13.1 SK अथ प्रसन्नहृदयो यागस्थानं यायात् तच् च यत्रैव हृदयं प्रसादयुक्तं परमेश्वरसमावेशयोग्यं भवति तद् एव न तु अस्य अन्यल् लक्षणम् उक्ताव् अपि ध्येयतादात्म्यम् एव कारणम् तद् अपि भावप्रसादाद् एव इति नान्यत् स्थानम्
13.2 SK पीठपर्वताग्रम् इत्यादिस् तु शास्त्रे स्थानोद्देश एतत्पर एव बोद्धव्यः
13.3 SK तेषु तेषु पीठादिस्थानेषु परमेशनियत्या परमेश्वराविष्टानां शक्तीनां देहग्रहणात् आर्यदेशा इव धार्मिकाणां म्लेच्छदेशा इव अधार्मिकाणाम् पर्वताग्रादेश् चैकान्तत्वेन विक्षेपपरिहारात् ऐकाग्र्यपदत्वम् इति
13.4 SK तत्र यागगृहाग्रे बहिर् एव सामान्यन्यासं कुर्यात् करयोः पूर्वं ततो देहे
13.5 SK ह्रीं न फ ह्रीं ह्रीं आ क्ष ह्रीं इत्य् आभ्यां शक्तिशक्तिमद्वाचकाभ्यां मालिनीशब्दराशिमन्त्राभ्याम् एकेनैव आदौ शक्तिः ततः शक्तिमान् इति मुक्तौ पादाग्राच् छिरोऽन्तम् भुक्तौ तु सर्वो विपर्ययः
13.6 SK मालिनी हि भगवती मुख्यम् शाक्तं रूपं बीजयोनिसंघट्टेन समस्तकामदुघम्
13.7 SK अन्वर्थं चैतन् नाम रुद्रशक्तिमालाभिर् युक्ता फलेषु पुष्पिता संसारशिशिरसंहारनादभ्रमरी सिद्धिमोक्षधारिणी दानादानशक्तियुक्ता इति रलयोर् एकत्वस्मृतेः
13.8 SK अत एव हि भ्रष्टविधिर् अपि मन्त्र एतन्न्यासात् पूर्णो भवति साञ्जनो ऽपि गारुडवैष्णवादिर् निरञ्जनताम् एत्य मोक्षप्रदो भवति
13.9 SK देहन्यासानन्तरम् अर्घपात्रे अयम् एव न्यासः
13.10 SK इह हि क्रियाकारकाणां परमेश्वराभेदप्रतिपत्तिदार्ढ्यसिद्धये पूजाक्रिया उदाहरणीकृता तत्र च सर्वकारकाणाम् इत्थं परमेश्वरीभावः तत्र यष्ट्राधारस्य स्थानशुद्ध्यापादानकरणयोर् अर्घपात्रशुद्धिन्यासाभ्याम् यष्टुर् देहन्यासात् याज्यस्य स्थण्डिलादिन्यासात्
13.11 SK एवं क्रियाक्रमेणापि परमेश्वरीकृतसमस्तकारकः तयैव दृशा सर्वक्रियाः पश्यन् विनापि प्रमुखज्ञानयोगाभ्यां परमेश्वर एव भवति
13.12 SK एवम् अर्घपात्रे न्यस्य पुष्पधूपाद्यैः पूजयित्वा तद्विप्रुड्भिर् यागसारं पुष्पादि च प्रोक्षयेत्
13.13 SK ततः प्रभामण्डले भूमौ खे वा ॐ बाह्यपरिवाराय नम इति पूजयेत्
13.14 SK ततो द्वारस्थाने ॐ द्वारदेवताचक्राय नम इति पूजयेत्
13.15 SK अगुप्ते तु बहिःस्थाने सति प्रविश्य मण्डलस्थण्डिलाग्र एव बाह्यपरिवारद्वारदेवताचक्रपूजां पूर्वोक्तं च न्यासादि कुर्यात् न बहिः
13.16 SK ततो ऽपि फट् फट् फट् इति अस्त्रजप्तपुष्पं प्रक्षिप्य विघ्नान् अपसारितान् ध्यात्वा अन्तः प्रविश्य परमेश्वरकिरणेद्धया दृष्ट्या अभितो यागगृहं पश्येत्
