Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 6: atha śrītantrāloke

Light on the Tantras

तन्त्रालोकः

SK
स्थानप्रकल्पाख्यतया स्फुटस्तु बाह्योभ्युपायः प्रविविच्यतेथ // १ब्
SK
स्थानभेदस्त्रिधा प्रोक्तः प्राणे देहे बहिस्तथा / प्राणश्च पञ्चधा देहे द्विधा बाह्यान्तरत्वतः // २
SK
मण्डलं स्थण्डिलं पात्रमक्षसूत्रं सपुस्तकम् / लिङ्गं तूरं पटः पुस्तं प्रतिमा मूर्तिरेव च // ३
SK
इत्येकादशधा बाह्यं पुनस्तद्बहुधा भवेत् / तत्र प्राणाश्रयं तावद्विधानमुपदिश्यते // ४
SK
अध्वा समस्त एवायं षड्विधोप्यतिविस्तृतः / यो वक्ष्यते स एकत्र प्राणे तावत्प्रतिष्ठितः // ५
SK
अध्वनः कलनं यत्तत्क्रमाक्रमतया स्थितम् / क्रमाक्रमौ हि चित्रैककलना भावगोचरे // ६
SK
क्रमाक्रमात्मा कालश्च परः संविदि वर्तते / काली नाम परा शक्तिः सैव देवस्य गीयते // ७
SK
सैव संविद्बहिः स्वात्मगर्भीभूतौ क्रमाक्रमौ / स्फुटयन्ती प्ररोहण प्राणवृत्तिरिति स्थिता // ८
SK
संविन्मात्रं हि यच्छुद्धं प्रकाशपरमार्थकम् / तन्मेयमात्मनः प्रोज्झ्य विविक्तं भासते नभः // ९
SK
तदेव शून्यरूपत्वं संविदः परिगीयते / नेति नेति विमर्शेन योगिनां सा परा दशा // १०
SK
स एव खात्मा मेयेस्मिन्भेदिते स्वीक्रियोन्मुखः / पतन्समुच्छलत्त्वेन प्राणस्पन्दोर्मिसंज्ञितः // ११
SK
तेनाहुः किल संवित्प्राक्प्राणे परिणता तथा / अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः // १२
SK
इयं सा प्राणनाशक्तिरान्तरोद्योगदोहदा / स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत्प्रतिभा मता // १३
SK
सा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् / देहं यत्कुरुते संवित्पूर्णस्तेनैष भासते // १४
SK
प्राणनावृत्तितादात्म्यसंवित्खचितदेहजाम् / चेष्टां पश्यन्त्यतो मुग्धा नास्त्यन्यदिति मन्वते // १५
SK
तामेव बालमूर्खस्त्रीप्रायवेदितृसंश्रिताम् / मतिं प्रमाणीकुर्वन्तश्चार्वाकास्तत्त्वदर्शिनः // १६
SK
तेषां तथा भावना चद्दार्ढ्यमेति निरन्तरम् / तद्देहभङ्गे सुप्ताः स्युरातादृग्वासनाक्षयात् // १७
SK
तद्वासनाक्षये त्वेषामक्षीणं वासनान्तरम् / बुद्धं कुतश्चित्संसूते विचित्रां फलसम्पदम् // १८
SK
अदार्ढ्यशङ्कनात्प्राच्यवासनातादवस्थ्यतः / अन्यकर्तव्यशैथिल्यात्संभाव्यानुशयत्वतः // १९
SK
अतद्रूढान्यजनताकर्तव्यपरिलोपनात् / नास्तिक्यवासनामाहुः पापात्पापीयसीमिमाम् // २०
SK
अलमप्रस्तुतेनाथ प्रकृतं प्रविविच्यते / यावान्समस्त एवायमध्वा प्राणे प्रतिष्ठितः // २१
SK
द्विधा च सोध्वा क्रियया मूर्त्या च प्रविभज्यते / प्राण एव शिखा श्रीमत्त्रिशिरस्युदिता हि सा // २२
SK
बद्धा यागादिकाले तुं निष्कलत्वाच्छिवात्मिका / यतोहोरात्रमध्येस्याश्चतुर्विंशतिधा गतिः // २३
SK
प्राणविक्षेपरन्ध्राख्यशतैश्चित्रफलप्रदा / क्षपा शशी तथापानो नाद एकत्र तिष्ठति // २४
SK
जीवादित्यो न चोद्गच्छेत्तुट्यर्धं सान्ध्यमीदृशम् / ऊर्ध्ववक्त्रो रविश्चन्द्रोधोमुखो वह्निरन्तरे // २५
SK
माध्याह्निकी मोक्षदा स्याद्व्योममध्यस्थितो रविः / अनस्तमितसारो हि जन्तुचक्रप्रबोधकः // २६
SK
बिन्दुः प्राणो ह्यहश्चैव रविरेकत्र तिष्ठति / महासन्ध्या तृतीया तु सुप्रशान्तात्मिका स्थिता // २७
SK
एवं बद्धा शिखा यत्र तत्तत्फलनियोजिका / अतः संविदि सर्वोयमध्वा विश्रम्य तिष्ठति // २८
SK
अमूर्तायाः सर्वगत्वान्निष्क्रियायाश्च संविदः / मूर्तिक्रियाभासनं यत्स एवाध्वा महेशितुः // २९
SK
अध्वा क्रमेण यातव्ये पदे संप्राप्तिकारणम् / द्वैतिनां भोग्यभावात्तु प्रबुद्धानां यतोद्यते // ३०
SK
इह सर्वत्र शब्दानामन्वर्थं चर्चयेद्यतः / उक्तं श्रीमन्निशाचारे संज्ञात्र त्रिविधा मता // ३१
