Commentary on the Treasury of Abhidharma Abhidharmakośabhāṣya
Aभिधर्मकोशभाष्य
2 SK [००१|०३-००१|०७] ॐ नमो बुद्धाय यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार / तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् // VAक्K_१.१ //
3 SK [००१|०८] शास्त्रं प्रणेतुकामः स्वस्य शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभते य इति /
4 SK [००१|०९-००१|१०] बुद्धं भगवन्तमधिकृत्याह हतमस्यान्धकारमनेन वेति हतान्धकारः /
5 SK [००१|१०] सर्वेण प्रकारेण सर्वस्मिन् हतान्धकारः सर्वथासर्वहतान्धकारः /
6 SK [००१|१०-००१|११] अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाधकारम् /
7 SK [००१|११-००१|१२] तच्च भगवतो बुद्धस्य प्रतिपक्षलाभेनात्यन्तं सर्वथा सर्वत्र ज्ञेये पुनरनुत्पत्तिधर्मत्वाद्धतम् /
8 SK [००१|१२] अतो ऽसौ सर्वथासर्वहतान्धकारः /
9 SK [००१|१३] प्रत्यैकबुद्धश्रावका अपि कामं सर्वत्र हतान्धकाराः / क्लिष्टसंमोहात्यन्तविगमात् /
10 SK [००१|१४] न तु सर्वथा /
11 SK [००१|१४-००१|१५] तथ ह्येषां बुद्धधर्मेष्वतिविप्रकृष्टदेशकालेषु अर्थेषु चानन्तप्रभेदेषु भवत्येवाक्लिष्टमज्ञानम् /
12 SK [००१|१५-००१|१६] इत्यात्महितप्रतिपत्तिसंपदा संस्तुत्य पुनस्तमेव भगवन्तं परहितप्रतिपत्तिसंपदा संस्तौति संसारपङ्काज्जगदुज्जहारेति /
13 SK [००१|१७] संसारो हि जगदासङ्गस्थानत्वात् दुरुत्तरत्वाच्च पङ्कभूतः /
14 SK [००१|१७-००१|२०] तत्रावमग्नं जगदत्राणमनुकम्पमानो भगवान् सद्धर्मदेशनाहस्तप्रदानैर्यथाभव्यमभ्युद्धृतवान् इति य एवमात्मपरहितप्रतिपत्तिसंपदा युक्तस्तस्मै नमस्कृत्येति शिरसा प्रणिपत्य /
15 SK [००१|२०] यथार्थमविपरीतं शास्तीति यथार्थशास्ता /
16 SK [००१|२०-००१|२१] अनेन परहितप्रतिपत्त्युपायमस्याविष्करोति /
17 SK [००१|२१-००१|२२] यथाभूतशासनाच्छास्ता भवन्न्तसौ संसारपङ्काज्जगदुज्जहार न त्वृद्धिवरप्रदानप्रभावेणेति /
18 SK [००१|२२-००२|०१] तस्मै नमस्कृत्य किं करिष्यामी त्याह शास्त्रं प्रवक्ष्यामि /
19 SK [००२|०१] शिष्यशासनाच्छास्त्रम् /
20 SK [००२|०१-००२|०२] कतमच्छास्त्रमित्याह अभिधर्मकोशम्
21 SK [००२|०२] को ऽयमभिधर्मो नाम /
22 SK [००२|०३] प्रज्ञा ऽमला सानुचरा ऽभिधर्मः (१-२अ)
23 SK [००२|०४] तत्र प्रज्ञा धर्मप्रविचयः/ अमलेति अनास्रवा / सानुचरेति सपरिवारा /
24 SK [००२|०४-००२|०५] एवमनास्रवः पञ्चस्कन्धको ऽभिधर्म इत्युक्तं भवति /
25 SK [००२|०५] एष तावत् पारमार्थिको ऽभिधर्मः /
26 SK [००२|०६] सांकेतिकस्तु
27 SK [००२|०७] तत्प्राप्तये यापि च यच्च शास्त्रम् / (१-२ब्)
28 SK [००२|०८-००२|०९] यापि च श्रुतचिन्ताभावनामयी सास्रवा प्रज्ञा उपपत्तिप्रतिलम्भिका च सानुचरा /
29 SK [००२|०९-००२|१०] यच्च शास्त्रमस्याः प्राप्त्यर्थमनास्रवायाः प्रज्ञायाः तदपि तत्संभारभावादभिधर्म इत्युच्यते /
30 SK [००२|१०] निर्वचनं तु स्वलक्षणधारणाद् धर्मः /
31 SK [००२|१०-००२|११] तदयं परमार्थधर्मं वा निर्वाणं धर्मलक्षणं वा प्रत्यभिमुखो धर्म इत्यभिधर्मः /
32 SK [००२|१२] उक्तो ऽभिधर्मः / इदं तु शास्त्रं कथमभिधर्मकोशम् /
33 SK [००२|१३-००२|१४] तस्यार्थतो ऽस्मिन् समनुप्रवेशात् स चाश्रयो स्येत्यभिधर्मकोशम् (१-२च्-२द्) // VAक्K_१.२ //
34 SK [००२|१५-००२|१६] स हि शास्त्रसंज्ञको ऽभिधर्म एतस्मिन्नर्थतो यथाप्रधानमन्तर्भूत इत्येतच्छास्त्रं तस्य कोशस्थानीयं भवति /
35 SK [००२|१६] अथवा सो ऽभिधर्म एतस्याश्रयभूतः शास्त्रस्य /
36 SK [००२|१७] ततो ह्येतन्निराकृष्टम् / अतः स एवास्याभिधर्मः कोश इत्येतच्छास्त्रमभिधर्वर्मकोशम् /
37 SK [००२|१८-००२|१९] किमर्थं पुनरभिधर्मोपदेशः केन चायं प्रथमत उपदिष्टो यट आचार्यो ऽभिधर्मकोशं वक्तुमाद्रियत इति //
39 SK [००२|२०-००२|२३] धर्माणां प्रविचयमन्तरेण नास्ति क्लेशानां यत उपशान्तये ऽभ्युपायः / क्लेशैश्च भ्रमति भवार्णवे ऽत्र लोकस्तद्धेतोरत उदितः किलैष शास्त्रा // VAक्K_१.३ //
40 SK [००२|२४] यतो न विना धर्मप्रविचयेनास्ति क्लेशोपशमाभ्युपायः /
41 SK [००२|२४-००३|०१] क्लेशाश्च लोकं भ्रमयन्ति संसारमहार्णेवे ऽस्मिनन् /
42 SK [००३|०१-००३|०२] अतस्तद्धेतोस्तस्य धर्मप्रविचयस्यार्थे शास्त्रा किल बुद्धेनाभिधर्म उक्तः /
43 SK [००३|०२] नहि विना ऽभिधर्मोपदेशेन शिष्यः शक्तो धर्मान् प्रविचेतुमिति /
44 SK [००३|०३-००३|०४] स तु प्रकीर्ण उक्तो भगवता भदन्तकात्यायनीपुत्र-प्रभृतिभिः पिण्डीकृत्य स्थपितोभदन्त धर्मत्रातो दानवर्गीयकरणवदित्याहुर्वैभाषिकाः /
45 SK [००३|०५] कतमे पुनस्ते धर्मा येषां प्रविचयार्थमभिधर्मोपदेश इत्याह
