तो लिख्यते तद्विधिः स्फुटः // १४६
SKत्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा / दशाष्टादशभेदस्य षट्स्रोतस इहोच्यते // १४७
SKये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः / नित्यनैमित्तिकाद्यन्यपर्वसन्धिविवर्जिताः // १४८
SKअकामात् कामतो वापि सूक्ष्मपापप्रवर्तिनः / तेषां प्रशमनार्थाय पवित्रं क्रियते शिवे // १४९
SKश्रावणादौ कार्तिकान्ते शुक्लपक्षे शुभप्रदे / नतु दुःखप्रदे कृष्णे कर्तृराष्ट्रनृपादिषु // १५०
SKपाट्टसूत्रं तु कौशेयं कार्पासं क्षौममेव च / चातुराश्रमिकाणां तु सुभ्रुवा कर्तितोक्षितम् // १५१
SKत्रिधा तु त्रिगुणीकृत्य मानसंख्यां तु कारयेत् / अष्टोत्तरं तन्तुशतं तदर्धं वा तदर्धकम् // १५२
SKह्रासस्तु पूर्वसंख्याया दशभिर्दशभिः क्रमात् / नवभिः पञ्चभिः सप्तविंशत्या वा शिवादितः // १५३
SKयादृशस्तन्तुविन्यासो ग्रन्थीन्कुर्यात्तु तावतः / चतुःसमविलिप्तांस्तानथवा कुङ्कुमेन तु // १५४
SKव्यक्ते जानुतटान्तं स्याल्लिङ्गे पीठावसानकम् / अर्चासु शोभनं मूर्घ्नि त्रितत्त्वपरिकल्पनात् // १५५
SKद्वादशग्रन्थिशक्तीनां ब्रह्मवक्त्रार्चिषामपि / विद्यापीठे चले लिङ्गे स्थण्डिले च गुरोर्गणे // १५६
SKघण्टायां स्रुक्स्रुवे शिष्यलिङ्गिषु द्वारतोरणे / स्वदेहे वह्निपीठे च यथाशोभं तदिष्यते // १५७
SKप्रासादे यागगेहे च कारयेन्नवरङ्गिकम् / विद्यापीठे तु खशराः प्रतिमालिङ्गपीठगम् // १५८
SKवसुवेदं च घण्टायां शराक्ष्यष्टादश स्रुवे / वेदाक्षि स्रुचि षट्त्रिंशत् प्रासादे मण्डपे रविः // १५९
SKरसेन्दु स्नानगेहेब्धिनेत्रे ध्यानगृहे गुरौ / सप्त साधकगाः पञ्च पुत्रके सप्त सामये // १६०
SKचत्वारोथान्यशास्त्रस्थे शिष्ये पञ्चकमुच्यते / लिङ्गिनां केवलो ग्रन्थिस्तोरणे दश कल्पयेत् // १६१
SKद्वारेष्वष्टौ ग्रन्थयः स्युः कृत्वेत्थं तु पवित्रकम् / पूजयित्वा मन्त्रजालं तत्स्थत्वात्मस्थते ततः // १६२
SKपवित्रकाणां संपाद्य कुर्यात्संपातसंस्क्रियाम् / ततः संवत्सरं ध्यायेद्भैरवं छिद्रसाक्षिणम् // १६३
SKदत्त्वा पूर्णाहुतिं देवि प्रणमेन्मन्त्रभैरवम् / ॐ समस्तक्रियादोषपूरणेश व्रतं प्रति // १६४
SKयत्किंचिदकृतं दुष्टं कृतं वा मातृनन्दन / तत्सर्वं मम देवेश त्वत्प्रसादात्प्रणश्यतु // १६५
SKसर्वथा रश्मिचक्रेश नमस्तुभ्यं प्रसीद मे / अनेन दद्याद्देवाय निमन्त्रणपवित्रकम् // १६६
SKयोगिनीक्षेत्रमातॄणां बलिं दद्यात्ततो गुरुः / पञ्चगव्यं चरुं दन्तकाष्ठं शिष्यैः समन्ततः // १६७
SKआचार्य निद्रां कुर्वीत प्रातरुत्थाय चाह्निकम् / ततो विधिं पूजयित्वा पवित्राणि समाहरेत् // १६८
SKदन्तकाष्ठं मृच्च धात्री समृद्धात्री सहाम्बुना / चतुःसमं च तैः सार्धं भस्म पञ्चसु योजयेत् // १६९
SKप्राग्दक्षपश्चिमोर्ध्वस्थवामवक्त्रेषु वै क्रमात् / पञ्चैतानि पवित्राणि स्थापयेच्चेशगोचरे // १७०
SKकुशेध्म पञ्चगव्यं च शर्वाग्रे विनियोजयेत् / वामामृतादिसंयुक्तं नैवेद्यं त्रिविधं ततः // १७१
SKदद्यादसृक् तथा मद्यं पानानि विविधानि च / ततो होमो महाक्ष्माजमांसैस्तिलयुतैरथो // १७२
SKतिलैर्घृतयुतैर्यद्वा तण्डुलैरथ धान्यकैः / शर्कराखण्डसंयुक्तपञ्चामृतपरिप्लुतैः // १७३
SKमूलं सहस्रं साष्टोक्तं त्रिशक्तौ ब्रह्मवक्त्रकम् / अर्चिषां तु शतं साष्टं ततः पूर्णाहुतिं क्षिपेत् // १७४
SKततोञ्जलौ पवित्रं तु गृहीत्वा प्रपठेदिदम् / अकामादथवा कामाद्यन्मया न कृतं विभो // १७५
SKतदच्छिद्रं ममास्त्वीश पवित्रेण तवाज्ञया / मूलमन्त्रः पूरयेति क्रियानियममित्यथ // १७६
SKवौषडन्तं पवित्रं च दद्याद्बिन्द्ववसानकम् / नादान्तं समनान्तं चाप्युन्मनान्तं क्रमात्त्रयम् // १७७
SKएवं चतुष्टयं दद्यादनुलोमेन भौतिकः / नैष्ठिकस्तु विलोमेन पवित्रकचतुष्टयम् // १७८
SKयत्किञ्चिद्विविधं वस्त्रच्छत्रालङ्करणादिकम् / तन्निवेद्यं दीपमालाः सुवर्णतिलभाजनम् // १७९
SKवस्त्रयुग्मयुतं सर्वसम्पूरणनिमित्ततः / भोजनीयाः पूजनीयाः शिवभक्तास्तु शक्तितः // १८०
SKचतुस्त्रिद्व्येकमासादिदिनैकान्तं महोत्सवम् / कुर्यात्ततो न व्रजेयुरन्यस्थानं कदाचन // १८१
SKततस्तु दैशिकः पूज्यो गामस्मै क्षीरिणीं नवाम् / दद्यात्सुवर्णरत्नादिरुप्यवस्त्रविभूषिताम् // १८२