SK
नैमित्तिकी प्रसिद्धा च तथान्या पारिभाषिकी / पूर्वत्वे वा प्रधानं स्यात्तत्रान्तर्भावयेत्ततः // ३२
SK
अतोध्वशब्दस्योक्तेयं निरुक्तिर्नोदितापि चेत् / क्वचित्स्वबुद्ध्या साप्यूह्या कियल्लेख्यं हि पुस्तके // ३३
SK
तत्र क्रियाभासनं यत्सोध्वा कालाह्व उच्यते / वर्णमन्त्रपदाभिख्यमत्रास्तेध्वत्रयं स्फुटम् // ३४
SK
यस्तु मूर्त्यवभासांशः स देशाध्वा निगद्यते / कलातत्त्वपुराभिख्यमन्तर्भूतमिह त्रयम् // ३५
SK
त्रिकद्वयेत्र प्रत्येकं स्थूलं सूक्ष्मं परं वपुः / यतोस्ति तेन सर्वोयमध्वा षड्विध उच्यते // ३६
SK
षड्विधादध्वनः प्राच्यं यदेतत्त्रितयं पुनः / एष एव स कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः // ३७
SK
तत्तवमध्यस्थितात्कालादन्योयं काल उच्यते / एष कालो हि देवस्य विश्वाभासनकारिणी // ३८
SK
क्रियाशक्तिः समस्तानां तत्त्वानां च परं वपुः / एतदीश्वरतत्त्वं तच्छिवस्य वपुरुच्यते // ३९
SK
उद्रिक्ताभोगकार्यात्मविश्वैकात्म्यमिदं यतः / एतदीश्वररूपत्वं परमात्मनि यत्किल // ४०
SK
तत्प्रमातरि मायीये कालतत्त्वं निगद्यते / शिवादिशुद्धविद्यान्तं यच्छिवस्य स्वकं वपुः // ४१
SK
तदेव पुंसो मायादिरागान्तं कञ्चुकीभवेत् / अनाश्रितं यतो माया कलाविद्ये सदाशिवः // ४२
SK
ईश्वरः कालनियती सद्विद्या राग उच्यते / अनाश्रितः शून्यमाता बुद्धिमाता सदाशिवः // ४३
SK
ईश्वरः प्राणमाता च विद्या देहप्रमातृता / अनाश्रयो हि शून्यत्वं ज्ञानमेव हि बुद्धिता // ४४
SK
विश्वात्मता च प्राणत्वं देहे वेद्यैकतानता / तेन प्राणपथे विश्वाकलनेयं विराजते // ४५
SK
येन रूपेण तद्वच्मः सद्भिस्तदवधीयताम् / द्वादशान्तावधावस्मिन्देहे यद्यपि सर्वतः // ४६
SK
ओतप्रोतात्मकः प्राणस्तथापीत्थं न सुस्फुटः / यत्नो जीवनमात्रात्मा तत्परश्च द्विधा मतः // ४७
SK
संवेद्यश्चाप्यसंवेद्यो द्विधेत्थं भिद्यते पुनः / स्फुटास्फुटत्वाद्द्वैविध्यं प्रत्येकं परिभावयेत् // ४८
SK
संवेद्यजीवनाभिख्यप्रयत्नस्पन्दसुन्दरः / प्राणः कन्दात्प्रभृत्येव तथाप्यत्र न सुस्फुटः // ४९
SK
कन्दाधारात्प्रभृत्येव व्यवस्था तेन कथ्यते / स्वच्छन्दशास्त्रे नाडीनां वाय्वाधारतया स्फुटम् // ५०
SK
तत्रापि तु प्रयत्नोसौ न संवेद्यतया स्थितः / वेद्ययत्नात्तु हृदयात्प्राणचारो विभज्यते // ५१
SK
प्रभोः शिवस्य या शक्तिर्वामा ज्येष्ठा च रौद्रिका / सतदन्यतमावात्मप्राणौ यत्नविधायिनौ // ५२
SK
प्रभुशक्तिः क्वचिन्मुख्या यथाङ्गमरुदीरणे / आत्मशक्तिः क्वचित्कन्दसंकोचस्पन्दने यथा // ५३
SK
प्राणशक्तिः क्वचित्प्राणचारे हार्दे यथा स्फुटम् / त्रयं द्वयं वा मुख्यं स्याद्योगिनामवधानिनाम् // ५४
SK
अवधानाददृष्टांशाद्बलवत्त्वादथेरणात् / विपर्ययोपि प्राणात्मशक्तीनां मुख्यतां प्रति // ५५
SK
वामा संसारिणामीशा प्रभुशक्तिर्विधायिनी / ज्येष्ठा तु सुप्रबुद्धानां बुभुत्सूनां च रौद्रिका // ५६
SK
वामा संसारवमना ज्येष्ठा शिवमयी यतः / द्रावयित्री रुजां रौद्री रोद्ध्री चाखिलकर्मणाम् // ५७
SK
सृष्ट्यादितत्त्वमज्ञात्वा न मुक्तो नापि मोचयेत् / उक्तं च श्रीयोगचारे मोक्षः सर्वप्रकाशनात् // ५८
SK
उत्पत्तिस्थितिसंहारान् ये न जानन्ति योगिनः / न मुक्तास्ते तदज्ञानबन्धनैकाधिवासिताः // ५९
SK
सृष्ट्यादयश्च ते सर्वे कालाधीना न संशयः / स च प्राणात्मकस्तस्मादुच्चारः कथ्यते स्फुटः // ६०
SK
हृदयात्प्राणचारश्च नासिक्यद्वादशान्ततः / षट्त्रिंशदङ्गुलो जन्तोः सर्वस्य स्वाङ्गुलक्रमात् // ६१
SK
क्षोदिष्ठे वा महिष्ठे वा देहे तादृश एव हि / वीर्यमोजो बलं स्पन्दः प्राणचारः समं ततः // ६२
SK
