Sutraya

Īśvarapratyabhijñāvimarśinī

The Reflection on Recognition of the Lord · ईश्वरप्रत्यभिज्ञाविमर्शिनी

kriyādhikāre caturthamāhnikam

The Reflection on Recognition of the Lord

ईश्वरप्रत्यभिज्ञाविमर्शिनी

SK
{भावानाभासयन् कर्ता निर्मले स्वात्मदर्पणे / कार्यकारणभावं च यश्चित्रं तं स्तुमः शिवम् //}
SK
क्रियाशक्तिस्फारप्रायसंबन्धप्रसङ्गात् ज्ञाप्यज्ञापकभावस्य तत्त्वं प्रसाध्य , कार्यकारणभावस्य तत्त्वं प्रसाधयितुं श्लोकैकविंशत्या आह्निकान्तरमारभ्यते , ---- एष च इत्यादि एवमिच्छैव हेतुता कर्तृता क्रिया इत्यन्तम् / तत्र श्लोकेन स्वमते कर्तृकर्मभाव एव कार्यकारणभावः , ---- इत्युपक्षिप्यते / ततः श्लोकत्रयेण जडस्य कारणत्वं पराक्रियते / ततः श्लोकषट्केन चेतनस्यैव कर्तृतारूपा कारणता प्रसाध्यते / ततः प्रसङ्गादनुमाने नियतिशक्तिरवश्योपजीव्या , ---- इति श्लोकत्रयेणोच्यते / ततः सौगतोक्तकार्यकारणपरमार्थोऽपि अस्मन्मतमेवावलम्बते , नो चेत् न किञ्चित् , ---- इति त्रिभिः श्लोकैः / सांख्योपदर्शितो ऽपि कार्यकारणभावो नोपपद्यते , यद्यस्मदुक्तं चेतनस्य कर्तृत्वं नाङ्गीक्रियते , ---- इति त्रिभिः / चेतनस्यापि अनीश्वरतायां नैतद्घटते , ---- इति द्वाभ्यामिति संक्षेपार्थः / ग्रन्थस्तु व्याख्यायते /
SK
एवं क्रियाशक्तिमुखेन प्रमात्रेकरूपतां भगवति व्यवहर्तव्यां प्रसाध्य , कर्तृरूपतापि तत एवायत्नसिद्धा , ---- इति दर्शयितुमाह
SK
एष चानन्तशक्तित्वादेवमाभासयत्यमून् / भावानिच्छावशादेषा क्रिया निर्मातृतास्य सा //
SK
चो ऽवधारणे / एष एव पुराणः प्रमाता अमून् भावान् आभासितपूर्वान् आभासान् आभासयति अविच्छिन्नेन प्रबन्धेन / कथम् , इच्छाया ईशितुरभिन्नाया अविकल्परूपाया अक्रमाया वशेन सामर्थ्येन कुत्रास्य ते भावाः स्थिताः ? आह , अनन्तशक्तित्वात् इति / विश्वे हि भावास्तस्यैव शक्तिरूपेण स्वरूपात्मत्वेन स्थिताः ; इत्युक्तं
SK
{स्वभिनश्चात्मसंस्थस्य ................... }(Iप्क् १,५,१०)
SK
इत्यत्र / यदेतदाभासनं यासाविच्छा , सा क्रिया , अस्य भगवतो निर्मातृत्वम् //१//
SK
ननु बीजादङ्कुर उद्भवन् दृश्यते , न च अत्र कश्चिच्चेतनो ऽनुप्रविशन् दृष्टः , तत्कथमेतदुक्तम् ? , ---- इत्याशङ्क्याह
SK
जडस्य तु न सा शक्तिः सत्ता यदसतः सतः / कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः //
SK
सद्वा कार्यमसद्वा संभाव्यते / उभयात्मकम् अनुभयात्मकमनिर्वाच्यम् , इति तु स्ववाचैव विरुध्यते तत् किमनेन / यदि असन् घटः , तर्हि तस्यासद्रूपतैव परमार्थः इति कथं स्वरूपविरुद्धं सत्त्वमभ्युपगच्छेत् , न हि पादपतनशतैरपि नीलमात्मनि पीतिमानं मृष्यते / अथ सन्नेव घटस्तर्हि किमन्यत् उपयाच्यते दण्डचक्रसूत्रात् / अभिव्यक्तिविषयत्वस्फुटत्वादयोऽपि सदसद्रूपतया चिन्त्याः //
SK
नन्वेवं तूष्णीमास्यताम् , नैतदपि युक्तम् इत्याह
SK
......................................................... अथ चोच्यते // Iप्क्_२,४.३ //
SK
तदवश्यसमर्थ्योऽयमर्थं इति यावत् //३//
SK
ततश्च इत्थमुपपद्यत इति दर्शयति
SK
कार्यकारणता लोके सान्तर्विपरिवर्तिनः / उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः //
SK
कुम्भकारहृदये अन्तर्मनोगोचरत्वात् पूर्वमपि स्वसंविदेकात्मतया विचित्रत्वेन विश्वस्य भेदाभेदात्मना परिवर्तमानस्य स्पन्दनेन स्फुरतो यत् अन्तःकरणहिष्करणद्वयवेद्यत्वमाभास्यते , एषैव साकार्यकारणता / उभयग्रहणमुपलक्षणम् , यस्य यावति पूर्णार्थक्रिया समाप्तिरिति यावत् / सुखादीनाम् अन्तःकरणैकवेद्यतापादनमेव निर्माणम् / न च कुम्भकारे प्राणपुर्यष्टबुद्धिशून्यदेहप्राये तदेतत् स्थितम् , एतस्यापि जडत्वात् / ततः संविदेव विश्वमात्मनि भासयति शक्तिवैचित्र्यात् / तस्य कस्यापि इति पूर्वमुक्तस्य अचिन्त्यापर्यनुयोज्यमहिम्न इत्यर्थः / नच वाच्यम् उभयेन्द्रियवेद्यत्वमपि सदसद् वा इति / यतोऽयमत्र परमार्थः ---- यथा दर्पणान्तः कुम्भकारनिर्वर्त्यमानघटादिप्रतिबिम्बे दर्पणस्यैव तथाभासनमहिमा , तथा स्वप्नदर्शने संविदः , तथापि तन्महिम्नैव एतेन इदं बहिः स्फुटरूपं क्रियत इत्यभिमान उल्लसति / एवं संविन्महिम्ना कुम्भकृति दण्डचक्रादौ घटे स्थिते तन्महिम्नैव अभिमानो जायते ; यथा मया इदं कृतम् , अनेन इदं कृतम् , मम हृदये स्फुरितम् , अस्य हृदये स्फुरितमिति / तत्र जडस्य मृदादेर्दूरापेतोऽभिमान इति संवित्स्वभावे कर्तृत्वं व्यवस्थाप्यते / ननु भावरूपमेव इत्थं भास्यतां किं द्वयेन्द्रियवेद्यत्वेनोक्तमत्र , स्फुटमर्थक्रियाक्षमं रूपमनेनोक्तम् , ---- इति को विरोधः //४//
SK
अनेन च विचारेण प्रकृतमपि क्रियास्वरूपं सिद्धं भवति , ---- इति दर्शयति
SK
एवम् एका क्रिया सैषा सक्रमान्तर्बहिः स्थितिः / एकस्यैवोभयाकारसहिष्णोरुपपादिता //
SK
सैषेति , यस्याः स्वरूपत आश्रयतश्च नोपपद्यते इति उपालम्भः कृतः , सा उपपत्त्या स्थापिता / यतः संविद्रूपादान्तरात् प्रभृति इन्द्रियगोचरतया बहिष्पर्यन्ततया स्थितिराभासनारूपा , तत एव वेद्यात्मककर्मालिङ्गनेन सक्रमा तावदुपपन्ना , कर्तृकर्मैकाश्रयतादात्म्याच्च एका / स चैक आश्रयः संविद्रूपत्वेन स्वच्छत्वस्वतन्त्रत्वाभ्यामुभयमप्यन्तर्बहीरूपं सहत इति //५//
SK
ननु भवतु घटादावेवं , यत्र तु बीजाङ्जुरादौ चेतनानुप्रवेशो न दृश्यते तत्र कथं बीजस्यैवाङ्कुरः कार्यो न भवति ? इत्याशङ्क्याह
SK
बहिस्तस्यैव तत्कार्यं यदन्तर्यदपेक्षया / प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः //
SK
मातैव कारणं तेन स चाभासद्वयस्थितौ / कार्यस्य स्थित एवैकस्तदेकस्य क्रियोदिता //
SK
अन्तराभासमानस्य तथारूपापरित्यागेनैव बहिराभासनं निर्माणम् / ततश्च यद् वस्तु यमपेक्ष्य अन्तरित्युक्तं तद् वस्तु तस्यैव आन्तररूपविपरिवृत्तिमात्रस्य बहिष्कार्यं बहिष्करणार्हं भवति / संविद्रूपं च प्रमातारमपेक्ष्य अन्तराभासिनो भावास्तदपेक्षयैव बाह्याभासा इति तेनैव एतेषां बहिष्करणाभासनं युक्तम् /
SK
ततश्च प्रमातैव कारणं भवति न जडः / ह्यर्थे चः / यस्मात् स प्रमाता कार्यस्यान्तर्बहिराभासनद्वयनिमित्ततया स्थितस्तेन विना तदपेक्षस्याभासद्वयस्यानुपपत्तेः , तस्मादेकस्य प्रमातुरेव न तु कथंचित् जडस्य उदिता प्रसाधितरूपा क्रिया निर्मातृता भवतीति //७//
SK
एतदेव द्रढयति
SK
अत एवाङ्कुरेऽपीष्टो निमित्तं परमेश्वरः / तदन्यस्यापि बीजादेर्हेतुता नोपपद्यते //
SK
यत एवं चेतन एव निर्माता , अत एव नैयायिकादिभिरङ्कुरादौ बुद्दिमानेव परमेश्वरो हेतुत्वेन इष्टः / ननु तैः निमित्तकारणतास्य अङ्गीकृता क्रियाविभागादिक्रमायातपरमाण्वादिद्वारकतया , समवायिकारणनिजावयवारम्भपरम्परया तु तत ईश्वरादन्यस्यापि बीजभूमिजलादेर्हेतुता कथिता / सत्यम् कथिता , सा तु नोपपद्यते , उक्तयुक्त्या जडस्य हेतुतायोगात् ; ततश्चेश्वर एव बीजभूमिजलाभाससाहित्येनाङ्कुरात्मना भासते , ---- इतीयानत्र परमार्थः //८//
SK
ननुपरिदृष्टबीजादिव्यतिरिक्तबुद्धिमत्कारणकल्पनेन विना किमुपरुध्यत इति परस्य भ्रान्तिं भिन्दन्नाह
SK
तथा हि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया / तत्तन्मृदादिसंस्कारक्रमेण जनयेद् घटम् //
SK
तथा हि इति निदर्शनोपक्रमेण व्याप्तिरेवंभूतैव दृष्टा , ---- इति द्रढयति / जडा हेतवश्चेतनप्रेरिताः कार्यं कुर्वन्ति , मृदादयो यदि हि सन्निधानमात्रेण विदध्युः कुम्भकारेण किमत्र कृत्यम् / शिविकस्तूपकादिपरम्परया ते जनयन्ति ; सा च कुम्भकारायत्ता इति चेत् सिद्धं नः साध्यम् ---- शिविकसंपादने ऽपि ते चेतनप्रेरणामपेक्षन्ते इति / तज्जडकारणानां चेतनप्रेरणामन्तरेण न क्वचित् कार्यकारित्वम् / यदि हि स्यात् मृदादीनामपि स्यात् , इति एकान्त एषः / ततश्च यत् अचेतनं कार्यकारि तत् चेतनापेक्षं मृदादय इव , तथा च वीजादि , ---- इति स्वभावः / अचेतनकार्यकारित्वं हि कादाचित्कत्वात् सनिमित्तम् , न चान्यदस्य निमित्तमुपपद्यते अनुपलम्भात् , इति तत् चेतनप्रेरणं यदि न निमित्तीकुर्यात् व्यापकविरुद्धमनिमित्तकत्वं प्रसज्येत ; न च युक्तं तत् , मृदादावपि तस्यैव प्रसङ्गात् , इति सिद्धा व्याप्तिः / अतश्च कुम्भकदेव तत्रेश्वरः / तदेतदाह ---- ईश्वररूपया व्यवस्थया यः स स मृद्दण्डचक्रादीनां संस्कारः , मृदो मर्दनं , दण्डस्य प्रगुणत्वं , चक्रस्य परिवर्तनम् इत्यादिः , तदारम्भो यः क्रमः शिविकस्तूपकादिरूपः , तेन घटं नियोगतो जनयति , नान्यथा , ---- नियोगे लिङ् / किं च यदि न क्रुध्यते वस्तुतः कुम्भकारोऽपि ऐश्वर्यैव स्वतन्त्रविश्वात्मतारूपया व्यवस्थया मृदादिसंस्कारापेक्षया प्रदर्शितनियत्यभिधाननिजशक्तिविजृम्भातो जनयेत् ; अन्यथा अचेतना मृदादयः कथं कुम्भकारेच्छामनुरुध्येरन् , तन्तवो ऽपि वा पटसंपादनेच्छां किं नाद्रियेतन् / तदेतदपि उक्तम् अनेनैव सूत्रेण तथा हि इति / नन्वेवं कुम्भकृतो नास्ति कर्तृत्वम् , ---- इति समुत्सीदेत् धर्माधर्मव्यवस्था / यदि प्रत्येषि युक्त्यागमयोः तदेवमेव / तथापि समस्तेतरनिर्माणमध्य एव इदमपि परमेश्वरेणैव निर्मितं यदविचलस्तस्य कुम्भकारपशोर्मिथ्याकर्तृत्वाभिमानः प्रतिभुव इव अधमर्णताभिमानः / यदि पुनरीश्वरस्येच्छैव इयमीदृशी मा अस्य अभिमानोऽयम् उद्गमत् इति , तदा नासौ कर्ता कश्चित् / तदिदमपि उक्तं सूतेर्णैव तथा हि इति / कुम्भकारस्यापि मृदादिसंस्कार क्रमेण किं घटं जनयामि , उत न जनयामि इति य एकपक्षनिश्चयाय संप्रश्नात्मा विचारः , स ईश्वरसंनम्धिन एव विविधात् स्वरूपावच्छादनतत्त्वप्रकाशनरूपात् अवस्थानात् , ---- इति संप्रश्ने लिङ् / तस्मात् वस्तुत ईश्वर एव सर्वत्र कर्ता , अहं च स एव इति न परिमिते कर्ता , अपि तु सर्वत्र कर्ता , ---- इति एतावति सर्वथा हृदयेन अवधातव्यम् इति स्थितम् //९//
