SKउच्यते त्रिकशास्त्रेकरहस्यं तत्त्वभेदनम् // १ब्
SKतेषाममीषां तत्त्वानां स्ववर्गेष्वनुगामिनाम् / भेदान्तरमपि प्रोक्तं शास्त्रेत्र श्रीत्रिकाभिधे // २
SKशक्तिमच्छक्तिभेदेन धराद्यं मूलपश्चिमम् / भिद्यते पञ्चदशधा स्वरूपेण सहानरात् // ३
SKकलान्तं भेदयुग्घीनं रुद्रवत्प्रलयाकलः / तद्वन्माया च नवधा ज्ञाकलाः सप्तधा पुनः // ४
SKमन्त्रास्तदीशाः पाञ्चध्ये मन्त्रेशपतयस्त्रिधा / शिवो न भिद्यते स्वैकप्रकाशघनचिन्मयः // ५
SKशिवो मन्त्रमहेशेशमन्त्रा अकलयुक्कली / शक्तिमन्तः सप्त तथा शक्तयस्तच्चतुर्दश // ६
SKस्वं स्वरूपं पञ्चदशं तद्भूः पञ्चदशात्मिका / तथाहि तिस्रो देवस्य शक्तयो वर्णिताः पुरा // ७
SKता एव मातृमामेयत्रैरूप्येण व्यवस्थिताः / परांशो मातृरूपोत्र प्रमाणांशः परापरः // ८
SKमेयोपरः शक्तिमांश्च शक्तिः स्वं रूपमित्यदः / तत्र स्वरूपं भूमेर्यत्पृथग्जडमवस्थितम् // ९
SKमातृमानाद्युपधिभिरसंजातोपरागकम् / सकलादिशिवान्तैस्तु मातृभिर्वेद्यतास्य या // १०
SKशक्तिमद्भिरनुद्भूतशक्तिभिः सप्त तद्भिदः / सकलादिशिवान्तानां शक्तिषूद्रेचितात्मसु // ११
SKवेद्यताजनिताः सप्त भेदा इति चतुर्दश / सकलस्य प्रमाणांशो योसौ विद्याकलात्मकः // १२
SKसामान्यात्मा स शक्तित्वे गणितो नतु तद्भिदः / लयाकलस्य मानांशः स एव परमस्फुटः // १३
SKज्ञानाकलस्य मानं तु गलद्विद्याकलावृति / अशुद्धविद्याकलनाध्वंससंस्कारसंगता // १४
SKप्रबुभुत्सुः शुद्धविद्या सन्त्राणां करणं भवेत् / प्रबुद्धा शुद्धविद्या तु तत्संस्कारेण संगता // १५
SKमानं मन्त्रेश्वराणां स्यात्तत्संस्कारविवर्जिता / मानं मन्त्रमहेशानां करणं शक्तिरुच्यते // १६
SKस्वातन्त्र्यमात्रसद्भावा या त्विच्छा शक्तिरैश्वरी / शिवस्य सैव करणं तया वेत्ति करोति च // १७
SKआ शिवात्सकलान्तं ये मातारः सप्त ते द्विधा / न्यग्भूतोद्रिक्तशक्तित्वात्तद्भेदो वेद्यभेदकः // १८
SKतथाहि वेद्यता नाम भावस्यैव निजं वपुः / चैत्रेण वेद्यं वेद्मीति किंह्यत्र प्रतिभासताम् // १९
SKननु चैत्रीयविज्ञानमात्रमत्र प्रकाशते / वेद्यताख्यस्तु नो धर्मो भाति भावस्य नीलवत् // २०
SKवेद्यता च स्वभावेन धर्मो भावस्य चेत्ततः / सर्वान्प्रत्येव वेद्यः स्याद्धटनीलादिधर्मवत् // २१
SKअथ वेदकसंवित्तिबलाद्वेद्यत्वधर्मभाक् / भावस्तथापि दोषोसौ कुविन्दकृतवस्त्रवत् // २२
SKवेद्यताख्यस्तु यो धर्मः सोवेद्यश्चेत्खपुष्पवत् / वेद्यश्चेदस्ति तत्रापि वेद्येतत्यनवस्थितिः // २३
SKततो न किंचिद्वेद्यं स्यान्मूर्छितं तु जगद्भवेत् / ननु विज्ञात्रुपाध्यं शो पस्कृतं वपुरुच्यताम् // २४
SKभावस्यार्थप्रकाशात्म यथा ज्ञानमिदं त्वसत् / एकविज्ञातृवेद्यत्वे न ज्ञात्रन्तरवेद्यता // २५
SKसमस्तज्ञातृवेद्यत्वे नैकविज्ञातृवेद्यता / तस्मान्न वेद्यता नाम भावधर्मोस्ति कश्चन // २६
SKभावस्य वेद्यता सैव संविदो यः समुद्भवः / अर्थग्रहणरूपं हि यत्र विज्ञानमात्मनि // २७
SKसमवैति प्रकाश्योर्थस्तं प्रत्येषैव वेद्यता / अत्र ब्रूमः पदार्थानां न धर्मो यदि वेद्यता // २८
SKअवेद्या एव ते संस्युर्ज्ञाने सत्यपि वर्णिते / यथाहि पृथुबुध्नादिरूपे कुम्भस्य सत्यपि // २९
SKअतदात्मा पटो नैति पृथुबुध्नादिरूपताम् / तथा सत्यपि विज्ञाने विज्ञातृसमवायिनि // ३०
SKअवेद्यधर्मका भावाः कथं वेद्यत्वमाप्नुयुः / अनर्थः सुमहांश्चैष दृश्यतां वस्तु यत्स्वयम् // ३१
SKप्रकाशात्म न तत्संविच्चाप्रकाशा तदाश्रयः / अप्रकाशो मनोदीपचक्षुरादि तथैव तत् // ३२
SKकिं तत्प्रकाशतां नाम सुप्ते जगति सर्वतः / ज्ञानस्यार्थप्रकाशत्वं ननु रूपं प्रदीपवत् // ३३
SKअपूर्वमत्र विदितं नरीनृत्यामहे ततः / अर्थप्रकाशो ज्ञानस्य यद्रूपं तन्निरूप्यताम् // ३४
SKअर्थः प्रकाशश्चेद्रूपमर्थो वा ज्ञानमेव वा / अथार्थस्य प्रकाशो यस्तद्रूपमिति भण्यते // ३५
SKषष्ठी कर्तरि चेदुक्तो दोष एव दुरुद्धरः / अथ कर्मणि षष्ठ्येषा ण्यर्थस्तत्र हृदि स्थितः // ३६
SKतथा चेदं दर्शयामः किं प्रकाशः प्रकाशते / अप्रकाशोपि नैवासौ तथापि च न किंचन // ३७
SKतर्हि लोके कथं ण्यर्थः उच्यते चेतनस्थितौ / मुख्यो ण्यर्थस्य विषयो जडेषु त्वौपचारिकः // ३८
SKतथाहि गन्तुं शक्तोपि चैत्रोन्यायत्ततां गतेः / मन्वान एव वक्त्यस्मि गमितः स्वामिनेति हि // ३९
SKस्वाम्यप्यस्य गतौ शक्तिं बुद्ध्वा स्वाधीनतां स्फुटम् / पश्यन्निवृत्तिमाशंक्य गमयामीति भाषते // ४०
