Sutraya

Tantrasāra

Essence of the Tantras · तन्त्रसारः

Āhnika 8

Essence of the Tantras

तन्त्रसारः

SK
यद् इदं विभवात्मकं भुवनजातम् उक्तं गर्भीकृतानन्तविचित्रभोक्तृभोग्यं तत्र यद् अनुगतं महाप्रकाशरूपं तत् महासामान्यकल्पं परमशिवरूपम्
SK
यत् तु कतिपयकतिपयभेदानुगतं रूपं तत् तत्त्वं यथा पृथिवी नाम द्युतिकाठिन्यस्थौल्यादिरूपा कालाग्निप्रभृतिवीरभद्रान्तभुवनेशाधिष्ठितसमस्तब्रह्माण्डानुगता
SK
तत्र एषां तत्त्वानां कार्यकारणभावो दर्श्यते स च द्विविधः
SK
पारमार्थिकः सृष्टेश् च
SK
तत्र पारमार्थिक एतावान् कार्यकारणभावो यद् उत कर्तृस्वभावस्य स्वतन्त्रस्य भगवत एवंविधेन शिवादिधरान्तेन वपुषा स्वरूपभिन्नेन स्वरूपविश्रान्तेन च प्रथनम्
SK
कल्पितस् तु कार्यकारणभावः परमेशेच्छया नियतिप्राणया निर्मितः स च यावति यदा नियतपौर्वापर्यावभासनं सत्य् अपि अधिके स्वरूपानुगतम् एतावत्य् एव तेन योगीच्छातो ऽपि अङ्कुरो बीजाद् अपि स्वप्नादौ घटादेर् अपीति
SK
तत्रापि च परमेश्वरस्य कर्तृत्वानपाय इति अकल्पितो ऽपि असौ पारमार्थिकः स्थित एव
SK
पारमार्थिके हि भित्तिस्थानीये स्थिते रूपे सर्वम् इदम् उल्लिख्यमानं घटते न अन्यथा अत एव सामग्र्या एव कारुणत्वं युक्तम्
SK
सा हि समस्तभावसंदर्भमयी स्वतन्त्रसंवेदनमहिम्ना तथा नियतनिजनिजदेशकालभावराशिस्वभावा प्रत्येकं वस्तुस्वरूपनिष्पत्तिसमये तथाभूता तथाभूताया हि अन्यथाभावो यथा यथा अधिकीभवति तथा तथा कार्यस्यापि विजातीयत्वं तारतम्येन पुष्यति
SK
इत्य् एवं संवेदनस्वातन्त्र्यस्वभावः परमेश्वर एव विश्वभावशरीरो घटादेर् निर्माता कुम्भकारसंविदस् ततो ऽनधिकत्वात् कुम्भकारशरीरस्य च भावराशिमध्ये निक्षेपात् कथं कुम्भकारशरीरस्य कर्तृत्वाभिमानः इति चेत् परमेश्वरकृत एवासौ घटादिवत् भविष्यति
SK
तस्मात् सामग्रीवादो ऽपि विश्वशरीरस्य संवेदनस्यैव कर्तृतायाम् उपोद्बलकः
SK
मेरौ हि तत्रस्थे न भवेत् तथाविधो घटः
SK
एवं कल्पिते ऽस्मिन् कार्यत्वे शास्त्रेषु तत्त्वानां कार्यकारणभावं प्रति यत् बहुप्रकारत्वं तद् अपि संगतं गोमयात् कीटात् योगीच्छातो मन्त्राद् औषधात् वृश्चिकोदयवत्
SK
तत्र निजतन्त्रदृशा तं कल्पितं दर्शयामः
SK
तत्र परमेश्वरः पञ्चभिः शक्तिभिः निर्भर इत्य् उक्तम् स स्वातन्त्र्यात् शक्तिं तां तां मुख्यतया प्रकटयन् पञ्चधा तिष्ठति
SK