46 SK [००३|०६] सास्रवा ऽनास्रवा धर्माः (१-४अ)
47 SK [००३|०७] एष सर्वधर्माणां समासनिर्द्देशः /
48 SK [००३|०७-००३|०८] तत्र कतमे सास्रवा धर्मा इत्याह
49 SK [००३|०८-००३|०९] संस्कृता मार्गवर्जिताः / सास्रवाः (१-४ब्-४च्१)
50 SK [००३|१०] मार्गसत्यं वर्जयित्वा ऽन्ये संस्कृता धर्माः सास्रवाः / किं कारणम् /
51 SK [००३|११] आस्रवास्तेषु यस्मात् समनुशेरते (१-४च्२-४द्) // VAक्K_१.४ //
52 SK [००३|१२-००३|१३] कामं निरोधमार्गसत्यालम्बना अपि आस्रवा उपजायन्ते न तिनुशेरते तत्रेति न तयोः सास्रवत्वप्रसञ्गः /
53 SK [००३|१३-००३|१४] यथा ऽत्र नानुशेरते तत् पश्चादनुशयनिर्देश एव ज्ञापयिष्यामः /
54 SK [००३|१४] उक्ताः सास्रवाः /
55 SK [००३|१५] अनस्रवाः कतमे /
56 SK [००३|१६] अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् / (१-५अ-५ब्)
57 SK [००३|१७] कतमत्त्रि विधम् /
58 SK [००३|१८] आकाशं द्वौ निरोधौ च (१-५च्)
59 SK [००३|१९] कतमौ द्वौ / प्रतिसंख्यानिरोधो ऽप्रतिसंख्यानिरोधश्च /
60 SK [००३|१९-००३|२०] इत्येतदाकाशादि त्रिविधमसंस्कृतं मार्गसत्यं चानास्रवा धर्माः /
61 SK [००३|२०] किं कारणम् / नहि तेष्वास्रवा अनुशेरत इति /
62 SK [००३|२१] यदेतत् त्रिविधमसंस्कृतमुद्दिष्टम्
63 SK [००३|२२] तत्राकाशमनावृतिः (१-५द्) // VAक्K_१.५ //
64 SK [००३|२३] अनावरणस्वभावमाकाशं यत्र रूपस्य गतिः //
65 SK [००३|२४] प्रतिसंख्यानिरोधो यो विसंयोगः (१-६अ-६ब्१)
66 SK [००४|०१] यः सास्रवैर्धर्मैर्विसंयोगः स प्रतिसंख्यानिरोधः /
67 SK [००४|०१-००४|०२] दुःखादीनामार्यसत्यानां प्रतिसंख्यानं प्रतिसंख्या प्रज्ञाविशेषस्तेन प्राप्यो निरोधः /
68 SK [००४|०२] प्रतिसंख्यानिरोधः /
69 SK [००४|०२-००४|०३] मध्यपदलोपात् गोरथवत् /
70 SK [००४|०४] किं पुनरेक एव सर्वेषां सास्रवाणां धर्माणां प्रतिसंख्यानिरोधः / नेत्याह /
72 SK [००४|०६] पृथक् पृथक् / (१-६ब्२)
73 SK [००४|०७] यावन्ति हि संयोगद्रव्याणि तावन्ति विसंयोगद्रव्याणि /
74 SK [००४|०७-००४|०८] अन्यथा हि दुःखदर्शनहेयक्लेशनिरोधसाक्षात्क् करणात् सर्वक्लेशनिरोधसाक्षात्क्रिया प्रसज्येत /
75 SK [००४|०८-००४|०९] सति चैवं शेषप्रतिपक्षभावनावैयर्थ्यं स्यात् /
76 SK [००४|०९-००४|१०] यत्तर्ह्युक्तम् ᳚असभागोनिरोध᳚ इत्यस्य को ऽर्थः /
77 SK [००४|१०-००४|११] नास्य कश्चित् सभागहेतुरस्ति नासौ कस्यचिदित्ययमस्य वाक्यस्यार्थो न तु नास्य कशिचत् सभागो ऽस्तीति /
78 SK [००४|११] उक्तः प्रतिसंख्यानिरोधः //
79 SK [००४|१२] उत्पादात्यन्तविघ्नो ऽन्यो निरोधो ऽप्रतिसंख्यया (१-६च्-६द्) // VAक्K_१.६ //
80 SK [००४|१३-००४|१४] अनागतानां धर्माणामुत्पादस्यात्यन्तं विघ्नभूतो विसंयोगाद् यो ऽन्यो निरोधः सो ऽप्रतिसंख्यानिरोधः /
81 SK [००४|१४] न ह्यसौ प्रतिसंख्यया लभ्यते / किं तर्हि / प्रत्ययवैकल्यात् /
82 SK [००४|१४-००४|१६] यथैकरूपव्यासक्तचक्षुर्मनसो यानि रूपाणि शब्दगन्धरसस्प्रष्टव्यानि चात्ययन्ते तदालम्बनैः पञ्चभिर्विज्ञानकायैर्न शक्यं पुनरुत्पत्तुम् /
83 SK [००४|१६-००४|१७] न हि ते सत्या अतीतं विषयमालम्बयि तुल्मिति /
84 SK [००४|१७] अतः स तेषामप्रतिसंख्यानिरोधः प्रत्ययवैकल्यात् प्राप्यते /
85 SK [००४|१८] चतुष्कोटिकं चात्र भवति / सन्ति ते धर्मा येषां प्रतिसंख्यानिरोध एव लभ्यते /
86 SK [००४|१९] तद्यथा अतितप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणाम् /
87 SK [००४|१९-००४|२०] सन्ति येषामप्रतिसंख्यानिरोध एव /
88 SK [००४|२०] तद्यथा ऽनुत्पत्तिधर्माणामनास्रवसंस्कृतानाम् / सन्ति ते येसामुभयम् /
89 SK [००४|२१] तद्यथा सास्रवाणामनुत्पस्त्तिधर्माणाम् / सन्ति येषां नोभयम् /
90 SK [००४|२१-००४|२२] तद्यथा अतीतप्रत्युत्पन्नोत्पत्तिधर्माणामणास्रवाणामिति /
91 SK [००४|२२] उक्तं त्रिविधमसंस्कृतम् //
92 SK [००४|२३] यत्तूक्तं ᳚संस्कृता मार्गवर्जिताः /
93 SK [००४|२३-००४|२४] सास्रवा᳚ इति कतमे ते संस्कृताः /
94 SK [००४|२५] ते पुनः संस्कृता धार्मा रूपादिस्कन्धपञ्चकम् / (१-७अ-७ब्)
95 SK [००४|२६] रूपस्कन्धो वेदनास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्चेत्येते संस्कृता धर्माः /
96 SK [००४|२७] समेत्य संभूय प्रत्ययैः कृताः इति संस्कृताः / नह्येकप्रत्ययजनितं किञ्चिदस्तीति /
97 SK [००४|२७-००५|०१] तज्जातीयत्वादनागतेष्वविरोधो दुग्धेन्धनवत् /
98 SK [००५|०२] त एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः (१-७च्-७द्) // VAक्K_१.७ //