13.17 SK तत्र मुमुक्षुर् उत्तराभिमुखस् तिष्ठेत् यथा भगवदघोरतेजसा झटित्य् एव प्रुष्टपाशो भवेत्
13.18 SK तत्र परमेश्वरस्वातन्त्र्यम् एव मूर्त्याभासनया दिक्तत्त्वम् अवभासयति
13.19 SK तत्र चित्प्रकाश एव मध्यं तत इतरप्रविभागप्रवृत्तेः प्रकाशस्वीकार्यम् ऊर्ध्वम् अतथाभूतम् अधः प्रकाशनसम्मुखीनं पूर्वम् इतरत् अपरम् संमुखीभूतप्रकाशत्वात् अनन्तरं तत्प्रकाशधारारोहस्थानं दक्षिणम् आनुकूल्यात् तत्सम्मुखं तु अवभास्यत्वात् उत्तरम् इति दिक्चतुष्कम्
13.20 SK तत्र मध्ये भगवान् ऊर्ध्वे ऽस्य ऐशानं वक्त्रम् अधः पातालवक्त्रम् पूर्वादिदिक्चतुष्के श्रीतत्पुरुषाघोरसद्योवामाख्यं दिक्चतुष्कमध्ये अन्याश् चतस्रः
13.21 SK इत्य् एवं संविन्महिमैव मूर्तिकृतं दिग्भेदं भासयति इति दिक् न तत्त्वान्तरम्
13.22 SK यथा यथा च स्वच्छाया लङ्घयितुम् इष्टा सती पुरः पुरो भवति तथा परमेश्वरमध्यताम् एति सर्वाधिष्ठातृतैव माध्यस्थ्यम् इत्य् उक्तम्
13.23 SK एवं यथा भगवान् दिग्विभागकारी तथा सूर्यो ऽपि स हि पारमेश्वर्य् एव ज्ञानशक्तिर् इत्य् उक्तं तत्र तत्र तत्र पूर्वं व्यक्तेः पूर्वा यत्रैव च तथा तत्रैव एवं स्वात्माधीनापि स्वसम्मुखीनस्य देशस्य पुरस्तात्त्वात्
13.24 SK एवं स्वात्मसूर्यपरमेशत्रितयैकीभावनया दिक्चर्चा इति अभिनवगुप्तगुरवः
13.25 SK एवं स्थिते उत्तराभिमुखम् उपविश्य देहपुर्यष्टकादौ अहम्भावत्यागेन देहतां दहेत् संनिधाव् अपि परदेहवत् अदेहत्वात् ततो निस्तरङ्गध्रुवधामरूढस्य दृष्टिस्वाभाव्यात् या किल आद्या स्पन्दकला सैव मूर्तिः तदुपरि यथोपदिष्टयाज्यदेवताचक्रन्यासः प्राधान्येन च इह शक्तयो याज्याः
13.26 SK तदासनत्वात् भगवन्नवात्मादीनां शक्तेर् एव च पूज्यत्वात् इति गुरवः
13.27 SK तत्र च पञ्च अवस्था जाग्रदाद्याः षष्ठी च अनुत्तरा नाम स्वभावदशा अनुसंधेया
13.28 SK इति षोढा न्यासो भवति
13.29 SK तत्र कारणानां ब्रह्मविष्णुरुद्रेशसदाशिवशक्तिरूपाणां प्रत्येकम् अधिष्ठानात् षट्त्रिंशत्तत्त्वकलापस्य लौकिकतत्त्वोत्तीर्णस्य भैरवभट्टारकाभेदवृत्ते न्यासे पूर्णत्वात् भैरवीभावः तेन एतत् अनवकाशम्
13.30 SK यद् आहुः अतरङ्गरूढौ लब्धायां पुनः किं तत्त्वसृष्टिर् न्यासादिना इति
13.31 SK तावत् हि तद् अतरङ्गं भैरववपुः यत् स्वात्मनि अवभासितसृष्टिसंहारावैचित्र्यकोटि
13.32 SK एवम् अन्योन्यमेलकयोगेन परमेश्वरीभूतं प्राणदेहबुद्ध्यादि भावयित्वा बहिर् अन्तः पुष्पधूपतर्पणाद्यैर् यथासम्भवं पूजयेत्