चित्प्राधान्ये शिवतत्त्वम् आनन्दप्राधान्ये शक्तितत्त्वम् इच्छाप्राधान्ये सदाशिवतत्त्वम् इच्छाया हि ज्ञानक्रिययोः साम्यरूपाभ्युपगमात्मकत्वात् ज्ञानशक्तिप्राधान्ये ईश्वरतत्त्वम् क्रियाशक्तिप्राधान्ये विद्यातत्त्वम् इति
SK
अत्र च तत्त्वेश्वराः शिवशक्तिसदाशिवेश्वरानन्ताः ब्रह्मेव निवृत्तौ एषां सामान्यरूपाणां विशेषा अनुगतिविषयाः पञ्च तद्यथा शाम्भवाः शाक्ताः मन्त्रमहेश्वराः मन्त्रेश्वराः मन्त्रा इति शुद्धाध्वा
SK
इयति साक्षात् शिवः कर्ता अशुद्धं पुनर् अध्वानम् अनन्तापरनामाघोरेशः सृजति ईश्वरेच्छावशेन प्रक्षुब्धभोगलोलिकानाम् अणूनां भोगसिद्ध्यर्थम्
SK
तत्र लोलिको ऽपूर्णम् अन्यतारूपः परिस्पन्दः अकर्मकम् अभिलाषमात्रम् एव भविष्यद् अवच्छेदयोग्यतेति न मलः पुंसस् तत्त्वान्तरम्
SK
रागतत्त्वं तु कर्मावच्छिन्नो ऽभिलाषः
SK
कर्म तु तत्र कर्ममात्रं बुद्धिधर्मस् तु रागः कर्मभेदचित्र इति विभागो वक्ष्यते
SK
सो ऽयं मलः परमेश्वरस्य स्वात्मप्रच्छादनेच्छातः नान्यत् किंचित् वस्त्व् अपि च तत्परमेश्वरेच्छात्मनैव धरादेर् अपि वस्तुत्वात्
SK
स च मलो विज्ञानकेवले विद्यमानो ध्वंसोन्मुख इति न स्वकार्यं कर्म आप्यायति
SK
प्रलयकेवलस्य तु जृम्भमाण एव आस्त इति मलोपोद्बलितं कर्म संसारवैचित्र्यभोगे निमित्तम् इति तद्भोगवासनानुविद्धानाम् अणूनां भोगसिद्धये श्रीमान् अघोरेशः सृजति इति युक्तम् उक्तं मलस्य च प्रक्षोभ ईश्वरेच्छाबलाद् एव जडस्य स्वतः कुत्रचिद् अपि असामर्थ्यात्
SK
अणुर् नाम किल चिदचिद्रूपावभास एव तस्य चिद्रूपम् ऐश्वर्यम् एव अचिद्रूपतैव मलः तस्य च सृजतः परमेश्वरेच्छामयं तत एव च नित्यं स्रक्ष्यमाणवस्तुगतस्य रूपस्य जडतयाभासयिष्यमाणत्वात् जडं सकलकार्यव्यापनादिरूपत्वाच् च व्यापकं मायाख्यं तत्त्वम् उपादानकारणं तदवभासकारिणी च परमेश्वरस्य माया नाम शक्तिस् ततो ऽन्यैव
SK
एवं कलादितत्त्वानां धरान्तानाम् अपि द्वैरूप्यं निरूप्यम्
SK
अत्र च द्वैरूप्ये प्रमाणम् अपि आहुर् अभिनवगुप्तगुरवः
SK
यत् संकल्पे भाति तत् पृथग्भूतं बहिर् अपि अस्ति स्फुटेन वपुषा घट इव
SK
तथा च मायाकलादिखपुष्पादेर् अपि एषैव वर्तनी इति केवलान्वयी हेतुः
SK
अनेन च मायाकलाप्रकृतिबुद्ध्यादिविषयं साक्षात्काररूपं ज्ञानं ये भजन्ते ते ऽपि सिद्धाः सिद्धा एव
SK
एवं स्थिते मायातत्त्वात् विश्वप्रसवः
SK
स च यद्य् अपि अक्रमम् एव तथापि उक्तदृशा क्रमो ऽवभासते इति