99 SK [००५|०३] त एव संस्कृता गतगच्छद्गमिष्यद्भावादध्वानः अद्यन्ते ऽनितयत्येति वा /
100 SK [००५|०३-००५|०४] कथा वावायम् तस्या वस्तु नाम /
101 SK [००५|०४] सार्थकवस्तुग्रहणात् तु संस्कृन्तं कथावस्तूच्यते /
102 SK [००५|०४-००५|०५] अन्यथा हि उरकरणग्रन्थो विरुध्येत /
103 SK [००५|०५] ᳚कथावस्तून्यष्टादशभिर्धतुभिः संगृहीतानि /᳚
104 SK [००५|०५-००५|०६] निःसरणं निःसारः सर्वस्य संस्कृतस्य निर्वाणम् /
105 SK [००५|०६] तदेषामस्तीति सनिःसाराः /
106 SK [००५|०६-००५|०७] सहेतुकत्वात् सवस्तुकाः /
107 SK [००५|०७] हेतुवचनः किल वस्तुशब्द इति वैभाषिचाः /
108 SK [००५|०७-००५|०८] इत्येते संस्कृतधर्मौअर्यायाः /
109 SK [००५|०८] त एव पुयः संस्कृता धरमाः /
110 SK [००५|०९] ये सास्रवा उपादानस्कन्धास्ते (१-८अ-८ब्१)
111 SK [००५|१०] अतः किं दिद्धं /
112 SK [००५|१०-००५|११] य उपादानस्कन्धाः स्कन्धा अपि ते स्युः एव नोपादानस्कन्धाः /
113 SK [००५|११] अनास्रवाः संस्कारा इति तत्र उपादानानि क्लेशाः /
114 SK [००५|११-००५|१२] तत्संभूतत्वादुपादानस्कन्धाः //
115 SK [००५|१२] त्रुणतुपाग्निवत् / तद्धिधेयत्वाद्वा राजपुरूपवत् /
116 SK [००५|१२-००५|१३] उपादानानि वा तेभ्यः संभवन्तीति उपादानस्कन्धाः पुष्पफलवृक्षवत् /
117 SK [००५|१३-००५|१४] त एव सास्रवा धर्मा उच्यन्ते /
118 SK [००५|१५] सरणा अपि / (१-८ब्२)
119 SK [००५|१६] रण्सा हि क्लेशाः / आत्मपारव्यावाधनात् / स्तदनुशयितत्वात् सरणाः / सास्रववत् / पुनः
120 SK [००५|१७] दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते (१-८च्-८द्) // VAक्K_१.८ //
121 SK [००५|१८] आर्याणां प्रतिकूलत्वाद्दुःखम् / समुदेत्यस्माद् दुःखमिति समुदयः /
122 SK [००५|१८-००५|१९] लक्ष्यत इति लोकः /
123 SK [००५|१९] दृष्टिरस्मिंस्तिष्ठत्यनुशयनादिति दृष्टिस्थानम् / भवतीति भवः
124 SK [००५|२०] इत्येते सास्रवाणसं धर्माणामान्वर्थपर्यायाः
125 SK [००५|२१] पञ्च रूपादयः स्कन्धा इत्युक्तम् / तत्र
126 SK [००५|२२] रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च / (१-९अ-९ब्)
127 SK [००५|२३] पञ्चेन्द्रियाणि चक्षुःश्त्रोत्रग्र्हाणजिह्वाकायेन्दरिया ण /
128 SK [००५|२३-००५|२४] पञ्चार्थास्तेषामेवचक्षुरादीनामिन्द्रियाणां यथास्वं ये पञ्च विषयाः रूपशब्दगन्धरसस्प्रष्टव्याख्याः /
129 SK [००५|२५] अविज्ञप्तिश्चेति / एतावान् रूपस्कन्धः
130 SK [००५|२६] तत्र य एते पञ्च रूपादयो ऽर्था उक्ताः /
131 SK [००५|२७] तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः (१-९च्-९द्) // VAक्K_१.९ //
132 SK [००६|०१-००६|०२] रूपशब्दगन्धरसस्प्रष्टव्यविज्ञानानामाश्रयभूता ये पञ्च रूपात्मकाः प्रसादास्ते यथाक्रमं चक्षुःश्रोत्रघ्राणजिह्वाकाया वेदितव्याः /
133 SK [००६|०२-००६|०३] यथोक्तं भगवता ᳚चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय᳚ रूप प्रसाद इति विस्तरः /
134 SK [००६|०३-००६|०४] यान्येतानि चक्षुरादीन्युक्तनि तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः /
135 SK [००६|०४-००६|०५] चक्षुर्विज्ञानाद्याश्रया इत्यर्थः /
136 SK [००६|०५] एवं कृत्वा प्रकरणग्रण्थो ऽप्यनुवृत्तो भवति / ᳚चक्षुः कतमत् /
137 SK [००६|०५-००६|०६] चक्षुर्विज्ञानाश्रयो रूपप्रसाद᳚ इति विस्तरः /
138 SK [००६|०६] निर्द्दिष्टानि पञ्चेन्द्रियाणि /
139 SK [००६|०७] अर्थाः पञ्चा निर्द्देश्याः / तत्र तावत्]
140 SK [००६|०८] रूपं द्विधा
141 SK [००६|०९] वर्णः संस्थानं च / तत्र वर्णश्चतुर्विधो नीलादिः / तद्भेदा अन्ये /
142 SK [००६|०९-००६|१०] सम्स्थानमष्टविधं दीर्घदि विसातान्तम् /
143 SK [००६|१०] तदेव रूपायतनं पुनरुच्यते /
145 SK [००६|१२-००६|१३] तद्यथा नीलं पीतं लोहितमवदातं दीर्घं ह्रस्वं वृत्तं परिमण्डलं उन्नतमवनतं सातं विसातं अभ्रं धूमो रजो महिका च्छाया आतपः आलोकः अन्धकारमिति /
146 SK [००६|१३-००६|१४] केचिन्नभश्चैकवर्णमिति एकविंशतिं संपठन्ति /
147 SK [००६|१४] तत्र सातं समस्थानम् / विसातं विषम स्थानम्ल् महिका नीहारः / आतपः सूर्यप्रभा /
148 SK [००६|१४-००६|१५] आलोकः चन्द्रतारकाग्न्योषधिमणीनं प्रभा /
149 SK [००६|१६] छाया यत्र रूपाणां दर्शनम् / विपर्ययादन्धकारम् /
150 SK [००६|१६-००६|१७] शेषं सुगमत्वान्न विपञ्चितम् /
151 SK [००६|१७] अस्ति रूपायतनं वर्णतो विद्यते न संस्थानतः
152 SK [००६|१७-००६|१८] नीलपीतलोहितवदातच्छायातपालोकान्धकाराख्यम् /
153 SK [००६|१८] अस्ति संस्थानतो न वर्णतः /
154 SK [००६|१८-००६|१९] घादीनां प्रदेषः कायविज्ञप्तिस्वभावः /
