4.1 SK तत्र यदा विकल्पं क्रमेण संस्कुरुते समनन्तरोक्तस्वरूपप्रवेशाय तदा भावनाक्रमस्य सत्तर्कसदागमसद्गुरूपदेशपूर्वकस्य अस्ति उपयोगः
4.2 SK तथा हि विकल्पबलात् एव जन्तवो बद्धम् आत्मानम् अभिमन्यन्ते स अभिमानः संसारप्रतिबन्धहेतुः अतः प्रतिद्वन्द्विरूपो विकल्प उदितः संसारहेतुं विकल्पं दलयति इति अभ्युदयहेतुः
4.3 SK स च एवंरूपः समस्तेभ्यः परिच्छिन्नस्वभावेभ्यः शिवान्तेभ्यः तत्त्वेभ्यो यत् उत्तीर्णम् अपरिच्छिन्नसंविन्मात्ररूपं तद् एव च परमार्थः तत् वस्तुव्यवस्थास्थानं तत् विश्वस्य ओजः तेन प्राणिति विश्वम् तद् एव च अहम् अतो विश्वोत्तीर्णो विश्वात्मा च अहम् इति
4.4 SK स च अयं मायान्धानां न उत्पद्यते सत्तर्कादीनाम् अभावात्
4.5 SK वैष्णवाद्या हि तावन्मात्र एव आगमे रागतत्त्वेन नियमिता इति न ऊर्ध्वदर्शने ऽपि तदुन्मुखतां भजन्ते ततः सत्तर्कसदागमसद्गुरूपदेशद्वेषिण एव
4.6 SK यथोक्तं पारमेश्वरे वैष्णवाद्याः समस्तास् ते विद्यारागेण रञ्जिताः
4.7 SK न विन्दन्ति परं तत्त्वं सर्वज्ञज्ञानवर्जिताः इति
4.8 SK तस्मात् शांभवदृड्ःअशक्तिपाताविद्धा एव सदागमादिक्रमेण विकल्पं संस्कृत्य परं स्वरूपं प्रविशन्ति
4.9 SK ननु इत्थं परं तत्त्वं विकल्प्यरूपं स्यात् मैवम् विकल्पस्य द्वैताधिवासभङ्गमात्रे चरितार्थत्वात् परं तत्त्वं तु सर्वत्र सर्वरूपतया स्वप्रकाशम् एव इति न तत्र विकल्पः कस्यैचित् उपक्रियायै खण्डनायै वा
4.10 SK तत्र अतिदृढशक्तिपाताविद्धस्य स्वयम् एव सांसिद्धिकतया सत्तर्क उदेति यो ऽसौ देवीभिः दीक्षित इति उच्यते
4.11 SK अन्यस्य आगमक्रमेण इत्यादि सविस्तरं शक्तिपातप्रकाशने वक्ष्यामः
4.12 SK किं तु गुरोर् आगमनिरूपणे व्यापारः आगमस्य च निःशङ्कसजातीयतत्प्रबन्धप्रसवनिबन्धनसमुचितविकल्पोदये व्यापारः तथाविधविकल्पप्रबन्ध एव सत्तर्क इति उक्तः स एव च भावना भण्यते अस्फुटत्वात् भूतम् अपि अर्थम् अभूतम् इव स्फुटत्वापादनेन भाव्यते यया इति
4.13 SK न च अत्र सत्तर्कात् शुद्धविद्याप्रकाशरूपात् ऋते अन्यत् योगाङ्गं साक्षात् उपायः तपःप्रभृतेः नियमवर्गस्य अहिंसादेश् च यमप्रकारस्य पूरकादेः प्राणायामवर्गस्य वेद्यमात्रनिष्ठत्वेन क इव संविदि व्यापारः
4.14 SK प्रत्याहारो ऽपि करणभूमिम् एव सातिशयां कुर्यात् ध्यानधारणासमाधयो ऽपि यथोत्तरम् अभ्यासक्रमेण निर्वर्त्यमाना ध्येयवस्तुतादात्म्यं ध्यातुः वितरेयुः
4.15 SK अभ्यासश् च परे तत्त्वे शिवात्मनि स्वस्वभावे न संभवत्य् एव
4.16 SK संविद्रूढस्य प्राणबुद्धिदेहनिष्ठीकरणरूपो हि अभ्यासः भारोद्वहनशास्त्रार्थबोधनृत्ताभ्यासवत् संविद्रूपे तु न किंचित् आदातव्यं न अपसरणीयम् इति कथम् अभ्यासः
4.17 SK किं तर्केणापि इति चेत् उक्तम् अत्र द्वैताधिवासनिरासप्रकार एव अयं न तु अन्यत् किंचिद् इति