SK
दृश्यते ऽस्य चेतनस्य स्वातन्त्र्यमेव सर्वत्र जम्भमाणं जडानपि यत् स्वात्मतामापादयति , न तु जडानां वस्त्वन्तराविष्करणे सामर्थ्यम् , ---- इति यदुक्तं , तत् सर्ववादिप्रसिद्धनिदर्शनेन द्रढयति
SK
योगिनामपि मृद्बीजे विनैवेच्छावशेन तत् / घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम् //
SK
यदिह चेतनप्रेरितं कारणम् इति प्रसिद्धं मृदादि , यच्च तदनपेक्षं बीजादि घटआदेरङ्कुरादेश्च जनकं , तदेव यदि परमार्थतः कारणं स्यात् तत् तद्व्यतिरेकेण घटाङ्कुरादेः कथं योगीच्छामात्रेण जन्म स्यात् , अकारणकत्वप्रसङ्गात् तेषां वा अकारणत्वप्रसंगात् / अथोच्यते ---- अन्ये एव ते घटाङ्कुरादयो मृद्धीजादिजन्याः , अन्ये एव च योगीच्छादिजन्याः , ---- इति , तत्रापि प्रबोध्यसे ---- विमर्शाभेदात् तावदभेद , ---- इति पूर्वमेव उक्तम् ; तत्रापि योगी खलु अप्रतिहतेच्छः , तस्य च इच्छा तादृगेव घटो भवतु यो मृदादिकृतकुम्भसंभवभूर्यर्थक्रियाकरणचतुरवृत्तिरिति / तदेतदाह ---- तस्य तस्य स्थिरस्य अर्थक्रियाविशेषस्य करणे हेतुतच्छीलानुकूलरूपं घटादि जायते , ---- इति / ये त्वाहुः ---- नोपादानं विना घटाद्युत्पत्तिः , योगी तु इच्छया परमाणून् पश्यन् संघट्टयतीति / ते वाच्याः ---- यदि खलु अन्वयव्यतिरेकागमादिपरिदृष्टः कार्यकारणभावो योगिषु न विपर्येति , ---- इति हृदयमावर्जयति वः तत् किं परमाणुग्रहेण ; नो चेत् घटस्य कपालानि शरीरस्य स्वावयवाः , तेषां निजं निजं प्रसिद्धं तृणशस्तिलशो ऽपि अन्यथाभवबनसहमानं लौकिकमेव कारणम् , इति घटे मृद्दण्डचक्रादि , देहे स्त्रीपुरुषसंयोगादि उभयमपेक्ष्यं देहादिसंभवो दुःसमर्थ एव / चेतन एव तु तथा तथा भवति / भगवान् भूरिभर्गो महादेवो नियत्यनुवर्तनोल्लङ्घनतरस्वातन्त्र्यः , ---- इत्यत्र पक्षे नियत्यनुवर्तिनः लौकिके प्रसिद्धे कार्यकारणभावे स्वातन्त्र्यं , तदुल्लङ्घनमाद्रियमाणस्य तु योगिप्रायप्रसिद्धे लोकोत्तरे , ---- इति न कश्चित् विरोधः / इयांश्च लोके एव / परमार्थतस्तु स एव क्रमाक्रमरूपविश्वसृष्ट्यादिक्र्ट्यपञ्चकप्रपञ्चस्वभावः प्रकाशते / चेतनो हि स्वात्मदर्पणे भावान् प्रतिबिम्बवदाभासयति इति सिद्धान्तः / यदाह पूर्वगुरुः
SK
{निरुपादानसंभारमभित्तावेव तन्वते / जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने //}(स्तवचि. ९ श्लो.)
SK
इति //१०//
SK
ननु यदि प्रसिद्धकारणोल्लङ्घनेनापि तत्कार्यविशेषतुल्यवृत्तान्येव कार्याणि जायन्ते , भग्नास्तर्हि अनुमानकथाः / तथा हि मथमन्यदन्यत्र नियमवद्भवेत् इत्याशङ्क्य प्रामाणिकतरम्मन्यैस्तादात्म्यतदुत्पत्ती नियमनिदानमुपगते / न हि निःस्वभावं वस्तु भवति , नापि भिन्नस्वभावं स्वभावभेदेन भेदात् / पर्यायशस्तत्स्वभावद्वयाभावे च निःस्वभावताप्रसङ्गात् / एवं निर्हेतुके भिन्नहेतुके च कार्ये वाच्यम् / उभयत्रापि च हेतुकृतैव व्यवस्था / स्वहेतुत एव हि शिंशपा वृक्षस्वभावाव्यभिचारिणी जाता , स्वहेतुतश्च हुतभुग्धूमजननस्वभावः , तदिदानीं नियत्युल्लङ्घिनि कार्यकारणभावे सर्वमिदं विघटेत / योगीच्छया हि शिंशपापि अवृक्षस्वभावा भवेत् , धूमे तु द्विगुणं चोद्यम् ; अग्न्यादिसामग्री योगीच्छोद्भूता धूमं न जनयेत् , योगीच्छा वा अनग्निकं धूमम् , ---- इति न स्यादनुमानम् , अस्ति च तल्लोके , इत्याशङ्क्याह
SK
योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते / कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः //
SK
योगीच्छापि सर्वथा तादृशमेव न तु वृश्चिकगोमयादिसंभूतवृश्चिकादिन्यायेन कथंचित् रसवीर्यादिना भिन्नं कार्यं जनयति , ---- इति यत् कथितमत एवास्य्मादेव हेतोः कार्यं वा धूमादि अग्न्याद्यनुमाने , शिंशपात्वादिस्वभावो वा वृक्षत्वाद्यनुमाने एवं हेतुर्भवति / यदि प्रमाणान्तरेण एवानुमाने जन्मान्तराभ्यासलोकप्रसिद्ध्यादिकमवश्योपजीव्यम् , सा च श्रुतानुमानप्रज्ञयोर्बीजम् , ---- इति च ऋतंभराविषयमुवाच पतञ्जलिः / अन्ये च यौक्तिका योगिप्रत्यक्षकल्पप्रत्यक्षसद्भावं समस्तवस्तुग्रहणाय कल्पितवन्तः / सांव्यवहारिके च प्रमाणे नास्माकं भरः , प्रकृतं हि अस्माकमीश्वरस्वरूपम् , तच्च स्वप्रकाशमेव , प्रमेयोपरोधे ऽपि नोपरुध्यत इत्युक्तमसकृत् / ननु स्वभावहेतौ किमन्या चिन्तया ? , आह ---- वृक्षत्वाव्यभिचारिण्याः शिंशपाया उत्पत्तेर्यन्मूलं कारणं तत एव स सन्मात्रानुबन्धी स्वभावो जायते , ---- इति ; ततश्च
SK
{एकसामग्र्यधीनस्य रूपादे रसतो गतिः / हेतुधर्मानुमानेन धूमेन्धनविकारवत् //}
SK
इति स्वभावहेतुर्न्यायः / ननु च वृश्चिकादीनां कीटगोमयाद्यनेककारणकत्वं तावत् दृष्टं , रसवीर्यादिभेदस्तु तत्र , ---- इत्यन्यदेतत् / तद्योगिजन्यत्वम्वह्निकस्यापि धूमस्य सह्यं नाम , स्वभावस्य तु कथं विपर्याससंभावना / न हि नीलं सदेवानीलं योगीच्छया भवति , ---- इति कश्चित् प्रामाणिकः प्रतीयात् / उच्यते / इह द्विविधो हि स्वभावहेतुरन्तर्लीनकार्यकारणभावस्तद्विपरीतश्च ; वह्निमानयं पर्वतो धूमवत्त्वात् इति , अनित्यो ऽयं कृतकत्वात् इति / तत्र आद्यस्य तावत् कार्यकारणभाव एष मूलम् ---- इति किं तत्रोच्यते / अपरस्तु विचार्यते , यदि तावत् कृतकत्वस्य कारणायत्तत्वं नाम स्वभावः कथम् अभवनपरिच्छिन्नभवनस्वभावता नामानित्यत्वं स्वभावः स्यात् आभासभेदात् / अभेदे तु आभासस्य हेतुसिद्धावेव साध्यस्य सिद्धत्वात् , यदि परं व्यवहारः साध्यते , तरुरयं वृक्षत्वात् , ---- इति न्यायेन , व्यवहारश्च ज्ञानाभिधानात्मा कार्यं एव , तत्र च नियतिशक्तिरङ्गीक्र्टा भवतापि / तस्मात् सर्वेषु स्वभावहेतुष्वाभासभेदं विना व्यवहारमात्रसाधनमेव , हेत्वाभासमयत्वादेवानधिको हि तत्र साध्याभासः , व्यावृत्तीनामेषैव वार्ता , सामान्यानामियमेव सरणिः / तस्मात् नियतः शिंशपाभासवृक्षाभासयोः पूर्वनीत्या सामानाधिकरण्याभासो हेतुबलात् ! ततः स्वभावोऽयं हेतुहेतुमद्भावमूल एव , तत एव सामान्येनेदमुक्तं द्रष्टव्यं ---- सर्वः स्वभावहेतुरुत्पत्तिमूलजः , ---- इति / आभासा एव च वस्तु , ---- इति च समर्थितं प्राक् / ततश्च शिंशपायामेकस्यामेव सृज्यमानायां शाखादिमदर्थान्तराणामसृष्टेर्वृक्षाभासस्य सामान्यात्मनः साध्यस्य नामापि नास्ति , ---- इति संभाव्यत एव / यत्तु तदेकरूपं विशिष्टं वृक्षत्वं तत् खलु शिंशपात्वमेव तच्च सिद्धम् , ---- इति न साध्यम् / कारणायत्तमिदम् , ---- इत्याभासे ऽपि न स्यादनित्यताभासः / एवमर्थक्रियाकारित्वाभावे ऽपि क्षणिकत्वाभासाभावः इति नियत्यपेक्षयैव सर्वे स्वभावहेतवो नान्यथा , ---- इत्येकान्त एषः //११//
SK
नन्वाभासवस्तुत्ववादे ऽनाभातसय् अग्नेरवस्तुत्वम् , ---- इत्यनाभातेन कथं धूमो जन्यते , ततश्च धूमादग्नेः कारणस्य कथमनुमानम् ? इत्याशङ्क्य सम्रथयितुमाह
SK
भूयस्तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत् / परोक्षादप्यधिपतेर्धूमाभासादि नूतनम् //
SK
एकवारं तावत् महानसे प्रत्यक्षानुपलम्भबलेनाग्न्याभासधूमाभासयोः कार्यकारणभावो गृहीतः / तत्र विज्ञानवादिनो दर्शने प्रतिसन्तानमन्यश्चान्यश्चाभासः , ---- इति स्वाभासयोरेव कार्यकारणता गृहीता न तु सन्तानान्तरगतयोस्तदीयवृत्तान्तस्यासंवेदनात् / ततश्चेदानीमनुमानं न भवेत् स्वसन्तानगतात् धूमाभासात् क्रिमिसर्वज्ञादिप्रमातृसन्तानान्तरनिष्ठस्याग्न्याभासस्य इति निश्चयः / इह तु दर्शने व्याप्तिग्रहणावस्थायां यावन्तस्तद्देशसंभाव्यमानसद्भावाः प्रमातारस्तावतामेकोऽसौ धूमाभासश्च वह्न्याभासश्च वाह्यनये इव , तावति तेषां परमेश्वरेणैक्यं निर्मितम् , ---- इति हि उक्तम् / ततः स्वपरसन्तानविशेषत्यागेन धूमाभासमात्रं वह्न्याभासमात्रस्य कार्यम् , ---- इति व्याप्तौ गृहीतायां भूयोऽपि पर्वते यो धूमाभासः सो ऽपि अग्न्याभासादेव इति व्याप्तिं स्मृत्वानुइमिमीते अत्र पर्वते अग्न्याभासः इति / तावति धूमाभासविशेषे प्रमात्रन्तरैः सहैकीभूय वह्न्याभाससामान्यांशे परोक्षरूपांशसहिते विशेषाभासान्तरविविक्ते प्रमात्रन्तरैः साकमेकीभवति , इति यावत् / भूय इति व्याप्तिं गृहीत्वा पुनरपि यो धूमाभासः , आदिग्रहणादङ्कुराभासादिर्गृह्यते सोऽप्याभासो नूतनो ऽपूर्वो न तु धूमजधूमवदप्रत्यग्रः / स च अधिपतेरसंचेत्यमानात् वह्न्याभासात् बीजाभासादेव वा भवेत् तत एव जनितुं शक्नोति नान्यतः / शकि लिङ् / स चाभासस्तेषु तेषु प्रमातृष्वेक एव , अनेकत्वे न तु युज्यते एवैतदित्याशयः / यतश्च स एकोऽधिपतिश्च वह्न्याभासो धूमकारणं , ततो धूमाभासोऽस्यैवाग्न्याभासस्याव्यभिचारितं कार्यं लिङ्गं योगिकृतत्वाभावे निश्चिते सति , ---- इति तस्मात् कार्यात् सो ऽनुमीयते यतः परोक्षो ऽसावधिपतित्वादेव //१२//