SKवदेद्गुरुश्च संपूर्णो विधिस्तव भवत्विति / वक्तव्यं देवदेवस्य पुनरागमनाय च // १८३
SKततो विसर्जनं कार्यं गुप्तमाभरणादिकम् / नैवेद्यं गुरुरादाय यागार्थे तन्नियोजयेत् // १८४
SKचतुर्णामपि सामान्यं पवित्रकमिति स्मृतम् / नास्माद्व्रतं परं किञ्चित् का वास्य स्तुतिरुच्यते // १८५
SKशेषं त्वगाधे वार्योघे क्षिपेन्न स्थापयेत्स्थिरम् / अथ नैमित्तिकविधिर्यः पुरासूत्रितो मया // १८६
SKस भण्यते तत्र कार्या देवस्यार्चा विशेषतः / चक्रयागश्च कर्तव्यः पूर्वोक्तविधिना बुधैः // १८७
SKतत्र यद्यन्निजाभीष्टभोगमोक्षोपकारकम् / पारम्पर्येण साक्षाद्वा भवेच्चिदचिदात्मकम् // १८८
SKतत्पूज्यं तदुपायाश्च पूज्यास्तन्मयताप्तये / तदुपायोपि संपूज्यो मूर्तिकालक्रियादिकः // १८९
SKउपेयसूतिसामर्थ्यमुपायत्वं तदर्चनात् / तद्रूपतन्मयीभावादुपेयं शीघ्रमाप्नुयात् // १९०
SKयथा यथा च नैकट्यमुपायेषु तथा तथा / अवश्यंभावि कार्यत्वं विशेषाच्चार्चनादिके // १९१
SKज्ञानस्य कस्यचित्प्राप्तिर्भोगमोक्षोपकारिणः / यदा तन्मुख्यमेवोक्तं नैमित्तिकदिनं बुधैः // १९२
SKतदुपायः शास्त्रमत्र वक्ताप्यौपयिको गुरुः / तद्विद्योपि गुरुभ्राता संवादाज्ज्ञानदायकः // १९३
SKगुरोः पत्नी तथा भ्राता पुत्र इत्यादिको गणः / न योनिसंबन्धवशाद्विद्यासंबन्धजस्तु सः // १९४
SKवीर्यारुणपरीणामदेहाहन्ताप्रतिष्ठिताः / देहोपकारसन्ताना ज्ञातेये परिनिष्ठिताः // १९५
SKतथाच स्मृतिशास्त्रेषु सन्ततेर्दायहारिता / युक्तैव तावान्स ह्युक्तो भेदाद्दूरान्तिकत्वतः // १९६
SKये तु त्यक्तशरीरास्था बोधाहम्भावभागिनः / बोधोपकारसन्तानद्वयात्ते बन्धुताजुषः // १९७
SKतत्रेत्थं प्राग्यदा पश्येच्छक्त्युन्मीलितदृक्क्रियः / देहस्तावदयं पूर्वपूर्वोपादाननिर्मितः // १९८
SKआत्मा विकाररहितः शाश्वतत्वादहेतुकः / स्वातन्त्र्यात् पुनरात्मीयादयं छन्न इव स्थितः // १९९
SKपुनश्च प्रकटीभूय भैरवीभावभाजनम् / तत्रास्य प्रकटीभावे भुक्तिमुक्त्यात्मके भृशम् // २००
SKय उपायः समुचितो ज्ञानसन्तान एष सः / क्रमस्फुटीभवत्तादृक्सदृशज्ञानधारया // २०१
SKगलद्विजातीयतया प्राप्यं शीघ्रं हि लभ्यते / एवं चानादिसंसारोचितविज्ञानसन्ततेः // २०२
SKध्वंसे लोकोत्तरं ज्ञानं सन्तानान्तरतां श्रयेत् / असंसारोचितोदारतथाविज्ञानसन्ततेः // २०३
SKकारणं मुख्यमाद्यं तद्गुरुविज्ञानमात्मगम् / अत्यन्तं स्वविशेषाणां तत्रार्पणवशात् स्फुटम् // २०४
SKउपादानं हि तद्युक्तं देहभेदे हि सत्यपि / देहसन्ततिगौ भेदाभेदौ विज्ञानसन्ततेः // २०५
SKन तथात्वाय योगीच्छाविष्टशावशरीरवत् / योगिनः परदेहादिजीवत्तापादने निजम् // २०६
SKदेहमत्यजतो नानाज्ञानोपादानता न किम् / तेन विज्ञानसन्तानप्राधान्याद्यौनसन्ततेः // २०७
SKअन्योन्यं गुरुसन्तानो यः शिवज्ञाननिष्ठितः / इत्थं स्थिते त्रयं मुख्यं कारणं सहकारि च // २०८
SKएककारणकार्यं च वस्त्वित्येष गुरोर्गणः / गुरुः कारणमत्रोक्तं तत्पत्नी सहकारिणी // २०९
SKयतो निःशक्तिकस्यास्य न यागेधिकृतिर्भवेत् / अन्तःस्थोदारसंवित्तिशक्तेर्बाह्यां विनापि ताम् // २१०
SKसामर्थ्यं योगिनो यद्वद्विनापि सहकारिणम् / एकजन्या भ्रातरः स्युस्तत्सदृग्यस्तु कोपि सः // २११
SKपुनः परम्परायोगाद्गुरुवर्गोपि भण्यते / मुख्य एष तु सन्तानः पूज्यो मान्यश्च सर्वदा // २१२
SKगुर्वादीनां च सम्भूतौ दीक्षायां प्रायणेपि च / यदहस्तद्धि विज्ञानोपायदेहादिकारणम् // २१३
SKएवं स्वजन्मदिवसो विज्ञानोपाय उच्यते / तादृग्भोगापवर्गादिहेतोर्देहस्य कारणम् // २१४
SKदीक्षादिकश्च संस्कारः स्वात्मनो यत्र चाह्नि तत् / भवेज्जन्मदिनं मुख्यं ज्ञानसन्तानजन्मतः // २१५
SKस्वकं मृतिदिनं यत्तु तदन्येषां भविष्यति / नैमित्तिकं मृतो यस्माच्छिवाभिन्नस्तदा भवेत् // २१६
SKतत्र प्रसङ्गान्मरणस्वरूपं ब्रूमहे स्फुटम् / व्यापकोपि शिवः स्वेच्छाकॢप्तसङ्कोचमुद्रणात् // २१७
SKविचित्रफलकर्मौघवशात्तत्तच्छरीरभाक् / शरीरभाक्त्वं चैतावद्यत्तद्गर्भस्थदेहगः // २१८
SKसंवित्तेः शून्यरूढायाः प्रथमः प्राणनोदयः / गर्भस्थदेहनिर्माणे तस्यैवेश्वरता पुनः // २१९