SKप्रेर्यप्रेरकयोरेवं मौलिकी ण्यर्थसंगतिः / तदभिप्रायतोन्योपि लोके व्यवहरेत्तथा // ४१
SKशरं गमयतीत्यत्र पुनर्वेगाख्यसंस्क्रियाम् / विदधत्प्रेरकम्मन्य उपचारेण जायते // ४२
SKवायुरद्रिं पातयतीत्यत्र द्वावपि तौ जडौ / द्रष्टृभिः प्रेरकप्रेर्यवपुषा परिकल्पितौ // ४३
SKइत्थं जडेन संबन्धे न मुख्या ण्यर्थसंगतिः / आस्तामन्यत्र विततमेतद्विस्तरतो मया // ४४
SKअर्थे प्रकाशना सेयमुपचारस्ततो भवेत् / अस्तु चेद्भासते तर्हि स एव पतदद्रिवत् // ४५
SKउपचारे निमित्तेन केनापि किल भूयते / वायुः पातयतीत्यत्र निमित्तं तत्कृता क्रिया // ४६
SKगिरौ येनैष संयोगनाशाद्भ्रंशं प्रपद्यते / इह तु ज्ञानमर्थस्य न किंचित्करमेव तत् // ४७
SKउपचारः कथं नाम भवेत्सोपि ह्यवस्तुसन् / अप्रकाशित एवार्थः प्रकाशत्वोपचारतः // ४८
SKतादृगेव शिशुः किं हि दहत्यग्न्युपचारतः / शिशौ वह्न्युपचारे यद्बीजं तैक्ष्ण्यादि तच्च सत् // ४९
SKप्रकाशत्वोपचारे तु किं बीजं यत्र सत्यता / सिद्धे हि चेतने युक्त उपचारः स हि स्फुटम् // ५०
SKअध्यारोपात्मकः सोपि प्रतिसंधानजीवितः / न चाद्यापि किमप्यस्ति चेतनं ज्ञानमप्यदः // ५१
SKअप्रकाशं तदन्येन तत्प्रकाशेप्ययं विधिः / ननु प्रदीपो रूपस्य प्रकाशः कथमीदृशम् // ५२
SKअत्रापि न वहन्त्येताः किं नु युक्तिविकल्पनाः / यादृशा स्वेन रूपेण दीपो रूपं प्रकाशयेत् // ५३
SKतादृशा स्वयमप्येष भाति ज्ञानं तु नो तथा / प्रदीपश्चैष भावानां प्रकाशत्वं ददा[धा]त्यलम् // ५४
SKअन्यथा न प्रकाशेरन्नभेदे चेदृशो विधिः / तस्मात्प्रकाश एवायं पूर्वोक्तः परमः शिवः // ५५
SKयथा यथा प्रकाशेत तत्तद्भाववपुः स्फुटम् / एवं च नीलता नाम यथा काचित्प्रकाशते // ५६
SKतद्वच्चकास्ति वेद्यत्वं तच्च भावांशपृष्ठगम् / फलं प्रकटतार्थस्य संविद्वेति द्वयं ततः // ५७
SKविपक्षतो रक्षितं च संधानं चापि तन्मिथः / तथाहि निभृतश्चौरश्चैत्रवेद्यमिति स्फुटम् // ५८
SKबुद्ध्वा नादत्त एवाशु परीप्साविवशोपि सन् / सेयं पश्यति मां नेत्रत्रिभागेनेति सादरम् // ५९
SKस्वं देहममृतेनेव सिक्तं पश्यति कामुकः / न चैतज्ज्ञानसंवित्तिमात्रं भावांशपृष्ठगम् // ६०
SKअर्थक्रियाकरं तच्चेन्न धर्मः कोन्वसौ भवेत् / यच्चोक्तं वेद्यताधर्मा भावः सर्वानपि प्रति // ६१
SKस्यादित्येतत्स्वपक्षघ्नं दुष्प्रयोगास्त्रवत्तव / अस्माकं तु स्वप्रकाशशिवतामात्रवादिनाम् // ६२
SKअन्यं प्रति चकास्तीति वच एव न विद्यते / सर्वान्प्रति च तन्नीलं स घटश्चेति यद्वचः // ६३
SKतदप्यविदितप्रायं गृहीतं मुग्धबुद्धिभिः / नहि कालाग्निरुद्रीयकायावगतनीलिमा // ६४
SKतव नीलः किं नु पीतो मैवं भून्नतु नीलकः / न कंचित्प्रति नीलोसौ नीलो वा यं प्रति स्थितः // ६५
SKतं प्रत्येव स वेद्यः स्यात्संकल्पद्वारकोन्ततः / यथा चार्थप्रकाशात्म ज्ञानं संगीर्यते त्वया // ६६
SKतथा तज्ज्ञातृवेद्यत्वं भावीयं रूपमुच्यताम् / न च ज्ञातात्र नियतः कश्चिज्ज्ञाने यथा तव // ६७
SKअर्थे ज्ञाता यदा यो यस्तद्वेद्यं वपुरुच्यताम् / तत्तद्विज्ञातृवेद्यत्वं सर्वान्प्रत्येव भासताम् // ६८
SKइत्येवं चोदयन्मन्ये व्रजेद्बधिरधुर्यताम् / नह्यन्यं प्रति वै कंचिद्भाति सा वेद्यता तथा // ६९
SKभावस्य रूपमित्युक्ते केयमस्थानवैधुरी / अनेन नीतिमार्गेण निर्मूलमपसारिता // ७०
SKअनवस्था तथा ह्यन्यैर्नीलाद्यैः सदृशी न सा / वेद्यता किंतु धर्मोसौ यद्योगात्सर्वधर्मवान् // ७१
SKधर्मी वेद्यत्वमभ्येति स सत्तासमवायवत् / ब्रूषे यथा हि कुरुते सत्ता सत्यसतः सतः // ७२
SKसमवायोपि संश्लिष्टः श्लिष्टानश्लिष्टताजुषः / अन्त्यो विशेषो व्यावृत्तिरूपो व्यावृत्तिवर्जितान् // ७३
SKव्यावृत्तान् श्वेतिमा शुक्लमशुक्लं गमनं तथा / तद्वन्नीलादिधर्मांशयुक्तो धर्मी स्वयं स्थितः // ७४
SKअवेद्यो वेद्यतारूपाद्धर्माद्वेद्यत्वमागतः / वेद्यता भासमाना च स्वयं नीलादिधर्मवत् // ७५
SKअप्रकाशा स्वप्रकाशाद्धर्मादेति प्रकाशताम् / प्रकाशे खलु विश्रान्तिं विश्वं श्रयति चेत्ततः // ७६
SKनान्या काचिदपेक्षास्य कृतकृत्यस्य सर्वतः / यथा च शिवनाथेन स्वातन्त्र्याद्भास्यते भिदा // ७७
SKनीलादिवत्तथैवायं वेद्यता धर्म उच्यते / एवं सिद्धं हि वेद्यत्वं भावधर्मोस्तु का घृणा // ७८
SKइदं तु चिन्त्यं सकलपर्यन्तोक्तप्रमातृभिः / वेद्यत्वमेकरूपं स्याच्चातुर्दश्यमतः कुतः // ७९
SKउच्यते परिपूर्णं चेद्भावीयं रूपमुच्यते / तद्विभुर्भैरवो देवो भगवानेव भण्यते // ८०