SK
नन्वेवं गोपालघटिकान्तरालचिरोषितनिर्गतादपि धूमाभासात् स्यात् वह्न्याभासानुमानम् , ---- इत्याशङ्क्याह
SK
कार्यमव्यभिचार्यस्य लिङ्गमन्यप्रमातृगात् / तदाभासस्तदाभासादेव त्वधिपतेः परः //
SK
परो नूतनादन्यो यो धूमाभासः स धूमाभासादेव प्रमात्रन्तरवर्तिनोऽधिपतिरूपात् परोक्षात् , ---- इति तथाभूतात् धूमाभासात् कथमकारणभूतो वह्न्याभासोऽनुमीयताम् इत्यभिप्रायशेषः / कुशलाश्च लक्षयन्त्येव विवेकम् , अस्यार्थस्यानुमानिकथहुतरव्यवहारोपयोगिनो यत्नेन व्युत्पत्तिः कार्या , ---- इत्याशयेन नूतनमिति यत्सूचितं तदेव व्यवच्छेद्यद्वारेण स्फुटीकृतम् //१३//
SK
ननु चैवं धूमाभासो वह्न्याभासात् , ---- इत्यङ्गीकृतं चेत् तर्हि चेतनस्यैव कर्तृत्वम् , ---- इति यदुक्तं तत् कथं ? तथाहि वीजे सत्यङ्कुरो भवति इति यदेतत् दृष्टं धूमाग्निवदेव तत् कथमनादरास्पदम् ? इत्याशङ्क्याह
SK
अस्मिन् सतीदमस्तीति कार्यकारणतापि या / साप्यपेक्षाविहीनानां जाडानां नोपपद्यते //
SK
एक एव भावस्तावत् न कार्यकारणभावः , भावद्वयमपि च न युगपद्भावि कार्यकार.अनरूपं घटपटवत् , क्रमभाव्यपि नानियतक्रमकं नीलपीतादिज्ञानवत् , नियतक्रमिकत्वे ऽपि न पूर्वभावि कार्यमुत्तरकालभावि च कारणम् , ---- इत्येवं नियतपूर्वभावं कारणं नियतपरभावं च कार्यम् , ---- इति परस्य तावन्मतम् / तत्र स्वरूपादनधिका चेत् पूर्वता परता च तत् भावद्वयमात्रं स च स च , ---- इति / चार्थो ऽपि वा न कश्चित् तस्याप्यपेक्षारूपत्वात् स स इत्येव हि स्यात् / अथ पूर्वता नाम प्रयोजकसत्ताकत्वं परता च प्रयोज्यसत्ताकत्वं तर्हि वीजस्याङ्कुरप्रयोक्त्री सत्ता अङ्कुरविश्रान्ता अङ्कुरान्तर्भावमात्मन्यानयति , अङ्कुराभावे प्रयोक्तृत्वमात्रं स्यात् तदपि न किंचित् अन्यापेक्षत्वात् तस्य / एवं प्रयोज्यसत्ताकेऽपि वक्तव्यम् / एवं न केवलं भावमात्रमेव कार्यकारणता इत्यादयः पक्षा नोपपन्ना , यावत् इदमस्ति इति भाव्यमानविभक्त्या प्रयोज्यसत्ताकत्वम् , ---- इत्येवं रूपापि या कार्यकारणता सापि नोपपद्यते प्रमाणेन न संभवति जडानाम् , अन्योन्यापेक्षा हि अत्र जीवितं सा च जडानां न संभवति //१४//
SK
कथम् ? इति चेत् उच्यते
SK
न हि स्वात्मैकनिष्ठानामनुसन्धानवर्जिनाम् / सदसत्तापदेऽप्येष सप्तम्यर्थः प्रकल्प्यते //
SK
जडाः किलान्योन्यरूपमनुसन्धातुमप्रभविष्णवः , अन्योन्यानुसंधानरूपत्वं जडविरुद्धेन चैतन्येन व्याप्तम् , अनुसंधानं चापेक्षा चैतन्यस्वरूपमेव , अन्यत्र तु सोपचरिता / अतो ऽनुसन्धानविहीनत्वाज्जडो भावः स्वात्ममात्रविश्रान्तिसन्तोषसंकुचितशरीरः कथं परत्र प्रसरेत् / ततश्च यदि बीजं सदङ्कुरोऽसन् अथापि विपर्यय उभयमपि वा सत् यदि वासत् , अथापि एकं सोपाख्यमन्यत् निरुपाख्यम् , द्वयमपि वा सोपाख्यं निरुपाख्यं वा , तथापि प्रातिपदिकार्थमात्रं धर्मान्तर्रेण समुच्चयादिनाप्यनालिङ्गितमवतिष्ठते , तस्य समस्तस्यापेक्षारूपत्वेन चैतन्यविश्रान्तत्वात् //१५//
SK
यस्यादचेतनेषु नापेक्षोपपद्यते
SK
अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः / क्रियाकारकभावाख्यो युक्तो भावसमन्वयः //
SK
सप्तमीरूपाया विभक्तेरन्यस्या अपि वा योऽर्थः क्रियाकारकभावलक्षणः स एव तावद्भावानां समन्वयो नान्यः शुष्कः कश्चित् / स च यदि स्वतन्त्रे चिद्रूपे भावद्वयं विश्राम्यति तदोपपद्यते , अन्यथा तु न कथंचित् / तथा हि विकल्पेनापि असौ व्यवह्रियमाणो न वस्तुनिष्ठतयोपपद्यते , वस्त्वनुसरणप्राणो हि विकल्पो ऽनुभवानुसारितयैव भवति , सा चेह नास्ति वस्त्वप्रभवत्वेन , वस्त्वनुसारी हि अनुभवो , वस्तु च स्यात्मनिष्ठम् ---- इत्युक्तम् / तस्मात् बीजे सति अङ्कुरो , बह्नौ सति धूमः , ---- इति च स्वत्रन्त्रचिद्रूपप्रमातृविश्रान्तत्वे सर्वमेतद्युज्यते नान्यथा , इति //१६//
SK
ननु प्रयोज्यप्रयोजकसत्ताकतालक्षणापेक्षा यदि स्वात्मैकनिष्ठत्वे नोपपद्यते , तर्हि कार्यकारणयोस्तादात्म्यवादिनां सांख्यानां मते सा संभवत्येव , तत् किं चैतम्यविजृम्भात्मककर्तृवादसमर्थनेन ? इत्याशङ्क्याह
SK
परस्परस्वभावत्वे कार्यकारणयोरपि / एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता //
SK
यदि बीजस्याङ्कुरः स्व्भावस्तर्हि अङ्कुर एव न बीजं स्यात् किंचित् विपर्ययो वा स्यात् , ---- इति किं कारणं किं वा कार्यम् ; अथ अन्यद्वीजमङ्कुरोऽन्यः , तर्हि न परस्परात्मकत्वम् , भेदाभेदौ हि एकदैकविषयौ विरुद्धावेव //१७//
SK
नन्वेवमपि बीजमङ्कुरादिविचित्रमवभातं दीर्घदीर्घपरामर्शशालिभिः स्रोतोवदविच्छिन्नस्वरूपमेव निर्बाधं प्रत्यवमृश्यते / तथा च क्व गतं वीजम् , ---- इति प्रश्ने वक्तारो भवन्ति , न कुत्रचित् गतमङ्कुरात्मना वर्तते , अङ्कुरीभूतमयमङ्कुरस्तत् इति / एवं प्रधानं महदादिधरान्तीभूतं यावद्विततीभूतमनन्तसर्गप्रलयपरम्परात्मतां प्राप्तम् , ---- इति विततग्राहिणी प्रतीतिः / भागाभिनिवेशवशात् तु कारणकार्यतापरिकल्पनं तस्यैव भावस्य विशसनप्रायम् , ---- इत्याशङ्क्याह
SK
एकात्मनो विभेदश्च क्रिया कालक्रमानुगा / तथा स्यात् कर्तृतैवैवं तथापरिणमत् तया //
SK
इह दीर्घदर्शिना प्रत्यक्षानुमानागमान्यतमप्रमाणमूलां प्रत्यभिज्ञामाश्रित्य तदेवेदं सुखदुःखमोहसाम्यमनन्तप्रकारवैषम्यावलम्बनेन विश्वीभूतम् , ---- इति समर्थ्यते / तत्र प्रत्यभिज्ञानबलेन यदेकात्मकमेकस्वभावं तस्य यो भेदोऽन्यान्यरूपता इयमेव सा क्रियोच्यते , यतः काललक्षणेन क्रमेणानुगता , ते हि अन्यान्यस्वभावा युगपत् न भान्ति , पूर्वापरीभूतरूपतैव च क्रियोच्यते / यत एवं क्रिया तथा इति तेन प्रकारेण प्रधानादेः क्रियाविशेषलक्षणेन कर्तृतैव स्यात् , नतु शुष्कं कारणतामात्रं , यतो हेतोः तथा इति तेन तेन महदादिप्रकारेण सततमेव क्रिमिकां तथाभासनरूपां परिणामलक्षणां क्रियामाविशतः परिणमत्ता किंचिद्रूपं परिवर्ज्य त्यक्त्वा व्यावर्त्यमनुवर्तनीयं च व्यवस्थाप्य निर्वर्त्यमानतृतीयरूपप्रह्वता प्रधानादेस्तथा हेतुभूतया //१८//
SK
ननु प्रधानं परिणामक्रियायां कर्तृरूपमियता समर्थितम् , ---- इति को दोषो , न हि पुरुषवदस्याकर्तृत्वमिष्यते ? इत्याशङ्क्याह
SK
न च युक्तं जडस्यैवं भेदाभेदविरोधतः / आभासभेदादेकत्र चिदात्मनि तु युज्यते //
SK
एवमित्यभिन्नरूपस्य धर्मिणः सततप्रवहद्धर्मभेदसंभेदस्वातन्त्र्यलक्षणं परिणमनक्रियाकर्तृकत्वं यदुक्तं तत् प्रधानादेर्न युक्तं जडत्वात् , जडो हि नाम परिनिष्ठितस्वभावः प्रमेयपदपतितः स च रूपभेदाद्भिन्नो व्यवस्थापनीयो नीलपीतादिवत् , एकस्यभाववत्त्वाच्चाभिन्नो नीलवत् , न तु स एव स्वभावो भिन्नश्चाभिन्नश्च भवितुमर्हति विधिनिषेधयोरेकत्रैकदा विरोधात् / कश्चित् स्वभावो भिन्नः कश्चित् त्वभिन्नः , ---- इति चेत् , द्वौ तर्हि इमौ स्वभावावेकस्य स्वभावस्य भवेताम् , न चैवं युक्तं
SK
{भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु /}
SK
इति न्यायात् / एवं जडस्य इदम् इति परिनिष्ठितामासतया सर्वतः परिच्छिन्नरूपत्वेन प्रमेयपदपतितस्य नायं स्वभावभेद एकत्वे सत्युपपद्यते / यत्तु प्रमेयदशापतितं न भवति किं तु चिद्रूपतया प्रकाशपरमार्थरूपं चिदेकस्वभावं स्वच्छम् , तत्र भेदाभेदरूपतोपलभ्यते ; अनुभवादेव हि स्वच्छस्यादर्शादेरखण्डितस्वस्वभावस्यैव पर्वतमतङ्गजादिरूपसहस्रसंभिन्नं वपुरुपपद्यते / न च रजतद्विचन्द्रादि यथा शुक्तिकैकचन्द्ररूपतिरोधानेन वर्तते , तथा दर्पणे पर्वतादि / दर्पणस्य हि तथावभासे दर्पणतैव सुतरामुन्मीलति ---- निर्मलोऽयमुत्कृष्टो ऽयं दर्पणः इत्यभिमानात् / न हि पर्वतो बाह्यस्तत्र संक्रामति स्वदेशत्यागप्रसङ्गादस्य , न चास्य पृष्ठेऽसौ भाति दर्पणानवभासप्रङ्गात् , न च मध्ये निविडकठिनसप्रतिधस्वभावस्य तत्रानुप्रवेशसंभावनाभावात् , न पश्चात् तत्रादर्शनात् दूरतयैव च भासनात् , न च तन्निपतनोत्फलितप्रत्यावृत्ताश्चाक्षुषा मयूस्वाः पर्वतमेव गृह्णन्ति , बिम्बप्रतिबिम्बयोरुभयोरपि पर्वतपार्श्वगतदर्पणाभासे ऽवलोकनात् / तस्मात् निर्मलतामाहात्म्यमेतत् यदनन्तावभाससंभेदश्चैकता च / गिरिशिखरोपरिवर्तिनश्चैकत्रैव बोधे नगरगतपरार्थसहस्राभासः , ---- इति चिद्रूपस्यैव कर्तृत्वमुपपन्नम् . अभिन्नस्य भेदावेशसहिष्णुत्वेन क्रियाशक्त्यावेशसंभवात् //१९//