155 SK [००६|१९] अस्त्युभयथा / परिशिष्टं रूपायतनम् /
156 SK [००६|१९-००६|२०] आतपालोकावेव वर्णतो विद्येते इत्यपरे /
157 SK [००६|२०] ᳚दृश्यते हि नीलादीनं दीर्घादिपरिच्छेद᳚ इति /
158 SK [००६|२१] कथं पुनरेकं द्रव्यमुभयथा विद्यते / अस्त्युभयस्य तत्र प्रज्ञानात् /
159 SK [००६|२१-००६|२२] ज्ञानार्थो ह्येष विदिर्न सत्तार्थः /
160 SK [००६|२२] कायविज्ञप्तावपि तर्हि प्रसङ्गः / उक्तं रूपायतनं //
161 SK [००६|२३] शब्दस्त्वष्टविधः /
162 SK [००६|२४] उपात्तानुपात्तमहाभूतहेतुकः सत्त्वासत्त्वाख्यश्चेति चतुर्विधः /
163 SK [००६|२४-००६|२५] पुनर्मनोज्ञामनोज्ञभेदादष्टविधो भवति /
164 SK [००६|२५-००६|२६] तत्रोपात्तमहाभूतहेतुको यथा हस्तवाक्छब्दः /
165 SK [००६|२६] अनुपात्तमहाभुतहेतुको यथा वायुवनस्पतिनदीशब्दः /
166 SK [००६|२६-००६|२७] सत्त्वाख्यो वाग्विज्ञप्तिषब्दः /
167 SK [००६|२७] असत्त्वाख्यो ऽन्यः
168 SK [००६|२७-००६|२८] उपात्तानुपात्तमहाभूतहेतुको ऽप्यस्ति शब्द इत्यपरे /
169 SK [००६|२८] तद्यथा हस्तमृदङ्गसंयोगज इति /
170 SK [००६|२८-००७|०१] स तु यथैकौ वर्णपरमाणुर्न भूतचतुष्कद्वयमुपादायेष्यते तथा नैवैष्टव्य इति /
171 SK [००७|०१] उक्तः शब्दः //
174 SK [००७|०४] मधुराम्ललवणकटुकतित्तकषायभेदात् /
175 SK [००७|०५] चतुर्विधो गन्धः
176 SK [००७|०६] सुगन्धदुर्गन्धयोः समविषमगन्धत्वात् / त्रिविधस्तु शास्त्रे /
177 SK [००७|०६-००७|०७] ᳚सुगन्धो दुर्गन्धः समगन्ध᳚ इति /
178 SK [००७|०८] स्पृश्यमेकादशात्मद्कम् // VAक्K_१.१० //
179 SK [००७|०९] स्प्रष्टव्यमेकादशद्रव्यस्वभावम् /
180 SK [००७|०९-००७|१०] चत्वारि महाभूतानि श्लक्ष्णत्वं कर्कशत्वं गुरुत्वं लघुत्वं शीतं जिघत्सा पिपासा चेति /
181 SK [००७|१०] तत्र भूतानि पश्चाद्वक्ष्याम्ः /
182 SK [००७|१०-००७|११] श्लक्ष्णत्वं मृदुता /
183 SK [००७|११] कर्कशत्वं परुषता / गुरुत्वं येन भावास्तुल्यन्ते / लघुत्वं विपर्ययात् /
184 SK [००७|११-००७|१२] शीतमुष्णाभिलाषकृत् /
185 SK [००७|१२] जिघत्सा भोजनाभिलाषकृत् / कारणे कार्योपचारात् / यथा
186 SK [००७|१३-००७|१४] ᳚बुद्धानां सुख उत्पादः सुखा धर्मस्य देशना / सुखा सङ्घस्य सामग्री समग्राणां तपः सुखं᳚ // इति /
187 SK [००७|१५] तत्र रूपधातौ जिघत्सापिपासे न स्तः / शेषमस्ति
188 SK [००७|१५-००७|१६] यद्यपि तत्र वस्त्राण्येकशो न तुल्यन्ते सञ्चितानि पुनस्तुल्यन्ते /
189 SK [००७|१६] शीतमुपघातकं नास्ति /
190 SK [००७|१६-००७|१७] अनुग्राहकं किलास्ति /
191 SK [००७|१८-००७|१९] यदेतद्बहुविधं रूपमुक्तं तत्र कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति /
192 SK [००७|१९] कदाचिद् बहुभिर्यदा न व्यवच्छेदः /
193 SK [००७|१९-००७|२०] तद्यथा सेनाव्यूहमनेकवर्णसंस्थानं मणिसमूहं च दूरात् पश्यतः /
194 SK [००७|२०] एवं श्रोत्रादिविज्ञानं वेदितव्यं /
195 SK [००७|२१] कायविज्ञानं तु परं पञ्चभिः स्प्रष्टव्यैरुत्पद्यत इत्येके /
196 SK [००७|२१-००७|२२] चतुर्भिर्महाभूतैरेकेन च श्लक्ष्णत्वादिना /
197 SK [००७|२२] सर्वैरेकादशभिरित्यपरे /
198 SK [००७|२२-००७|२३] ननु चैवं समस्तालम्बनत्वात् सामान्यविषयाः पञ्च विज्ञानकायाः प्राप्नुवन्ति न स्वलक्षणविषयाः /
199 SK [००७|२३-००७|२४] आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषया इष्यन्ते न द्रव्यस्वलक्षणमित्यदोषः /
200 SK [००७|२५] इदं विचार्यते /
201 SK [००७|२५-००७|२६] कायजिह्वेन्द्रिययोर्युगपद् विषयप्राप्तौ सत्यां कतरद् विज्ञानं पूर्वमुत्पद्यते /
202 SK [००७|२६] यस्य विषयः पटीयान् /
203 SK [००७|२६-००७|२७] समप्राप्ते तु विषये जिह्वाविज्ञानं पूर्वमुत्पद्यते /
204 SK [००७|२७] भोक्तुकामतावर्जितत्वात्सस्न्ततेः /
205 SK [००७|२७-००७|२८] उक्ताः पञाचेन्द्रियार्थाः यथा च तेषां ग्रहणं /
206 SK [००७|२९] अविज्ञप्तिरिदानीं वक्तव्या / सेयमुच्यते
207 SK [००८|०१-००८|०२] विक्षिप्ताचित्तकस्यापि यो ऽनुबण्धः शुभाशुभः / महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते // VAक्K_१.११ //
208 SK [००८|०३] विक्षिप्तचित्तकस्येति तदन्यचित्तस्यापि //
209 SK [००८|०३-००८|०४] अचित्तकस्यापीत्यसंज्ञिनिरोधसमापत्तिसमापन्नस्यापि /
210 SK [००८|०४] अपिशब्देनाविक्षिप्तसचित्तस्यापीति विज्ञायते /
211 SK [००८|०५] यो ऽनु बन्ध इति यः प्रवाहः / शुभाशुभ इति कुशलाकुशलः /
212 SK [००८|०५-००८|०६] कुशलाकुशले प्राप्तिवाहो ऽप्यस्तीदृश इति तद्विशेषणार्थमुच्यते महाभूतान्युपादायेति /
213 SK [००८|०७] हेत्वर्थ उपादायार्थ इति वैभाषिकाः / जननादिहेतुभावात् /