SKअसङ्कोचस्य तन्वादिकर्ता तेनेश उच्यते / स वाय्वात्मा दृढे तस्मिन्देहयन्त्रे चिदात्मना // २२०
SKप्रेर्यमाणो विचरति भस्त्रायन्त्रगवायुवत् / अतः प्राग्गाढसंसुप्तोत्थितवत्स प्रबुद्ध्यते // २२१
SKक्रमाद्देहेन साकं च प्राणना स्याद्बलीयसी / तत्रापि कर्मनियतिबलात्सा प्राणनाक्षताम् // २२२
SKगृह्णाति शून्यसुषिरसंवित्स्पर्शाधिकत्वतः / एवं क्रमेण संपुष्टदेहप्राणबलो भृशम् // २२३
SKभोगान्कर्मकृतान्भुङ्क्ते योन्ययोनिजदेहगः / उक्तं च गह्वराभिख्ये शास्त्रे शीतांशुमौलिना // २२४
SKयथा गृहं विनिष्पाद्य गृही समधितिष्ठति / तथा देही तनुं कृत्वा क्रियादिगुणवर्जितः // २२५
SKकिञ्चित्स्फुरणमात्रः प्राग्निष्कलः सोपि शब्द्यते / स्फुटेन्द्रियादितत्त्वस्तु सकलात्मेति भण्यते // २२६
SKइत्यादि श्रीगह्वरोक्तं तत एव पठेद्बहु / क्षये तु कर्मणां तेषां देहयन्त्रेन्यथागते // २२७
SKप्राणयन्त्रं विघटते देहः स्यात्कुड्यवत्ततः / नाडीचक्रेषु सङ्कोचविकासौ विपरीततः // २२८
SKभङ्गः शोषः क्लिदिर्वातश्लेष्माग्न्यपचयोच्चयैः / इत्येवमादि यत्किञ्चित् प्राक्संस्थानोपमर्दकम् // २२९
SKदेहयन्त्रे विघटनं तदेवोक्तं मनीषिभिः / तस्मिन्विघटिते यन्त्रे सा संवित्प्राणनात्मताम् // २३०
SKगृह्णाति योनिजेन्यत्र वा देहे कर्मचित्रिते / स देहः प्रतिबुध्येत प्रसुप्तोत्थितवत्तदा // २३१
SKतस्यापि भोगतद्धानिमृतयः प्राग्वदेव हि / विसृष्टिस्थितिसंहारा एते कर्मबलाद्यतः // २३२
SKअतो नियतिकालादिवैचित्र्यानुविधायिनः / अनुग्रहस्तु यः सोयं स्वस्वरूपे विकस्वरे // २३३
SKज्ञप्त्यात्मेति कथं कर्मनियत्यादि प्रतीक्षते / कर्मकालनियत्यादि यतः सङ्कोचजीवितम् // २३४
SKसङ्कोचहानिरूपेस्मिन्कथं हेतुरनुग्रहे / अनुग्रहश्च क्रमिकस्तीव्रश्चेति विभिद्यते // २३५
SKप्राक् चैष विस्तरात्प्रोक्त इति किं पुनरुक्तिभिः / तेन दीक्षाशिवज्ञानदग्धसङ्कोचबन्धनः // २३६
SKदेहान्ते शिव एवेति नास्य देहान्तरस्थितिः / येपि तत्त्वावतीर्णानां शंकराज्ञानुवर्तिनाम् // २३७
SKस्वयम्भूमुनिदेवर्षिमनुजादिभुवां गृहे / मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात् // २३८
SKमर्त्येवतीर्य वा नो वा शिवं यान्त्यपुनर्भवाः / तत्र स्वयम्भुवो द्वेधा केप्यनुग्रहतत्पराः // २३९
SKकेपि स्वकृत्यायातांशस्थानमात्रोपसेविनः / येनुग्रहार्थमाज्ञप्तास्तेषु यो म्रियते नरः // २४०
SKसोनुग्रहं स्फुटं याति विना मर्त्यावतारतः / यस्तु स्वकार्यं कुर्वाणस्तत्स्थानं नांशतस्त्यजेत् // २४१
SKयथा गौरी तपस्यन्ती कश्मीरेषु गुहागता / तत्रैव वा यथा ध्यानोड्डारे नरहरिर्विभुः // २४२
SKवितस्तां नयतो दैत्यांस्त्रासयन्दृप्त उत्थितः / सालिग्रामे यथा विष्णुः शिवो वा स्वोपभोगिनः // २४३
SKतपस्यन्तौ बदर्यां च नरनारायणौ तथा / इत्येवमादयो देवाः स्वकृत्यांशस्थितास्तथा // २४४
SKआराधिताः स्वोचितं तच्छीघ्रं विदधते फलम् / स्वकृत्यांशस्थितानां च धाम्नि येन्तं व्रजन्ति ते // २४५
SKतत्र भोगांस्तथा भुक्त्वा मर्त्येष्ववतरन्त्यपि / मर्त्यावतीर्णास्ते तत्तदंशकास्तन्मयाः पुनः // २४६
SKतद्दीक्षाज्ञानचर्यादिक्रमाद्यान्ति शिवात्मताम् / स्थावराद्यास्तिर्यगन्ताः पशवोस्मिन्द्वये मृताः // २४७
SKस्वकर्मसंस्क्रियावेधात्तल्लोके चित्रताजुषः / पुंसां च पशुमात्राणां सालोक्यमविवेकतः // २४८
SKअविवेकस्तद्विशेषानुन्मेषान्मौढ्यतस्तथा / स्थावराद्यास्तथाभावमुत्तरोत्तरतां च वा // २४९
SKप्रपद्यन्ते न ते साक्षाद्रुद्रतां तां क्रमात्पुनः / हंसकारण्डवाकीर्णे नानातरुकुलाकुले // २५०
SKइत्येतदागमेषूक्तं तत एव पुरे पुरे / क्षेत्रमानं ब्रुवे श्रीमत्सर्वज्ञानादिषूदितम् // २५१
SKलिङ्गाद्धस्तशतं क्षेत्रमाचार्यस्थापिते सति / स्वयम्भूते सहस्रं तु तदर्धमृषियोजिते // २५२
SKतत्त्ववित्स्थापिते लिङ्गे स्वयम्भूसदृशं फलम् / अतत्त्वविद्यदाचार्यो लिङ्गं स्थापयते तदा // २५३
SKपुनर्विधिर्भवेद्दोषो ह्यन्यथोभयदूषकः / अहमन्यः परात्मान्यः शिवोन्य इति चेन्मतिः // २५४
SKन मोचयेन्न मुक्तश्च सर्वमात्ममयं यतः / तस्मात्तत्त्वविदा यद्यत्स्थापितं लिङ्गमुत्तमम् // २५५
SKतदेवायतनत्वेन संश्रयेद्भुक्तिमुक्तये / उक्तं श्रीरत्नमालायां ज्ञात्वा कालमुपस्थितम् // २५६