षट्त्रिंशदङ्गुले चारे यद्गमागमयुग्मकम् / नालिकातिथिमासाब्दतत्सङ्घ्रोत्र स्फुटं स्थितः // ६३
SK
तुटिः सपादाङ्गुलयुक्प्राणस्ताः षोडशोच्छ्वसन् / निःश्वसंश्चात्र चषकः सपञ्चांशेङ्गुलेङ्गुले // ६४
SK
श्वासप्रश्वासयोर्नाली प्रोक्ताहोरात्र उच्यते / नवाङ्गुलाम्बुधितुटौ प्रहरास्तेब्धयो दिनम् // ६५
SK
निर्गमेन्तर्निशेनेन्दू तयोः संध्ये तुटेर्दले / केतुः सूर्ये विधौ राहुर्भौमादेर्वारभागिनः // ६६
SK
प्रहरद्वयमन्येषां ग्रहाणामुदयोन्तरा / सिद्धिर्दवीयसी मोक्षोभिचारः पारलौकिकी // ६७
SK
ऐहिकी दूरनैकट्यातिशया प्रहराष्टके / मध्याह्नमध्यनिशयोरभिजिन्मोक्षभोगदा // ६८
SK
नक्षत्राणां तदन्येषामुदयो मध्यतः क्रमात् / नागा लोकेशमूर्तीशा गणेशा जलतत्त्वतः // ६९
SK
प्रधानान्तं नायकाश्च विद्यातत्त्वाधिनायकाः / सकलाद्याश्च कण्ठ्योष्ठ्यपर्यन्ता भैरवास्तथा // ७०
SK
शक्तयः पारमेश्वर्यो वामशा वीरनायकाः / अष्टावष्टौ ये य इत्थं व्याप्यव्यापकताजुषः // ७१
SK
स्थूलसूक्ष्माः क्रमात्तेषामुदयः प्रहराष्टके / दिने क्रूराणि सौम्यानि रात्रौ कर्माण्यसंशयम् // ७२
SK
क्रूरता सौम्यता वाभिसन्धेरपि निरूपिता / दिनरात्रिक्षये मुक्तिः सा व्याप्तिध्यानयोगतः // ७३
SK
ते चोक्ताः परमेशेन श्रीमद्वीरावलीकुले / सितासितौ दीर्घह्रस्वौ धर्माधर्मौ दिनक्षपे // ७४
SK
क्षीयेते यदि तद्दीक्षा व्याप्त्या ध्यानेन योगतः / अहोरात्रः प्राणचारे कथितो मास उच्यते // ७५
SK
दिनं कृष्णो निशा शुक्लः पक्षौ कर्मसु पूर्ववत् / याः षोडशोक्तास्तिथयस्तासु ये पूर्वपश्चिमे // ७६
SK
तयोस्तु विश्रमोर्धेर्धे तिथ्यः पञ्चदशेतराः / सपादे द्व्यङ्गुले तिथ्या अहोरात्रो विभज्यते // ७७
SK
प्रकाशविश्रमवशात्तावेव हि दिनक्षपे / संवित्प्रतिक्षणं यस्मात्प्रकाशानन्दयोगिनी // ७८
SK
तौ क्लृप्तौ यावति तया तावत्येव दिनक्षपे / यावत्येव हि संवित्तिरुदितोदितसुस्फुटा // ७९
SK
तावानेव क्षणः कल्पो निमेषो वा तदस्त्वपि / यावानेवोदयो वित्तेर्वेद्यैकग्रहतत्परः // ८०
SK
तावदेवास्तमयनं वेदितृस्वात्मचर्वणम् / वेद्ये च बहिरन्तर्वा द्वये वाथ द्वयोज्झिते // ८१
SK
सर्वथा तन्मयीभूतिर्दिनं वेत्तृस्थता निशा / वेदिता वेद्यविश्रान्तो वेत्ता त्वन्तर्मुखस्थितिः // ८२
SK
पुरा विचारयन्पश्चात्सत्तामात्रस्वरूपकः / जाग्रद्वेदितृता स्वप्नो वेत्तृभावः पुरातनः // ८३
SK
परः सुप्तं क्षये रात्रिदिनयोस्तुर्यमद्वयम् / कदाचिद्वस्तुविश्रान्तिसाम्येनात्मनि चर्वणम् // ८४
SK
वेद्यवेदकसाम्यं तत् सा रात्रिदिनतुल्यता / वेद्ये विश्रान्तिरधिका दिनदैर्घ्याय तत्र तु // ८५
SK
न्यूना स्यात्स्वात्मविश्रान्तिर्विपरीते विपर्ययः / स्वात्मौत्सुक्ये प्रबुद्धे हि वेद्यविश्रान्तिरल्पिका // ८६
SK
इत्थमेव दिवारात्रिन्यूनाधिक्यक्रमं वदेत् / यथा देहेष्वहोरात्रन्यूनाधिक्यादि नो समम् // ८७
SK
तथा पुरेष्वपीत्येवं तद्विशेषेण नोदितम् / श्रीत्रैयम्बकसन्तानवितताम्बरभास्करः // ८८
SK
दिनरात्रिक्रमं मे श्रीशंभुरित्थमपप्रथत् / श्रीसन्तानगुरुस्त्वाह स्थानं बुद्धाप्रबुद्धयोः // ८९
SK
हृद आरभ्य यत्तेन रात्रिन्दिवविभाजनम् / तदसत्सितपक्षेन्तः प्रवेशोल्लासभागिनि // ९०
SK
अबुद्धस्थानमेवैतद्दिनत्वेन कथं भवेत् / अलं वानेन नेदं वा मम प्राङ्मतमत्सरः // ९१
SK
हेये तु दर्शिते शिष्याः सत्पथैकान्तदर्शिनः / व्याख्यातः कृष्णपक्षो य स्तत्र प्राणगतः शशी // ९२
SK
आप्यायनात्मनैकैकां कलां प्रतितिथि त्यजेत् / द्वादशान्तसमीपे तु यासौ पञ्चदशी तुटिः // ९३
SK
सामावस्यात्र स क्षीणश्चन्द्रः प्राणार्कमाविशेत् / उक्तं श्रीकामिकायां च नोर्ध्वेधः प्रकृतिः परा / अर्धार्धे क्रमते माया द्विखण्डा शिवरूपिणी // ९४