4.18 SK लौकिके ऽपि वा अभ्यासे चिदात्मत्वेन सर्वरूपस्य तस्य तस्य देहादेः अभिमतरूपताप्रकटीकरणं तदितररूपन्यग्भावनं च इति एष एव अभ्यासार्थः
4.19 SK परतत्त्वे तु न किंचित् अपास्यम् इति उक्तम्
4.20 SK द्वैताधिवासो ऽपि नाम न कश्चन पृथक् वस्तुभूतः अपि तु स्वरूपाख्यातिमात्रं तत् अतो द्वैतापासनं विकल्पेन क्रियत इत्य् उक्तेः
4.21 SK अयं परमार्थः स्वरूपं प्रकाशमानम् अख्यातिरूपत्वं स्वयं स्वातन्त्र्यात् गृहीतं क्रमेण प्रोज्झ्य विकासोन्मुखम् अथ विकसत् अथ विकसितम् इत्य् अनेन क्रमेण प्रकाशते तथा प्रकाशनम् अपि परमेश्वरस्य स्वरूपम् एव तस्मात् न अत्र योगाङ्गानि साक्षात् उपायः
4.22 SK तर्कं तु अनुगृह्णीयुर् अपि सत्तर्क एव साक्षात् तत्र उपायः स एव च शुद्धविद्या स च बहुप्रकारतया संस्कृतो भवति तद्यथा यागो होमो जपो व्रतं योग इति तत्र भावानां सर्वेषां परमेश्वर एव स्थितिः नान्यत् व्यतिरिक्तम् अस्ति इति विकल्परूढिसिद्धये परमेश्वर एव सर्वभावार्पणं यागः स च हृद्यत्वात् ये संविदनुप्रवेशं स्वयम् एव भजन्ते तेषां सुशकं परमेश्वरे अर्पणम् इत्य् अभिप्रायेण हृद्यानां कुसुमतर्पणगन्धादीनां बहिर् उपयोग उक्तः
4.23 SK सर्वे भावाः परमेश्वरतेजोमया इति रूढविकल्पप्राप्त्यै परमेशसंविदनलतेजसि समस्तभावग्रासरसिकताभिमते तत्तेजोमात्रावशेषत्वसहसमस्तभावविलापनं होमः
4.24 SK तथा उभयात्मकपरामर्शोदयार्थं बाह्याभ्यन्तरादिप्रमेयरूपभिन्नभावानपेक्षयैव एवंविधं तत् परं तत्त्वं स्वस्वभावभूतम् इति अन्तः परामर्शनं जपः
4.25 SK सर्वत्र सर्वदा निरुपायपरमेश्वराभिमानलाभाय परमेश्वरसमताभिमानेन देहस्यापि घटादेर् अपि अवलोकनं व्रतम्
4.26 SK यथोक्तं श्रीनन्दिशिखायाम् सर्वसाम्यं परं व्रतम् इति
4.27 SK इत्थं विचित्रैः शुद्धविद्यांशरूपैः विकल्पैः यत् अनपेक्षितविकल्पं स्वाभाविकं परमार्थतत्त्वं प्रकाशते तस्यैव सनातनतथाविधप्रकाशमात्रतारूढये तत्स्वरूपानुसंधानात्मा विकल्पविशेषो योगः
4.28 SK तत्र परमेश्वरः पूर्णसंवित्स्वभावः पूर्णतैव अस्य शक्तिः कुलं सामर्थ्यम् ऊर्मिः हृदयं सारं स्पन्दः विभूतिः त्रीशिका काली कर्षणी चण्डी वाणी भोगो दृक् नित्या इत्यादिभिः आगमभाषाभिः तत्तदन्वर्थप्रवृत्ताभिः अभिधीयते तेन तेन रूपेण ध्यायिनां हृदि आस्ताम् इति
4.29 SK सा च समग्रशक्तितादर्शनेन पूर्णतासंवित् प्रकाशते
4.30 SK शक्तयश् च अस्य असंख्येयाः
4.31 SK किं बहुना यत् विश्वं ता अस्य शक्तयः ताः कथम् उपदेष्टुं शक्याः इति
4.32 SK तिसृषु तावत् विश्वं समाप्यते यया इदं शिवादिधरण्यन्तम् अविकल्प्यसंविन्मात्ररूपतया बिभर्ति च पश्यति च भासयति च परमेश्वरः सा अस्य श्रीपरशक्तिः
4.33 SK यया च दर्पणहस्त्यादिवत् भेदाभेदाभ्यां सा अस्य श्रीपरापरशक्तिः
4.34 SK यया परस्परविविक्तात्मना भेदेनैव सा अस्य श्रीमदपरशक्तिः
4.35 SK एतत् त्रिविधं यया धारणम् आत्मन्य् एव क्रोडीकारेण अनुसन्धानात्मना ग्रसते सा अस्य भगवती श्रीपरैव श्रीमन्मातृसद्भावकालकर्षिण्यादिशब्दान्तरनिरुक्ता