SKमोक्षार्थी न भयं गच्छेत्त्यजेद्देहमशङ्कितः / तीर्थायतनपुण्येषु कालं वा वञ्चयेत्प्रिये // २५७
SKअयोगिनामयं पन्था योगी योगेन वञ्चयेत् / वञ्चने त्वसमर्थः सन् क्षेत्रमायतनं व्रजेत् // २५८
SKतीर्थे समाश्रयात्तस्य वञ्चनं तु विजायते / अनेन च धराद्येषु तत्त्वेष्वभ्यासयोगतः // २५९
SKतावत्सिद्धिजुषोप्युक्ता मुक्त्यै क्षेत्रोपयोगिता / सम्यग्ज्ञानिनि वृत्तान्तः पुरस्तात्तूपदेक्ष्यते // २६०
SKपशूनामेष वृत्तान्तो ये तु तत्तत्त्वदीक्षिताः / ते तदीशसमीपत्वं यान्ति स्वौचित्ययोगतः // २६१
SKयोग्यतावशसंजाता यस्य यत्रैव वासना / स तत्रैव नियोक्तव्यः पुरेशाच्चोर्ध्वशुद्धिभाक् // २६२
SKइति श्रीपूर्वकथितं श्रीमत्स्वायम्भुवेपिच / यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः // २६३
SKसिद्धिभाङ्मन्त्रसामर्थ्यादित्याद्यन्यत्र वर्णितम् / ये तु तत्तत्त्वविज्ञानमन्त्रचर्यादिवर्तिनः // २६४
SKमृतास्ते तत्र तद्रुद्रसयुक्त्वं यान्ति कोविदाः / तेषां सयुक्त्वं यातानामपि संस्कारतो निजात् // २६५
SKतथा तथा विचित्रः स्यादवतारस्तदंशतः / सिद्धान्तादौ पुराणेषु तथाच श्रूयते बहु // २६६
SKतुल्ये रुद्रावतारत्वे चित्रत्वं कर्मभोगयोः / अनेकशक्तिखचितं यतो भावस्य यद्वपुः // २६७
SKशक्तिभ्योर्थान्तरं नैष तत्समूहादृते भवेत् / तेन शक्तिसमूहाख्यात् तस्माद्रुद्राद्यदंशतः // २६८
SKकृत्यं तदुचितं सिद्ध्येत् स्ॐशोवतरति स्फुटम् / ये चाधरप्राप्तदीक्षास्तदास्थानुज्झिताः परे // २६९
SKतत्त्वे मृताः काष्ठवत्तेधरेप्युत्कर्षभागिनः / ये तूज्झिततदुत्कर्षास्ते तदुत्तरभागिनः // २७०
SKयेप्यूर्ध्वतत्त्वदीक्षास्ते विना तावद्विवेकतः / प्राप्ताधरान्ता अपि तद्दीक्षाफलसुभागिनः // २७१
SKअत्यक्तास्था हि ते तत्र दीक्षायामपि शास्त्रितात् / विना विवेकादास्थां ते श्रिता लोकप्रसिद्धितः // २७२
SKपशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु / तत्परस्य तु सायुज्यमित्युक्तं परमेशिना // २७३
SKयस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः / व्रजन्नायतनं नैव फलं किञ्चित्समश्नुते // २७४
SKउक्तं तद्विषयं चैतद्देवदेवेन यद्वृथा / दीक्षा ज्ञानं तथा तीर्थं तस्येत्यादि सविस्तरम् // २७५
SKयस्तु तावदयोग्योपि तथास्ते स शिवालये / पश्चादास्थानिबन्धेन तावदेव फलं भजेत् // २७६
SKनदीनगह्रदप्रायं यच्च पुण्यं न तन्मृतौ / उत्कृष्टं तन्मृतानां तु स्वर्गभोगोपभोगिता // २७७
SKये पुनः प्राप्तविज्ञानविवेका मरणान्तिके / अधरायतनेष्वास्थां श्रितास्तेत्र तिरोहिताः // २७८
SKतज्ज्ञानदूषणोक्तं यत्तेषां स्यात्किल पातकम् / तत्तत्पुरेशदीक्षादिक्रमान्नश्येदिति स्थितिः // २७९
SKदीक्षायतनविज्ञानदूषिणो ये तु चेतसा / आचरन्ति च तत्तेत्र सर्वे निरयगामिनः // २८०
SKज्ञानायतनदीक्षादावास्थाबन्धपरिच्युतिः / व्यापारव्याहृतैर्ज्ञेया तान्यपि द्विविधानि च // २८१
SKयानि जातुचिदप्येव स्वास्थ्ये नोदमिषन्पुनः / अस्वास्थ्ये धातुदोषोत्थान्येव तद्भोगमात्रकम् // २८२
SKधातुदोषाच्च संसारसंस्कारास्ते प्रबोधिताः / छिद्रगा अपि भूयिष्ठज्ञानदग्धा न रोहिणः // २८३
SKये तु कैवल्यभागीयाः स्वास्थ्येनुन्मिषिताः सदा / अस्वास्थ्ये चोन्मिषन्त्येते संस्काराः शक्तिपाततः // २८४
SKयतः सांसारिकाः पूर्वगाढाभ्यासोपसंस्कृताः / इत्यूचे भुजगाधीशस्तच्छिद्रेष्विति सूत्रतः // २८५
SKये तु कैवल्यभागीयाः प्रत्ययास्ते न जातुचित् / अभ्यस्ताः संसृतेर्भावात्तेनैते शक्तिपाततः // २८६
SKव्यापारव्याहृतैस्तेन धातुदोषप्रकोपितैः / अप्राप्तनिश्चयामर्शैः सुप्तमत्तोपमानकैः // २८७
SKविपरीतैरपि ज्ञानदीक्षागुर्वादिदूषकैः / तिरोभावो न विज्ञेयो हृदये रूढ्यभावतः // २८८
SKअत एव प्रबुद्धोपि कर्मोत्थान्भोगरूपिणः / यमकिङ्करसर्पादिप्रत्ययान्देहगो भजेत् // २८९
SKनैतावता न मुक्तोसौ मृतिर्भोगो हि जन्मवत् / स्थितिवच्च ततो दुःखसुखाभ्यां मरणं द्विधा // २९०
SKअतो यथा प्रबुद्धस्य सुखदुःखविचित्रताः / स्थितौ न घ्नन्ति मुक्तत्वं मरणेपि तथैव ताः // २९१