SKअथ तन्निजमाहात्म्यकल्पित्ॐशांशिकाक्रमः / सह्यते किं कृतं तर्हि प्रोक्तकल्पनयानया // ८१
SKअत एव यदा येन वपुषा भाति यद्यथा / तदा तथा तत्तद्रूपमित्येषोपनिषत्परा // ८२
SKचैत्रेण वेद्यं जानामि द्वाभ्यां बहुभिरप्यथ / मन्त्रेण तन्महेशेन शिवेनोद्रिक्तशक्तिना // ८३
SKअन्यादृशेन वेत्येवं भावो भाति यथा तथा / अर्थक्रियादिवैचित्र्यमभ्येत्यपरिसंख्यया // ८४
SKतथा ह्येकाग्रसकलसामाजिकजनः खलु / नृत्तं गीतं सुधासारसागरत्वेन मन्यते // ८५
SKतत एवोच्यते मल्लनटप्रेक्षोपदेशने / सर्वप्रमातृतादात्म्यं पूर्णरूपानुभावकम् // ८६
SKतावन्मात्रार्थसंवित्तितुष्टाः प्रत्येकशो यदि / कः संभूय गुणस्तेषां प्रमात्रैक्यं भवेच्च किम् // ८७
SKयदा तु तत्तद्वेद्यत्वधर्मसंदर्भगर्भितम् / तद्वस्तु शुष्कात्प्राग्रूपादन्यद्युक्तमिदं तदा // ८८
SKशास्त्रेपि तत्तद्वेद्यत्वं विशिष्टार्थक्रियाकरम् / भूयसैव तथाच श्रीमालिनीविजयोत्तरे // ८९
SKतथा षड्विधमध्वानमनेनाधिष्ठितं स्मरेत् / अधिष्ठानं हि देवेन यद्विश्वस्य प्रवेदनम् // ९०
SKतदीशवेद्यत्वेनेत्थं ज्ञातं प्रकृतकार्यकृत् / एवं सिद्धं वेद्यताख्यो धर्मो भावस्य भासते // ९१
SKतदनाभासयोगे तु स्वरूपमिति भण्यते / उपाधियोगिताशङ्कामपहस्तयतोस्फुटम् // ९२
SKस्वात्मनो येन वपुषा भात्यर्थस्तत्स्वकं वपुः / जानामि घटमित्यत्र वेद्यतानुपरागवान् // ९३
SKघट एव स्वरूपेण भात इत्यपदिश्यते / ननु तत्र स्वयंवेद्यभावो मन्त्राद्यपेक्षया // ९४
SKअपि चास्त्येव नन्वस्तु नतु सन्प्रतिभासते / अवेद्यमेव कालाग्निवपुर्मेरोः परा दिशः // ९५
SKममेति संविदि परं शुद्धं वस्तु प्रकाशते / भातत्वाद्वेद्यमपि तन्न वेद्यत्वेन भासनात् // ९६
SKअवेद्यमेव भानं हि तथा कमनुयुञ्ज्महे / एवं पञ्चदशात्मेयं धरा तद्वज्जलादयः // ९७
SKअव्यक्तान्ता यतोस्त्येषां सकलं प्रति वेद्यता / यत्तूच्यते कलाद्येन धरान्तेन समन्विताः // ९८
SKसकला इति तत्कोशषट्कोद्रेकोपलक्षणम् / उद्भूताशुद्धचिद्रागकलादिरसकञ्चुकाः // ९९
SKसकलालयसंज्ञास्तु न्यग्भूताखिलकञ्चुकाः / ज्ञानाकलास्तु ध्वस्तैतत्कञ्चुका इति निर्णयः // १००
SKतेन प्रधाने वेद्येपि पुमानुद्भूतकञ्चुकः / प्रमातास्त्येव सकलः पाञ्चदश्यमतः स्थितम् // १०१
SKपाञ्चदश्यं धराधन्तर्निविष्टे सकलेपि च / सकलान्तरमस्त्येव प्रमेयेत्रापि मातृ हि // १०२
SKस्थूलावृतादिसंकोचतदन्यव्याप्तृताजुषः / पीताद्याः स्थिरकम्प्रत्वाच्चतुर्दश धरादिषु // १०३
SKस्वरूपीभूतजडताः प्राणदेहपथे ततः / प्रमातृताजुषः प्रोक्ता धारणा विजयोत्तरे // १०४
SKयदा तु मेयता पुंसः कलान्तस्य प्रकल्प्यते / तदुद्भूतः कञ्चुकांशो मेयो नास्य प्रमातृता // १०५
SKअतः सकलसंज्ञस्य प्रमातृत्वं न विद्यते / त्रयोदशत्वं तच्छक्तिशक्तिमद्द्वयवर्जनात् // १०६
SKन्यग्भूतकञ्चुको माता युक्त[यत]स्तत्र लयाकलः / मायानिविष्टो विज्ञानाकलाद्याः प्राग्वदेव तु // १०७
SKमायातत्त्वे ज्ञेयरूपे कञ्चुकन्यग्भवोपि यः / सोपि मेयः कञ्चुकैक्यं यतो माया सुसूक्ष्मिका // १०८
SKविज्ञानाकल एवात्र ततो मातापकञ्चुकः / मायानिविष्टेप्यकले तथेत्येकादशात्मता // १०९
SKविज्ञानकेवले वेद्ये कञ्चुकध्वंससुस्थिते / उद्बुभूषुप्रबोधानां मन्त्राणामेव मातृता // ११०
SKतेपि मन्त्रा यदा मेयास्तदा माता तदीश्वरः / स ह्युद्भवात्पूर्णबोधस्तस्मिन्प्राप्ते तु मेयताम् // १११
SKउद्भूतपूर्णरूपोसौ माता मन्त्रमहेश्वरः / तस्मिन्विज्ञेयतां प्राप्ते स्वप्रकाशः परः शिवः // ११२
SKप्रमाता स्वकतादात्म्यभासिताखिलवेद्यकः / शिवः प्रमाता नो मेयो ह्यन्याधीनप्रकाशता // ११३
SKमेयता सा न तत्रास्ति स्वप्रकाशो ह्यसौ प्रभुः / स्वप्रकाशेत्र कस्मिंश्चिदनभ्युपगते सति // ११४
SKअप्रकाशात्प्रकाशत्वे ह्यनवस्था दुरुत्तरा / ततश्च सुप्तं विश्वं स्यान्न चैवं भासते हि तत् // ११५
SKअन्याधीनप्रकाशं हि तद्भात्यन्यस्त्वसौ शिवः / इत्यस्य स्वप्रकाशत्वे किमन्यैर्युक्तिडम्बरैः // ११६
SKमानानां हि परो जीवः स एवेत्युक्तमादितः / नन्वस्ति स्वप्रकाशेपि शिवे वेद्यत्वमीदृशः // ११७
SKउपदेशो[श्यो]पदेष्टृत्वव्यवहारोन्यथा कथम् / सत्यं स तु तथा सृष्टः परमेशेन वेद्यताम् // ११८
SKनीतो मन्त्रमहेशादिकक्ष्यां समधिशाय्यते / तथाभूतश्च वेद्योसौ नानवच्छिन्नसंविदः // ११९
SKपूर्णस्य वेद्यता युक्ता परस्परविरोधतः / तथा वेद्यस्वभावेपि वस्तुतो न शिवात्मताम् // १२०
