SKतत्र यदा विकल्पः स्वयम् एव संस्कारम् आत्मनि उपायान्तरनिरपेक्षतयैव कर्तुं प्रभवति तदा असौ पाशवव्यापारात् प्रच्युतः शुद्धविद्यानुग्रहेण परमेशशक्तिरूपताम् आपन्न उपायतया अवलम्ब्यमानः शाक्तं ज्ञानम् आविर्भावयति
SKतद् एतच् च निर्णीतम् अनन्तर एव आह्निके
SKयदा तु उपायान्तरम् असौ स्वसंस्कारार्थं विकल्पो ऽपेक्षते तदा बुद्धिप्राणदेहघटादिकान् परिमितरूपान् उपायत्वेन गृह्णन् अणुत्वं प्राप्त आणवं ज्ञानम् आविर्भावयति तत्र बुद्धिः ध्यानात्मिका प्राणः स्थूलः सूक्ष्मश् च आद्य उच्चारणात्मा उच्चारणं च नाम पञ्च प्राणाद्या वृत्तयः सूक्ष्मस् तु वर्णशब्दवाच्यो वक्ष्यते देहः संनिवेशविशेषात्मा करणशब्दवाच्यः घटादयो बाह्याः कुम्भस्थण्डिललिङ्गपूजाद्युपायतया कीर्तयिष्यमाणाः
SKतत्र ध्यानं तावत् इह उचितम् उपदेक्ष्यामः यत् एतत् स्वप्रकाशं सर्वतत्त्वान्तर्भूतं परं तत्त्वम् उक्तं तद् एव निजहृदयबोधे ध्यात्वा तत्र प्रमातृप्रमाणप्रमेयरूपस्य वह्न्यर्कसोमत्रितयस्य संघट्टं ध्यायेत् यावत् असौ महाभैरवाग्निः ध्यानवातसमिद्धाकारः सम्पद्यते तस्य प्राक्तनशक्तिज्वालाद्वादशकपरिवृतस्य चक्रात्मनः चक्षुरादीनाम् अन्यतमसुषिरद्वारेण निःसृतस्य बाह्ये ग्राह्यात्मनि विश्रान्तं चिन्तयेत् तेन च विश्रान्तेन प्रथमं तद्बाह्यं सोमरूपतया सृष्टिक्रमेण प्रपूरितं ततः अर्करूपतया स्थित्या अवभासितं ततो ऽपि संहारवह्निरूपतया विलापितं ततः अनुत्तरात्मताम् आपादितं ध्यायेत्
SKएवं तच् चक्रं समस्तबाह्यवस्त्वभेदपरिपूर्णं सम्पद्यते
SKततो वासनाशेषान् अपि भावान् तेन चक्रेण इत्थं कृतान् ध्यायेत्
SKएवम् अस्य अनवरतं ध्यायिनः स्वसंविन्मात्रपरमार्थान् सृष्टिस्थितिसंहारप्रबन्धान् सृष्ट्यादिस्वातन्त्र्यपरमार्थत्वं च स्वसंविदो निश्चिन्वतः सद्य एव भैरवीभावः
SKअभ्यासात् तु सर्वेप्सितसिद्ध्यादयो ऽपि
SKस्वप्रकाशं समस्तात्मतत्त्वं मात्रादिकं त्रयम्
SKअन्तःकृत्य स्थितं ध्यायेद् धृदयानन्दधामनि
SKतद् द्वादशमहाशक्तिरश्मिचक्रेश्वरं विभुम्
SKव्योमभिर् निःसरद् बाह्ये ध्यायेत् सृष्ट्यादिभावकम्
SKतद् ग्रस्तसर्वबाह्यान्तर्भावमण्डलम् आत्मनि
SKविश्राम्यन् भावयेद् योगी स्याद् एवम् आत्मनः प्रथा
SKतत्र प्राणम् उच्चिचारयिषुः पूर्वं हृदय एव शून्ये विश्राम्यति ततो बाह्ये प्राणोदयात् ततो ऽपि बाह्यं प्रति अपानचन्द्रापूरणेन सर्वात्मतां पश्यति ततः अन्यनिराकाङ्क्षो भवति ततः समानोदयात् संघट्टविश्रान्तिम् अनुभवति तत उदानवह्न्युदये मातृमेयादिकलनां ग्रसते
SKतद्ग्रासकवह्निप्रशमे व्यानोदये सर्वावच्छेदवन्ध्यः स्फुरति