SK
सो ऽपि उच्यते तत्र प्रत्यात्म कलादिवर्गो भिन्नः
SK
तत्कार्यस्य कर्तृत्वोपोद्बलनादेः प्रत्यात्मभेदेन उपलम्भात् स तु वर्गः कदाचित् एकीभवेत् अपि ईश्वरेच्छया सामाजिकात्मनाम् इव तत्र सर्वो ऽयं कलादिवर्गः शुद्धः यः परमेश्वरविषयतया तत्स्वरूपलाभानुगुणनिजकार्यकारी संसारप्रतिद्वंद्वित्वात्
SK
स च परमेश्वरशक्तिपातवशात् तथा भवति इति वक्ष्यामस् तत्प्रकाशने
SK
अशुद्धस् तु तद्विपरीतः
SK
तत्र मायातः कला जाता या सुप्तस्थानीयम् अणुं किंचित्कर्तृत्वेन युनक्ति सा च उच्छूनतेव संसारबीजस्य मायाण्वोर् उभयोः संयोगात् उत्पन्नापि मायां विकरोति न अविकार्यम् अणुम् इति मायाकार्यत्वम् अस्याः
SK
एवम् अन्योन्यश्लेषात् अलक्षणीयान्तरत्वं पुंस्कलयोः
SK
मायागर्भाधिकारिणस् तु कस्यचिद् ईश्वरस्य प्रसादात् सर्वकर्मक्षये मायापुरुषविवेको भवति येन मायोर्ध्वे विज्ञानाकल आस्ते न जातुचित् मायाधः कलापुंविवेको वा येन कलोर्ध्वे तिष्ठति
SK
प्रकृतिपुरुषविवेको वा येन प्रधानाधो न संसरेत्
SK
मलपुरुषविवेके तु शिवसमानत्वम्
SK
पुरुषपूर्णतादृष्टौ तु शिवत्वम् एवेति
SK
एवं कलातत्त्वम् एव किंचित्कर्तृत्वदायि न च
SK
कर्तृत्वम् अज्ञस्य इति
SK
किंचिज्ज्ञत्वदायिन्य् अशुद्धविद्या कलातो जाता सा च विद्या बुद्धिं पश्यति तद्गतांश् च सुखादीन् विवेकेन गृह्णाति
SK
बुद्धेर् गुणसंकीर्णाकाराया विवेकेन ग्रहीतुम् असामर्थ्यात्
SK
तस्मात् बुद्धिप्रतिबिम्बितो भावो विद्यया विविच्यते
SK
किंचित्कर्तृत्वं किंचिद्भागसिद्धये क्वचिद् एव कर्तृत्वम् इत्य् अत्र अर्थे पर्यवस्यति क्वचिद् एव च इत्य् अत्र भागे रागतत्त्वस्य व्यापारः
SK
न च अवैराग्यकृतं तत् अवैराग्यस्यापि अरक्तिदर्शनात्
SK
वैराग्ये धर्मादाव् अपि रक्तिर् दृश्यते
SK
तृप्तस्य च अन्नादौ अवैराग्याभावे ऽपि अन्तःस्थरागानपायात्
SK
तेन विना पुनर् अवैराग्यानुत्पत्तिप्रसङ्गात्
SK
कालश् च कार्यं कलयंस् तदवच्छिन्नं कर्तृत्वम् अपि कलयति तुल्ये क्वचित्त्वे अस्मिन्न् एव कर्तृत्वम् इत्य् अत्रार्थे नियतेर् व्यापारः
SK
कार्यकारणभावे ऽपि अस्या एव व्यापारः तेन कलात एव एतच् चतुष्कं जातम् इदम् एव किंचिद् अधुना जानन् अभिष्वक्तः करोमि इत्य् एवंरूपा संविद् देहपुर्यष्टकादिगता पशुर् इत्य् उच्यते
SK
तद् इदं मायादिषट्कं कञ्चुकषट्कम् उच्यते
SK