SK
नन्वेतावता विज्ञानमेव ब्रह्मरूपमिमां विश्वरूपतावैचित्रीं परिगृह्णातु किमीश्वरताकल्पनेन इत्याशङ्क्याह
SK
वास्तवेऽपि चिदेकत्वे न स्यादाभासभिन्नयोः / चिकीर्षालक्षणैकत्वपरामर्शं विना क्रिया //
SK
चिद्रूपस्यैकत्वं यदि वास्तवं भेदः पुनरयमविद्योपप्लवात् , ---- इत्युच्यते तदा कस्यायमविद्योपप्लवः , ---- इति न संगच्छते ब्रह्मणो हि विद्यैकरूपस्य कथमविद्यारूपता , न चान्यः कश्चितस्ति वस्तुतो जीवादिर्यस्याविद्या भवेत् / अनिर्वाच्येयमविद्या , ---- इति चेत् , कस्य अनिर्वाच्या , ---- इति न विद्मः ; स्वरूपेण च भाति , न चानिर्वाच्या , ---- इति किमेतत् ? ; युक्त्या नोपपद्यते , ---- इति चेत् संवेदतिरस्कारिणी का खलु युक्तिर्नाम , अनुपपत्तिश्च भासमानस्य कान्या भविष्यति / सद्रूपमेव ब्रह्माभिन्नं चकास्त्यविकल्पके , विकल्पबलात्तु भेदो ऽयम् , ---- इति चेत् , कस्यायं विकल्पनव्यापारो नाम ? ब्रह्मणश्चेत् , अविद्यायोगे न च अन्योऽस्ति ; अविकल्पलं च सत्यं विकल्पकमसत्यम् , ---- इति कुतो विभागो भासमानत्वस्याविशेषात् / भासमानोऽपि भेदो बाधितः , ---- इति चेत् , अभेदोऽपि एवम् , भेदभासनेन तस्य बाधात् / विपरीतसंवेदनोदय एव हि बाधो नान्यः कश्चित् / बाधोऽपि च भासमानत्वादेव सन् नान्यतः , ---- इति भेदोऽपि भासमानः कथमविद्या / भासनमवधीर्य आगमप्रमाणको ऽयमभेदः ---- इति चेत् आगमो ऽपि भेदात्मक एव वस्तुभूतः प्रमातृप्रमाणप्रमेयविभागश्च , ---- इति न किंचिदेतत् / तस्मात् वास्तवं चिदेकत्वमभ्युपगम्यापि तस्य कर्तृत्वलक्स्.अणा भिन्नरूपसमावेशात्मिका क्रिया नोपपद्यते ; परामर्शस्वरूपं तु स्वातन्त्र्यं यदि भवति तदोपपद्यते सर्वम् / परामर्शो हि चिकीर्षारूपेच्छा , तस्यां च सर्वमन्तर्भूतं निर्मातव्यमभेदकल्पेनास्ते , ---- इत्युक्तं
SK
{स्वामिनश्चात्मसंस्थास्य ......... /}(Iप्क् १,५.१०)
SK
इत्यत्र / तेन स्वात्मरूपमेव विश्वं सत्यरूपं प्रकाशात्मतापरमार्थमत्रुटितप्रकाशाभेदमेव सत् प्रकाशपरमार्थेनैव भेदेन भासयति महेश्वरः , ---- इति तदेवास्यातिदुर्घटकारित्वलक्षणं स्वातन्त्र्यमैश्वर्यमुच्यते / आभासभिन्नयोरिति क्रियापेक्षा संबन्धसामान्ये षष्ठी , पश्चाद्ययोचितं विभज्यते / आभासेन भिन्नौ जडाजडाभासौ , जडो घटादिः कर्मरूपश्चिदाभासः कर्तृरूपः , ---- इति तयोः क्रिया , एकस्य क्रियमाणत्वमपरस्य कर्तृत्वं न भवेत् / चिकीर्षारूपेण निर्मातव्याभेदपरामर्शात्मना विना एका चासौ क्रिया कथं भिन्नयोः स्वभावभूता भवेत् / कार्यकारणताप्रस्तावात् कर्तृकर्मणी उक्ते , कारकान्तराण्यपि तु एककर्तृत्वानुप्रवेशीनि परमार्थतोऽन्यथा करणादौ भिन्ने कारकव्राते कथमभिन्ना सा / यदि वा आभासेन यौ भिन्नौ जडचेतनौ तयोर्या चिकीर्षा एकस्येष्यमाणता , परस्यैषितृता तस्स्वभावमेकत्वपरामर्शं विना , ---- इति / यद्वा आभासभिन्नयोः अहमिदम् इति यः परामर्श एकविश्रान्तिरूपश्चिकीर्षात्मा तं विना , ---- इति / आभासभिन्नयोरेकपरामर्शं विना चिकीर्षालक्षणा कथं क्रिया , ---- इति वा / एवं क्रियां वा चिकीर्षां वा परामर्शं वा अपेक्ष्य ष्.अष्ठी , नित्यसापेक्षत्वाच्च समासः //२०//
SK
एतत् उपसंहरति
SK
इत्थं तथा घटपटाद्याभासजगदात्मना / तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया //
SK
यथा न जडस्य कारणता न कर्तृता , तथानीश्वरस्य चेतनस्यापि , इत्यनेनैव हेतुताप्रकारेणेदं जातं यत् य एव तथा चिकीर्षुस्तस्यैव सा चिकीर्षा बहिष्पर्यन्ततां प्राप्ता क्रिया इत्यभिधीयते , सैव च कर्तृता तदेव च हेतुत्वं नान्यत् किंचित् / तेन घटस्तिष्ठति इत्ययमर्थः ---- घटात्मना तिष्ठासुः स्वातन्त्र्यात् स्थानमभ्युपगच्छन् न तु तद्रूपमसहमानो यो महेश्वरः प्रकाशः स तिष्ठति ---- इति / घटपटाद्याभासरूपं यत्किल जगत् तदात्मना यः तथा इति तेन तेन तज्जगद्गतजन्मस्थित्यादिभावविकारतद्भेदक्रियासहस्ररूपेण यः स्थातुमिच्छुः स्वतन्त्रः , तस्य या एवमिति विचित्ररूपेच्छा सैव क्रिया , ---- इति संबन्धः / तेन महेश्वर एव भगवान् विश्वकर्ता , ---- इति शिवम् //२१//
SK
इति श्रीमदाचार्योत्पलदेवचिरचितायामीश्वरप्रत्यभिज्ञाजां श्रीमदाचार्याभिनवगुप्तकृतविमर्शिन्याख्यटीकोपेतायां क्रियाधिकारे कार्यकारणतत्त्वनिरूपणं नाम चतुर्थमाह्निकम् // ४ //
SK
सम्पूर्णश्चायं क्रियाधिकारो नाम द्वितीयो विमर्शः // २ //
SK
आगमाधिकारे प्रथममाह्निकम् /
SK
[विमर्शिनी]
SK
{यं प्राप्य सर्वागमसिन्दुसङ्घः पूर्णत्वमभ्येति कृतार्थतां च / तं नौभ्यहं शांभवतत्त्वचिन्तारत्नौधसारं परमागमाब्धिम् //
SK
श्रीमत्सदाशिवोदारप्रारम्भं वसुधान्तजम् / यदन्तर्भाति तत्त्वानां चक्रं तं संस्तुमः शिवम् //}
SK
एवमधिकारद्वयेन ज्ञानक्रियास्वरूपं वितत्य निर्णीतम् / अथेदं वक्तव्यं क्रिया नाम विश्वपदार्थावभासलक्षणा इत्युक्तं समनन्तरमेव , के च ते विश्वे पदार्थाः , इति / तत्राभासरूपा एव जडचेतनलक्षणाः पदार्थास्ते च क्रियता रूपेण संगृह्यन्ते , नहि प्रत्यक्षं मायाप्रमातुः सर्वत्र क्रमते / अनुमानमप्येवम् , न हि यद्यदस्ति तत्र तत्र लिङ्गव्याप्त्यादिग्रहणसंभवः / आगमस्त्वपरिच्छिन्नप्रकाशात्मकमाहेश्वरविमर्शपरमार्थः किं न पश्येत् , इति तदनुसारेण पदार्थनिर्णयं विश्वप्रमेयीकरणप्रतिलब्धतद्विश्वोत्तीर्णप्रमातृपदहृदयङ्गमीकाराभिप्रायेण निरूपयितुमाचार्य आगमाधिकारं तृतीयमारभते /
SK
तत्र श्लोकैकादशकेन एवमन्तर्बहिर्वृत्तिः इत्यादिना स्थूलसूक्ष्मत्यभेदतः इत्यन्तेनागमसिद्धं शिवादिधरणीप्रान्तमेकैकाभासरूपतात्मकं दर्शनान्तरे सामान्यम् इति यद्व्यवहृतं , यस्य सामानाधिकरण्ययोगादनन्तस्वलक्षणावभासनव्यूहविशेषपूर्वकः समस्तो ऽयं शरीरभुवनादिविभवः , तं परमेश्वरागमसिद्धं युक्त्याप्यवगतं प्रत्येकतस्तत्त्वग्रामं दर्शयति इत्याह्निकतात्पर्यम् /
SK
तत्राधिकारसंगतिं योजयन् पूर्वपक्षप्रतिक्षेपं चोपसंहरन् शिवतत्त्वस्वरूपमेव दर्शयितुमाह
SK
एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा / मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी //
SK
एवमिति , यतः परदर्शनोक्तः कार्यकारणभावो जडरूपप्रतिष्ठो न कथंचिदुपपन्नः , किन्तु चिद्रूप एवान्तर्बहिरात्मना प्रकाशपरमार्थेनापि वपुषा तथाभासनरूपेण वर्तमानः कालक्रममाक्षिपन् क्रियाभिधीयते , तस्य प्रमातुरेव ज्ञानशक्तिवपुषो धर्मस्तत् इति / तस्मादवियुक्तं ज्ञानं क्रिया च / ज्ञानं विमर्शानुप्राणितम् , विमर्श एव च क्रियेति / न च ज्ञानशक्तिविहीनस्य क्रियायोगः इति / तदेतदवियुक्तज्ञानक्रियारूपं क्रियाद्वारेण सकलतत्त्वराशिगतसृष्टिसंहारशतप्रतिबिम्बसहिष्णु यत् तदुपदेशभावनादिषु तथाभासमानमनाभासमपि वस्तुतः शिवतत्त्वमित्युक्तं भवति //१//
SK
नन्येवंभूतं शिवतत्त्वं चेत् तर्हि ततोऽनतिरिच्यमानमिदं विश्वमिति किमन्यत् तत्त्वं स्यात् / एकचित्तत्त्वविश्रान्तौ च तत्त्वानां कथं क्रमो भवेत् , देशकालाभेदात् ? एवमेतत्
SK
किंत्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः / बहिर्भावपरत्वे तु , परतः पारमेश्वरम् //
SK
यद्यप्येकमेव शिवतत्त्वं तथापि तदीयमेव स्वातंत्र्यं स्वात्मनि स्वरूपभेदं तावत्प्रतिबिम्बकल्पतया दर्शयति / स्वरूपवैचित्र्यमेव देशकालक्रमः / मूरितिक्रियावैचित्र्यमयो हि असौ / ततश्चान्तरी ज्ञानरूपा या दशा तस्या उद्रेकाभासने सादाख्यम् सदाख्यायां भवम् / यतः प्रभृति सदिति प्रख्या / सदाख्यायाश्च सदाशिवशब्दरूपाया इदं वाच्यं तत्त्वम् / सृष्टिक्रमोपदेशादौ प्रथममुचितम् / तत्सादाख्यं तत्त्वम् / बहिर्भावस्य क्रियाशक्तिमयस्य परत्वे उद्रिकाभासे सति पारमेश्वरं परमेश्वरशब्दवाच्यमीश्वरतत्त्वं नाम / तच्च सादाख्यस्य पञ्चादुचितावभासनम् / एतदुक्तं भवति / इह तस्य भावस्तत्त्वम् , ---- इति भिन्नानां वर्गाणां वर्गीकरणनिमित्तं यदेकमविभक्तं भाति तत्तत्त्वम् / यथा गिरिवृक्षपुरप्रभृतीनां नदीसरःसागरादीनां च पृथिवीरूपत्वमब्रूपत्वं चेति / ततश्च शुद्धचैतन्यवर्गो यो मन्त्रमहेश्वराख्यः , तस्य प्रथमसृष्टावस्माकमन्तःकरणैकवेद्यमिव ध्यामलप्रायमुन्मीलितमात्रचित्रकल्पं यद्भावचक्रम् , तथा संहारे च ध्वंसोन्मुखतया तथाभूतमेव चकास्ति प्रतिबिम्बप्रायतया , तस्य चैतन्यवर्गस्य तादृशि भावराशौ तथाप्रवनं नाम यच्चिद्विशेषत्वं तत्सदाशिवतत्त्वम् / मन्त्रेश्वरादिरूपस्य तु चैतन्यराशेः स्फुटीभूतमस्मद्बहिश्करणसरणिसंप्राप्तभाववर्गप्रतिमं विश्वं प्रतिबिम्बकल्पतया भाति , तस्य तु तत् तथाप्रथनमीश्वरतत्त्वम् / यस्तु सदाशिवभट्टारक ईश्वरभट्टारकश्च ध्वेयोपास्यादिरूपतया स ब्रह्मविष्णुतुल्यः पृथगेव मन्तव्यो न तु नामसारूप्यात् भ्रमितव्यम् / यथाहुरेके ब्रह्मविष्णुरुद्रा अपि तत्त्वमध्ये किं न गणिताः इति //२//
SK
नामधेयान्तरमप्यत्र तत्त्वद्वये दर्शयति
SK