13.33 SK तत्र शरीरे प्राणे धियि च तदनुसारेण शूलाब्जन्यासं कुर्यात् तद् यथा आधारशक्तिमूले मूलं कन्द आमूलसारकं लम्बिकान्ते कलातत्त्वान्तो दण्डः मायात्मको ग्रन्थिः चतुष्किकात्मा शुद्धविद्यापद्मं तत्रैव सदाशिवभट्टारकः स एव महाप्रेतः प्रकर्षेण लीनत्वात् बोधात् प्राधान्येन वेद्यात्मकदेहक्षयात् नादामर्शात्मकत्वाच् च इति
13.34 SK तन् नाभ्युत्थितं तन्मूर्धरन्ध्रत्रयनिर्गतं नादान्तर्वर्तिशक्तिव्यापिनीसमनारूपमरात्रयं द्विषट्कान्तं तदुपरि शुद्धपद्मत्रयम् औन्मनसम् एतस्मिन् विश्वमये भेदे आसनीकृते अधिष्ठातृतया व्यापकभावेन आधेयभूतां यथाभिमतां देवतां कल्पयित्वा यत् तत्रैव समस्वभावनिर्भरात्मनि विश्वभावार्पणं तद् एव पूजनं यद् एव तन्मयीभवनं तद् ध्यानं यत् तथाविधान्तःपरामर्शसद्भावनादान्दोलनं स जपः यत् तथाविधपरामर्शक्रमप्रबुद्धमहातेजसा तथाबलाद् एव विश्वात्मीकरणं स होमः तद् एवं कृत्वा परिवारं तत एव वह्निराशेर् विस्फुलिङ्गवत् ध्यात्वा तथैव पूजयेत्
13.35 SK द्वादशान्तम् इदं प्राग्रं विशूलं मूलतः स्मरन्
13.36 SK देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत्
13.37 SK मूलाधाराद् द्विषट्कान्तव्योमाग्रापूरणात्मिका
13.38 SK खेचरीयं खसंचारम्स्थितिभ्यां खामृताशनात्
13.39 SK एवम् अन्तर्यागमात्राद् एव वस्तुतः कृतकृत्यता
13.40 SK सत्यतः तदाविष्टस्य तथापि बहिर् अपि कार्यो यागो ऽवच्छेदहानय एव यो ऽपि तथा समावेशभाक् न भवति तस्य मुख्यो बहिर्यागः तदभ्यासात् समावेशलाभो यतस् तस्यापि तु पशुतातिरोधानायान्तर्यागः तदरूढाव् अपि तत्संकल्पबलस्य शुद्धिप्रदत्वात्
13.41 SK अथ यदा दीक्षां चिकीर्षेत् तदाधिवासनार्थं भूमिपरिग्रहं गणेशार्चनं कुम्भकलशयोः पूजां स्थण्डिलार्चनं हवनं च कुर्यात्
13.42 SK नित्यनैमित्तिकयोस् तु स्थण्डिलाद्यर्चनहवने एव
13.43 SK तत्र अधिवासनं शिष्यस्य संस्कृतयोग्यताधानम् अम्ब्लीकरणम् इव दन्तानां देवस्य कर्तव्योन्मुखत्वग्राहणम् गुरोस् तद्ग्रहणम्
13.44 SK उपकरणद्रव्याणां यागगृहान्तर्वर्तितया परमेशतेजोबृंहणेन पूजोपकरणयोग्यतार्पणम् इति
13.45 SK तत्र सर्वोपकरणपूर्णं यागगृहं विधाय भगवतीं मालिनीं मातृकां वा स्मृत्वा तद्वर्णतेजःपुञ्जभरितं गृहीतं भावयन् पुष्पाञ्जलिं क्षिपेत्
13.46 SK तत उक्तास्त्रजप्तानि यथासम्भवं सिद्धार्थधान्याक्षतलाजादीनि तेजोरूपाणि विकीर्य ऐशान्यां दिशि क्रमेण संघट्टयेत् इति भूपरिग्रहः
13.47 SK ततः शुद्धविद्यान्तम् आसनं दत्त्वा गणपतेः पूजा ततः कुम्भम् आनन्दद्रव्यपूरितम् अलंकृतं पूजयेत् ततो याज्यम् अनु पूगं न्यस्य तत्र मुख्यं मन्त्रं सर्वाधिष्ठातृतया विधिपूर्वकत्वेन स्मरन् अष्टोत्तरशतमन्त्रितं तेन तं कुम्भं कुर्यात्