4.36 SK ता एताः चतस्रः शक्तयः स्वातन्त्र्यात् प्रत्येकं त्रिधैव वर्तन्ते
4.37 SK सृष्टौ स्थितौ संहारे च इति द्वादश भवन्ति
4.38 SK तथा हि संवित् पूर्वम् अन्तर् एव भावं कलयति ततो बहिर् अपि स्फुटतया कलयति तत्रैव रक्तिमयतां गृहीत्वा ततः तम् एव भावम् अन्तर् उपसंजिहीर्षया कलयति ततश् च तदुपसंहारविघ्नभूतां शङ्कां निर्मिणोति च ग्रसते च ग्रस्तशङ्कांशं भावभागम् आत्मनि उपसंहारेण कलयति तत उपसंहर्तृत्वं ममेदं रूपम् इत्य् अपि स्वभावम् एव कलयति तत उपसंहर्तृस्वभावकलने कस्यचिद् भावस्य वासनात्मना अवस्थितिं कस्यचित् तु संविन्मात्रावशेषतां कलयति ततः स्वरूपकलनानान्तरीयकत्वेनैव करणचक्रं कलयति ततः करणेश्वरम् अपि कलयति ततः कल्पितं मायीयं प्रमातृरूपम् अपि कलयति सङ्कोचत्यागोन्मुखविकासग्रहणरसिकम् अपि प्रमातारं कलयति अतो विकसितम् अपि रूपं कलयति इति एता द्वादश भगवत्यः संविदः प्रमातॄन् एकं वापि उद्दिश्य युगपत् क्रमेण द्विशः त्रिश इत्यादिस्थित्यापि उदयभागिन्यः चक्रवद् आवर्तमाना बहिर् अपि मासकलाराश्यादिक्रमेण अन्ततो वा घटपटादिक्रमेणापि भासमानाः चक्रेश्वरस्य स्वातन्त्र्यं पुष्णत्यः श्रीकालीशब्दवाच्याः
4.39 SK कलनं च गतिः क्षेपो ज्ञानं गणनं भोगीकरणं शब्दनं स्वात्मलयीकरणं च
4.40 SK यद् आहुः श्रीभूतिराजगुरवः क्षेपाज् ज्ञानाच् च काली कलनवशतयाथ इति
4.41 SK एष च अर्थः तत्र तत्र मद्विरचिते विवरणे प्रकरणस्तोत्रादौ वितत्य वीक्ष्यः
4.42 SK न अतिरहस्यम् एकत्र ख्याप्यं न च सर्वथा गोप्यम् इति हि अस्मद्गुरवः
4.43 SK तद् एवम् यद् उक्तं यागहोमादि तत् एवंविधे महेश्वर एव मन्तव्यम्
4.44 SK सर्वे हि हेयम् एव उपादेयभूमिरूपं विष्णुतः प्रभृति शिवान्तं परमशिवतया पश्यन्ति तच् च मिथ्यादर्शनम् अवश्यत्याज्यम् अनुत्तरयोगिभिर् इति तदर्थम् एव विद्याधिपतेः अनुभवस्तोत्रे महान् संरम्भः एवंविधे यागादौ योगान्ते च पञ्चके प्रत्येकं बहुप्रकारं निरूढिः यथा यथा भवति तथैव आचरेत् न तु भक्ष्याभक्ष्यशुद्ध्यशुद्ध्यादिविवेचनया वस्तुधर्मोज्झितया कल्पनामात्रसारया स्वात्मा खेदनीय इति उक्तं श्रीपूर्वादौ न हि शुद्धिः वस्तुनो रूपं नीलत्ववत् अन्यत्र तस्यैव अशुद्धिचोदनात् दानस्येव दीक्षितत्वे चोदनातः तस्य तत् तत्र अशुद्धम् इति चेत् चोदनान्तरे ऽपि तुल्यं चोदनान्तरम् असत् तद्बाधितत्वात् इति चेत् न शिवचोदनाया एव बाधकत्वं युक्तिसिद्धं सर्वज्ञानोत्तराद्यनन्तागमसिद्धं च इति वक्ष्यामः
4.45 SK तस्मात् वैदिकात् प्रभृति पारमेश्वरसिद्धान्ततन्त्रकुलोच्छुष्मादिशास्त्रोक्तो ऽपि यो नियमो विधिः वा निषेधो वा सो ऽत्र यावद् अकिंचित्कर एव इति सिद्धम्
4.46 SK तथैव च उक्तं श्रीपूर्वादौ वितत्य तन्त्रालोकात् अन्वेष्यम्
Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.
Source