SKकोपि भावः प्रोज्झतीति सत्यं तद्भावना फलेत् / श्रीपूर्वशास्त्रे तेनोक्तं शिवः साक्षान्न भिद्यते // १२१
SKसाक्षात्पदेनायमर्थः समस्तः प्रस्फुटीकृतः / नन्वेकरूपतायुक्तः शिवस्तद्वशतो भवेत् // १२२
SKत्रिवेदतामन्त्रमहानाथे कात्र विवादिता / महेश्वरेशमन्त्राणां तथा केवलिनोर्द्वयोः // १२३
SKअनन्तभेदतैकैकं स्थिता सकलवत्किल / ततो लयाकले मेये प्रमातास्ति लयाकलः // १२४
SKअतस्त्रयोदशत्वं स्यादित्थं नैकादशात्मता / विज्ञानाकलवेद्यत्वेप्यन्यो ज्ञानाकलो भवेत् // १२५
SKमाता तदेकादशता स्यान्नैव तु नवात्मता / एवं मन्त्रतदीशानां मन्त्रेशान्तरसंभवे // १२६
SKवेद्यत्वान्नव सप्त स्युः सप्त पञ्च तु ते कथम् / उच्यते सत्यमस्त्येषा कलना किंतु सुस्फुटः // १२७
SKयथात्र सकले भेदो न तथा त्वकलादिके / अनन्तावान्तरेदृक्षयोनिभेदवतः स्फुटम् // १२८
SKचतुर्दशविधस्यास्य सकलस्यास्ति भेदिता / लयाकले तु संस्कारमात्रात्सत्यप्यसौ भिदा // १२९
SKअकलेन विशेषाय सकलस्यैव युज्यते / विज्ञानकेवलादीनां तावत्यपि न वै भिदा // १३०
SKशिवस्वाच्छन्द्यमात्रं तु भेदायैषां विजृम्भते / इत्याशयेन संपश्यन्विशेषं सकलादिह // १३१
SKलयाकलादौ नोवाच त्रायोदश्यादिकं विभुः / नन्वस्तु वेद्यता भावधर्मः किंतु लयाकलौ // १३२
SKमन्वाते नेह वै किंचित्तदपेक्षा त्वसौ कथम् / श्रूयतां संविदैकात्म्यतत्त्वेस्मिन्संव्यवस्थिते // १३३
SKजडेपि चितिरस्त्येव भोत्स्यमाने तु का कथा / स्वबोधावसरे तावद्भोत्स्यते लयकेवली // १३४
SKद्विविधश्च प्रबोधोस्य मन्त्रत्वाय भवाय च / भावनादिबलादन्यवैष्णवादिनयोदितात् // १३५
SKयथास्वमाधरौत्तर्यविचित्रात्संस्कृतस्तथा / लीनः प्रबुद्धो मन्त्रत्वं तदीशत्वमथैति वा // १३६
SKस्वातन्त्र्यवर्जिता ये तु बलान्मोहवशीकृताः / लयाकलात्स्वसंस्कारात्प्रबुद्ध्यन्ते भवाय ते // १३७
SKज्ञानाकलोपि मन्त्रेशमहेशत्वाय बुध्यते / मन्त्रादित्वाय वा जातु जातु संसृतयेपि वा // १३८
SKअवतारो हि विज्ञानियोगिभावेस्य भिद्यते / उक्तं च बोधयामास स सिसृक्षुर्जगत्प्रभुः // १३९
SKविज्ञानकेवलानष्टाविति श्रीपूर्वशासने / अतः प्रभोत्स्यमानत्वे यानयोर्बोधयोग्यता // १४०
SKतद्बलाद्वेद्यतायोग्यभावेनैवात्र वेद्यता / तथाहि गाढनिद्रेपि प्रियेनाशङ्कितागताम् // १४१
SKमां द्रक्ष्यतीति नाङ्गेषु स्वेषु मात्यभिसारिका / एवं शिवोपि मनुते एतस्यैतत्प्रवेद्यताम् // १४२
SKयास्यतीति सृजामीति तदानीं योग्यतैव सा / वेद्यता तस्य भावस्य भोक्तृता तावती च सा // १४३
SKलयाकलस्य चित्रो हि भोगः केन विकल्प्यते / यथा यथा हि सम्वित्तिः स हि भोगः स्फुटोस्फुटः // १४४
SKस्मृतियोग्योप्यन्यथा वा भोग्यभावं न तूज्झति / गाढनिद्राविमूढोपि कान्तालिङ्गितविग्रहः // १४५
SKभोक्तैव भण्यते सोपि मनुते भोक्तृतां पुरा / उत्प्रेक्षामात्रहीनोपि कांचित्कुलवधूं पुरः // १४६
SKसंभोक्ष्यमाणां दृष्ट्वैव रभसाद्याति संमदम् / तामेव दृष्ट्वा च तदा समानाशयभागपि // १४७
SKअन्यस्तथा न संवित्ते कमत्रोपलभामहे / लोके रूढमिदं दृष्टिरस्मिन्कारणमन्तरा // १४८
SKप्रसीदतीव मग्नेव निर्वातीवेतिवादिनि / इत्थं विस्तरतस्तत्त्वभेदोयं समुदाहृतः // १४९
SKशक्तिशक्तिमतां भेदादन्योन्यं तत्कृतेष्वपि / भेदेष्वन्योन्यतो भेदात्तथा तत्त्वान्तरैः सह // १५०
SKभेदोपभेदगणनां कर्वतो नावधिः क्वचित् / तत एव विचित्रोयं भुवनादिविधिः स्थितः // १५१
SKपार्थिवत्वेपि नो साम्यं रुद्रवैष्णवलोकयोः / का कथान्यत्र तु भवेद्भोगे वापि स्वरूपके // १५२
SKस च नो विस्तरः साक्षाच्छक्यो यद्यपि भाषितुम् / तथापि मार्गमात्रेण कथ्यमानो विविच्यताम् // १५३
SKसप्तानां मातृशक्तीनामन्योन्यं भेदने सति / रूपमेकान्नपञ्चाशत्स्वरूपं चाधिकं ततः // १५४
SKसर्वं सर्वात्मकं यस्मात्तस्मात्सकलमातरि / लयाकलादिशक्तीनां संभवोस्त्येव तत्त्वतः // १५५
SKस त्वस्फुटोस्तु भेदांशं दातुं तावत्प्रभुर्भवेत् / तेषामपि च भेदानामन्योन्यं बहुभेदता // १५६
SKमुख्यानां भेदभेदानां जलाद्यैर्भेदने सति / मुख्यभेदप्रकारेण विधेरानन्त्यमुच्यते // १५७
SKसकलस्य समुद्भूताश्चक्षुरादिस्वशक्तयः / न्यग्भूताश्च प्रतन्वन्ति भेदान्तरमपि स्फुटम् // १५८
SKएवं लयाकलादीनां तत्संस्कारपदोदितात् / पाटवात्प्रक्षयाद्वापि भेदान्तरमुदीयते // १५९
SKन्यक्कृतां शक्तिमास्थायाप्युदासीनतया स्थितिम् / अनाविश्येव यद्वेत्ति तत्रान्या वेद्यता खलु // १६०