SKये पुनर्योगिनस्तेपि यस्मिंस्तत्त्वे सुभाविताः / चित्तं निवेशयन्त्येव तत्तत्त्वं यान्त्यशङ्किताः // २९२
SKश्रीस्वच्छन्दे ततः प्रोक्तं गन्धधारणया मृताः / इत्यादि मालिनीशास्त्रे धारणानां तथा फलम् // २९३
SKएतेषां मरणाभिख्यो भोगो नास्ति तु ये तनुम् / धारणाभिस्त्यजन्त्याशु परदेहप्रवेशवत् // २९४
SKएतावान्मृतिभोगो हि मर्मच्छिन्मूढताक्षगा / ध्वान्ताबिलत्वं मनसि तच्चैतेषु न विद्यते // २९५
SKतथाहि मानसं यत्नं तावत्समधितिष्ठति / अहंरूढ्या परे देहे यावत्स्याद्बुद्धिसंचरः // २९६
SKप्राणचक्रं तदायत्तमपि संचरते पथा / तेनैवातः प्रबुद्ध्येत परदेहेक्षचक्रकम् // २९७
SKमक्षिका मक्षिकाराजं यथोत्थितमनूत्थिताः / स्थितं चानुविशन्त्येवं चित्तं सर्वाक्षवृत्तयः // २९८
SKअतोस्य परदेहादिसंचारे नास्ति मेलनम् / अक्षाणां मध्यगं सूक्ष्मं स्यादेतद्देहवत्पुनः // २९९
SKएवं परशरीरादिचारिणामिव योगिनाम् / तत्तत्तत्त्वशरीरान्तश्चारिणां नास्ति मूढता // ३००
SKते चापि द्विविधा ज्ञेया लौकिका दीक्षितास्तथा / पूर्वे शिवाः स्युः क्रमशः परे तद्भोगमात्रतः // ३०१
SKदीक्षाप्यूर्ध्वाधरानेकभेदयोजनिकावशात् / भिद्यमाना योगिनां स्याद्विचित्रफलदायिनी // ३०२
SKये तु विज्ञानिनस्तेत्र द्वेधा कम्प्रेतरत्वतः / तत्र ये कम्प्रविज्ञानास्ते देहान्तेद् शिवाः स्फुटम् // ३०३
SKयतो विज्ञानमेतेषामुत्पन्नं नच सुस्फुटम् / विकल्पान्तरयोगेन नचाप्युन्मूलितात्मकम् // ३०४
SKअतो देहे प्रमादोत्थो विकल्पो देहपाततः / नश्येदवश्यं तच्चापि बुध्यते ज्ञानमुत्तमम् // ३०५
SKसंस्कारकल्पनातिष्ठदध्वस्तीकृतमन्तरा / प्राप्तपाकं संवरीतुरपाये भासते हि तत् // ३०६
SKये तु स्वभ्यस्तविज्ञानमयाः शिवमयाः सदा / जीवन्मुक्ता हि ते नैषां मृतौ कापि विचारणा // ३०७
SKयथाहि जीवन्मुक्तानां स्थितौ नास्ति विचारणा / सुखिदुःखिविमूढत्वे, मृतावपि तथा न सा // ३०८
SKश्रीरत्नमालाशास्त्रे तदुवाच परमेश्वरः / स्वशास्त्रे चाप्यहीशानो विश्वाधारधुरन्धरः // ३०९
SKरथ्यान्तरे मूत्रपुरीषमध्ये चण्डालगेहे निरये श्मशाने / सचिन्तको वा गतचिन्तको वा ज्ञानी विमोक्षं लभतेपि चान्ते // ३१०
SKअपिचेति ध्वनिर्जीवन्मुक्ततामस्य भाषते / सचिन्ताचिन्तकत्वोक्तिरेतावत्संभवस्थितिम् // ३११
SKतीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेद्देहम् / ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः // ३१२
SKअनन्तकारिका चैषा प्राहेदं बन्धकं किल / सुकृतं दुष्कृतं चास्य शङ्क्यं तच्चास्य नो भवेत् // ३१३
SKअपिशब्दादलुप्तस्मृत्या वा संभाव्यते किल / मृतिर्नष्टस्मृतेरेव मृतेः प्राक् सास्तु किं तया // ३१४
SKलिङ्च संभावनायां स्यादियत्संभाव्यते किल / सच कालध्वनिः प्राह मृतेर्मुक्तावहेतुताम् // ३१५
SKकैवल्यमिति चाशङ्कापदं याप्यभवत्तनुः / भेदप्रदत्वेनैषापि ध्वस्ता तेन विशोकता // ३१६
SKपरदेहादिसंबन्धो यथा नास्य विभेदकः / तथा स्वदेहसंबन्धो जीवन्मुक्तस्य यद्यपि // ३१७
SKअतश्च न विशेषोस्य विश्वाकृतिनिराकृतेः / शिवाभिन्नस्य देहे वा तदभावेपि वा किल // ३१८
SKतथापि प्राच्यतद्भेदसंस्काराशङ्कनस्थितेः / अधुनोक्तं केवलत्वं यद्वा मात्रन्तराश्रयात् // ३१९
SKतान्येनं न विदुर्भिन्नं तैः स मुक्तोभिधीयते / श्रीमत्त्रैशिरसेप्युक्तं सूर्येन्दुपुटवर्जिते // ३२०
SKजुगुप्साभावभङ्गस्थे सर्वतः स्तम्भवत्स्थिते / सर्वव्यापत्तिरहिते प्रमाणप्रत्ययातिगे // ३२१
SKतस्मिन्बोधान्तरे लीनः कर्मकर्ताप्यनञ्जनः / प्रधानं घट आकाश आत्मा मष्टे घटेपि खम् // ३२२
SKन नश्येत्तद्वदेवासावात्मा शिवमयो भवेत् / स्वतन्त्रोवस्थितो ज्ञानी प्रसरेत्सर्ववस्तुषु // ३२३
SKतस्य भावो नचाभावः संस्थानं नच कल्पना / एतदेवान्तरागूर्य गुरुर्गीतास्वभाषत // ३२४
SKयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् / तं तमेवैति कौन्तेय सदा तद्भावभावितः // ३२५
SKतस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च / यदा सत्त्वे विवृद्धे तु प्रलीनस्त्वूर्ध्वगस्तदा // ३२६
SKक्रमाद्रजस्तमोलीनः कर्मयोनिविमूढगः / तत्रेन्द्रियाणां संमोहश्वासायासपरीतता // ३२७
SKइत्यादिमृतिभोगोयं देहे न त्यजनं तनोः / यस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः // ३२८