संविदो मायया अपहस्तितत्वेन कलादीनाम् उपरिपातिनां कञ्चुकवत् अवस्थानात्
SK
एवं किंचित्कर्तृत्वं यत् मायाकार्यं तत्र किंचित् त्व् अविशिष्टं यत् कर्तृत्वं विशेष्यं तत्र व्याप्रियमाणा कला विद्यादिप्रसवहेतुः इति निरूपितम्
SK
इदानीं विशेषणभागो यः किंचिद् इत्य् उक्तो ज्ञेयः कार्यश् च तं यावत् सा कला स्वात्मनः पृथक् कुरुते तावत् एष एव सुखदुःखमोहात्मकभोग्यविशेषानुस्यूतस्य सामान्यमात्रस्य तद्गुणसाम्यापरनाम्नः प्रकृतितत्त्वस्य सर्गः इति भोक्तृभोग्ययुगलस्य समम् एव कलातत्त्वायत्ता सृष्टिः
SK
अत्र चैषां वास्तवेन पथा क्रमवन्ध्यैव सृष्टिर् इत्य् उक्तं क्रमावभासो ऽपि चास्तीत्य् अपि उक्तम् एव
SK
क्रमश् च विद्यारागादीनां विचित्रो ऽपि दृष्टः कश्चिद् रज्यन् वेत्ति को ऽपि विदन् रज्यते इत्यादि
SK
तेन भिन्नक्रमनिरूपणम् अपि रौरवादिषु शास्त्रेषु अविरुद्धं मन्तव्यं तद् एव तु भोग्यसामान्यं प्रक्षोभगतं गुणतत्त्वम्
SK
यत्र सुखं भोग्यरूपप्रकाशः सत्त्वम् दुःखं प्रकाशाप्रकाशान्दोलनात्मकम् अत एव क्रियारूपं रजः मोहः प्रकाशाभावरूपस् तमः
SK
त्रितयम् अपि एतत् भोग्यरूपम्
SK
एवं क्षुब्धात् प्रधानात् कर्तव्यान्तरोदयः न अक्षुब्धाद् इति
SK
क्षोभः अवश्यम् एव अन्तराले अभ्युपगन्तव्य इति सिद्धं सांख्यापरिदृष्टं पृथग्भूतं गुणतत्त्वम्
SK
स च क्षोभः प्रकृतेस् तत्त्वेशाधिष्ठानाद् एव अन्यथा नियतं पुरुषं प्रति इति न सिध्येत्
SK
ततो गुणतत्त्वात् बुद्धितत्त्वं यत्र पुंप्रकाशो विषयश् च प्रतिबिम्बम् अर्पयतः
SK
बुद्धितत्त्वात् अहंकारो येन बुद्धिप्रतिबिम्बिते वेद्यसम्पर्के कलुषे पुंप्रकाशे अनात्मनि आत्माभिमानः शुक्तौ रजताभिमानवत्
SK
अत एव कार इत्य् अनेन कृतकत्वम् अस्य उक्तं सांख्यस्य तु तत् न युज्यते स हि न आत्मनो ऽहंविमर्शमयताम् इच्छति वयं तु कर्तृत्वम् अपि तस्य इच्छामः
SK
तच् च शुद्धं विमर्श एव अप्रतियोगि स्वात्मचमत्काररूपो ऽहम् इति
SK
एषो ऽस्य अहंकारस्य करणस्कन्धः
SK
प्रकृतिस्कन्धस् तु तस्यैव त्रिविधः सत्त्वादिभेदात्
SK
तत्र सात्त्विको यस्मात् मनश् च बुद्धीन्द्रियपञ्चकं च तत्र मनसि जन्ये सर्वतन्मात्रजननसामर्थ्ययुक्तः स जनकः
SK
श्रोत्रे तु शब्दजननसामर्थ्यविशिष्ट इति यावत् घ्राणे गन्धजननयोग्यतायुक्त इति भौतिकम् अपि न युक्तम् अहं शृणोमि इत्याद्यनुगमाच् च स्फुटम् आहंकारिकत्वम् करणत्वेन च अवश्यं कर्त्रंशस्पर्शित्वम् अन्यथा करणान्तरयोजनायाम् अनवस्थाद्यापातात्