SK
चन्द्रसूर्यात्मना देहं पूरयेत्प्रविलापयेत् / अमृतं चन्द्ररूपेण द्विधा षोडशधा पुनः // ९५
SK
पिवन्ति च सुराः सर्वे दशपञ्च पराः कलाः / अमा शेषगुहान्तःस्थामावास्या विश्वतर्पिणी // ९६
SK
एवं कलाः पञ्चदश क्षीयन्ते शशिनः क्रमात् / आप्यायिन्यमृताब्रूपतादात्म्यात्षोडशी न तु // ९७
SK
तत्र पञ्चदशी यासौ तुटिः प्रक्षीणचन्द्रमाः / तदूर्ध्वगं यत्तुट्यर्धं पक्षसंधिः स कीर्तितः // ९८
SK
तस्माद्विश्रमतुट्यर्धादामावस्यं पुरादलम् / परं प्रातिपदं चार्धमिति संधिः स कल्प्यते // ९९
SK
तत्र प्रातिपदे तस्मिंस्तुट्यर्धार्धे पुरादलम् / आमावस्यं तिथिच्छेदात्कुर्यात्सूर्यग्रहं विशत् // १००
SK
तत्रार्कमण्डले लीनः शशी स्रवति यन्मधु / तप्तत्वात्तत्पिबेदिन्दुसहभूः सिंहिकासुतः // १०१
SK
अर्कः प्रमाणं सोमस्तु मेयं ज्ञानक्रियात्मकौ / राहुर्मायाप्रमाता स्यात्तदाच्छादनकोविदः // १०२
SK
तत एव तमोरूपो विलापयितुमक्षमः / तत्संघट्टाद्वयोल्लासो मुख्यो माता विलापकः // १०३
SK
अर्केन्दुराहुसंघट्टात् प्रमाणं वेद्यवेदकौ / अद्वयेन ततस्तेन पुण्य एष महाग्रहः // १०४
SK
अमावस्यां विनाप्येष संघट्टश्चेन्महाग्रहः / यथार्के मेषगे राहावश्विनीस्थेश्विनीदिने // १०५
SK
आमावास्यं यदा त्वर्धं लीनं प्रातिपदे दले / प्रतिपच्च विशुद्धा स्यात्तन्मोक्षो दूरगे विधौ // १०६
SK
ग्रासमोक्षान्तरे स्नानध्यानहोमजपादिकम् / लौकिकालौकिकं भूयःफलं स्यात्पारलौकिकम् // १०७
SK
ग्रास्यग्रासकताक्षोभप्रक्षये क्षणमाविशन् / मोक्षभाग्ध्यानपूजादि कुर्वंश्चन्द्रार्कयोर्ग्रहे // १०८
SK
तिथिच्छेद ऋणं कासो वृद्धिर्निःश्वसनं धनम् / अयत्नजं यत्नजं तु रेचनादथ रोधनात् // १०९
SK
एवं प्राणे विशति चित्सूर्य इन्दुं सुधामयम् / एकैकध्येन बोधांशु कलया परिपूरयेत् // ११०
SK
क्रमसंपूरणाशालिशशाङ्कामृतसुन्दराः / तुट्यः पञ्चदशैताः स्युस्तिथयः सितपक्षगाः // १११
SK
अन्त्यायां पूर्णमस्तुट्यां पूर्ववत्पक्षसन्धिता / इन्दुग्रहश्च प्रतिपत्सन्धौ पूर्वप्रवेशतः // ११२
SK
ऐहिकं ग्रहणे चात्र साधकानां महाफलम् / प्राग्वदन्यदयं मासः प्राणचारेब्द उच्यते // ११३
SK
षट्सु षट्स्वङ्गुलेष्वर्को हृदयान्मकरादिषु / तिष्ठन्माघाढिकं षट्कं कुर्यात्तच्चोत्तरायणम् // ११४
SK
संक्रान्तित्रितये वृत्ते भुक्ते चाष्टादशाङ्गुले / मेषं प्राप्ते रवौ पुण्यं विषुवत्पारलौकिकम् // ११५
SK
प्रवेशे तु तुलास्थेर्के तदेव विषुवद्भवेत् / इह सिद्धिप्रदं चैतद्दक्षिणायनगं ततः // ११६
SK
गर्भता प्रोद्बुभूषिष्यद्भावश्चाथोद्बुभूषुता / उद्भविष्यत्त्वमुद्भूतिप्रारम्भोप्युद्भवस्थितिः // ११७
SK
जन्म सत्ता परिणतिर्वृद्धिर्ह्रासः क्षयः क्रमात् / मकरादीनि तेनात्र क्रिया सूते सदृक्फलम् // ११८
SK
आमुत्रिके झषः कुम्भो मन्त्रादेः पूर्वसेवने / चतुष्कं किल मीनाद्यमन्तिकं चोत्तरोत्तरम् // ११९
SK
प्रवेशे खलु तत्रैव शान्तिपुष्ट्यादिसुन्दरम् / कर्म स्यादैहिकं तच्च दूरदूरफलं क्रमात् // १२०
SK
निर्गमे दिनवृद्धिः स्याद्विपरीते विपर्ययः / वर्षेस्मिंस्तिथयः पञ्च प्रत्यङ्गुलमिति क्रमः // १२१
SK
तत्राप्यहोरात्रविधिरिति सर्वं हि पूर्ववत् / प्राणीये वर्ष एतस्मिन्कार्तिकादिषु दक्षतः // १२२
SK
पितामहान्तं रुद्राः स्युर्द्वादशाग्रेत्र भाविनः / प्राणे वर्षोदयः प्रोक्तो द्वादशाब्दोदयोधुना // १२३
SK
खरसास्तिथ्य एकस्मिन्नेकस्मिन्नङ्गुले क्रमात् / द्वादशाब्दोदये ते च चैत्राद्या द्वादशोदिताः // १२४
SK
चैत्रे मन्त्रोदितिः सोपि तालुन्युक्तोधुना पुनः / हृदि चैत्रोदितिस्तेन तत्र मन्त्रोदयोपि हि // १२५
SK