214 SK [००८|०७-००८|०८] स ह्यविज्ञप्तिरिति हिशब्दस्तन्नामकरणविज्ञापनार्थः /
215 SK [००८|०८-००८|०९] रूपक्रियास्वभावापि सती विज्ञप्तिवत् परं न विज्ञापयतीत्यविज्ञप्तिः /
216 SK [००८|०९-००८|०९ उच्यत इति आचार्यवचनं दर्शयति /
217 SK [००८|०९-००८|१०] समासतस्तु विज्ञप्तिसमाधिसंभूतं कुशलाकुशलं रूपमविज्ञप्तिः /
218 SK [००८|११] महाभूतान्युपादायेत्युक्तानि कतमानि भूतानि /
219 SK [००८|१२] भूतानि पृथिवीधातुरप्तेजोवायुधातवः
220 SK [००८|१३] इत्येते चत्वारः स्वलक्षणोपादायरूपधारणाद् धातवश्चत्वारि महाभूतान्य् उच्यन्ते /
221 SK [००८|१४] महत्त्वमेषां सर्वान्यरूपाश्रयत्वेनौदारिकत्वात् /
222 SK [००८|१४-००८|१५] अथ वा तदुद्भूतवृत्तिषु पृथिव्यप्तेजोवायुस्कन्धेष्वेषां महास्ण्निवेशत्वात् /
223 SK [००८|१५-००८|१६] ते पुनहेते धातवः कस्मिन् कर्मणि संसिधाः किंस्वभावाश्चेत्याह
224 SK [००८|१७] धृत्यादिकर्मसंसिद्धाः
225 SK [००८|१८] धृतिसंग्रहपक्तिव्यूहनकर्मस्वेते यथाक्रमं संसिद्धाः पृथिव्यप्तेजोवायुधातवः /
226 SK [००८|१८-००८|१९] व्यूहनं पुनर्वृद्धिः प्रसर्पणं च वेदितव्यम् /
227 SK [००८|१९] इदमेषां कर्म / स्वभावस्तु यथाक्रमं
228 SK [००८|२०] खरस्नेहोस्णतेरणाः // VAक्K_१.१२ //
229 SK [००८|२१] खरः पृथिवीधातुः / स्नेहो ऽब्धातुः / उष्णता तेजोधातुः /
230 SK [००८|२२] ईरणा वायुधातुः / ईर्यते ऽनया भूतस्रोतो देशान्तरोत्पादनात् प्रदीपेरणवदितीरणा /
231 SK [००८|२३] ᳚वायुधातुः कतमो लघुसमुदीरणत्वम्᳚ इति प्रकारणेषु निर्दिष्टं सूत्रे च /
232 SK [००८|२३-००८|२४] तत्तु लघुत्वमुपादाय रूपमप्युक्तं प्रकरणेषु /
233 SK [००८|२४-००८|२५] अतो य ईरणास्वभावो धर्मः स वायुरिति कर्ंअणा ऽस्य स्वभावो ऽभिव्यक्तः /
234 SK [००८|२६] कः पुनः पृथिव्यादिनां पृथिवीधात्वादीनां च विशेषः /
235 SK [००९|०१] पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया / [००९|०२] तथा हि पृथिवीं दर्शयन्तो वर्णं संस्थानं च दर्शयन्ति / यथा पृथिवी एवं
237 SK [००९|०४] वर्णसंस्थानमेवोच्यते लोकसंज्ञया /
238 SK [००९|०५] वायुस्तु धातुरेव
239 SK [००९|०६] य एव तु वायुधातुः स एव लोके वायुअरित्युच्यते /
240 SK [००९|०७] तथपि च // VAक्K_१.१३ //
241 SK [००९|०८] यथा पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया तथ वायुअरपि /
242 SK [००९|०८-००९|०९] नीलिका वात्या मण्डलिका वात्येति //
243 SK [००९|१०] कस्मात् पुनरयमविज्ञप्तिपर्यन्तो रूपस्कन्ध इत्युच्यते / रौपणात् /
244 SK [००९|१०-००९|११] उक्तं भगवता ᳚रूप्यते रुप्यत इति भिक्षवस्तस्माद्रूपोपादानस्दन्ध इत्युच्यते //
245 SK [००९|११-००९|१२] केन रुप्यते /
246 SK [००९|१२] पाणिस्पर्शेनापि स्पृष्टो रूप्यत᳚ इति विस्तरः / रूप्यते बाध्यत इत्यर्थः /
247 SK [००९|१३] तथा ह्यर्थवर्गीयेषूक्तम्
248 SK [००९|१४-००९|१५] ᳚तस्य चेत् कामयानस्य च्छन्दजातस्य देहिनः / ते कामा न समृध्यन्ति शल्यविद्ध इव रूप्यते //᳚
249 SK [००९|१६] रूपस्य पुनः का बधना / विपरिणामोत्पादना /
250 SK [००९|१६-००९|१७] प्रतिघातो रूपेणेत्यपरे /
251 SK [००९|१७] परमाणुरूपं तर्हि रूपं न प्राप्नोत्यरूपणात् /
252 SK [००९|१७-००९|१८] न वै परमाणुरूपमेकं पृथग् भूतमस्ति /
253 SK [००९|१८] सञ्घातस्थं तु तद् रूप्यत एव /
254 SK [००९|१८-००९|१९] अतीतानागतं तर्हि रूपं न प्राप्नोति /
255 SK [००९|१९] तदपि रूपितं रूपयिष्यमाणं तज्जातीयं चेति रूपमिन्धनवत् /
256 SK [००९|१९-००९|२०] अविज्ञप्तिस्तर्हि न प्राप्नोति /
257 SK [००९|२०] सापि विज्ञप्तिरूपणाद् रूपिता भवति /
258 SK [००९|२०-००९|२१] वृक्षप्रचलने च्छायाप्रचलनवत् /
259 SK [००९|२१] नाविकारात् /
260 SK [००९|२१-००९|२२] विज्ञप्तिनिवृत्तौ चाविज्ञप्तिनिवृत्तिः स्याद् वृक्षाभावे च्छाया ऽभाववत् /
261 SK [००९|२२-००९|२३] आश्रयभूतरूपणादित्यपरे एवं तर्हि चक्षुर्विज्ञानादीनामप्याश्रयरूपणात् रूपत्वप्रसङ्गः /
262 SK [००९|२३] विषमो ऽयमुपन्यासः /
263 SK [००९|२३-००९|२४] अविज्ञप्तिर्हि च्छायेव वृक्षं प्रभेव मणिं भूतान्याश्र्त्य वर्त्तते /
264 SK [००९|२४-००९|२५] न त्वेवं चक्षुरादीन्याश्रित्य वर्त्तन्ते चक्षुर्विज्ञानादीनि केवलं तूत्पत्तिनिमिक्तमात्रं तानि तेषां भवन्तीति /
265 SK [००९|२५-००९|२६] इदं तावदवैभाषिकीयं वृक्षमाश्रित्य च्छाया वर्त्तते मणिं चाश्रित्य प्रभेति /
266 SK [००९|२६-०१०|०१] च्छायादिवर्णपरमाणूनां प्रत्येकं स्वभूतचतुष्काश्रितत्वाभ्युपगमात् /