SKयदनन्तरमेवैष देहः स्यात्काष्ठकुड्यवत् / सा देहत्यागकालांशकला देहवियोगिनी // ३२९
SKतत एव हि तद्देहसुखदुःखादिकोज्झिता / तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः // ३३०
SKअदृष्टाभ्यासभूयस्त्वशक्तिपातादिहेतुकात् / तदेव रूपमभ्येति सुखिदुःखिविमूढकम् // ३३१
SKयद्वा निःसुखदुःखादि यदि वानन्दरूपकम् / कस्मादेति तदेवैष यतः स्मरति संविदि // ३३२
SKप्राक् प्रस्फुरेद्यदधिकं देहोसौ चिदधिष्ठितेः / यदेव प्रागधिष्ठानं चिता तादात्म्यवृत्तितः // ३३३
SKसैवात्र लीनता प्रोक्ता सत्त्वे रजसि तामसे / नीलपीतादिके ज्ञेये यतः प्राक्कल्पितां तनुम् // ३३४
SKअधिष्ठायैव संवित्तिरधिष्ठानं करोत्यलम् / अतोधिष्ठेयमात्रस्य शरीरत्वेपि कुड्यतः // ३३५
SKदेहस्यास्ति विशेषो यत्सर्वाधिष्ठेयपूर्वता / तादात्म्यवृत्तिरन्येषां तन्न सत्यपि वेद्यते // ३३६
SKवेद्यानां किन्तु देहस्य नित्याव्यभिचरित्वतः / सा च तस्यैव देहस्य पूर्वमृत्यन्तजन्मना // ३३७
SKस्मृत्या प्राच्यानुभवनकृतसंस्कारचित्रया / युक्त्यानयास्मत्सन्तानगुरुणा कल्लटेन यत् // ३३८
SKदेहाविशेषे प्राणाख्यदार्ढ्यं हेतुरुदीरितम् / तद्युक्तमन्यथा प्राणदार्ढ्ये को हेतुरेकतः // ३३९
SKदेहत्वस्याविशेषेपीत्येष प्रश्नो न शाम्यति / स्मरन्निति शता हेतौ तद्रूपं प्रतिपद्यते // ३४०
SKप्राक् स्मर्यते यतो देहः प्राक्चिताधिष्ठितः स्फुरन् / अतः स्मरणमन्त्यं यत्तदसर्वज्ञमातृषु // ३४१
SKन जातु गोचरो यस्माद्देहान्तरविनिश्चयः / यत्तु बन्धुप्रियापुत्रपानादिस्मरणं स्फुटम् // ३४२
SKन तद्देहान्तरासङ्गि न तदन्त्यं यतो भवेत् / कस्यापि तु शरीरान्ते वासना या प्रभोत्स्यते // ३४३
SKदेहसत्त्वे तदौचित्याज्जायेतानुभवः स्फुटः / यथा पुराणे कथितं मृगपोतकतृष्णया // ३४४
SKमुनिः कोपि मृगीभावमभ्युवाहाधिवासितः / तत्र सोनुभवो हेतुर्न जन्मान्तरसूतये // ३४५
SKतस्यैतद्वासना हेतुः काकतालीयवत् स तु / ननु कस्मात्तदेवैष स्मरति इत्याह यत्सदा // ३४६
SKतद्भावभावितस्तेन तदेवैष स्मरत्यलम् / एवमस्मि भविष्यामीत्येष तद्भाव उच्यते // ३४७
SKभविष्यतो हि भवनं भाव्यते न सतः क्वचित् / क्रमात्स्फुटत्वकरणं भावनं परिकीर्त्यते // ३४८
SKस्फुटस्य चानुभवनं न भावनमिदं स्फुटम् / तदहर्जातबालस्य पशोः कीटस्य वा तरोः // ३४९
SKमूढत्वेपि तदानीं प्राग्भावना ह्यभवत्स्फुटा / सा तन्मूढशरीरान्ते संस्कारप्रतिबोधनात् // ३५०
SKस्मृतिद्वारेण तद्देहवैचित्र्यफलदायिनी / देशादिव्यवधानेपि वासनानामुदीरितात् // ३५१
SKआनन्तर्यैकरूपत्वात्स्मृतिसंस्कारयोरतः / तथानुभवनारूढ्या स्फुटस्यापि तु भाविता // ३५२
SKभाव्यमाना न किं सूते तत्सन्तानसदृग्वपुः / तत्तादृक्तादृशैर्बन्धुपुत्रमित्रादिभिः सह // ३५३
SKभासतेपि परे लोके स्वप्नवद्वासनाक्रमात् / ननु मात्रन्तरैर्बन्धुपुत्राद्यैस्तत्तथा न किम् // ३५४
SKवेद्यते क इदं प्राह स तावद्वेद वेद्यताम् / व्यापारव्याहृतिव्रातवेद्ये मात्रन्तरव्रजे // ३५५
SKस्वप्ने नास्ति स इत्येषा वाक्प्रमाणविवर्जिता / य एवैते तु दृश्यन्ते जाग्रत्येते मयेक्षिताः // ३५६
SKस्वप्न इत्यस्तु मिथ्यैतत्तत्प्रमातृवचोबलात् / यानपश्यमहं स्वप्ने प्रमातॄंस्ते न केचन // ३५७
SKन शोचन्ति न चेक्षन्ते मामित्यत्रास्ति का प्रमा / यतः सर्वानुमानानां स्वसंवेदननिष्ठितौ // ३५८
SKप्रमात्रन्तरसद्भावः संविन्निष्ठो न तद्गतः / घटादेरस्तिता संविन्निष्ठिता नतु तद्गता // ३५९
SKतद्वन्मात्रन्तरेप्येषा संविन्निष्ठा न तद्गता / तेन स्थितमिदं यद्यद्भाव्यते तत्तदेव हि // ३६०
SKदेहान्ते बुध्यते नो चेत् स्यादन्यादृक्प्रबोधनम् / तथाह्यन्त्यक्षणे ब्रह्मविद्याकर्णनसंस्कृतः // ३६१
SKमुच्यते जन्तुरित्युक्तं प्राक्संस्कारबलत्वतः / निपाताभ्यामन्तशब्दात्स्मरणाच्छतुरन्त्यतः // ३६२
SKपादाच्च निखिलादर्धश्लोकाच्च समनन्तरात् / लीनशब्दाच्च सर्वं तदुक्तमर्थसतत्त्वकम् // ३६३
SKअज्ञात्वैतत्तु सर्वेपि कुशकाशावलम्बिनः / यत्तदोर्व्यत्ययं केचित्केचिदन्यादृशं क्रमम् // ३६४
SKभिन्नक्रमौ निपातौ च त्यजतीति च सप्तमीम् / व्याचक्षते तच्च सर्वं नोपयोग्युक्तयोजने // ३६५