SKआविश्येव निमज्ज्येव विकास्येव विघूर्ण्य च / विदतो वेद्यतान्यैव भेदोत्रार्थक्रियोचितः // १६१
SKअन्यशक्तितिरोभावे कस्याश्चित्सुस्फुटोदये / भेदान्तरमपि ज्ञेयं वीणावादकदृष्टिवत् // १६२
SKतिरोभावोद्भवौ शक्तेः स्वशक्त्यन्तरतोन्यतः / चेत्यमानादचेत्याद्वा तन्वाते बहुभेदताम् // १६३
SKएवमेतद्धरादीनां तत्त्वानां यावती दशा / काचिदस्ति घटाख्यापि तत्र संदर्शिता भिदः // १६४
SKअत्रापि वेद्यता नाम तादात्म्यं वेदकैः सह / ततः सकलवेद्योसौ घटः सकल एव हि // १६५
SKयावच्छिवैकवेद्योसौ शिव एवावभासते / तावदेकशरीरो हि बोधो भात्येव यावता // १६६
SKअधुनात्र समस्तस्य धरातत्त्वस्य दर्श्यते / सामस्त्य एवाभिहितं पाञ्चदश्यं पुरोदितम् // १६७
SKधरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते / स एव शिवनाथोत्र पृथिवी ब्रह्म तन्मतम् // १६८
SKधरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान् / प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः // १६९
SKप्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम् / धरातत्त्वगतं योगमभ्यस्य शिवविद्यया // १७०
SKन तु पाशवसांख्यीयवैष्णवादिद्वितादृशा / अप्राप्तध्रुवधामानो विज्ञानाकलताजुषः // १७१
SKतावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः / सौषुप्तावस्थयोपेतास्तेत्र प्रलयकेवलाः // १७२
SKसौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते / अन्यथा नियतस्वप्नसंदृष्टिर्जायते कुतः // १७३
SKसौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते / अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् // १७४
SKयदैव स क्षणं सूक्ष्मं निद्रायैव प्रबुद्ध्यते / तदैव स्मृतिरेषेति नार्थजज्ञानजा स्मृतिः // १७५
SKतेन मूढैर्यदुच्येत प्रबुद्धस्यान्तरान्तरा / तूलिकादिसुखस्पर्शस्मृतिरेषेति तत्कुतः // १७६
SKमाहाकर्मसमुल्लाससंमिश्रितमलाबिलाः / धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः // १७७
SKअस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने / प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं स्फुटम् // १७८
SKशिवो ह्यच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः / ताः स्वातन्त्र्यवशोपात्तग्रहीत्राकारतावशात् // १७९
SKत्रिधा मन्त्रावसानाः स्युरुदासीना इव स्थिताः / ग्राह्याकारोपरागात्तु ग्रहीत्राकारतावशात् // १८०
SKसकलान्तास्तु तास्तिस्र इच्छाज्ञानक्रिया मताः / सप्तधेत्थं प्रमातृत्वं तत्क्षोभो मानता तथा // १८१
SKयत्तु ग्रहीतृतारूपसंवित्संस्पर्शवर्जितम् / शुद्धं जडं तत्स्वरूपमित्थं विश्वं त्रिकात्मकम् // १८२
SKएवं जलाद्यपि वदेद्भेदैर्भिन्नं महामतिः / अनया तु दिशा प्रायः सर्वभेदेषु विद्यते // १८३
SKभेदो मन्त्रमहेशान्तेष्वेष पञ्चदशात्मकः / तथापि स्फुटताभावात्सन्नप्येष न चर्चितः // १८४
SKएतच्च सूत्रितं धात्रा श्रीपूर्वे यद्ब्रवीति हि / सव्यापाराधिपत्वेनेत्यादिना जाग्रदादिताम् // १८५
SKअभिन्नेपि शिवेन्तःस्थसूक्ष्मबोधानुसारतः / अधुना प्राणशक्तिस्थे तत्त्वजाले विविच्यते // १८६
SKभेदोयं पाञ्चदश्यादिर्यथा श्रीशंभुरादिशत् / समस्तेर्थेत्र निर्ग्राह्ये तुटयः षोडश क्षणाः // १८७
SKषट्त्रिंशदङ्गुले चारे सांशद्व्यङ्गुलकल्पिताः / तत्राद्यः परमाद्वैतो निर्विभागरसात्मकः // १८८
SKद्वितीयो ग्राहकोल्लासरूपः प्रतिविभाव्यते / अन्त्यस्तु ग्राह्यतादात्म्यात्स्वरूपीभावमागतः // १८९
SKप्रविभाव्यो न हि पृथगुपान्त्यो ग्राहकः क्षणः / तृतीयं क्षणमारभ्य क्षणषट्कं तु यत्स्थितम् // १९०
SKतन्निर्विकल्पं प्रोद्गच्छद्विकल्पाच्छादनात्मकम् / तदेव शिवरूपं हि परशक्त्यात्मकं विदुः // १९१
SKद्वितीयं मध्यमं षट्कं परापरपदात्मकम् / विकल्परूढिरप्येषा क्रमात्प्रस्फुटतां गता // १९२
SKषट्केत्र प्रथमे देव्यस्तिस्रः प्रोन्मेषवृत्तिताम् / निमेषवृत्तितां चाशु स्पृशन्त्यः षट्कतां गताः // १९३
SKएवं द्वितीयषट्केपि किं त्वत्र ग्राह्यवर्त्मना / उपरागपदं प्राप्य परापरतया स्थिताः // १९४
SKआद्येत्र षट्के ता देव्यः स्वातन्त्र्योल्लासमात्रतः / जिघृक्षितेप्युपाधौ स्युः पररूपादविच्युताः // १९५
SKअस्ति चातिशयः कश्चित्तासामप्युत्तरोत्तरम् / यो विवेकधनैर्धीरैः स्फुटीकृत्यापि दर्श्यते // १९६
SKकेचित्त्वेकां तुटिं ग्राह्ये चैकामपि ग्रहीतरि / तादात्म्येन विनिक्षिप्य सप्तकं सप्तकं विदुः // १९७
SKतदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः / संवेदयन्ते यद्रूपं तत्र किं वाग्विकत्थनैः // १९८
SKएवं धरादिमूलान्तं प्रक्रिया प्राणगामिनी / गुरुपर्वक्रमात्प्रोक्ता भेदे पञ्चदशात्मके // १९९
SKक्रमात्तु भेदन्यूनत्वे न्यूनता स्यात्तुटिष्वपि / तस्यां ह्रासो विकल्पस्य स्फुटता चाविकल्पिनः // २००
SKयथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः / विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना // २०१
SKतथा गतविकल्पेपि रूढाः संवेदने जनाः / विकल्पविश्रान्तिबलात्तां सत्तां नाभिमन्वते // २०२
SKविकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या / संवित्स्वरूपप्रकटत्वमित्थं तत्रावधाने यततां सुबुद्धिः // २०३
SKग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता / इयं सा तत्र तत्रोक्ता सर्वकामदुघा यतः // २०४
SKएवं द्वयं द्वयं यावन्न्यूनीभवति भेदगम् / तावत्तुटिद्वयं याति न्यूनतां क्रमशः स्फुटम् // २०५
SKअत एव शिवावेशे द्वितुटिः परिगीयते / एका तु सा तुटिस्तत्र पूर्णा शुद्धैव केवलम् // २०६
SKद्वितीया शिव(शक्ति)रूपैव सर्वज्ञानक्रियात्मिका / तस्यामवहितो योगी किं न वेत्ति करोति वा // २०७
SKतथा चोक्तं कल्लटेन श्रीमता तुटिपातगः / लाभः सर्वज्ञकर्तृत्वे तुटेः पातोपरा तुटिः // २०८
SKआद्यायां तु तुटौ सर्वं सर्वतः पूर्णमेकताम् / गतं किं तत्र वेद्यं वा कार्यं वा व्यपदेशभाक् // २०९
SKअतो भेदसमुल्लासकलां प्राथमिकीं बुधाः / चिन्वन्ति प्रतिभां देवीं सर्वज्ञत्वादिसिद्धये // २१०
SKसैव शक्तिः शिवस्योक्ता तृतीयादितुटिष्वथ / मन्त्रादि(धि)नाथतच्छक्तिमन्त्रेशाद्याः क्रमोदिताः // २११
SKतासु संदधतश्चित्तमवधानैकधर्मकम् / तत्तत्सिद्धिसमावेशः स्वयमेवोपजायते // २१२
SKअत एव यथा भेदबहुत्वं दूरता तथा / संवित्तौ तुटिबाहुल्यादक्षार्थासंनिकर्षवत् // २१३
SKयथा यथा हि न्यूनत्वं तुटीनां ह्रासतो भिदः / तथा तथातिनैकट्यं संविदः स्याच्छिवावधि // २१४
SKशिवतत्त्वमतः प्रोक्तमन्तिकं सर्वतोमुतः / अत एव प्रयत्नोयं तत्प्रवेशे न विद्यते // २१५
SKयथा यथा हि दूरत्वं यत्नयोगस्तथा तथा / भावनाकरणादीनां शिवे निरवकाशताम् // २१६
SKअत एव हि मन्यन्ते संप्रदायधना जनाः / तथा हि दृश्यतां लोको घटादेर्वेदने यथा // २१७
SKप्रयत्नवानिवाभाति तथा किं सुखवेदने / आन्तरत्वमिदं प्राहुः संविन्नैकट्यशालिताम् // २१८
SKतां च चिद्रूपतोन्मेषं बाह्यत्वं तन्निमेषताम् / भविनां त्वन्तिकोप्येवं न भातीत्यतिदूरता // २१९
SKदूरेपि ह्यन्तिकीभूते भानं स्यात्त्वत्र तत्कथम् / न च बीजाङ्कुरलतादलपुष्पफलादिवत् // २२०
SKक्रमिकेयं भवेत्संवित्सूतस्तत्र किलाङ्कुरः / बीजाल्लता त्वङ्कुरान्नो बीजादिह सर्वतः // २२१
SKसंवित्तत्त्वं भासमानं परिपूर्णं हि सर्वतः / सर्वस्य कारणं प्रोक्तं सर्वत्रैवोदितं यतः // २२२
SKतत एव घटेप्येषा प्राणवृत्तिर्यदि स्फुरेत् / विश्राम्येच्चाशु तत्रैव शिवबीजे लयं व्रजेत् // २२३
SKन तु क्रमिकता काचिच्छिवात्मत्वे कदाचन / अन्यन्मन्त्रादि(धि)नाथादि कारणं तत्तु संनिधेः // २२४
SKशिवाभेदाच्च किं चाथ द्वैते नैकट्यवेदनात् / अनया च दिशा सर्व सर्वदा प्रविवेचयन् // २२५
SKभैरवायत एव द्राक् चिच्चक्रेश्वरतां गतः / स इत्थं प्राणगो भेदः खेचरीचक्रगोपितः // २२६
SKमया प्रकटितः श्रीमच्छाम्भवाज्ञानुवर्तिना / अत्रैवाध्वनि वेद्यत्वं प्राप्ते या संविदुद्भवेत् // २२७
SKतस्याः स्वकं यद्वैचित्र्यं तदवस्थापदाभिधम् / जाग्रत्स्वप्नः सुषुप्तं च तुर्यं च तदतीतकम् // २२८
SKइति पञ्च पदान्याहुरेकस्मिन्वेदके सति / तत्र यैषा धरातत्त्वाच्छिवान्ता तत्त्वपद्धतिः // २२९
SKतस्यामेकः प्रमाता चेदवश्यं जाग्रदादिकम् / तद्दर्श्यते शंभुनाथप्रसादाद्विदितं मया // २३०
SKयदधिष्ठेयमेवेह नाधिष्ठातृ कदाचन / संवेदनगतं वेद्यं तज्जाग्रत्समुदाहृतम् // २३१
SKचैत्रमैत्रादिभूतानि तत्त्वानि च धरादितः / अभिधाकरणीभूताः शब्दाः किं चाभिधा प्रमा // २३२
SKप्रमातृमेयतन्मानप्रमारूपं चतुष्टयम् / विश्वमेतदधिष्ठेयं यदा जाग्रत्तदा स्मृतम् // २३३
SKतथा हि भासते यत्तन्नीलमन्तः प्रवेदने / संकल्परूपे बाह्यस्य तदधिष्ठातृ बोधकम् // २३४
SKयत्तु बाह्यतया नीलं चकास्त्यस्य न विद्यते / कथंचिदप्यधिष्ठातृभावस्तज्जाग्रदुच्यते // २३५