ईश्वरो बहिरुन्मेषो , निमेषोऽन्तः सदाशिवः / सामानाधिकरण्यंच , सद्विद्याहमिदंधियोः //
SK
यस्योन्मेषाटुदयो जगतः , इत्यत्र ईश्वरतत्त्वमेवोन्मेषशब्देनोक्तम् , विश्वस्य हि स्फुटत्वबाह्यत्वमुन्मेषणम् , निमेषणं त्वप्स्हुटत्वापादनमहन्तारूपतोद्रेचनम् , इति निमेषः सदाशिवतत्त्वम् / यतो जगतः प्रलय इति / शुद्धोऽयं स्पन्दः परमेश्वरस्याचलस्याप्यप्ररूढरूपान्तरापत्तिलक्षणः किंचिच्चलनात्मतया स्फुरद्रूपत्वात् / परमेश्वरस्य हि परमार्थत एताः शक्तयो यस्तत्त्वग्रामः , काचित्तु शक्तिरन्यबहुतरशक्तिक्रोडीकारं कुर्वती निकटत्वादुपास्या घटस्येव घटत्वात्मिका , काचिदन्यापेक्षिणी स्वरूपमात्रनिष्ठा दूरा घटस्येव सत्तास्मिका / एवं निमेषोन्मेषशक्ती एव सदाशिवेश्वरौ तयोस्त्वधिष्ठातृदेवते अपि तथानामे //
SK
अथ तदधिष्ठातृद्वयगतं करणं विद्यातत्त्वमाह / प्रकाशस्य यदात्ममात्रविश्रमणमनन्योन्मुखस्वात्मप्रकाशताविश्रान्तिलक्षणो विमर्शः सोऽहम् इति उच्यते / यस्त्वन्योन्मुखः स इदम् इति / स च स्वप्रकाशमात्रे पुनरनन्योन्मुखरूपे विश्राम्यति परमार्थतः / तत्राद्ये विमर्शं शिवतत्त्वम् द्वितीये विद्येशता मध्यते तु रूपे अहमिदम् इति समधृततुलापुटन्यायेन यो विमर्शः स सदाशिवनाथ ईश्वरभट्टारके च , इदंभावस्य तु ध्यामलाध्यामलताकृतो विशेषः / ये एते अहम् इति इदम् इति धियौ तयोर्मायाप्रमातरि पृथगधिकरणत्वम् अहम् इति ग्राहके इदम् इति च ग्राह्ये , तन्निरासेनैकस्मिन्नेवाधिकरणे यत्संगमनं संबन्धरूपं प्रथनं तत् सती शुद्धा विद्या , अशुद्धविद्यातो मायाप्रमातृगताया अन्यैव / तत्र यदा अहम् इत्यस्य यदधिकरअणं चिन्मात्ररूपं तत्रैवेदमंशमुल्लासयति तदा तस्यास्फुटत्वात् सदाशिवता अहमिदम् इति / इदमहम् इति तु इदमित्यंशे स्फुटीभूते ऽधिकरणे यदाहमंशविमर्शं निषिञ्चति तदेश्वरता , ---- इति विभागः //३//
SK
ननु कस्मादियं शुद्धा विद्या इत्याह
SK
इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् / भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् //
SK
अवलोकनं प्रथनं वेदनं विद्या , यथावस्तुत्वं वस्त्वनुसारित्वं च ; तस्याः शुद्धिरविपरीतता / वेद्यदशां चोपगतवतामङ्गीकृतवताम् , अत एवेदमित्येवंभूतेनोचितेन परामर्शेनोपपन्नानां परामृश्यमानानां भावानां बोध एव प्रकाशात्मा साररूपं वस्तु , प्रकाशश्चानन्मुखविमर्शात्माहमिति / तदेषां यदेव पारमार्थिकं रूपं तत्रैव प्ररूढत्वात् अहमोदमित्यस्य शुद्धवेदनरूपत्वम् //४//
SK
अधिष्ठातृरूपाद्देवताद्वयात् तत्त्वद्वयं विभक्तम् , ---- इत्येतद्भङ्ग्या प्रतिपादयत्यागमव्यवहारेण /
SK
अत्रापरत्वं भावानाम् अनात्मत्वेन भासनात् / परताहन्तयाच्छादात्परापरदशा हि सा //
SK
परता पूर्वत्वमनन्यापेक्षाहमिति , अपरत्वम् अपूर्णत्वमन्यापेक्षितेदमिति / अत्र च तत्त्वद्वये भावानां ध्यामलाध्यामलरूपाणामुभयांशस्पर्शात् परापरत्वमिति / वेद्यभावनिष्ठा दशा तत्त्वस्वरूपा तदवभासयितृमन्त्रेश्वरादिशुद्धप्रमातृसंवेद्यवस्तुसारा / या तु तन्निष्ठसंवेदनदशा सा शुद्धा विद्या , तत्प्रमात्रधिष्ठातृत्वं श्रीसदाशिवेश्वरभट्टारकरूपता इति सक्षेपः //५//
SK
एवमेकेषां मते अहम् इत्याच्छादको यो भागः तत्प्रथाप्रधाना शुद्धविद्या / अन्ये तु मन्यन्ते , ---- यो ऽसाविदंभाग आच्छादनीयस्तस्य यदवभासनं तत्प्रधाना शुद्धविद्या / अन्यथा हि स इदमंशः केन भास्यतां मायायास्तत्राभावात् भावे वा प्ररोहप्रसङ्गात् ; अत एवेयं प्ररोहासहिष्णुं यत इदन्तां भासयति ततः शुद्धा / भासनाच्च विद्येति / तत एवाप्ररुढमायाकल्पत्वात् महामायेयं श्रीरौरवादिगुरुभिरुपदिष्टा , तदेतदाह /
SK
भेदधीर् एव भावेषु कर्तुर्बोधात्मनोऽपि या / मायाशक्त्येव सा विद्येत्यन्ये विद्येश्वरा यथा //
SK
मायाप्रमातरि शून्यादिरूपे ऽप्यनुल्लसिते , चिन्मात्र एव प्रमातरि कर्तरि च सति चिदेकरूपष्वपि भावेषु यदचिद्रूपतया भेदप्रकाशनलक्षणं स्वातन्त्र्यं सा शुद्धविद्या मायाशक्त्या तुल्या , वेद्यभागे भेदप्रकाशनात् / न च मायैव , ग्राहकस्य चिन्मात्रभागे तावदविपर्यासनात् , येन प्रकारेण विद्येश्वरा भगवन्तो ऽनन्ताद्या वतन्ते / ते हि शुद्धचिन्मात्रगृहीताहं भावाः स्वतस्तु भिन्नं वेद्यं पश्यन्ति , यथा द्वैतवादिनामीश्वरः / एवं ग्राहकेऽंशतश्चैतन्यरूपात् परमार्थरूपे ग्राह्यविपर्यासनशक्तिः शुद्धविद्या विद्येश्वराणाम् //६//
SK
परे प्राहुः ---- भगवतः प्रमशिवस्याप्ररूढभेदावभासनं सदाशिवेश्वरता / तत्रास्फुटे भेदे इच्छाशक्तिरीश्वरस्य व्याप्रियते , स्फुटत्वे ज्ञानशक्तिः , ग्राह्यग्राहकविपर्यासद्वयप्ररूढौ तु मायाशक्तिः , सा च पशुप्रमातृषु , ग्राहकग्राह्योभयविपर्याससंस्कारे तु अविनिवृत्तेऽपि यदेतत् वस्तुपरमार्थप्रथनं तत्र विद्याशक्तिव्यापारो योगिज्ञानिप्रभृतिष्वपशुप्रमातृषु / तदेतद्दर्शयति /
SK
तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका / विद्याशक्तिः ...................................... //
SK
पशुभावे विपर्यासैकरसत्वलक्षणे पाशनीयत्वे ऽस्वतंत्रत्वे दृश्यद्रष्ट्टदर्शनभेदे सत्यपि जाते पूर्वोक्तयुक्तिबलेन यदेतदैश्वर्यमुक्तं तस्य या प्रकाशिका परमेश्वरशक्तिः ---- यद्वशात् केचिदेव ता युक्तीरादृत्य तदा श्वस्तहृदयाः कृतिनो भवन्ति ---- सा विद्याशक्तिः / अयमेव षडर्धसारादिदृष्टोऽप्यस्याचार्यस्य हृदयमावर्जयति पक्षः , अन्ये इत्यनुक्तेः /
SK
एतदानन्तर्यौचित्येन च मायातत्त्वनिरूपणात् तदाह
SK
.............. तिरोधानकरी मायाभिधा पुनः // Iप्क्_३,१.७ //
SK
मायाशक्तिः पुनरचिद्रूपे शून्यादौ प्रमातृताभिमानं प्ररूढं दध्र्ता भावानपि चिन्मयान् भेदेनाभिमानयन्ती सर्वथैव स्वरूपं तिरोधत्ते आवृणुते विमोहिनी सा / तिरोधानमत्र न विलयनरूपं मन्तव्यं , यत् कृत्यपञ्चकमध्य आगमेषु गण्यते , दीक्षितस्यापि गुरुमन्त्रादिनिन्दनप्रायमपि त्वावरणमेव //७//
SK
तिरोधानमावरणरूपं स्फुटयति
SK
भेदे त्वेकरसे भातेऽहंतयानात्मनीक्षिते / शून्ये बुद्धे शरीरे वा मायाशक्तिर्विजृम्भते //
SK
सुषुप्ते प्रलये न इत्यभावसमाधौ च तावच्छून्यमाकाशकल्पमनात्मरूपं वेद्यभावोचितम् अहम् इत्यात्मत्वेन वीक्ष्यते ; उच्छ्वसननिःश्वसनादौ वा प्राण एव तेजःसमुपवृंहितः , स्वच्छोदकाशयकल्पा वेद्यप्रतिबिम्बनवती वा बुद्धिरभिनिविश्यते अन्तरहं वेद्मि दुःख्यहमिति चिन्ताद्यवस्थासु , शरीरमेव तु पृथिवीप्रायं कृशोऽहमित्यादिदशासु अहमित्यात्मतया भाति / सर्वमेव चेदं शून्यादि वस्तुतश्चिन्मात्रसारमेव माययैव तावदचिद्रूपतया भासितम् / तथाविधमेव तु सत् अहमिति संविद्रूपताभिनिवेशस्थानं संपादितमप्रशान्तजडभावमेव इति अतिदुष्करवस्तुसंपादनाप्रतीघातरूपा परमेश्वरस्य मायाशक्तिः , ---- इत्येतत् विजृम्भते इत्यनेन दर्शितम् / बाह्यरूपाणां सुतधनदारादीनामप्यहंताभिनिवेशविषयत्वसंख्यातं सूचयति //८//
SK
नन्वचिद्रूपत्वादनात्मा यदि शून्यादिस्तदात्मतयासौ अभिनिविश्यमानश्चिद्रूप एव , ---- इति सर्वज्ञत्वसर्वकर्तृत्वादिविशुद्धैश्वर्यधर्मैव स्यात् , ---- इत्याशङ्क्याह
SK
यश् च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि / माता स मेयः सन् कालादिकपञ्चकवेष्टितः //
SK
स्यादैश्वर्यधर्मयोगः शून्यादेः यद्यहमित्यभिनिविश्यमानोऽपि मेयतां जह्यात् / तथाहि सति प्रमेयमप्यस्य नीलादिव्यतिरिक्ततया नैव भासेत / यावता यः शून्यादिः प्रमाता कथितः , स यावदेव स्वरूपाद्व्यतिरेकाभिमते नीलादौ प्रमेये प्रमाता तावदेव स्वयमपि मेयभूतः एव सन् माता / मेयं हि मीयमानत्वादेव परिमितम् , ---- इति तादृशादेव मेयान्तरादुपपन्नव्यतिरेकम् , न त्वेवं चिद्रूपमपरिमितत्वात् / परिमितत्वं च शून्यादेरहंभावस्य यत् तदेव कालादिपञ्चकम् . तथा हि कालः क्रममासूत्रयन् प्रमातरि विजृम्भमाणस्तदनुसारेण प्रमेये ऽपि प्रसरति , योऽहं कृशोऽभवं स स्थूलो वर्ते भविष्यामि स्थूलतरः इत्येवमात्मानं देहरूपं क्रमवन्तमिव परामृशंस्तत्सहचारिणि प्रमेयेऽपि भूतादिरूपं क्रमं प्रकाशयति / अस्य शून्यादेर्जडस्य विद्या किंचिज्झत्वोन्मीलनरूपा बुद्धिदर्पणसंक्रान्तं भावराशिं नीलसुखादिं विविनक्ति / कला किंचित्कर्तृत्वोपोद्वलनमयी कार्यमुद्भावयति , किंचिज्जानामि / किंचित्करोमि , ---- इति / अत्र चांशे तुक्येऽपि किंचित्त्वे कस्मादिदमेव किंचित् , ---- इत्यत्रार्थेऽभिष्वङ्गरूपः प्रमातरि देहादौ प्रमेये च गुणाद्यारोपणमय इव रागो व्याप्रियते / न च तद्बुद्धिगतमवैराग्यमेव , तद्धि स्थूलं वृद्धस्य प्रमदायां न भवेदपि , रागस्तु भवत्येव / बुद्धिधर्माष्टकेऽपि च दृष्टोऽभिष्वङ्गः / अत्रैव कस्मादभिष्वङ्ग ---- इत्ययमर्थो नियत्या नियम्यते इति / एवं कलाविद्याकालरागनियतिभिरोतप्रोतो माययापहृतैश्वर्यसर्वस्वः सन् पुनरपि प्रतिवितीर्णतत्सर्वस्वराशिमध्यगतभागमात्र एवंभूतोऽयं मितः प्रमाता भाति ---- इदानीमिदं किंचिज्जानानः , इदं कुर्वाणोऽत्र रक्तोऽत्रैव च यः सो ऽहम् ---- इति / एषां च भिन्नविषयत्वमपि भवति कदाचित् , यथान्यत्र रक्तोऽपि नियत्यान्यत् कार्यते इति / एते च प्रमातृलग्नतथैव भान्ति , ---- इति तस्यैव शक्तिरूपाः प्रतिप्रमातृभिन्ना एष , कदाचित् तु नटमल्लप्रेक्षादावीश्वरेच्छया एकीभवेयुरपि / न ह्येतेषामीश्वरेच्छातिरिक्तं निजं किमपि जीवितमस्ति , ---- इत्यसकृदुक्तं वक्ष्यते च //९//