SKनच तद्दर्शितं मिथ्या स्वान्तसम्मोहदायकम् / तदित्थंप्रायणस्यैतत्तत्त्वं श्रीशम्भुनाथतः // ३६६
SKअधिगम्योदितं तेन मृत्योर्भीतिर्विनश्यति / विदितमृतिसतत्त्वाः संविदम्भोनिधानादचलहृदयवीर्याकर्षनिष्पीडनोत्थम् / अमृतमिति निगीर्णे कालकूटेत्र देवा यदि पिवथ तदानीं निश्चितं वः शिवत्वम् // ३६७
SKउत्सवोपि हि यः कश्चिल्लौकिकः सोपि संमदम् / संविदब्धितरङ्गाभं सूते तदपि पर्ववत् // ३६८
SKएतेन च विपद्ध्वंसप्रमोदादिषु पर्वता / व्याख्याता तेन तत्रापि विशेषाद्देवतार्चनम् // ३६९
SKपुरक्षोभाद्यद्भुतं यत्तत्स्वातन्त्र्ये स्वसंविदः / दार्ढ्यदायीति तल्लाभदिने वैशेषिकार्चनम् // ३७०
SKयोगिनीमेलको द्वेधा हठतः प्रियतस्तथा / प्राच्ये च्छिद्राणि संरक्षेत्कामचारित्वमुत्तरे // ३७१
SKस च द्वयोपि मन्त्रोद्धृत्प्रसङ्गे दर्शयिष्यते / योगिनीमेलकाच्चैषोवश्यं ज्ञानं प्रपद्यते // ३७२
SKतेन तत्पर्व तद्वच्च स्वसन्तानादिमेलनम् / संवित्सर्वात्मिका देहभेदाद्या सङ्कुचेत्तु सा // ३७३
SKमेलकेन्योन्यसङ्घट्टप्रतिबिम्बाद्विकस्वरा / उच्छलन्निजरश्म्योघः संवित्सु प्रतिबिम्बितः // ३७४
SKबहुदर्पणवद्दीप्तः सर्वायेताप्ययत्नतः / अत एव गीतगीतप्रभृतौ बहुपर्षदि // ३७५
SKयः सर्वतन्मयीभावे ह्लादो नत्वेककस्य सः / आनन्दनिर्भरा संवित्प्रत्येकं सा तथैकताम् // ३७६
SKनृत्तादौ विषये प्राप्ता पूर्णानन्दत्वमश्नुते / ईर्ष्यासूयादिसङ्कोचकारणाभावतोत्र सा // ३७७
SKविकस्वरा निष्प्रतिघं संविदानन्दयोगिनी / अतन्मये तु कस्मिंश्चित्तत्रस्थे प्रतिहन्यते // ३७८
SKस्थपुटस्पर्शवत्संविद्विजातीयतया स्थिते / अतश्चक्रार्चनाद्येषु विजातीयमतन्मयम् // ३७९
SKनैव प्रवेशयेत्संवित्सङ्कोचननिबन्धनम् / यावन्त्येव शरीराणि स्वाङ्गवत्स्युः सुनिर्भराम् // ३८०
SKएकां संविदमाविश्य चक्रे तावन्ति पूजयेत् / प्रविष्टश्चेत्प्रमादेन सङ्कोचं न व्रजेत्ततः // ३८१
SKप्रस्तुतं स्वसमाचारं तेन साकं समाचरेत् / स त्वनुग्रहशक्त्या चेद्विद्धस्तत्तन्मयीभवेत् // ३८२
SKवामाविद्धस्तु तन्निन्देत्पश्चात्तं घातयेदपि / श्रीमत्पिचुमते चोक्तमादौ यत्नेन रक्षयेत् // ३८३
SKप्रवेशं संपविष्टस्य न विचारं तु कारयेत् / लोकाचारस्थितो यस्तु प्रविष्टे तादृशे तु सः // ३८४
SKअकृत्वा तं समाचारं पुनश्चक्रं प्रपूजयेत् / अथ वच्मि गुरोः शास्त्रव्याख्याक्रममुदाहृतम् // ३८५
SKदेव्यायामलशास्त्रादौ तुहिनाभीशुमौलिना / कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् // ३८६
SKसर्वशास्त्रार्थविच्चेति गुरुर्भिन्नोपदिश्यते / यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः // ३८७
SKनान्यथा तदभावश्चेत्सर्वथा सोप्यथाचरेत् / श्रीभैरवकुले चोक्तं कल्पादिज्ञत्वमीदृशम् // ३८८
SKगुरोर्लक्षणमेतावत्संपूर्णज्ञानतैव या / तत्रापि यास्य चिद्वृत्तिकर्मिभित् साप्यवान्तरा // ३८९
SKदेव्यायामल उक्तं तद्द्वापञ्चाशाह्व आह्निके / देव एव गुरुत्वेन तिष्ठासुर्दशधा भवेत् // ३९०
SKउच्छुष्मशवरचण्डगुमतङ्गघोरान्तकोग्रहलहलकाः / क्रोधी हुलुहुलुरेते दश गुरवः शिवमयाः पूर्वे // ३९१
SKते स्वांशचित्तवृत्तिक्रमेण पौरुषशरीरमास्थाय / अन्योन्यभिन्नसंवित्क्रिया अपि ज्ञानपरिपूर्णाः // ३९२
SKसर्वेलिमांसनिधुवनदीक्षार्चनशास्त्रसेवने निरताः / अभिमानशमक्रोधक्षमादिरवान्तरो भेदः // ३९३
SKइत्थं विज्ञाय सदा शिष्यः सम्पूर्णशास्त्रबोद्धारम् / व्याख्यायै गुरुमभ्यर्थयेत पूजापुरःसरं मतिमान् // ३९४
SKसोपि स्वशासनीये परशिष्येपिवापि तादृशं शास्त्रम् / श्रोतुं योग्ये कुर्याद्व्याख्यानं वैष्णवाद्यधरे // ३९५
SKकरुणारसपरिपूर्णो गुरुः पुनर्मर्मधामपरिवर्जम् / अधमेपि हि व्याकुर्यात्सम्भाव्य हि शक्तिपातवैचित्र्यम् // ३९६
SKलिप्तायां भुवि पीठे चतुरस्रे पङ्कजत्रयं कजगे / कुर्याद्विद्यापीठं स्याद्रसवह्न्यङ्गुलं त्वेतत् // ३९७
SKमध्ये वागीशानीं दक्षोत्तरयोर्गुरून्गणेशं च / अधरे कजे च कल्पेश्वरं प्रपूज्यार्घपुष्पतर्पणकैः // ३९८
SKसामान्यविधिनियुक्तार्घपात्रयोगेन चक्रमथ सम्यक् / सन्तर्प्य व्याख्यानं कुर्यात्सम्बन्धपूर्वकं मतिमान् // ३९९