SK
कर्त्रंशश् च अहंकार एव तेन मुख्ये करणे द्वे पुंसः ज्ञाने विद्या क्रियायां कला अन्धस्य पङ्गोश् च अहंतारूपज्ञानक्रियानपगमात् उद्रिक्ततन्मात्रभागविशिष्टात् तु सात्त्विकाद् एव अहंकारात् कर्मेन्द्रियपञ्चकम् अहं गच्छामि इति अहंकारविशिष्टः कार्यकरणक्षमः पादेन्द्रियं तस्य मुख्याधिष्ठानं बाह्यम् अन्यत्रापि तद् अस्त्य् एव इति रुग्णस्यापि न गतिविच्छेदः
SK
न च कर्तव्यसांकर्यमुक्ताद् एव हेतोः क्रिया करणकार्या मुख्यं च गमनादीनां क्रियात्वं न रूपाद्युपलम्भस्य तस्य काणादतन्त्रे गुणत्वात् तस्मात् अवश्याभ्युपेयः कर्मेन्द्रियवर्गः
SK
स च पञ्चकः अनुसंधेस् तावत्त्वात्
SK
तथा हि बहिस् तावत् त्यागाय वा अनुसंधिः आदानाय वा द्वयाय वा उभयरहितत्वेन स्वरूपविश्रान्तये वा तत्र क्रमेण पायुः पाणिः पाद उपस्थ इति
SK
अन्तः प्राणाश्रयकर्मानुसंधेस् तु वागिन्द्रियम् तेन इन्द्रियाधिष्ठाने हस्ते यत् गमनं तद् अपि पादेन्द्रियस्यैव कर्म इति मन्तव्यम् तेन कर्मानन्त्यम् अपि न इन्द्रियानन्त्यम् आवहेत् इयति राजसस्य उपश्लेषकत्वम् इत्य् आहुः
SK
अन्ये तु राजसान् मन इत्य् आहुः
SK
अन्ये तु सात्त्विकात् मनो राजसाच् च इन्द्रियाणि इति
SK
भोक्त्रंशाच् छादकात् तु तमःप्रधानाहंकारात् तन्मात्राणि वेद्यैकरूपाणि पञ्च
SK
शब्दविशेषाणां हि क्षोभात्मनां यद् एकम् अक्षोभात्मकं प्राग्भावि सामान्यम् अविशेषात्मकं तत् शब्दतन्मात्रम्
SK
एवं गन्धान्ते ऽपि वाच्यम्
SK
तत्र शब्दतन्मात्रात् क्षुभितात् अवकाशदानव्यापारं नभः शब्दस्य वाच्याध्यासावकाशसहत्वात्
SK
शब्दतन्मात्रं क्षुभितं वायुः शब्दस् तु अस्य नभसा विरहाभावात्
SK
रूपं क्षुभितं तेजः पूर्वगुणौ तु पूर्ववत्
SK
रसः क्षुभित आपः पूर्वे त्रयः पूर्ववत्
SK
गन्धः क्षुभितो धरा पूर्वे चत्वारः पूर्ववत्
SK
अन्ये शब्दस्पर्शाभ्यां वायुः इत्यादिक्रमेण पञ्चभ्यो धरणी इति मन्यन्ते
SK
गुणसमुदायमात्रं च पृथिवी नान्यो गुणी कश्चित्
SK
अस्मिंश् च तत्त्वकलापे ऊर्ध्वोर्ध्वगुणं व्यापकं निकृष्टगुणं तु व्याप्यम्
SK
स एव गुणस्य उत्कर्षो यत् तेन विना गुणान्तरं न उपपद्यते तेन पृथिवीतत्त्वं शिवतत्त्वात् प्रभृति जलतत्त्वेन व्याप्तम् एवं जलं तेजसा इत्यादि यावच् छक्तितत्त्वम्

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source