SKएवं शून्यात् प्रभृति व्यानान्तं या एता विश्रान्तयः ता एव निजानन्दो निरानन्दः परानन्दो ब्रह्मानन्दो महानन्दः चिदानन्द इति षट् आनन्दभूमय उपदिष्टाः यासाम् एकः अनुसंधाता उदयास्तमयविहीनः अन्तर्विश्रान्तिपरमार्थरूपो जगदानन्दः
SKतत् एतासु उच्चारभूमिषु प्रत्येकं द्व्यादिशः सर्वशो वा विश्राम्य अन्यत् तद्देहप्राणादिव्यतिरिक्तं विश्रान्तितत्त्वम् आसादयति
SKतद् एव सृष्टिसंहारबीजोच्चारणरहस्यम् अनुसंदधत् विकल्पं संस्कुर्यात् आसु च विश्रान्तिषु प्रत्येकं पञ्च अवस्था भवन्ति प्रवेशतारतम्यात्
SKतत्र प्राग् आनन्दः पूर्णतांशस्पर्शात् तत उद्भवः क्षणं निःशरीरतायां रूढेः ततः कम्पः स्वबलाक्रान्तौ देहतादात्म्यशैथिल्यात् ततो निद्रा बहिर्मुखत्वविलयात्
SKइत्थम् अनात्मनि आत्मभावे लीने स्वात्मनः सर्वमयत्वात् आत्मनि अनात्मभावो विलीयते इति अतो घूर्णिः महाव्याप्त्युदयात्
SKता एता जाग्रदादिभूमयः तुर्यातीतान्ताः
SKएताश् च भूमयः त्रिकोणकन्दहृत्तालूर्ध्वकुण्डलिनीचक्रप्रवेशे भवन्ति
SKएवम् उच्चारविश्रान्तौ यत् परं स्पन्दनं गलिताशेषवेद्यं यच् च उन्मिषद् वेद्यं यच् च उन्मिषितवेद्यं तद् एव लिङ्गत्रयम् इति वक्ष्यामः स्वावसरे
SKपरं चात्र लिङ्गं योगिनीहृदयम्
SKतत्र मुख्या स्पन्दनरूपता संकोचविकासात्मतया यामलरूपतोदयेन विसर्गकलाविश्रान्तिलाभात् इत्य् अलम्
SKअप्रकाशः अत्र अनुप्रवेशः
SKपूर्वं स्वबोधे तदनु प्रमेये विश्रम्य मेयं परिपूरयेत
SKपूर्णे ऽत्र विश्राम्यति मातृमेयविभागम् आश्व् एव स संहरेत
SKव्याप्त्याथ विश्राम्यति ता इमाः स्युः शून्येन साकं षडुपायभूम्यः
SKप्राणादयो व्याननपश्चिमास् तल्लीनश् च जाग्रत् प्रभृति प्रपञ्चः
SKअभ्यासनिष्ठो ऽत्र तु सृष्टिसंहृद्विमर्शधामन्य् अचिरेण रोहेत्
SKअस्मिन् एव उच्चारे स्फुरन् अव्यक्तानुकृतिप्रायो ध्वनिः वर्णः तस्य सृष्टिसंहारबीजे मुख्यं रूपं तदभ्यासात् परसंवित्तिलाभः तथाहि कादौ मान्ते साच्के अनच्के वा अन्तरुच्चारिते स्मृते वा समविशिष्टः संवित्स्पन्दस्पर्शः समयानपेक्षित्वात् परिपूर्णः समयोपेक्षिणो ऽपि शब्दाः तदर्थभावका मनोराज्यादिवत् अनुत्तरसंवित्स्पर्शात् एकीकृतहृत्कण्ठोष्ठो द्वादशान्तद्वयं हृदयं च एकीकुर्यात् इति वर्णरहस्यम्
SKअन्तःस्पर्शद्विमर्शानन्तरसमुद्भूतं सितपीताद्यान्तरं वर्णम् उद्भाव्यमानं संविदम् अनुभावयति इति केचित्
SKवाच्यविरहेण संवित्स्पन्दाद् इन्द्वर्कगतिनिरोधाभ्याम्
SKयस्य तु समसंप्रवेशात् पूर्णां चिद्बीजपिण्डवर्णविधौ
SKकरणं तु मुद्राप्रकाशने वक्ष्यामः