SKतत्र चैत्रे भासमाने यो देहांशः स कथ्यते / अबुद्धो यस्तु मानांशः स बुद्धो मितिकारकः // २३६
SKप्रबुद्धः सुप्रबुद्धश्च प्रमामात्रेति च क्रमः / चातुर्विध्यं हि पिण्डस्थनाम्नि जाग्रति कीर्तितम् // २३७
SKजाग्रदादि चतुष्कं हि प्रत्येकमिह विद्यते / जाग्रज्जाग्रदबुद्धं तज्जाग्रत्स्वप्नस्तु बुद्धता // २३८
SKइत्यादि तुर्यातीतं तु सर्वगत्वात्पृथक्कुतः / उक्तं च पिण्डगं जाग्रदबुद्धं बुद्धमेव च // २३९
SKप्रबुद्धं सुप्रबुद्धं च चतुर्विधमिदं स्मृतम् / मेयभूमिरियं मुख्या जाग्रदाख्यान्यदन्तरा // २४०
SKभूततत्त्वाभिधानानां य्ॐशोधिष्ठेय उच्यते / पिण्डस्थमिति तं प्राहुरिति श्रीमालिनीमते // २४१
SKलौकिकी जाग्रदित्येषा संज्ञा पिण्डस्थमित्यपि / योगिनां योगसिद्ध्यर्थं संज्ञेयं परिभाष्यते // २४२
SKअधिष्ठेयसमापत्तिमध्यासीनस्य योगिनः / तादात्म्यं किल पिण्डस्थं मितं पिण्डं हि पिण्डितम् // २४३
SKप्रसंख्यानैकरूढानां ज्ञानिनां तु तदुच्यते / सर्वतोभद्रमापूर्णं सर्वतो वेद्यसत्तया // २४४
SKसर्वसत्तासमापूर्ण विश्वं पश्येद्यतो यतः / ज्ञानी ततस्ततः संवित्तत्वमस्य प्रकाशते // २४५
SKलोकयोगप्रसंख्यानत्रैरूप्यवशतः किल / नामानि त्रीणि भण्यन्ते स्वप्नादिष्वप्ययं विधिः // २४६
SKयत्त्वधिष्ठानकरणभावमध्यास्य वर्तते / वेद्यं सत्पूर्वकथितं भूततत्त्वाभिधामयम् // २४७
SKतत्स्वप्नो मुख्यतो ज्ञेयं तच्च वैकल्पिके पथि / वैकल्पिकपथारूढवेद्यसाम्यावभासनात् // २४८
SKलोकरूढोप्यसौ स्वप्नः साम्यं चाबाह्यरूपता / उत्प्रेक्षास्वप्नसंकल्पस्मृत्युन्मादादिदृष्टिषु // २४९
SKविस्पष्टं यद्वेद्यजातं जाग्रन्मुख्यतयैव तत् / यत्तु तत्राप्यविस्पष्टं स्पष्टाधिष्ठातृ भासते // २५०
SKविकल्पान्तरगं वेद्यं तत्स्वप्नपदमुच्यते / तदैव तस्य वेत्त्येव स्वयमेव ह्यबाह्यताम् // २५१
SKप्रमात्रन्तरसाधारभावहान्यस्थिरात्मते / तत्रापि चातुर्विध्यं तत् प्राग्दिशैव प्रकल्पयेत् // २५२
SKगतागतं सुविक्षिप्तं संगतं सुसमाहितम् / अत्रापि पूर्ववन्नाम लौकिकं स्वप्न इत्यदः // २५३
SKबाह्याभिमतभावानां स्वापो ह्यग्रहणं मतम् / सर्वाध्वनः पदं प्राणः संकल्पोवगमात्मकः // २५४
SKपदं च तत्समापत्ति पदस्थं योगिनो विदुः / वेद्यसत्तां बहिर्भूतामनपेक्ष्यैव सर्वतः // २५५
SKवेद्ये स्वातन्त्र्यभाग् ज्ञानं स्वप्नं व्याप्तितया भजेत् / मानभूमिरियं मुख्या स्वप्नो ह्यामर्शनात्मकः // २५६
SKवेद्यच्छायोवभासो हि मेयेधिष्ठानमुच्यते / यत्त्वधिष्ठातृभूतादेः पूर्वोक्तस्य वपुर्ध्रुवम् // २५७
SKबीजं विश्वस्य तत्तूष्णींभूतं सौषुप्तमुच्यते / अनुभूतौ विकल्पे च योसौ द्रष्टा स एव हि // २५८
SKन भावग्रहणं तेन सुष्ठु सुप्तत्वमुच्यते / तत्साम्याल्लौकिकीं निद्रां सुषुप्तं मन्वते बुधाः // २५९
SKबीजभावोथाग्रहणं साम्यं तूष्णींस्वभावता / मुख्या मातृदशा सेयं सुषुप्ताख्या निगद्यते // २६०
SKरूपकत्वाच्च रूपं तत्तादात्म्यं योगिनः पुनः / रूपस्थं तत्समापत्त्यौदासीन्यं रूपिणां विदुः // २६१
SKप्रसंख्यानवतः कापि वेद्यसंकोचनात्र यत् / नास्ति तेन महाव्याप्तिरियं तदनुसारतः // २६२
SKउदासीनस्य तस्यापि वेद्यं येन चतुर्विधम् / भूतादि तदुपाध्युत्थमत्र भेदचतुष्टयम् // २६३
SKउदितं विपुलं शान्तं सुप्रसन्नमथापरम् / यत्तु प्रमात्मकं रूपं प्रमातुरुपरि स्थितम् // २६४
SKपूर्णतागमनौन्मुख्यमौदासीन्यात्परिच्युतिः / तत्तुर्यमुच्यते शक्तिसमावेशो ह्यसौ मतः // २६५
SKसा संवित्स्वप्रकाशा तु कैश्चिदुक्ता प्रमेयतः / मानान्मातुश्च भिन्नैव तदर्थं त्रितयं यतः // २६६
SKमेयं माने मातरि तत् सोपि तस्यां मितौ स्फुटम् / विश्राम्यतीति सैवैषा देवी विश्वैकजीवितम् // २६७
SKरूपं दृशाहमित्यंशत्रयमुत्तीर्य वर्तते / द्वारमात्राश्रितोपाया पश्यामीत्यनुपायिका // २६८
SKप्रमातृता स्वतन्त्रत्वरूपा सेयं प्रकाशते / संवित्तुरीयरूपैवं प्रकाशात्मा स्वयं च सा // २६९
SKतत्समावेशतादात्म्ये मातृत्वं भवति स्फुटम् / तत्समावेशोपरागान्मानत्वं मेयता पुनः // २७०
SKतत्समावेशनैकट्यात्त्रयं तत्तदनुग्रहात् / वेद्यादिभेदगलनादुक्ता सेयमनामया // २७१
SKमात्राद्यनुग्रहादा(धा)नात्सव्यापारेति भण्यते / जाग्रदाद्यपि देवस्य शक्तित्वेन व्यवस्थितम् // २७२
SKअपरं परापरं च द्विधा तत्सा परा त्वियम् / रूपकत्वादुदासीनाच्च्युतेयं पूर्णतोन्मुखी // २७३
SKदशा तस्यां समापत्ती रूपातीतं तु योगिनः / पूर्णतौन्मुख्ययोगित्वाद्विश्वं पश्यति तन्मयः // २७४