प्रत्यङ्गुलं तिथीनां तु त्रिशते परिकल्पिते / सपञ्चांशाङ्गुलेब्दः स्यात्प्राणे षष्ट्यब्दता पुनः // १२६
SK
शतानि षट् सहस्राणि चैकविंशतिरित्ययम् / विभागः प्राणगः षष्टिवर्षाहोरात्र उच्यते // १२७
SK
प्रहराहर्निशामासऋत्वब्दरविषष्टिगः / यश्छेदस्तत्र यः सन्धिः स पुण्यो ध्यानपूजने // १२८
SK
इति प्राणोदये योयं कालः शक्त्येकविग्रहः / विश्वात्मान्तःस्थितस्तस्य बाह्ये रूपं निरूप्यते // १२९
SK
षट् प्राणाश्चषकस्तेषां षष्टिर्नाली च तास्तथा / तिथिस्तत्त्रिंशता मासस्ते द्वादश तु वत्सरः // १३०
SK
अब्दं पित्र्यस्त्वहोरात्र उदग्दक्षिणतोयनात् / पितॄणां यत्स्वमानेन वर्षं तद्दिव्यमुच्यते // १३१
SK
षष्ट्यधिकं च त्रिशतं वर्षाणामत्र मानुषम् / तच्च द्वादशभिर्हत्वा माससंख्यात्र लभ्यते // १३२
SK
तां पुनस्त्रिंशता हत्वाहोरात्रकल्पना वदेत् / हत्वा तां चैकविंशत्या सहस्रैः षट्शतेन च // १३३
SK
प्राणसंख्यां वदेत्तत्र षष्ट्याद्यब्दोदयं पुनः / उक्तं च गुरुभिः श्रीमद्रौरवादिस्ववृत्तिषु // १३४
SK
देवानां यदहोरात्रं मानुषाणां स हायनः / शतत्रयेण षष्ट्या च नॄणां विबुधवत्सरः // १३५
SK
श्रीमत्स्वच्छन्दशास्त्रे च तदेव मतमीक्ष्यते / पितॄणां तदहोरात्रमित्युपक्रम्य पृष्ठतः // १३६
SK
एवं दैवस्त्वहोरात्र इति ह्यैक्योपसंहृतिः / तेन ये गुरवः श्रीमत्स्वच्छन्दोक्तिद्वयादितः // १३७
SK
पित्र्यं वर्षं दिव्यदिनमूचुर्भ्रान्ता हि ते मुधा / दिव्यार्काब्दसहस्राणि युगेषु चतुरादितः // १३८
SK
एकैकहान्या तावद्भिः शतैस्तेष्वष्ट संधयः / चतुर्युगैकसप्तत्या मन्वन्तस्ते चतुर्दश // १३९
SK
ब्रह्मणोहस्तत्र चेन्द्राः क्रमाद्यान्ति चतुर्दश / ब्रह्माहोन्ते कालवह्नेर्ज्वाला योजनलक्षिणी // १४०
SK
दग्ध्वा लोकत्रयं धूमात्त्वन्यत्प्रस्वापयेत्त्रयम् / निरयेभ्यः पुरा कालवह्नेर्व्यक्तिर्यतस्ततः // १४१
SK
विभुरधःस्थितोपीश इति श्रीरौरवं मतम् / ब्रह्मनिःश्वासनिर्धूते भस्मनि स्वेदवारिणा // १४२
SK
तदीयेनाप्लुतं विश्वं तिष्ठेत्तावन्निशागमे / तस्मिन्निशावधौ सर्वे पुद्गलाः सूक्ष्मदेहगाः // १४३
SK
अग्निवेगेरिता लोके जने स्युर्लयकेवलाः / कूष्माण्डहाटकाद्यास्तु क्रीडन्ति महदालये // १४४
SK
निशाक्षये पुनः सृष्टिं कुरुते तामसादितः / स्वकवर्षशतान्तेस्य क्षयस्तद्वैष्णवं दिनम् // १४५
SK
रात्रिश्च तावतीत्येवं विष्णुरुद्रशताभिधाः / क्रमात्स्वस्वशतान्तेषु नश्यन्त्यत्राण्डलोपतः // १४६
SK
अबाद्यव्यक्ततत्त्वान्तेष्वित्थं वर्षशतं क्रमात् / दिनरात्रिविभागः स्यात् स्वस्वायुःशतमानतः // १४७
SK
ब्रह्मणः प्रलयोल्लाससहस्रैस्तु रसाग्निभिः / अव्यक्तस्थेषु रुद्रेषु दिनं रात्रिश्च तावती // १४८
SK
तदा श्रीकण्ठ एव स्यात्साक्षात्संहारकृत्प्रभुः / सर्वे रुद्रास्तथा मूले मायागर्भाधिकारिणः // १४९
SK
अव्यक्ताख्ये ह्याविरिञ्चाच्छ्रीकण्ठेन सहासते / निवृत्ताधःस्थकर्मा हि ब्रह्मा तत्राधरे धियः // १५०
SK
न भोक्ता ज्ञोधिकारे तु वृत्त एव शिवीभवेत् / स एषोवान्तरलयस्तत्क्षये सृष्टिरुच्यते // १५१
SK
सांख्यवेदादिसंसिद्धाञ्छ्रीकण्ठस्तदहर्मुखे / सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी // १५२
SK
प्रधाने यदहोरात्रं तज्जं वर्षशतं विभोः / श्रीकण्ठस्यायुरेतच्च दिनं कञ्चुकवासिनाम् // १५३
SK
तत्क्रमान्नियतिः कालो रागो विद्या कलेत्यमी / यान्त्यन्योन्यं लयं तेषामायुर्गाहनिकं दिनम् // १५४
SK
तद्दिनप्रक्षये विश्वं मायायां प्रविलीयते / क्षीणायां निशि तावत्यां गहनेशः सृजेत्पुनः // १५५
SK
एवमव्यक्तकालं तु परार्धैर्दशभिर्जहि / मायाहस्तावती रात्रिर्भवेत्प्रलय एष सः // १५६
SK
मायाकालं परार्धानां गुणयित्वा शतेन तु / ऐश्वरो दिवसो नादः प्राणात्मात्र सृजेज्जगत् // १५७