SKसूत्रपदवाक्यपटलग्रन्थक्रमयोजनेन सम्बन्धात् / अव्याहतपूर्वापरमुपवृह्य नयेत वाक्यानि // ४००
SKमण्डूकप्लवसिंहावलोकनाद्यैर्यथायथं न्यायैः / अविहतपूर्वापरकं शास्त्रार्थं योजयेदसङ्कीर्णम् // ४०१
SKतन्त्रावर्तनबाधप्रसङ्गतर्कादिभिश्च सन्न्यायैः / वस्तु वदेद्वाक्यज्ञो वस्त्वन्तरतो विविक्ततां विदधत् // ४०२
SKयद्यद्व्याहृतिपदवीमायाति तदेव दृढतरैर्न्यायैः / बलवत्कुर्याद्दूष्यं यद्यप्यग्रे भविष्यत्स्यात् // ४०३
SKदृढरचितपूर्वपक्षप्रोद्धरणपथेन वस्तु यद्वाच्यम् / शिष्यमतावारोहति तदाशु संशयविपर्ययैर्विकलम् // ४०४
SKभाषा न्यायो वादो लयः क्रमो यद्यदेति शिष्यस्य / सम्बोधोपायत्वं तथैव गुरुराश्रयेद्व्याख्याम् // ४०५
SKवाच्यं वस्तु समाप्य प्रतर्पणं पूजनं भवेच्चक्रे / पुनरपरं वस्तु वदेत्पटलादूर्ध्वं तु नो जल्पेत् // ४०६
SKव्याख्यान्ते क्षमयित्वा विसृज्य सर्वं क्षिपेदगाधजले / शास्त्रादिमध्यनिधने विशेषतः पूजनं कुर्यात् // ४०७
SKविशेषपूजनं कुर्यात्समयेभ्यश्च निष्कृतौ / अविकल्पमतेर्न स्युः प्रायश्चित्तानि यद्यपि // ४०८
SKतथाप्यतत्त्वविद्वर्गानुग्रहाय तथा चरेत् / श्रीपिचौ च स्मृतेरेव पापघ्नत्वे कथं विभो // ४०९
SKप्रायश्चित्तविधिः प्रोक्त इति देव्या प्रचोदिते / सत्यं स्मरणमेवेह सकृज्जप्तं विमोचयेत् // ४१०
SKसर्वस्मात्कर्मणो जालात्स्मृतितत्त्वकलाविदः / तथापि स्थितिरक्षार्थं कर्तव्यश्चोदितो विधिः // ४११
SKअतत्त्ववेदिनो ये हि चर्यामात्रैकनिष्ठिताः / तेषां दोलायिते चित्ते ज्ञानहानिः प्रजायते // ४१२
SKतस्माद्विकल्परहितः संवृत्युपरतो यदि / शास्त्रचर्यासदायत्तैः सङ्करं तद्विवर्जयेत् // ४१३
SKसङ्करं वा समन्विच्छेत्प्रायश्चित्तं समाचरेत् / यथा तेषां न शास्त्रार्थे दोलारूढा मतिर्भवेत् // ४१४
SKयत्स्वयं शिवहस्ताख्ये विधौ संचोदितं पुरा / शतं जप्त्वास्य चास्त्रस्य मुच्यते स्त्रीवधादृते // ४१५
SKशक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये / इति श्रीरत्नमालायां समयोल्लङ्घने कृते // ४१६
SKकुलजानां समाख्याता निष्कृतिर्दुष्टकर्तरी / श्रीपूर्वे समयानां तु शोधनायोदितं यथा // ४१७
SKमालिनी मातृका वापि जप्या लक्षत्रयान्तकम् / प्रतिष्ठितस्य पूरादेर्दर्शनेनधिकारिणा // ४१८
SKप्रायश्चित्तं प्रकर्तव्यमिति श्रीब्रह्मयामले / ब्रह्मघ्नो गुरुतल्पस्थो वीरद्रव्यहरस्तथा // ४१९
SKदेवद्रव्यहृदाकारप्रहर्ता लिङ्गभेदकः / नित्यादिलोपकृद्भ्रष्टस्वकमात्रापरिच्छदः // ४२०
SKशक्तिव्यङ्गत्वकृद्योगिज्ञानिहन्ता विलोपकः / नैमित्तिकानां लक्षादिक्रमाद्द्विद्विगुणं जपेत् // ४२१
SKव्रतेन केनचिद्युक्तो मितभुग्ब्रह्मचर्यवान् / दूतीपरिग्रहेन्यत्र गतश्चेत्काममोहितः // ४२२
SKलक्षजापं ततः कुर्यादित्युक्तं ब्रह्मयामले / दीक्षाभिषेकनैमित्तविध्यन्ते गुरुपूजनम् // ४२३
SKअपरेद्युः सदा कार्यं सिद्धयोगीश्वरीमते / पूर्वोक्तलक्षणोपेतः कविस्त्रिकसतत्त्ववित् // ४२४
SKस गुरुः सर्वदा ग्राह्यस्त्यक्त्वान्यं तत्स्थितं त्वपि / मण्डले स्वस्तिकं कृत्वा तत्र हैमादिकासनम् // ४२५
SKकृत्वार्चयेत तत्रस्थमध्वानं सकलान्तकम् / ततो विज्ञपयेद्भक्त्या तदधिष्ठितये गुरुम् // ४२६
SKस तत्र पूज्यः स्वैर्मन्त्रैः पुष्पधूपार्घविस्तरैः / समालम्भनसद्वस्त्रैर्नैवेद्यैस्तर्पणैः क्रमात् // ४२७
SKआशान्तं पूजयित्वैनं दक्षिणाभिर्यजेच्छिशुः / सर्वस्वमस्मै संदद्यादात्मानमपि भावितः // ४२८
SKअतोषयित्वा तु गुरुं दक्षिणाभिः समन्ततः / तत्त्वज्ञोप्यृणबन्धेन तेन यात्यधिकारिताम् // ४२९
SKगुरुपूजामकुर्वाणः शतं जन्मानि जायते / अधिकारी ततो मुक्तिं यातीति स्कन्दयामले // ४३०
SKतस्मादवश्यं दातव्या गुरवे दक्षिणा पुनः / पूर्वं हि यागाङ्गतया प्रोक्तं तत्तुष्टये त्विदम् // ४३१
SKतज्जुष्टमथ तस्याज्ञां प्राप्याश्नीयात्स्वयं शिशुः / ततः प्रपूजयेच्चक्रं यथाविभवसम्भवम् // ४३२
SKअकृत्वा गुरुयागं तु कृतमप्यकृतं यतः / तस्मात्प्रयत्नतः कार्यो गुरुयागो यथाबलम् // ४३३
SKअतत्रस्थोपि हि गुरुः पूज्यः संकल्प्य पूर्ववत् / तद्द्रव्यं देवताकृत्ये कुर्याद्भक्तजनेष्वथ // ४३४
SKपर्वपवित्रप्रभृतिप्रभेदि नैमित्तिकं त्विदं कर्म /