267 SK [०१०|०१] सत्यपि च तदाश्रितत्वे च्छायाप्रभयोर्नाविज्ञप्तिस्तथैवाश्रिता / युज्यते /
268 SK [०१०|०२] निरुद्धेष्वपि अविज्ञ प्त्याशयेषु महाभूतेषु तस्या अनिरोधो ऽभ्युपगम्यते /
269 SK [०१०|०२-०१०|०३] अतो न भवत्येष परिहारः /
270 SK [०१०|०३-०१०|०४] अन्ये पुनरत्र परिहारमाहुः चक्षुर्विज्ञानादीनामाश्रयो भेदं गतः /
271 SK [०१०|०४] कष्चिद्रूप्यते चक्षुरादिः कश्चिन्न रूप्यते यथा मनः /
272 SK [०१०|०५] न त्वेवमविज्ञप्तिः /
273 SK [०१०|०५-०१०|०६] तस्मादसमानः प्रसङ्गः इत्यत उपपन्नमेतदाश्रय रूपणाद्रूपमिति /
274 SK [०१०|०७] य एव रूपस्कन्धस्वभावा उक्ताः
275 SK [०१०|०८] इन्द्रियार्थस्त एवेष्टा अशायतनधातवः /
276 SK [०१०|०९] आयतनव्यवस्थायां दशायतनानि /
277 SK [०१०|०९-०१०|१०] चक्षुरायतनं रूपायतनं यावत् कायायतनं स्प्रष्टव्यायतनमिति /
278 SK [०१०|१०-०१०|११] धातुव्यवस्थायां त एव दशधातवश्चक्षुर्छातू रूपधातुर्यावत् कायधातुः स्प्रष्टव्यधातुरिति /
279 SK [०१०|११] उक्तो रूपस्कन्धस्तस्य चायतनव्यवस्थानम् /
280 SK [०१०|१२=०१०१२] वेदनादयो वक्तव्यः /
282 SK [०१०|१३] वेदना ऽनुभवः
283 SK [०१०|१४] त्रिविधो ऽनुभवो वेदनास्कन्धः / सुखो दुःखो , दुःखासुखश्च /
284 SK [०१०|१४-०१०|१५] स पुनर्भिद्यमानः षड् वेदनाकायाः चक्षुःसंस्पर्शजा वेदना यावम्वनःसंस्पर्शजा वेदनेति /
285 SK [०१०|१६] संज्ञा निमित्तोद्ग्रहणात्मिका // VAक्K_१.१४ //
286 SK [०१०|१७-०१०|१८] यावन्नीलपीतदीर्घह्रस्वस्त्रिपुरुषमित्रमित्रसुखदुःखादिनिमित्तोद्ग्रहणमसौ संज्ञास्कन्धः /
287 SK [०१०|१८] स पुनर्भिद्यमानः षट्संज्ञाकाया वेदनावत् //
288 SK [०१०|१९] चतुर्भ्यो ऽन्ये तु संस्कारस्कन्धः
289 SK [०१०|२०] रूपवेदनासंज्ञाविज्ञानेभ्यश्चतुब्ब्र्यो ऽन्ये तु संस्काराः संस्कारस्कन्धः/
290 SK [०१०|२०-०१०|२१] भगवता तु सूत्रे षट् चेतनाकाया इत्युक्तं प्राधान्यात् /
291 SK [०१०|२१-०१०|२२] सा हि कर्मस्वरूपत्वादभिसंस्करणे प्रधाना /
292 SK [०१०|२२-०१०|२३] अत एवोक्तं भगवता ᳚संस्कृतमभिसंस्करोति /
293 SK [०१०|२३] तस्मात् संस्कारा उपादानस्कन्ध इत्य् उच्यत᳚ इति
294 SK [०१०|२३-०१०|२५] अन्यथा हि शेषाणां चैतसिकानां विप्रयुक्तानां च संस्काराणां स्कन्धासंग्रहाद्दुःखसमुदयसत्यत्वं न स्यादिति परिज्ञापरिहाणे अपि न स्याताम्/
295 SK [०१०|२५-०१०|२६] उक्तं च भगवता ᳚नाहमेकधर्ममपि अनभिज्ञायापरिज्ञाय दुःखस्यान्तक्रियां वदामीति /
296 SK [०१०|२६] एवमप्रहाये᳚ त्युक्तम् /
297 SK [०११|०१] तस्मादवश्यमेषां संस्कारस्कन्धसंग्रहो ᳚भ्युपगन्तव्यः /
298 SK [०११|०२] एते पुनस्त्रयः /
299 SK [०११|०३] वेदनासंज्ञासंस्कारस्कन्धाः आयतनधातुव्यवस्थायां
300 SK [०११|०४] धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतैः // VAक्K_१.१५ //
301 SK [०११|०५] इत्येतानि सप्त द्रव्याणि धर्मायतनं धर्मधातुश्चेत्याख्यायन्ते /
302 SK [०११|०६] विज्ञानं प्रतिविज्ञप्तिः
303 SK [०११|०७] विषयं विषयं प्रति विज्ञप्तिरुपलब्धिर्विज्ञान स्कन्ध इत्युच्यते /
304 SK [०११|०७-०११|०८] स पुनः षड् विज्ञानकायाः चक्षुर्विज्ञानं यावन्मनोविज्ञानमिति /
305 SK [०११|०८-०११|०९] य एष विज्ञानस्कन्ध उक्त आयतनव्यवस्थायां
306 SK [०११|१०] मन आयतनं च तत् /
307 SK [०११|११] धातुव्यवस्थायां स एव
308 SK [०११|१२] धातवः सस्प्त च मताः
309 SK [०११|१३] कतमे सप्त /
310 SK [०११|१४] षड् विज्ञानान्यथो मनः // VAक्K_१.१६ //
311 SK [०११|१५] चक्षुर्विज्ञानधातुर्यावन्मनोविज्ञानधातुमनोधातुश्च /
312 SK [०११|१५-०११|१६] एवमत्र पञ्च स्कन्धा द्वादशायतनानि अष्टादश धातवो निर्द्दिष्टा भवण्ति /
313 SK [०११|१६-०११|१७] अविज्ञप्तिवर्ज्यो रूपस्कन्धो दशायतनानि दश धतवः /
314 SK [०११|१७-०११|१८] वेदना दयः स्कन्धास्त्रयो ᳚विज्ञप्तिरसंस्कृतानि च धर्मायतनं धर्मधातुश्च विज्ञानस्कन्धो मन आयतनं षड् विज्ञानधातवो मनोधातुश्चेति //
315 SK [०११|१९] ननु च षड् विज्ञानकाया विज्ञानस्कन्ध इत्युक्तम् /
316 SK [०११|१९-०११|२०] अथ को ᳚यं पुनस्तेभ्यो ᳚न्यो मनोधातुः न खलु कश्चिदन्यः /
317 SK [०११|२०] किं नर्हि / तेषामेव
318 SK [०११|२१] षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः /
319 SK [०११|२२] यद्यत्समनन्तरनिरुद्धं विज्ञानं तन्मनोधातुरित्युच्येत /
320 SK [०११|२२-०११|२३] तद्यथा स एव पुत्रो ᳚न्यस्य पिता भवति तदेव फलमन्यस्य बीजमिति /
321 SK [०११|२३-०११|२५] एवं तर्हि द्रव्यतः सप्तदश धातवो भवन्ति द्वादश वा षड्विज्ञानधातुमनोधातूनामितरेतरान्तर्भावादिति कस्मादष्टादाश व्यवस्थाप्यन्ते /