SK
तावती चैश्वरी रात्रिर्यत्र प्राणः प्रशाम्यति / प्राणगर्भस्थमप्यत्र विश्वं सौषुम्नवर्त्मना // १५८
SK
प्राणे ब्रह्मविले शान्ते संविद्याप्यवशिष्यते / अंशांशिकातोप्येतस्याः सूक्ष्मसूक्ष्मतरो लयः // १५९
SK
गुणयित्वैश्वरं कालं परार्धानां शतेन तु / सादाशिवं दिनं रात्रिर्महाप्रलय एव च // १६०
SK
सदाशिवः स्वकालान्ते बिन्द्वर्धेन्दुनिरोधिकाः / आक्रम्य नादे लीयेत गृहीत्वा सचराचरम् // १६१
SK
नादो नादान्तवृत्त्या तु भित्त्वा ब्रह्मबिलं हठात् / शक्तितत्त्वे लयं याति निजकालपरिक्षये // १६२
SK
एतावच्छक्तितत्त्वे तु विज्ञेयं खल्वहर्निशम् / शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः // १६३
SK
व्यापिन्या तद्दिवारात्रं लीयते साप्यनाश्रिते / परार्धकोट्या हत्वापि शक्तिकालमनाश्रिते // १६४
SK
दिनं रात्रिश्च तत्काले परार्धगुणितेपि च / सोपि याति लयं साम्यसंज्ञे सामनसे पदे // १६५
SK
स कालः साम्यसंज्ञः स्यान्नित्योकल्यः कलात्मकः / यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् // १६६
SK
अतः सामनसात्कालान्निमेषोन्मेषमात्रतः / तुट्यादिकं परार्धान्तं सूते सैवात्र निष्ठितम् // १६७
SK
दशशतसहस्रमयुतं लक्षनियुतकोटि सार्बुदं वृन्दम् / खर्वनिखर्वे शंखाब्जजलधिमध्यान्तमथ परार्धं च // १६८
SK
इत्येकस्मात्प्रभृति हि दशधा दशधा क्रमेण कलयित्वा / एकादिपरार्धान्तेष्वष्टादशसु स्थितिं ब्रूयात् // १६९
SK
चत्वार एते प्रलया मुख्याः सर्गाश्च तत्कलाः / भूमूलनैशशक्तिस्थास्तदेवाण्डचतुष्टयम् // १७०
SK
कालाग्निर्भुवि संहर्ता मायान्ते कालतत्त्वराट् / श्रीकण्ठो मूल एकत्र सृष्टिसंहारकारकः // १७१
SK
तल्लयो वान्तरस्तस्मादेकः सृष्टिलयेशिता / श्रीमानघोरः शक्त्यन्ते संहर्ता सृष्टिकृच्च सः // १७२
SK
तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः / अन्तर्भूतास्ततः शाक्ती महासृष्टिरुदाहृता // १७३
SK
लये ब्रह्मा हरी रुद्रशतान्यष्टकपञ्चकम् / इत्यन्योन्यं क्रमाद्यान्ति लयं मायान्तकेध्वनि // १७४
SK
मायातत्त्वलये त्वेते प्रयान्ति परमं पदम् / मायोर्ध्वे ये सिताध्वस्थास्तेषां परशिवे लयः // १७५
SK
तत्राप्यौपाधिकाद्भेदाल्लये भेदं परे विदुः / एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे // १७६
SK
तत्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते / ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयेत् // १७७
SK
स ब्रह्मा विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात् / शक्तिमन्तं विहायान्यं शक्तिः किं याति नेदृशम् // १७८
SK
छादितप्रथिताशेष शक्तिरेकः शिवस्तथा / एवं विसृष्टिप्रलयाः प्राण एकत्र निष्ठिताः // १७९
SK
सोपि संविदि संविच्च चिन्मात्रे ज्ञेयवर्जिते / चिन्मात्रमेव देवी च सा परा परमेश्वरी // १८०
SK
अष्टात्रिंशं च तत्तत्त्वं हृदयं तत्परापरम् / तेन संवित्त्वमेवैतत्स्पन्दमानं स्वभावतः // १८१
SK
लयोदया इति प्राणे षष्ट्यब्दोदयकीर्तनम् / इच्छामात्रप्रतिष्ठेयं क्रियावैचित्र्यचर्चना // १८२
SK
कालशक्तिस्ततो बाह्ये नैतस्या नियतं वपुः / स्वप्नस्वप्ने तथा स्वप्ने सुप्ते संकल्पगोचरे // १८३
SK
समाधौ विश्वसंहारसृष्टिक्रमविवेचने / मितोपि किल कालांशो विततत्वेन भासते // १८४
SK
प्रमात्रभेदे भेदेथ चित्रो विततिमाप्यसौ / एवं प्राणे यथा कालः क्रियावैचित्र्यशक्तिजः // १८५
SK
तथापानेपि हृदयान्मूलपीठविसर्पिणि / मूलाभिधमहापीठसङ्कोचप्रविकासयोः // १८६
SK
ब्रह्माद्यनाश्रितान्तानां चिनुते सृष्टिसंहृती / शश्वद्यद्यप्यपानोय मित्थं वहति किंत्वसौ // १८७
SK