SK
यदुक्तमिदमित्यत्र प्रमेये व्यतिरेकिणि माता , ---- इति तत्र तत्प्रमेयं दर्शयति /
SK
त्रयोविंशतिधा मेयं यत्कार्यकरणात्मकम् / तस्याविभागरूप्येकं प्रधानं मूलकारणम् //
SK
यत् कार्यकरणरूपं त्रयोविंशतिप्रकारं यच्च तस्य मूलभूतं कारणं सर्वकार्यकरणाविभागरूपं प्रधानं नाम तत्सर्वं मेयम् ---- इति सम्बन्धः / योगिमन्त्रतदीश्वरप्रभृतीनां हि भूततन्मात्रकरणप्रधानवशीकारयोगित्वात्सर्वमेव प्रमेयम् / संसारिणामप्यनुमानागमादिदिशा प्रमेयमेव , इतीयत् प्रमेयम् / कालादयस्तु प्रमेया अपि प्रमार्येव लग्नाः , ---- इति प्रमातृशक्तिस्वभावत्वात् न प्रमेयत्वेनेहावसरे मायाप्रमातृच्यतिरिक्तप्रमेयप्रस्तावे गणिताः / वस्तुतो हि अत्रत्योऽयं प्रमातापि प्रमेय एव , स तु प्रमात्रीक्रियमाण आच्छादितप्रमेयताक इहोच्यते //१०//
SK
नन्वत्र त्रयोविंशतौ किं कार्यं किं करणम् ? इत्याशङ्क्याह
SK
त्रयोदशविधा चात्र बाह्यान्तःकरणावली / कार्यवर्गश्च दशधा स्थूलसूक्ष्मत्वभेदतः //
SK
प्रमातुः पूर्वं करणोपयोगः , ---- इत्यत्रादौ त्रयोदश करणानिः तत्र बुद्धिरप्यवसायसामान्यमात्ररूपा , ग्राह्यग्राहकाभिमानरूपोऽहंकारः , संकल्पादिकारणं मनः , ---- इत्यन्तःकरणं त्रिधा / बुद्धौ शब्दाद्यध्यवसायरूपायामुपयोगीनि बुद्धीद्न्त्रियाणि पञ्च ---- श्रोत्रं , त्वक् , चक्षुः , जिह्वा , ध्राणम् , ---- इति / कर्मणि तूपयोगीनि पञ्च कर्मेन्द्रियाणि / तथा हि ---- त्यागो ग्रहणमिति द्वयम् , ---- बहिर्विषयः यत् तत्र पाणिः पायुः पादः , ---- इति करणानि / एतदेवान्ताः प्राणे येन क्रियते तद्वागीन्द्रियम् / तत्प्रक्षोभप्रशान्त्या विश्रान्तिक्रियोपयोगी उपस्थः / सर्वदेहव्यापकानि च कर्मेन्द्रियाण्यहङ्कारविशेषात्मकानि / तेन च्छिन्नहस्तो बाहुभ्यामाददानः पाणिनैवादत्ते , एवमन्यत् / केवलं तत्तत्स्फुटपूर्णवृत्तिलाभस्थानत्वात् पञ्चाङ्गुलिरूपमधिष्ठानमस्यौच्यते , ---- इत्येवं करणानि त्रयोदश / एषां च कार्यत्वे ऽअप्यसाधारणेन करणत्वेन व्यपदेशः / स्थूलं कार्यं पृथिवी , आपः , तेजो , वायुः , नभः , ---- इति पञ्च भूतानि / सूक्ष्ममेषामेव रूपं , गन्धो , रसो , रूपं , स्पर्शः , शब्दः , ---- इति / तत्रैकैकगुणमाकाशादि , एकैकवृद्धगुणं वा , ---- इति दर्शनभेदः , ---- इति न विवेचितो , नुपयोगात् / तत्र स्थूलं विभक्तमविभागस्वानुमापकम् , ---- इति स्थूलरूपोपक्रममुक्तम् / अत्र पृथिव्याद्याभासा एव मिश्रीभूय घटादिस्वलक्षणीभूताः कर्मेन्द्रियैरुपसर्पिताः , बुद्धीन्द्रियैरालोचिताः , अन्तःकरणेन संकल्पिताभिमतनिश्चितरूपाः , विद्यया विवेविताः, कलादिभिरनुरञ्जिताः , प्रमातरि विश्राम्यन्ति , ---- इति तात्पर्यम् / एतच्च विस्तरतस्तत्प्रधानेषु तन्त्रालोकसारादिषु मया निर्णीतम् , ---- इतीहानुपयोगान्न वितानितम् , ---- इति शिवम् //११//
SK
इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तविरचितविमर्शिन्याख्यटीकोपेतायामागमाधिकारे तत्त्वनिरूपणाख्यं प्रथममाह्निकम् //१//
SK
आगमाधिकारे द्वितीयमाह्निकम् /
SK
[विमर्शिनी]
SK
{अखण्डितस्वभावोऽपि विचित्रां मातृकल्पनाम् / स्वह्र्ण्मण्डचक्रे यः प्रथयेत्तं स्तुमः शिवम् //}
SK
एवं तत्त्वराशौ निर्णीते एतदन्तर्भावेनोल्तमपि मुख्यतया निर्णेतव्यं प्रमातृतत्त्वं वितत्य निर्णेतुं तत्रैतन्मातृतामात्र इत्यादि व्यानोविश्वात्मकः परः इत्यन्तैर्विंशतिश्लोकैराह्निकान्तरं प्रस्तूयते / तथाहि ---- प्रमातुरत्र स्वरूपप्रत्यभिज्ञानमुपदिश्यते शास्त्रे / स हि हेयमुपादेयं च स्वं स्वभावं विद्वान् परमोपादेयरूपं शिवस्वभावं स्वात्मानमभेदेनाविशन् जीवन्नेव मुक्तो भवति , ---- इति / तत्र श्लोकेन ब्रह्मादित्रयस्वरूपम् , तत्कतं च प्रमातृभेदं श्लोकसप्तकेन , द्वयेन समावेशस्वरूपम् , श्लोकपञ्चकेन प्रमातुरेव सुषुप्ताद्यवस्थाः , त्रयेण तासां हेयोपादेयविभागं निरूपयति , ---- इत्याह्निकतात्पर्यम् / ग्रन्थार्थस्तु निरूप्यते //
SK
तत्रैतन्मातृतामात्रस्थितौ रुद्रोऽधिदैवतम् / भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ //
SK
तत्रेति , एवंभूते ऽस्मिन्नागमसिद्धे युक्त्यनुगते च तत्त्वस्वरूपे सति यदेतत् कालादिपञ्चकवेष्टितं प्रमातृतारूपम् , तदेव यस्यां शुद्धमुपसंहृतप्रमेयजातं भवति दशायां संहाराख्यायां तस्यामधिष्ठातृदेवतात्वं तद्दशासंपादनेन स्वोपासकलोकस्य तद्दशाध्यानावेशसमापन्नस्य स्वाभिमुख्यसंपादनेन च भजमानो भट्टारक ईश्वर एव रुद्रो भगवान् , यो मायापदे ऽपि प्राणापानात्मकधर्माधर्मसूर्येन्दुदिननिशादिविमुक्तमध्यमज्योतीरूपप्रमातृस्वरूपस्पर्शाद् उन्मीलिततृतीयनेत्रः / भिन्नस्य तु प्रमेये तत्संतानप्रवहणलक्षणे प्रसरे ऽधिष्ठातृदेवता विष्णुः , अत एव तयोः प्रमेयप्रसररूपस्य इदं नीलम् इत्येवं प्रकाशात्मनः प्राधान्यात् अहम् इति प्रमातृदशावेशशून्यत्वात् न तृतीयनेत्रोन्मीलनम् / देवतैव दैवतम् / प्रसर उत्पत्तिः संतानश्च //१//
SK
यदेतन्मातृतामात्रमुक्तं तस्य विभागमागमिकं च संज्ञाभेदं निरूपयति /
SK
एष प्रमाता मायान्धः संसारी कर्मबन्धनः / विद्याभिज्ञापितैश्वर्यश्चिद्घनो मुक्त उच्यते //
SK
स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः / मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः //
SK
माययान्धो विमोहितः , अत एव कर्माणि स्वात्मनो बन्धकान्यभिमन्यमान एष इति कालादिवेष्टितः शून्यादिप्रमाता संसरति , ---- इत्यतः संसारी / देहो ऽपि हि स्वरूपसादृश्यं बाल्ययौवनादिष्वनुवर्तयन् संसरतीव / बुद्ध्यादेस्तु जन्मान्तरेऽपि संसरणम् / विद्यया तु स्वरूपप्रकाशनशक्त्या प्रत्यभिज्ञापदं प्रापितमैश्वरयं यस्य , अत एव शरीराद्यपि विश्वमपि च संवेदनमेवाभिमन्यमानोऽत एव चिदेव घना अन्वाचिद्रूपव्यामिश्रणशून्या यस्य रूपम् , स पुनर्जन्मबन्धविरहात् देहे ऽपि स्थिते मुक्त इति व्यपदेशयोग्यः / पतिते तु शिव एकघनः इति कः कुतो मुक्तः / भूतपूर्वगत्या तु प्रमात्रन्तरापेक्षया मुक्तह् शिवः , ---- इति व्यवहारः /
SK
यश्चासौ मुक्तः स भावान् स्वाङ्गवदभिमन्यमानः प्रमिमीते इति स तेषां स्वामी , स्वरूपपरमार्थसमर्पणाच्च पालकः इति पतिरुपदिष्टः शास्त्रे / मायाशक्तिकृतभेदान् व्यतिरिक्तानेव सतो यदा मिमीते तदा तैरेव मेयैः पाशरूपैः पाशितः इति पशुरुक्तः / तथाहि वेद्यराशिवशादेवास्मावि द्यास्मितारागद्वेषाभिनिवेशादयः क्लेशाः , धर्माधर्मादिरूपाणि कर्माणि , आदिपदादाशयरूपा वासना , फलभोगरूपो विपाकः , ---- इति कालुष्यमनन्तप्रकारम् , यतः पाशितत्वात् पशुः इत्युक्तः //३//
SK
यदेवैतत्पशुरूपं तदेवागमेषु त्रिविधं मलम् , ---- इत्याह /
SK
स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता / द्विधाणवं मलमिदं स्वस्वरूपापहानितः //
SK
भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् / कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् //
SK
इह ज्ञातृकर्तृरूपं तावच्चित्तत्त्वस्य स्वरूपं , तस्यापहारो नामाणवं मलं येनासावणुः संकुचितो जातः / तत्र स्वरूपस्य निमीलनं संकोचः / तत्स्थिते बोधरूपे कर्तृत्वलक्षणस्य स्वातन्त्र्यात्मनः स्वरूपान्तरस्य निमीलनं विपर्ययो वा , ---- इत्युभययाप्याणवं मलं स्वरूपापहानिरूपमेकमेव /
SK
अत्रैवेति , सत्याणवे मले द्विप्रकारे स्वरूपसंकोचे वृत्ते भिन्नस्य यत्प्रथनं तस्य मायीयम् इति संज्ञामात्रम् / मायाकृतत्वेन मायीयता मलत्रयस्यापि / तत्र कर्तुरबोधरूपस्य देहादेर्भिन्नवेद्यप्रथने सति धर्माधर्मरूपं कार्मं मलम् , यतो जन्म भोगश्च स च नियतावधिकः , इति जात्यायुर्भोगफलं कर्म इत्युक्तं भवति //४////५//
SK
अथैषां मलानां विविक्तविषयनिरूपणात् स्वरूपं स्फुटीकर्तुं स्वातन्र्यहानिर्बोधस्य इत्यस्य तावद्विषयमाह /
SK
शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता / निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् //
SK
येषां चिन्मात्रमेव परमार्थो न तु अहम् इति स्वात्मविश्रान्त्यानन्दरूपं प्रमं स्वातन्त्र्यम् / ते पर्मेश्वरेण तया निर्मिताः स्वात्मनः सकाशाद्व्यतिरिक्ताः / अत्र हेतुः ---- कर्तृताया उत्तमस्वातन्र्यलक्षणाया अत्ययात् अभावात् ; पर्मेश्वरस्य तूत्तमस्वातन्त्र्यावियुक्तबोधरूपत्वम् , ---- इत्यभिप्रायशेषः //६//
SK