322 SK [०११|२५] यद्यप्येवं तथापि
323 SK [०११|२६] षष्ठाश्रयप्रसिद्ध्यर्थ धातवो ᳚षादश् स्मृताः // VAक्K_१.१७ //
324 SK [०११|२७] पञ्चानां विज्ञानधातूनां चक्षुर्धात्वायतनादयः पञ्चाश्रयाः /
325 SK [०११|२८] षष्ठस्य मनोविज्ञानधातोराश्रयो ᳚न्यो नास्ति /
326 SK [०११|२८-०११|२९] अतस्तदाश्रयप्रसिद्धच्यर्थ मनोधातुरूपदिष्टः /
327 SK [०११|२९-०१२|०१] एवमाश्रयाश्रितालम्बनष्ट्कव्यवसथानादष्टादश धातवो भवन्तीति /
328 SK [०१२|०१] अर्हतस्तर्हि चरमं चित्तम् न मनो भविष्यति /
329 SK [०१२|०२] नहि तदस्ति यस्य तत्सस्मनन्तरातीतं स्यादिति / न /
330 SK [०१२|०२-०१२|०३] तस्यापि मनोभावेनावस्थितत्वात् /
331 SK [०१२|०३] अन्यकारणवैकल्यात्तु नोत्तरविज्ञानसंभूतिः //
332 SK [०१२|०४] तत्र स्कन्धैः सर्वसंस्कृतसंग्रहः /
333 SK [०१२|०४-०१२|०५] उपादानस्कन्धैः सर्वसास्रवाणामा यतनधातुभिः सर्वधर्माणाम् /
334 SK [०१२|०५] समासतस्तु ज्ञातव्यः
335 SK [०१२|०६-०१२|०७] सर्वसंग्रह एकेन स्कन्देह्नायतनेन च धातुना च
336 SK [०१२|०८] रूपस्कन्धेन मन आयतनेन धर्मधातुना च सर्वधर्माणां संग्रहो बोद्धव्यः /
337 SK [०१२|०८-०१२|०९] स खल्वेष संग्रहो यत्र क्वचिदुच्यमानो वेदितव्यः /
339 SK [०१२|११] न परभावेन / किम् कारणम् /
340 SK [०१२|१२] परभाववियोगतः // VAक्K_१.१८ //
341 SK [०१२|१३] वियुक्तो हि परभवेन धर्मः / तस्मान्न येन वियुक्तस्तेनैव संगृहीतो युज्यते /
342 SK [०१२|१३-०१२|१४] तद्यथा चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां च दुःखसमुदयसत्याभ्यां च संगृहीतम् /
343 SK [०१२|१५] तत्स्वभावत्वात् / नान्यैः स्कन्धादिभिस्तद्भाव वियुक्तत्वात् /
344 SK [०१२|१५-०१२|१६] यस्त्वन्येनान्यस्य संग्रह उच्यते यथा संग्रहवस्तुभिः पर्षदां स हि कादाचित्कत्वात् सांकेतिको वेदितव्यः /
345 SK [०१२|१७] ननु चैकविंशत्या धातुभिर्भवितव्यम् / चक्षुषो द्वित्वात् श्रोत्रघ्राणयोश्च /
346 SK [०१२|१८] न भवितव्यम् / यस्मात् /
347 SK [०१२|१९-०१२|२०] जातिगोचरविज्ञानसामान्यादेकधातुता द्वित्वे ᳚पि चक्षुरदीनं
348 SK [०१२|२१] त्र जातिसामान्यमुभयोश्चक्षुःस्वभावत्वात् /
349 SK [०१२|२१-०१२|२२] गोचरसामान्यमुभयो रूपविषयत्वात् /
350 SK [०१२|२२] विज्ञानसामान्यमुभयोरेकचक्षुर्विज्ञानाश्रयत्वात् / तस्मदेक एव चक्षुर्धातुः /
351 SK [०१२|२३] एवं श्रोत्रघ्राणयोरपि योज्यम् /
352 SK [०१२|२४] शोभार्थं तु द्वयोद्भवः // VAक्K_१.१९ //
353 SK [०१२|२५] एकधातुत्वे ᳚पि तु चक्षुरादीनं द्वयोः संभव आश्रयस्य शोभार्थम् /
354 SK [०१२|२५-०१३|०१] अन्य था ह्येकचक्षुःश्रोत्राधिष्ठानैकनासिकाविलसंभवात् महद् वैरुप्यं स्यादिति /
355 SK [०१३|०२] उक्ताः स्कन्धायतनधातवः
356 SK [०१३|०३] इदं तु वक्तव्यं कः स्कन्धायतनधात्वर्थ इति /
357 SK [०१३|०४] राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः /
358 SK [०१३|०५-०१३|०७] ऽयत् किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमाध्यात्मिबाह्यम् औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे अन्तिके तत्सर्वमैकध्यमभिसंक्षिप्य रूपस्कन्ध इति संख्यां गच्छती ति वचनात् सूत्रे राश्यर्थः स्कन्धार्थ इति सिद्धम् /
359 SK [०१३|०७-०१३|०८] तत्रातीतं रूपमनित्यतानिरुद्धम् /
360 SK [०१३|०८] अनागतमनुत्पन्नम् / प्रत्युत्पन्नमुत्पन्नानिरुद्धम् /
361 SK [०१३|०९] आध्यात्मिकं स्वासान्तानिकं बाह्यमन्यदायतनतो वा
362 SK [०१३|०९-०१३|१०] औदारिकं सप्रतिघं सूक्ष्ममप्रतिघमापेक्षिकं वा /
363 SK [०१३|१०] आपेक्षिकत्वादसिद्धमिति चेत् / न /
364 SK [०१३|१०-०१३|११] अपेक्षाभेदात् /
365 SK [०१३|११] यदपेक्ष्यौ दारिकं न जातु तदपेक्ष्य सूक्ष्मं पितापुत्रवत् / हीनं क्लिष्टम् /
366 SK [०१३|१२] प्रणितमक्लिष्टम् / दूरमतीतानागतम् / अन्तिकं प्रत्युत्पन्नम् /
367 SK [०१३|१२-०१३|१३] एवं यावत् विज्ञानम् /
368 SK [०१३|१३] अयं तु विशषः / औदारिकं पञ्चेन्द्रियाश्रयम् सूक्ष्मं मानसम् /
369 SK [०१३|१३-०१३|१४] भूमितो वेति वैभाषिकाः /
370 SK [०१३|१४] भदन्त आह औदारिकरूपं पञचेन्द्रियग्राह्यम् सूक्ष्ममन्यत् /
371 SK [०१३|१५] हीनममनापं प्रणीतं मनापम् / दूरमदृश्यदेशम् / अन्तिकं दृश्यदेशम् /
372 SK [०१३|१५-०१३|१६] अतीतादीनां स्वशब्देनाभि हितत्वात् /
373 SK [०१३|१६] एवम् वेदनादयो ऽपि वेदितव्याः /
374 SK [०१३|१७] दूरान्तिकत्वं तु तेषामाश्रयवशात् / औदारिकसूक्ष्मत्वं तु पूअर्ववदिति //
375 SK [०१३|१८] चित्तचैत्तायद्वारार्थ आयतनार्थः /