अवेद्ययत्नो यत्नेन योगिभिः समुपास्यते / हृत्कन्दानन्दसंकोचविकासद्वादशान्तगाः // १८८
SK
ब्रह्मादयोनाश्रितान्ताः सेव्यन्तेत्र सुयोगिभिः / एते च परमेशानशक्तित्वाद्विश्ववर्तिनः // १८९
SK
देहमप्यश्नुवानास्तत्कारणानीति कामिके / बाल्ययौवनवृद्धत्वनिधनेषु पुनर्भवे // १९०
SK
मुक्तौ च देहे ब्रह्माद्याः षडधिष्ठानकारिणः / तस्यान्ते तु परा देवी यत्र युक्तो न जायते // १९१
SK
अनेन ज्ञातमात्रेण दीक्षानुग्रहकृद्भवेत् / समस्तकारणोल्लासपदे सुविदिते यतः // १९२
SK
अकारणं शिवं विन्देद्यत्तद्विश्वस्य कारणम् / अधोवक्त्रं त्विदं द्वैतकलङ्कैकान्तशातनम् // १९३
SK
क्षीयते तदुपासायां येनोर्ध्वाधरडम्बरः / अत्रापानोदये प्राग्वत्षष्ट्यब्दोदययोजनाम् // १९४
SK
यावत्कुर्वीत तुट्यादेर्युक्ताङ्गुलविभागतः / एवं समानेपि विधिः स हि हार्दीषु नाडिषु // १९५
SK
संचरन्सर्वतोदिक्कं दशधैव विभाव्यते / दश मुख्या महानाडीः पूरयन्नेष तद्गताः // १९६
SK
नाड्यन्तरश्रिता नाडीः क्रामन्देहे समस्थितिः / अष्टासु दिग्दलेष्वेष क्रामंस्तद्दिक्पतेः क्रमात् // १९७
SK
चेष्टितान्यनुकुर्वाणो रौद्रः सौम्यश्च भासते / स एव नाडीत्रितये वामदक्षिणमध्यगे // १९८
SK
इन्द्वर्काग्निमये मुख्ये चरंस्तिष्ठत्यहर्निशम् / सार्धनालीद्वयं प्राणशतानि नव यत्स्थितम् // १९९
SK
तावद्वहन्नहोरात्रं चतुर्विंशतिधा चरेत् / विषुवद्वासरे प्रातः सांशां नालीं स मध्यगः // २००
SK
वामेतरोदक्सव्यान्यैर्यावत्संक्रान्तिपञ्चकम् / एवं क्षीणासु पादोनचतुर्दशसु नालिषु // २०१
SK
मध्याह्ने दक्षविषुवन्नवप्राणशतीं वहेत् / दक्षोदगन्योदग्दक्षैः पुनः संक्रान्तिपञ्चकम् // २०२
SK
नवासुशतमेकैकं ततो विषुवदुत्तरम् / पञ्चके पञ्चकेतीते संक्रान्तेर्विषुवद्बहिः // २०३
SK
यद्वत्तथान्तः सङ्क्रान्तिर्नवप्राणशतानि सा / एवं रात्रावपीत्येवं विषुवद्दिवसात्समात् // २०४
SK
आरभ्याहर्निशावृद्धिह्राससङ्क्रान्तिगोप्यसौ / रात्र्यन्तदिनपूर्वांशौ मध्याह्नो दिवसक्षयः // २०५
SK
स शर्वर्युदयो मध्यमुदक्तो विषुतेदृशी / व्याप्तौ विषेर्यतो वृत्तिः साम्यं च व्याप्तिरुच्यते // २०६
SK
तदर्हति च यः कालो विषुवत्तदिहोदितः / विषुवत्प्रभृति ह्रासवृद्धी ये दिनरात्रिगे // २०७
SK
तत्क्रमेणैव संक्रान्तिह्रासवृद्धी दिवानिशोः / इत्थं समानमरुतो वर्षद्वयविकल्पनम् // २०८
SK
चार एकत्र नह्यत्र श्वासप्रश्वासचर्चनम् / समानेपि तुटेः पूर्वं यावत्षष्ट्यब्दगोचरम् // २०९
SK
कालसंख्या सुसूक्ष्मैकचारगा गण्यते बुधैः / संध्यापूर्वाह्णमध्याह्नमध्यरात्रादि यत्किल // २१०
SK
अन्तःसंक्रान्तिगं ग्राह्यं तन्मुख्यं तत्फलोदितेः / उक्तः समानगः काल उदाने तु निरूप्यते // २११
SK
प्राणव्याप्तौ यदुक्तं तदुदानेप्यत्र केवलम् / नासाशक्त्यन्तयोः स्थाने ब्रह्मरन्ध्रोर्ध्वधामनी // २१२
SK
तेनोदानेत्र हृदयान्मूर्धन्यद्वादशान्तगम् / तुट्यादिषष्टिवर्षान्तं विश्वं कालं विचारयेत् // २१३
SK
व्याने तु विश्वात्ममये व्यापके क्रमवर्जिते / सूक्ष्मसूक्ष्मोच्छलद्रूपमात्रः कालो व्यवस्थितः // २१४
SK
सृष्टिः प्रविलयः स्थेमा संहारोनुग्रहो यतः / क्रमात्प्राणादिके काले तं तं तत्राश्रयेत्ततः // २१५
SK
प्राणचारेत्र यो वर्णपदमन्त्रोदयः स्थितः / यत्नजोयत्नजः सूक्ष्मः परः स्थूलः स कथ्यते // २१६
SK
एको नादात्मको वर्णः सर्ववर्णाविभागवान् / सोनस्तमितरूपत्वादनाहत इहोदितः // २१७
SK
स तु भैरवसद्भावो मातृसद्भाव एष सः / परा सैकाक्षरा देवी यत्र लीनं चराचरम् // २१८
SK
ह्रस्वार्णत्रयमेकैकं रव्यङ्गुलमथेतरत् / प्रवेश इति षड्वर्णाः सूर्येन्दुपथगाः क्रमात् // २१९
SK
इकारोकारयोरादिसन्धौ संध्यक्षरद्वयम् / ए+ओ इति प्रवेशे तु ऐ+औ इति द्वयं विदुः // २२०