नन्वस्माद्धेतोर्भवतु परमेश्वरात् तेषां भिन्नत्वमन्योन्यतस्तु कथं भेदो बोधरूपस्य व्यापित्वनित्यत्वकृतस्य च देशकालाभेदस्य समाबत्वात् ; अन्योन्यभेदाभावे च निर्मितास्ते इति कथं बहुवचनम् ? इत्याशङ्कां व्यपोहति /
SK
बोधैकलक्षणैक्येऽपि तेषामन्योन्यभिन्नता / तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः //
SK
इह हि सर्वत्राप्रतिहतशक्तिः परमेश्वर एव तयाबुभूसंस्तथा तथा भवति , नत्वन्यः कश्चित् परमार्थयो ऽस्ति , ---- इत्यसकृदुक्तम् ; ततश्च व्याविशेषेण तेषां शरीरादिशून्यान्तप्रमातृपदोत्तीर्णानां बोधत्वनित्यत्वविभुत्वादिधर्मजातस्यैक्ये ऽप्यन्योन्यं भेदः , ते च शास्त्रे विज्ञानकेवला उक्ताः / तत्र विज्ञामकेवलो मलैकयुक्तः , ---- इत्यादौ विज्ञानं बोधात्मकं रूपं केवलं स्वातन्त्र्यविरहितमेषामिति //७//
SK
एवं स्वातन्त्र्यहानिर्बोधस्य इत्यस्य भागस्य विज्ञानाकलविषयतामुक्त्वा स्वातन्त्र्यस्याप्यबोधता इत्यमुमंशं विषयप्रदर्शनेन स्पष्टयति /
SK
शून्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः / तेषां कार्मो मलोऽप्यस्ति मायीयस्तु विकल्पितः //
SK
शून्ये जडत्वादनोधरूपे एव , यदि वा प्राणे बुद्धौ वा येषां अहमिति चमत्कारयोगात् कर्तृत्वं ते प्रलयेन कृताः अकलाः कलातत्त्वोपलक्षितकरणकार्यरहिता अबोधरूपाः कर्तारश्च / प्रलयावधि हि ते तथाकृताः उत्तरकालं तु कार्यकरणसंबद्धा एव भवन्ति ; यतस्तेषां न केवलमुक्तरूप आ,अव एव मलो यावत् कार्मो ऽपि वासनासंस्काररूपो धर्माधर्मात्मास्त्येव / यद्येवम् , भिन्नवेद्यप्रथाप्येषां स्यात् / सत्यम् , सवेद्ये सुषुप्तपदे , ऽपवेद्ये तु न भवति ; तेन मायीयो मल एषां विकल्पितो व्यवस्थितविषयत्वेन / तथा हि ---- केऽपि शून्यादिभागविश्रान्ता गाडनिद्राजडीकृता अपवेद्यसुषुप्तपदभाजः / अन्ये तु बुद्ध्यादिनिष्ठाः सुखदुःखावशेषसामान्यात्मकभिन्नवेद्यसंवेदनयोगितः सवेद्यसौषुप्तपदलीनाः / स्थूलदेहेन्द्रियात्मककार्यकरणवियोगरूपत्वं तु प्रलयाकललक्षणं सर्वेषां तुक्यम् //८//
SK
एवं स्वातन्त्र्यस्याप्यबोधता इत्येवमंशः स्फुटीकृतः , प्रसङ्गाच्च कार्ममलस्य विषयो दर्शितः , मायामलस्य च पाक्षिकत्वमुक्तम् / अधुना पुनराणवकार्ममलद्वयाभावेऽपि शुद्धोऽस्ति मायाख्यस्य मलस्य विषयः , ---- इति दर्शयति
SK
बोधानामपि कर्तृत्वजुषां कार्ममलक्षतौ / भिन्नवेद्यजुषां मायामलो विद्येश्वराश्च ते //
SK
ये चिन्मात्रमेवात्मतया पश्यन्ति अहम् इति च चमत्कारोल्लासात् कर्तारस्तत एव सर्वज्ञाः सर्वकर्तारश्च ते विद्येश्वराः / किन्तु तनुकरणभुवनादि यदेषां वेद्यतया कार्यतया च भाति, तत् कुविन्दपटदृष्ट्या भिन्नमेव सत् , ---- इत्यस्ति विद्ये श्वराणां मायाख्यमलयोगः //९//
SK
अथ मलत्रयस्यापि यौगपद्येन यो विषयस्तं दर्शयितुमाह /
SK
देवादीनां च सर्वेषां भविनां त्रिविधं मलम् / तत्रापि कार्ममेवैकम् मुख्यं संसारकारणम् //
SK
इह विद्येश्वरविज्ञानाकलास्तावन्न भविनो मायान्ताध्वातिक्रमणात् ; प्रलयाकला अपिकंचित्कालमविद्यमानभवाः / ये त्वेते मायातत्त्वान्तरालपरिवर्तिनो देवादयः स्थावरान्ताश्वतुर्दश शास्त्रेषु परिगणितास्ते सर्वे भविनः संसारिणः , तेषां च त्रयोऽपि युगपन्मलाः / ननु मलत्रयमध्ये कतमो मलः संसरणमेषां संपादयेत् ? आह , तत्रापि तेषु त्रिष्वपि सत्सु कार्मं मलं मुख्यतया संनिपत्य संसरणे कारणम् . यथोक्तम् /
SK
{कर्मतस्तु शरीराणि विषयाः करणानि च /}
SK
इति / तनुकरणविषयसंबन्ध एव च वर्तमानो भविष्यंश्च , ---- इत्यनवरतं प्रबन्धतो वर्तमानः संसरणमुच्यते / आणवमायामलौ तु यद्यपि न कारणं संसारे , तथापि कार्मेण विना तौ देहादिविचित्रभावाभिनिर्वर्तनशक्तिशून्यौ विज्ञानाकलादिषु , ---- इति मुख्यं कार्ममेव मलं संसारकारणं तत्र तत्र शास्त्रे गण्यते / अत एव तदुपक्षये वृत्ते दत्तस्तावदसंसरणसोपानपदबन्धः , ---- इत्याशयेन कर्मबन्धाभिमानपरिहानिरेव यत्नतः सांख्यपुराणभारतादिशास्त्रेषूपदिश्यते / एवं मलत्रयस्यैकैकभेदैस्त्रिभिर्द्विभेदैस्त्रिभिस्त्रिभेदेनैकेन , इति सप्त प्रमातार उत्तिष्ठन्ति / तथा च शास्त्रे
SK
{शिवादिसकलान्ताश्च शक्तिमन्तः सप्त /}
SK
इत्युक्तम् / तत्राप्यवान्तरभेदेन गुणमुख्यताभेदेन विकल्पसमुच्चयतादिभेदेन चानन्तप्रकारत्वमिति //१०//
SK
अस्य च मलत्रयस्योद्भवतिरोभावभेदात् संसारिणां प्रकारद्वयम् , ---- इति दर्शयति
SK
कलोद्बलितमेतच्च चित्तत्त्वं कर्तृतामयम् / अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् //
SK
मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः / शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् //
SK
एतच्चेति , यत् त्रिदशादीनां भविनां चैतन्यं कर्तृतांशस्य प्राधान्यान्मलेन संविद्भागस्य निमज्जितत्वात् कर्तृतामयम् चिद्रूपस्य तत्त्वं स्वातन्त्र्यम् , कलाख्येन परमेश्वरशक्त्यात्मना तत्त्वेन उपोद्वलितम् अनुप्राणितम् , मलेन न्यक्कृतं सदुद्बोधितम् , शून्यादेर्देहपर्यन्तस्य मायाप्रमातुः संबन्धि , तत् गुणत्वेन अप्रधानत्वेन स्थितम् , यतो मितम् इदन्तापन्नदेहादिशून्यान्तप्रमेयभागनिमग्नत्वात् प्रमेयम् , यो गौरो , यः सुखी , यस्तृषितो , यः सर्वरूपरहितः सोऽहम् , ---- इति हि इदन्तैवान्तर्नीताहंभावा संसारिणां परिस्फुरति / सेयं जाग्रत्स्वप्रसुषुप्तरूपा संसारावस्था /
SK
यदा तूक्तगुरूपदेशादिदिशा तेनैवाहंभावेन स्वातन्त्र्यात्मना व्यापकत्वनित्यत्वादिधर्मपरामर्शमात्मनि / विदधता ततः शून्यादेः प्रमेयादुन्मज्ज्येवास्यते तदा तुर्यातीतावस्था / यदापि परामृष्टतथाभूतवैभवादिनित्यैश्वर्यसंभेदेनैवाहंभावेन शून्यादिदेहधात्वन्तं सिद्धरसयोगेन विध्यते , तदास्यां तुर्यदशायां तदपि प्रमेयतामुज्झतीव / सेयं द्वय्यपि जीवन्मुक्तावस्था समावेश इत्युक्ता शास्त्रे / सम्यगावेशनमेव हि तत्र तत्र प्रधानम् , तत्सिद्धये तूपदेशान्तराणि / यथा गीतम् /
SK
{मय्यावेश्य मनो ये मां /}(गी. १२.२)
SK
इति /
SK
{अथावेशयितुं चित्तं /}(गी. १२.९)
SK
इत्यादि च / समावेशपल्लवा एव च प्रसिद्धदेहादिप्रमातृभागप्रह्वीभावभावनानुप्राणिताः परमेश्वरस्तुतिप्रणामपूजाध्यानसमाधिप्रभृतयः कर्मप्रपञ्चाः / यद्गीतमपि /
SK
{अभ्यासेऽप्यसमर्थः सन्मत्कर्मपरमो भव /}(गी. १२.१०)
SK
इति / देहपाते तु परमेश्वर एवैकरसः , ---- इति कः कुत्र कथं समाविशेत् / तदेतदाह --- यत् पुनः कर्तृताया मुख्यत्वं तन्नान्तरीयकश्च शून्यादेर्गुणभावः , तस्मिंश्चाप्यचिद्रूपे गुणीभूते स्वातन्त्र्यस्याप्यबोधता इति मलल्यापारस्यापहस्तनात् चितो यः परोऽप्यात्मभागो बोधलक्षणो मलेन न्यक्कृतोऽभूत् तस्यापि अधुनोन्मग्नत्वेन मुख्यत्वम् / यच्च तत् कर्तृताया मुख्यत्वम् उन्मग्नता , इदमेव ज्ञानमज्ञानात्मकमलप्रतिपक्षत्वात् ; तदेतन्मुख्यत्वं समावेशस्य लक्षणं येन देहस्थितोऽपि पतिः इति मुक्तः इति शास्त्रेषूक्तः //१२//
SK
नन्वेवं पत्युः समावेशात्मिका तुर्यतदतीतरूपा भवतु दशा , पशोस्तु कथं सुषुप्तस्वप्नजाग्रदृशाभेद आगमेषूक्तः , ---- इत्याशङ्क्य सुषुप्तस्वरूपमेव तावदाचष्टे श्लोकत्रयेण /
SK
शून्ये बुद्ध्याद्यभावात्मन्यहन्ताकर्तृतापदे / अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता //
SK
साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता / जीवनाख्याथवा प्राणेऽहन्ता पुर्यष्टकात्मिका //
SK
तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम् / सवेद्यमपवेद्यं च मायामलयुतायुतम् //
SK
इह चित्तत्त्वं स्वस्वरूपमाच्छादयत् ज्ञेयरूपेण बुद्ध्यादिना देहान्तेन घटादिना वाभासते / एकमेव चेदं स्वातन्त्र्यविजृम्भितं , न त्वत्र वास्तवः क्रमो वा भेदो वा / तत्रापि तु स्वातन्त्र्यात् क्रमश्च भेदश्चाभासते / तदेवंस्थिते यश्चित्तत्त्वस्य स्वरूपाच्छादनभागः स एवोत्तरभागान्त्रासंकीर्णो यदा विश्राम्यति तदनुदयाद्वा तत्प्रध्वंसाद्वा प्रलय इव तदनादरणाद्वा निद्रासमाधिमूर्च्छादाविव , तत्रैव चाहन्तारूपं कर्तृतायाः पदं परामर्शो ऽस्फुटत्वादरूपात्मना संस्कारेण शुद्धेन वेद्यपदवीमप्राप्तेन युक्तो भवति , तदा सैवावस्था नेत्येवपरामर्शलेशानपेक्षितनिषेध्यबुद्ध्यादिविषयसुस्पष्टपरामर्शसंभेदापि अवश्यंभाविनिषेध्ययोगात् अकिञ्चनोऽहम् इतिवत् स्वीकृतसामान्याकारनिषेध्या , अत एव संस्कारशेषीकृतज्ञेया शून्य इत्युच्यते / तथाविधे बुद्ध्यादीनां देहादिनीलान्तानामभावरूपे शून्यत्वमुच्यते , यतस्तत्र ज्ञेयानां शून्यता अभावरूपता संस्कारशेषता / इयमेव हि सर्वत्राभावो न तु सतां सर्वात्मना विनाशः /
SK
तत्रैव शून्ये प्रमातरि समवेता प्राणापानसमानोदानव्यानात्मके वायुचक्रे प्रेरणात्मिका शक्तिः , सा च विद्याकलयोः प्रपञ्चभूतौ यौ क्रमेण बुद्धीन्द्रियकर्मेन्त्रियवर्गौ तयोरान्तरी वृत्तिः / बाह्या हि तयोः शब्दाद्यालोचनशब्दाभिव्यक्तिस्थानाभिहननादिका वृत्तिः / तदुक्तम्
SK
{सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च /} (सां. २९ का.)