SKप्रसंख्याता प्रचयतस्तेनेयं प्रचयो मता / नैतस्यामपरा तुर्यदशा संभाव्यते किल // २७५
SKसंविन्न किल वेद्या सा वित्त्वेनैव हि भासते / जाग्रदाद्यास्तु संभाव्यास्तिस्रोस्याः प्राग्दशा यतः // २७६
SKत्रितयानुग्रहात्सेयं तेनोक्ता त्रिकशासने / मनोन्मनमनन्तं च सर्वार्थमिति भेदतः // २७७
SKयत्तु पूर्णानवच्छिन्नवपुरानन्दनिर्भरम् / तुर्यातीतं तु तत्प्राहुस्तदेव परमं पदम् // २७८
SKनात्र योगस्य सद्भावो भावनादेरभावतः / अप्रमेयेपरिच्छिन्ने स्वतन्त्रे भाव्यता कुतः // २७९
SKयोगाद्यभावतस्तेन नामास्मिन्नादिशद्विभुः / प्रसंख्यानबलात्त्वेतद्रूपं पूर्णत्वयोगतः // २८०
SKअनुत्तरादिह प्रोक्तं महाप्रचयसंज्ञितम् / पूर्णत्वादेव भेदानामस्यां संभावना न हि // २८१
SKतन्निरासाय नैतस्यां भेद उक्तो विशेषणम् / सततोदितमित्येतत्सर्वव्यापित्वसूचकम् // २८२
SKन ह्येक एव भवति भेदः क्वचन कश्चन / तुर्यातीते भेद एकः सततोदित इत्ययम् // २८३
SKमूढवादस्तेन सिद्धमविभेदित्वमस्य तु / श्रीपूर्वशास्त्रे तेनोक्तं पदस्थमपरं विदुः // २८४
SKमन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते / रूपातीतं परा शक्तिः सव्यापाराप्यनामया // २८५
SKनिष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः / सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते // २८६
SKइति श्रीसुमतिप्रज्ञाचन्द्रिकाशान्ततामसः / श्रीशंभुनाथः सद्भावं जाग्रदादौ न्यरूपयत् // २८७
SKअन्ये तु कथयन्त्येषां भङ्गीमन्यादृशीं श्रिताः / यद्रूपं जाग्रदादीनां तदिदानीं निरूप्यते // २८८
SKतत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः / तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः // २८९
SKआत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः / लयाकलस्य भोगोसौ मलकर्मवशान्नतु // २९०
SKस्थिरीभवेन्निशाभावात्सुप्तं सौख्याद्यवेदने / ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः // २९१
SKभेदवन्तः स्वतोभिन्नाश्चिकीर्ष्यन्ते जडाजडाः / तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः // २९२
SKयावद्भैरवबोधान्तःप्रवेशनसहिष्णवः / भावा विगलदात्मीयसाराः स्वयमभेदिनः // २९३
SKतुर्यातीतपदे संस्युरिति पञ्चदशात्मके / यस्य यद्यत्स्फुटं रूपं तज्जाग्रदिति मन्यताम् // २९४
SKयदेवास्थिरमाभाति सपूर्वं स्वप्न ईदृशः / अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरोपि यत् // २९५
SKत्रयस्यास्यानुसंधिस्तु यद्वशादुपजायते / स्रक्सूत्रकल्पं तत्तुर्यं सर्वभेदेषु गृह्यताम् // २९६
SKयत्त्वद्वैतभरोल्लासद्राविताशेषभेदकम् / तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् // २९७
SKलयाकले तु स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु / स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद्बुधः // २९८
SKएकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते / आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता // २९९
SKज्ञानशक्तिः स्वप्न उक्तः क्रियाशक्तिस्तु जागृतिः / न चैवमुपचारः स्यात्सर्वं तत्रैव वस्तुतः // ३००
SKन चेन्न क्वापि मुख्यत्वं नोपचारोपि तत्क्वचित् / एतच्छ्रीपूर्वशास्त्रे च स्फुटमुक्तं महेशिना // ३०१
SKतत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम् / इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके // ३०२
SKअकलौ स्वप्नसौषुप्ते तुर्यं मन्त्रादिवर्गभाक् / तुर्यातीतं शक्तिशंभू त्रयोदशाभिधे पुनः // ३०३
SKस्वरूपं जाग्रदन्यत्तु प्राग्वत्प्रलयकेवले / स्वं जाग्रत्स्वप्नसुप्ते द्वे तुर्याद्यत्र च पूर्ववत् // ३०४
SKविज्ञानाकलभेदेपि स्वं मन्त्रा मन्त्रनायकाः / तदीशाः शक्तिशंभ्वित्थं पञ्च स्युर्जाग्रदादयः // ३०५
SKसप्तभेदे तु मन्त्राख्ये स्वं मन्त्रेशा महेश्वराः / शक्तिः शंभुश्च पञ्चोक्ता अवस्था जाग्रदादयः // ३०६
SKस्वरूपं मन्त्रमाहेशी शक्तिर्मन्त्रमहेश्वरः / शक्तिः शंभुरिमाः पञ्च मन्त्रेशे पञ्चभेदके // ३०७
SKस्वं क्रिया ज्ञानमिच्छा च शंभुरत्र च पञ्चमी / महेशभेदे त्रिविधे जाग्रदादि निरूपितम् // ३०८
SKव्यापारादाधिपत्याच्च तद्धान्या प्रेरकत्वतः / इच्छानिवृत्तेः स्वस्थत्वाच्छिव एकोपि पञ्चधा // ३०९
SKइत्येष दर्शितोस्माभिस्तत्त्वाध्वा विस्तरादथ /