13.48 SK द्वितीयकलशे विघ्नशमनाय अस्त्रं यजेत्
13.49 SK ततः स्वस्वदिक्षु लोकपालान् सास्त्रान् पूजयेत्
13.50 SK ततः शिष्यस्य प्राक् दीक्षितस्य हस्ते अस्त्रकलशं दद्यात्
13.51 SK स्वयं च गुरुः कुम्भम् आददीत
13.52 SK ततः शिष्यं गृहपर्यन्तेषु विघ्नशमनाय धारां पातयन्तं सकुम्भो ऽनुगच्छेत् इमं मन्त्रं पठन् भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये
13.53 SK सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया
13.54 SK त्र्यक्षरे नाम्नि भो इत्य् एकम् एव
13.55 SK तत ऐशान्यां दिशि कुम्भं स्थापयेत्
13.56 SK विकिरोपरि अस्त्रकलशम्
13.58 SK ततः स्थण्डिलमध्ये परमेशपूजनम्
13.59 SK ततः अग्निकुण्डं परमेश्वरशक्तिरूपतया भावयित्वा तत्र अग्निं प्रज्वाल्य हृदयान्तर्बोधाग्निना सह एकीकृत्य मन्त्रपरामर्शसाहित्येन ज्वलन्तं शिवाग्निं भावयित्वा तत्र न्यस्य अभ्यर्च्य मन्त्रान् तर्पयेत् आज्येन तिलैश् च
13.60 SK अर्घपात्रेण च प्रोक्षणम् एव तिलाज्यादीनां संस्कारः
13.61 SK स्रुक्स्रुवयोश् च परमेशाभेददृष्टिर् एव हि संस्कारः
13.62 SK ततो यथाशक्ति हुत्वा स्रुक्स्रुवौ ऊर्ध्वाधोमुखतया शक्तिशिवरूपौ परस्परोन्मुखौ विधाय समपादोत्थितो द्वादशान्तगगनोदितशिवपूर्णचन्द्रनिःसृतपतत्परामृतधाराभावनां कुर्वन् वौषडन्तं मन्त्रम् उच्चारयन् च आज्यक्षयान्तं तिष्ठेत् इति पूर्णाहुतिः मन्त्रचक्रसंतर्पणी
13.63 SK ततश् चरुं प्रोक्षितम् आनीय स्थण्डिलकलशकुम्भवह्निषु भागं भागं निवेद्य एकभागम् अवशेष्य शिष्याय भागं दद्यात्
13.65 SK तत्पातो ऽग्नियमनिरृतिदिक्षु अधश् च न शुभ इति
13.66 SK तत्र होमो ऽस्त्रमन्त्रेण कार्यः
13.67 SK ततो विक्षेपपरिहारेण भाविमन्त्रदर्शनयोग्यतायै बद्धनेत्रं शिष्यं प्रवेश्य जानुस्थितं तं कृत्वा पुष्पाञ्जलिं क्षेपयेत्
13.68 SK ततः सहसा अपासितनेत्रबन्धो ऽसौ शक्तिपातानुगृहीतकरणत्वात् संनिहितमन्त्रं तत्स्थानं साक्षात्कारेण पश्यन् तन्मयो भवति अनुगृहीतकरणानां मन्त्रसंनिधिः प्रत्यक्षः यतस् त्रस्यताम् इव भूतानाम्
13.69 SK ततः स्वदक्षिणहस्ते दीप्यतया देवताचक्रं पूजयित्वा तं हस्तं मूर्धहृन्नाभिषु शिष्यस्य पाशान् दहन्तं निक्षिपेत्
13.70 SK ततो वामे सोम्यतया पूजयित्वा शुद्धतत्त्वाप्यायिनं ततः प्रणामं कुर्यात्
13.71 SK ततो भूतदेवतादिग्बलिं मद्यमांसजलादिपूर्णं बहिर् दद्यात् आचामेत
13.72 SK ततः स्वयं चरुभोजनं कृत्वा शिष्यात्मना सह ऐक्यम् आपन्नः प्रबुद्धवृत्तिः तिष्ठेत्