SK
इति / एवं शून्य एवाहन्ता अक्षचक्रोपोद्वलिता जीवनम् , इति स शून्य एव जीवः संसरति / यदि वेन्द्रियशक्तीनामेव यान्तरी साधारणप्राणनात्मिका प्राणशब्दवाच्या प्राणादिमारुतविशेषप्रेरणामयी सैव अहम् इत्यधिशयाना जीवनम् , तदा प्राण एव जीवः संसारी , स एव शून्यः , प्राणाश्च पुर्यष्टकशब्दवाच्यः , प्राणादिपञ्चकं बुद्धीन्द्रियवर्गः कर्मेन्द्रियगणो निश्चयात्मिका च यतो धीर्व्यज्यते / तन्मात्रपञ्चकं मनोऽहंबुद्ध्य इत्यन्ये
SK
{तन्मात्रोदयरूपेण मनोऽहंबुद्धि........../}(स्प. ४.१९)
SK
इति /
SK
{भूमिरापोऽनलं ...................... /}(गी. ७.४)
SK
इति च वदन्तः /
SK
एवं यदुभयात्मकं पुर्यष्टकं तावत्येव शुद्धे या विश्रान्तिः , तस्यां सत्यां यदहन्तायाः सुषुप्ताया बोधलक्षणं भावरूपं कर्म च क्रियास्वभावं तत् सौषुप्तम् / मलेन हि प्रमाता सुप्तः कलया त्वसुप्त इव , अत्र तन्निमज्जने सुष्ठु सुप्तस्तस्य भावः कर्म वा , ---- इति / तत्र शून्यसौषुप्ते न किञ्चिद्व्यतिरिक्तं वेद्यम् , ---- इति मायीयमलाभावादपवेद्यं तत् ; प्राणसुषुप्ते तु स्पर्शकृतस्य सुखदुःखादेर्भावात् मायाख्यमस्ति मलम् , ---- इति सवेद्यं तत् / एवं गाढागाढसुषुप्तद्वितयवत् प्रलयो ऽपि मन्तव्यः / स परं देहादिप्रध्वंसानुदयकृतश्चिरतरकालश्च / सुषुप्तं तु देहाद्यनादरकृतमचिरकालं च , ---- इति विशेषः / तत्रापि श्रमकृतं निद्रा , धातुदोषकृतं मूर्च्छा , द्रव्यकृतं मदोन्मादादि , स्वातन्त्र्यकृतं समाधिः , ---- इत्याद्यवान्तरभेदः / केचित्तु समाधिरूपं सवेद्यमन्यदपवेद्यम् , ---- इति प्रपन्नाः //१५//
SK
नन्वेवं स्फुटवेद्यपदविनिर्मुक्ता सुषुप्तावस्थास्तु , स्वप्नजाग्रहशयोस्तु स्फुटवेद्यावभासयोगिन्योः को भेदः ? इत्याशङ्क्य श्लोकद्वयेन भेदमाह
SK
मनोमात्रपथेऽप्यक्षविषयत्वेन विभ्रमात् / स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् //
SK
सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा / सृष्टिः साधारणी सर्वप्रमात्ःणां स जागरः //
SK
बाह्येन्द्रियाणि चक्षुर्गोलकादीनि निमीलितानि निद्रायमाणस्य लक्ष्यन्ते , न च तेषु निमीलितेषु बाह्येन्द्रियग्रहणव्यापारो दृष्टः , तेन शुद्ध एव मनोमार्गे रूपस्पर्शादयो भावा अक्षग्रहणसमुचितेन स्पष्टेन वपुषा भासनयोग्याः पर्मेश्वरेण सृज्यन्ते , न त्वणुना , अनिष्टस्यैव दर्शनात् , इष्टस्यापि देशकालान्तरादियोगेन / अत एव मनोमात्रस्थितत्वादेव न प्रमात्रन्तरसाधारणीयं सृष्टिः / यत्तु तत्र बाह्येन्द्रियविषयत्वं प्रमात्रन्तरसाधारण्यं चकास्ति , तद्यद्यपि यावद्भाति तावत् तथैव , तथाप्युत्तरकालं प्रबुद्धस्य न तथा , ---- इति परामर्शेन तद्रूपं निर्मूलत्वेनावभाति , ---- इति भ्रान्तम् / यानि हि प्रमात्रन्तराणि स्वप्ने स्वेन्त्रियाणि च भान्ति , एतानि प्रबोधकालभाविभिरेव तैरभिन्नानि , ---- इति निश्चयः , प्रबोधकाले च न तथा , ---- इति निश्चयानुवृत्तिरपहृतैव / तेनोभयमपि भ्रान्तमुच्यते ; भ्रान्तत्वमेव चास्थैर्यम् / एवमिन्द्रियाविषयत्वेनैवासाधारणत्वमाक्षिप्तम् ,
SK
{विभ्रमेणैव चास्थैर्य ........................... /}
SK
इति स्वकण्ठेन , तत् जाग्रत्प्रतियोगिधर्मनिरूपणावसरेऽपि न दर्शितम् / एवंभूता या सृष्टिः सा पशोः स्वप्नसमये भावात् स्वप्नपदं स्वप्नकाले विषयः इति , तथाभूतविषयं प्रमातृत्त्वं पशोः स्वप्नावस्था इति यावत् / अक्षग्रहणं बाह्येन्द्रियदशकस्योपलक्षणम् /
SK
यत्र तु बाह्याक्षवि.अयं सर्वप्रमातृसाधारणत्वं च निश्चयानुवृत्त्या बाधारहितया परमार्थत्वेन चकास्ति , तत एव स्थैर्य विषयस्य सा सृष्टिः पशोः जागरः ; तद्विषयं प्रमातृत्वं जागरावस्था , ---- इति यावत् / यावच्चानुवृत्तिस्थैर्य निश्चयस्य चकास्ति तावज्जागरः / तन्मध्ये च निश्चयानुवृत्तिनिर्मूलनात् स्वप्नः , ---- इत्यवभाससारत्वात् वस्तूनां , स्वप्ने ऽपि दीर्घे यत्र स्वप्नान्तरं स तदपेक्षया जाग्रदेव ; जाग्रदभिमतमपि वा दीर्घदीर्घं कालान्तरे निश्चयानुवृत्तिनिर्प्धाज्जाग्रदन्तरापेक्षया स्वप्न एवेति मन्तव्यम् //१७//
SK
आसां तिसृणां हेयत्वप्रदर्शनेन तुर्यावस्थातः प्रभृत्युपादेयत्वं सूचयति
SK
हेया त्रयीयं प्राणादेः प्राधान्यात्कर्तृतागुणे / तद्धानोपचयप्रायसुखदुःखादियोगतः //
SK
यत्रायं प्रमाता त्यागोपादानतदिच्छाप्रयत्नादिकं परिक्लेशं पश्यति , तदेवास्य हेयतया भाति / स चास्य सुखदुःखयोगवैचित्र्येणैव कृतः , तच्चैतदवस्थात्रये संभवति ; यतः कर्तृतारूपं स्वात्मविश्रान्त्यनन्यौन्मुख्यलक्षणमानन्दैकघनं यच्चिन्मयं वपुः , तद्यदा प्राणादिमत् शून्यपुर्यष्टकदेहादिभूमिषु गुण तामभ्येति , तदा तस्मिन् गुणीभूते प्राणादेः प्राधान्यं स्फुरति / तथा च तस्य चिद्रूपस्य यथायथा हानिस्तथातथा दुःखोपचयो , यथायथा किञ्चिदुन्मज्जनं तथातथा सुखोपचयः / तथाहि ---- बुभुक्षाकाले प्राणस्यैवोद्रेकात् दुःखं , तृप्तौ तस्य न्यग्भावादहन्तोद्रेके सुखं युक्तम् / एवं श्रान्तस्य मर्दनामर्दने देहप्राधानयाप्राधान्ये मन्तव्ये / यस्तु समावेशतत्त्वज्ञस्तस्य तत्काले दुःखानुदय एव / यदाह
SK
{दुर्बलो ऽपि तदाक्रम्य यतः कार्ये प्रवर्तते / आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः //}(स्प्. ४८)
SK
इति / एवं प्राणादेः प्राधान्ये कर्तृताया गुणभावे सुखदुःखवैचित्र्यशतयोगः प्रयासभूमिः , --- इति जाग्रत्स्वप्नसुषुप्ते प्राणादिप्राधान्यं कर्तृतान्यम्भावश्चास्ति , ---- इति तत् त्रयमेव हेयम् / कर्तृताप्राधान्योन्मेषात्तु तुर्यरूपात्प्रभृति तत्स्थैर्यात्मकतुर्यातीतदशान्तमुपादेयम् , एकरसानन्दघनस्वभावलाभे उपादित्सा -- जिहासा -- वैवश्य -- परिश्रम-- प्रशमात् , ---- इति तात्पर्यम् //१८//
SK
ननु प्राणादिप्राधान्यं हेयतायां कारणमुक्तं तच्चेज्जाग्रदादित्रय एव तर्हि तुर्यादौ तदभावात् तत्समावेशे व्युत्थामानुपपत्तिः , ---- इति श्लोकद्वयेन शङ्कां परिहरति /
SK
प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः / तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्व् इव //
SK
मध्योर्ध्वगाम्युदानाख्यस्तुर्यगो हुतभुङ्मयः / विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः //
SK
प्राण इति प्राणापानरूपा जीवनस्वभावा येयं चिद्रूपस्य स्थितिः , सा तावत्सामान्यपरिस्पन्दरूपा , देहप्राणादेरचेतनस्य चेतनायमानतासंपादनात्मिका अहमितिस्वात्रन्र्यारोपसारा सती विकल्पपरामर्शमयी सैव प्राणापानादिविशेषात्मना पञ्चरूपतां भजते / तत्र किञ्चिज्जहती क्वचित्पतन्ती च श्वासनिःश्वासरूपा क्रमेण प्राणत्वमपानत्वं च विशेषं दर्श्यति / तदिदं विशेषद्वयं जाग्रति तावत् स्फुटमेव देहात् प्रसृत्य विषेये विश्रान्तेः , ततो ऽपि देहे ; स्मृत्यादौ वाभ्यन्तरे वेद्ये विश्रान्तेः प्राणापानयोः सुस्पष्टत्वात् / स्वप्ने ऽपि तद्द्वयमस्त्येव ; स्वपतो ऽपि हि प्राणापानौ निर्गमप्रवेशात्मानौ स्फुटमेव परेण लक्ष्येते / स्वयमेव च वेद्य संवेदनात् त्यागोपादानरूपा स्थितिः संवेद्यत एव , तेन प्राणना प्राणापानविशेषद्वयमयी जाग्रति , तथा स्वप्ने ; सुप्तं स्वप्नः , तदेव तु यदा सुतरां पुष्टं भवति , तदा सुषुप्तः प्रमाता , तस्येदं सौषुप्तं पदम् / तत् द्विविधमपि समानाख्यरूपविशेषं प्राणीयं स्वीकरोति / सवेद्ये तावत्सुषुप्ते यद्यपि प्राणापानस्पन्दो लक्ष्यते , तथापि तयोर्मध्ये या विश्रान्तिहृदयसदने निरिन्द्रिये प्रदेशे तदेव मुख्यतः सुषुप्तमिति / तत्र प्राणापानयोर्यश्छेदो विश्रान्तिः कंचित्कालं तदात्मा सकलरसादिवर्गस्योर्ध्वाधरतिर्यक्षु समानीकरणव्यापारात्मा , तत एव हृत्पद्मविकासदानाद्भुक्तपीतजरणकारी समानो दिनरात्रिरूपयोः प्राणापानयोः कंचित्कालं साम्याद्विच्छेदाच्च विषुवत्कालतुल्यः / विषुं व्याप्तिं समानीकरणमर्हति , ---- इति , {तदर्हम्}(पाषू.५-१-११७) इति वतिः / उपमाने वतेरेव चाव्यवत्वम् उद्धतो निवतः इति प्रयोगात् ; तद्धि न्यायसिद्धं न वाचनिकम् / विशेषं वा दिनरात्रितदूनाधिकर्वलक्षणं सुवति प्रेरयत्यविरतम् , ---- इति शतरि विषुवत् / तत्र च विषुवति विच्छिद्यमानस्य प्राणापानस्य संस्काररूपतया सद्भावः , सैव हि विच्छेदो न तु सर्वात्मना नाशोऽस्ति , ---- इत्युक्तमसकृत् / ततश्च हानादानयोर्बीजरूपता सुषुप्ते ; इयति च सर्वः प्रलयाकलान्तः पशुवर्गः /
SK
यदा तु सा प्राणनावृत्तिर्वामदक्षिणमार्गौ खिलीभावयन्ती मध्यरूपेणोर्ध्वेन प्रवहति , तदा तत्प्रवहणं सकलस्य भेदस्याभेदसारतादानलक्षणं विलापनमाश्यानस्येव सर्पिषो विदधती उदानवृत्तिर्विज्ञानाकलादारभ्य सदाशिवान्तम् , सा च तुर्यात्मिका दशा / मायोर्ध्वे हि विज्ञानाकलाः , ---- इति ततःप्रभृति भेदगलनं प्रवर्तते / विलीने तु भेदे सर्ववेद्यराशिरूपतत्त्वभूतभुवनवर्गात्मलदेहव्यापनरूपेण प्राणवृत्तिर्व्यानरूपा विश्वात्मकपरमशोव्प्चिता तुर्यातीतरूपा / प्राण एव प्रमाता प्राणापानरूपः समानरूप उदानरूपो व्यानरूपश्च , ---- इति सामानाधिकरण्यम् , विज्ञानाकलश्चासौ मन्त्रश्चासौ वर्गापेक्षया , ईशश्च सदाशिवेश्वररूपो योऽसौ , ---- इति उदानः / एतदुक्तं भवति , यद्यपि तुर्यतदतीतयोरप्यस्ति प्राणना ---- अन्यथा जीवत्वस्य व्युत्थानस्य चानुपपत्तेः ---- तथापि भेदोपसंहारेणाभेदविश्रान्तिप्रधानत्वादनयोर्दशयोः सुखदुःखादिवैचित्र्यायोगात् एकघनस्वात्मविश्रान्त्यात्मकपरमानन्दमयत्वेनोपादेयतैव / सुषुप्तादौ तु संस्काररूपत्वास्फुटवेद्योल्लासस्फुटवेद्यावभासरूपस्य भेदस्य विद्यमानत्वात् अस्ति सुखदुःखादिवैचित्र्यम् , ---- इति हेयतैव , ---- इति युक्तमुक्तं हेया त्रयीयम् इत्यादि / भगवतश्च विश्वशरीरस्य प्राणापानसमानोदानव्यानरूपतैव सकलगतोल्लासप्रवेशप्रलयाकलविज्ञानाकलआदिवर्गशिवरूपता , ---- इत्यप्यनेन दर्शितम् / यथोक्तम्
SK
{षड्त्रिंशदात्मकं विश्वं शम्भोः प्राणादिशक्तयः /}
SK
इति //२०// आदितः १७१//
SK
इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तविरचितविमर्शिन्याख्यटीकोपेतायामागमाधिकारे प्रमातृतत्त्वनिरूपणाख्यं द्वितीयमाह्निकम् // २ //
SK
संपूर्णश्चायमागमाधिकारस्तृतीयः // ३ //

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśvarapratyabhijñāvimarśinī: Input by Masahiro Takano.

Source