SK
षण्ठार्णानि प्रवेशे तु द्वादशान्तललाटयोः / गले हृदि च बिन्द्वर्णविसर्गौ परितःस्थितौ // २२१
SK
कादिपञ्चकमाद्यस्य वर्णस्यान्तः सदोदितम् / एवं सस्थानवर्णानामन्तः सा सार्णसन्ततिः // २२२
SK
हृद्येष प्राणरूपस्तु सकारो जीवनात्मकः / बिन्दुः प्रकाशो हार्णश्च पूरणात्मतया स्थितः // २२३
SK
उक्तः परोयमुदयो वर्णानां सूक्ष्म उच्यते / प्रवेशे षोडशौन्मुख्ये रवयः षण्ठवर्जिताः // २२४
SK
तदेवेन्द्वर्कमत्रान्ये वर्णाः सूक्ष्मोदयस्त्वयम् / कालोर्धमात्रः कादीनां त्रयस्त्रिंशत उच्यते // २२५
SK
मात्रा ह्रस्वाः पञ्च दीर्घाष्टकं द्विस्त्रिः प्लुतं तु लॄ / एकाशीतिमिमामर्धमात्राणामाह नो गुरुः // २२६
SK
यद्वशाद्भगवानेकाशीतिकं मन्त्रमभ्यधात् / एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका // २२७
SK
श्रीमातङ्गे तथा धर्मसंघातात्मा शिवो यतः / तथा तथा परामर्शशक्तिचक्रेश्वरः प्रभुः // २२८
SK
स्थूलैकाशीतिपदजपरामर्शैर्विभाव्यते / तत एव परामर्शो यावत्येकः समाप्यते // २२९
SK
तावत्तत्पदमुक्तं नो सुप्तिङ्नियमयान्त्रितम् / एकाशीतिपदोदारविमर्शक्तमबृंहितः // २३०
SK
स्थूलोपायः परोपायस्त्वेष मात्राकृतो लयः / अर्धमात्रा नव नव स्युश्चतुर्षु चतुर्षु यत् // २३१
SK
अङ्गुलेष्विति षट्त्रिंशत्येकाशीतिपदोदयः / अङ्गुले नवभागेन विभक्ते नवमाशकाः // २३२
SK
वेदा मात्रार्धमन्यत्तु द्विचतुःषङ्गुणं त्रयम् / एवमङ्गुलरन्ध्रांशचतुष्कद्वयगं लघु // २३३
SK
दीर्घं प्लुतं क्रमाद्द्वित्रिगुणमर्धं ततोपि हल् / क्षकारस्त्र्यर्धमात्रात्मा मात्रिकः सतथान्तरा // २३४
SK
विश्रान्तावर्धमात्रास्य तस्मिंस्तु कलिते सति / अङ्गुलार्धेद्रिभागेन त्वर्धमात्रा पुरा पुनः // २३५
SK
क्षकारः सर्वसंयोगग्रहणात्मा तु सर्वगः / सर्ववर्णोदयाद्यन्तसन्धिषूदयभाग्विभुः // २३६
SK
इत्थं षट्त्रिंशके चारे वर्णानामुदयः फले / क्रूरे सौम्ये विलोमेन हादि यावदपश्चिमम् // २३७
SK
हृद्यकारो द्वादशान्ते हकारस्तदिदं विदुः / अहमात्मकमद्वैतं यः प्रकाशात्मविश्रमः // २३८
SK
शिवशक्त्यविभागेन मात्रैकाशीतिका त्वियम् / द्वासप्ततावङ्गुलेषु द्विगुणत्वेन संसरेत् // २३९
SK
उक्तः सूक्ष्मोदयस्त्रैधं द्विधोक्तस्तु परोदयः / अथ स्थूलोदयोर्णानां भण्यते गुरुणोदितः // २४०
SK
एकैकमर्धप्रहरं दिने वर्गाष्टकोदयः / रात्रौ च ह्रासवृद्ध्यत्र केचिदाहुर्न केपि तु // २४१
SK
एष वर्गोदयो रात्रौ दिवा चाप्यर्धयामगः / प्राणत्रयोदशशती पञ्चाशदधिका च सा // २४२
SK
अध्यर्धा किल संक्रान्तिर्वर्गे वर्गे दिवानिशोः / तदैक्ये तूदयश्चारशतानां सप्तविंशतिः // २४३
SK
नव वर्गांस्तु ये प्राहुस्तेषां प्राणशती स्वीन्[विः] / सत्रिभागैव संक्रान्तिर्वर्गे प्रत्येकमुच्यते // २४४
SK
अहर्निशं तदैक्ये तु शतानां श्रुतिचक्षुषी / स्थूलो वर्गोदयः सोयमथार्णोदय उच्यते // २४५
SK
एकैकवर्णे प्राणानां द्विशतं षोडशाधिकम् / बहिश्चषकषट्त्रिंशद्दिन इत्थं तथानिशि // २४६
SK
शतमष्टोत्तरं तत्र रौद्रं शाक्तमथोत्तरम् / यामलस्थितियोगे तु रुद्रशक्त्यविभागिता // २४७
SK
दिनरात्र्यविभागे तु दृग्वह्न्यब्ध्यसुचारणाः / सपञ्चमांशा नाडी च बहिर्वर्णोदयः स्मृतः // २४८
SK
इति पञ्चाशिका सेयं वर्णानां परिचर्चिता / एकोनां ये तु तामाहुस्तन्मतं संप्रचक्ष्महे // २४९
SK
वेदाश्चाराः पञ्चमांशन्यूनं चारार्धमेकशः / वर्णेधिकं तद्द्विगुणमविभागे दिवानिशोः // २५०
SK
स्थूलो वर्णोदयः सोयं पुरा सूक्ष्मो निगद्यते // २५१
SK
इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् // २५२अ

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source