13.73 SK स्वपन् अपि प्रभाते शिष्यः चेत् अशुभं स्वप्नं वदेत् तत् अस्मै न व्याकुर्यात्
13.74 SK शङ्कातङ्कौ हि तथास्य स्याताम् केवलम् अस्त्रेण तन्निष्कृतिं कुर्यात्
13.75 SK ततस् तथैव परमेश्वरं पूजयित्वा तदग्रे शिष्यस्य प्राणक्रमेण प्रविश्य हृत्कण्ठतालुललाटरन्ध्रद्वादशान्तेषु षट्सु कारणषट्कस्पर्शं कुर्वन् प्रत्येकम् अष्टौ संस्कारान् चिन्तयन् कंचित् कालं शिष्यप्राणं तत्रैव विश्रमय्य पुनर् अवरोहेत्
13.76 SK इत्य् एवापादिताष्टाचत्वारिंशत्संस्कारोपरिकृतरुद्रांशापत्तिः समयीभवति
13.77 SK ततः अस्मै पूज्यं मन्त्रं पुष्पाद्यैः सह अर्पयेत्
13.78 SK ततः समयान् अस्मै निरूपयेत्
13.79 SK गुरौ सर्वात्मना भक्तिः तथा शास्त्रे देवे तत्प्रतिद्वंद्विनि पराङ्मुखता गुरुवत् गुरुपुत्रादेः विद्यासम्बन्धकृतस्य तत्पूर्वदीक्षितादेः संदर्शनम् यौनसम्बन्धस्य तदाराधनार्थम् न तु स्वत इति मन्तव्यम्
13.80 SK स्त्रियो वन्ध्यायास् तज्जुगुप्साहेतुं न कुर्यात्
13.81 SK देवतानाम गुरुनाम तथा मन्त्रं पूजाकालात् ऋते न उच्चारयेत्
13.82 SK गुरूपभुक्तं शय्यादि न भुञ्जीत
13.83 SK यत् किंचित् लौकिकं क्रीडादि तत् गुरुसंनिधौ न कुर्यात्
13.84 SK तद्व्यतिरेकेण न अन्यत्र उत्कर्षबुद्धिं कुर्यात्
13.85 SK सर्वत्र श्राद्धादौ गुरुम् एव पूजयेत्
13.86 SK सर्वेषु च नैमित्तिकेषु शाकिनीत्यादिशब्दान् न वदेत्
13.87 SK पर्वदिनानि पूजयेत्
13.88 SK वैष्णवाद्यैर् अधोदृष्टिभिः सह संगतिं न कुर्यात्
13.89 SK एतच्छासनस्थान् पूर्वजातिबुद्ध्या न पश्येत्
13.90 SK गुरुवर्गे गृहागते यथाशक्ति यागं कुर्यात्
13.91 SK अधोमार्गस्थितं कंचित् वैष्णवाद्यं तच्छास्त्रकुलात् गुरूकृत्यापि त्यजेत्
13.92 SK तदापि न उत्कर्षबुद्ध्या पश्येत्
13.93 SK लिङ्गिभिः सह समाचारमेलनं न कुर्यात् तान् केवलं यथाशक्ति पूजयेत्
13.95 SK चक्रे स्थितश् चरमाग्र्यादिविभागं जन्मकृतं न संकल्पयेत्
13.96 SK शरीरात् ऋते न अन्यत् आयतनतीर्थादिकं बहुमानेन पश्येत्
13.97 SK मन्त्रहृदयम् अनवरतं स्मरेत् इत्य् एवं शिष्यः श्रुत्वा प्रणम्य अभ्युपगम्य गुरुं धनदारशरीरपर्यन्तया दक्षिणया परितोष्य पूर्वदीक्षितांश् च दीनानाथादिकान् तर्पयेत्
13.98 SK भाविविधिना च मूर्तिचक्रं तर्पयेत्
13.100 SK मन्त्राभ्यासे नित्यपूजायां श्रवणे ऽध्ययने अधिकारी नैमित्तिके तु सर्वत्र गुरुम् एव अभ्यर्थयेत्
13.101 SK इति सामयिको विधिः
Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.
Source