376 SK [०१३|१८-०१३|१९] निर्वचनं तु चित्तचैत्तानामायं तन्वन्तीति आयतनानि /
377 SK [०१३|१९] विस्तृण्वन्तीत्यर्थः / गोत्रार्थो धात्वर्थः /
378 SK [०१३|१९-०१३|२१] यथैकस्मिन् पर्वते बहून्ययस्ताम्ररूप्यसुवर्णादिगोत्रानि धातव उच्यन्ते एवम् एकस्मिन्नाश्रये सन्ताने वा अष्टादश गोत्राणि अष्टादश धातव उच्यन्ते /
379 SK [०१३|२१] आकरास्तत्र गोत्राण्युअच्यन्ते /
380 SK [०१३|२१-०१३|२२] त इमे चक्षुरादयः कस्याकराः /
381 SK [०१३|२२] स्वस्या जातेः / सभागहेतुत्वात् /
382 SK [०१३|२२-०१३|२३] असंस्कृतं तर्हि न धातुः स्यात् /
383 SK [०१३|२३] चित्तचित्तानां तर्हि जातिवाचको ᳚यं धातुशब्द इत्यपरे /
384 SK [०१३|२३-०१३|२४] अष्टादश्धर्माणां जातयः स्वभावा अष्टादश धातव इति /
385 SK [०१३|२४-०१३|२५] यदि राश्यर्थः स्कन्धार्थः प्रज्ञप्तिसन्तः स्कन्धाः प्राप्नुवन्ति /
386 SK [०१३|२५] अनेकद्रव्यसमूहत्वात् राशिपुद्गलवत् / न /
387 SK [०१३|२६] एकस्यापि द्रव्यपरमाणोः स्कन्धत्वात् / न तर्हि राश्यर्थः स्कन्धार्थ इति वक्तव्यम् /
388 SK [०१३|२७] न ह्येकस्यास्ति राशित्वमिति / कार्यब् हारोद्वहनार्थः स्कन्धार्थ इत्यपरे /
389 SK [०१३|२७-०१३|२८] प्रच्छेदार्थो वा /
390 SK [०१३|२८] तथाहि वक्तारो भवन्ति त्रिभिः स्कन्धकैर्देयं दास्याम इति / तदेतदुत्सूत्रम् /
391 SK [०१३|२९] सूत्रं हि राश्यर्थमेव ब्रवीति ᳚यत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमि᳚ति विस्तरः
392 SK [०१३|३०] प्रत्येकमतीतादिरूपस्य स्कन्धत्वं तत्र विज्ञाप्यते /
393 SK [०१३|३०-०१४|०१] सर्वमेतदतीतादि रूपमेकशो रूपस्कन्ध इति /
394 SK [०१४|०१] न शक्यमेवं विज्ञातुम् /
395 SK [०१४|०१-०१४|०२] ᳚तत्सर्वमैकध्यमभिसंक्षिप्ये᳚ति वचनात् / तस्माद्राशिवदेव स्कन्धाः प्रज्ञप्तिसन्तः
396 SK [०१४|०२-०१४|०३] रूपोईन्यपि तर्ह्यायतनानि प्रज्ञप्तिसन्ति प्राप्नुवन्ति /
397 SK [०१४|०३-०१४|०४] बहुनां चक्षुरादिपरमाणूनामायद्वार भावात् /
399 SK [०१४|०४-०१४|०५] एकशः समग्राणां कारणभावात् विषयसहकारित्वाद्वा नेन्द्रियं पृथगायतनं स्यात् / ०१४०५-०१४०५] विभाषायां तूच्यते ᳚यद्याभिधर्मिकः स्कन्धप्रज्ञप्तिमपेक्षते /
400 SK [०१४|०६] स आह परमाणुरेकस्य धातोरेकस्यायतनस्यैकस्य स्कन्धस्य प्रदेशः /
401 SK [०१४|०६-०१४|०७] अथ नापेक्षते /
402 SK [०१४|०७] स आह / परमाणुरेको धातुरेकमायतनमेकः स्कन्ध᳚ इति /
403 SK [०१४|०७-०१४|०८] भवति हि प्रदेशे ᳚पि प्रदेशिवदुपचारो यथा पट्टैअकदेशे दग्धे पटो दग्ध इति /
404 SK [०१४|०९] किर्थं भगवान् स्कन्धादिमुधेन त्रिविधां देशनामारभते / आह / विनेयानां
405 SK [०१४|१०] मोहेन्द्रियरुचित्रैधात्तिस्रः स्कन्धादिदेशनाः // VAक्K_१.२० //
406 SK [०१४|११] त्रयः प्रकारास्त्रैधम् / त्रिप्रकारः किल सत्त्वानां मोहः /
407 SK [०१४|११-०१४|१२] केचिच्चैत्तेषु संमूढाः पिण्डात्मग्रहणतः /
408 SK [०१४|१२] केचिद्रूप एव / केचिद्रूपचित्तयोः / इन्द्रियाण्यपि त्रिविधानि /
409 SK [०१४|१३] तीक्ष्णमध्यमृद्विन्द्रियत्वात् / रूचिरपि त्रिविधा /
410 SK [०१४|१३-०१४|१४] संक्षिप्तमध्यविस्तरग्रन्थरुचित्वात् /
411 SK [०१४|१४] तेषां यथाक्रमं तिस्रः स्कन्धायतनधातुदेशना इति //
412 SK [०१४|१५-०१४|१६] किम् पुनः कारणं चैतसिका एकत्र संस्कारस्कन्धनिक्षिप्ता वेदनासंज्ञे तु पृथक् स्कन्धीकृते इत्याह
413 SK [०१४|१७-०१४|१८] विवादमूलसंसारहेतुत्वात् क्रमकारणात् / चैत्तेभ्यो वेदनासंज्ञे पृथकस्क्न्धौ निवेशितौ // VAक्K_१.२१ //
414 SK [०१४|१९] द्वे विवादमूले / कामाध्यवसानं दृष्ट्यध्यवसानं च /
415 SK [०१४|१९-०१४|२०] तयोर्वेदनासंज्ञे यथाक्रमं प्रधानहेतू /
416 SK [०१४|२०-०१४|२१] वेदनास्वादवशाद्धि कामानभिष्वजन्ते विपरीतसंज्ञावशाच्च दृष्टीरिति /
417 SK [०१४|२१] संसारस्यापि ते प्रधानहेतू / वेदनास्वादगृद्धो हि विषर्यस्तसंज्ञः संसरति /
418 SK [०१४|२२-०१४|२३] यच्च स्कन्धक्रमे कारणमुपदेक्ष्यमाणं ततो ऽपि क्रमकारणादनयोः पृथक्स्कन्धीकरणं वेदितव्यम् /
419 SK [०१४|२३] एतच्च त्रेधो पपादयिष्यामः /
420 SK [०१४|२४] स्कन्धेष्व संस्कृतं नोक्तमर्थायोगात्
421 SK [०१४|२५] तद्धि स्कन्धेषूच्यमानं न तावदेतेष्वेवान्तर्णेतुं शक्यते अर्थायोगात् /
422 SK [०१४|२५-०१५|०१] नहि तद्रूपं नापि यावद्विज्ञानमिति /
423 SK [०१५|०१] नचापि षष्ठः स्कन्धो वक्तुं शक्यते / कुतः / अर्थायोगात् /
424 SK [०१५|०२] ᳚राश्यर्थो हि स्कन्धार्थ᳚ इत्युक्तम् /
425 SK [०१५|०२-०१५|०३] नचासंस्कृतमतीतादिभेदभिन्नं रूपादिवद्यतस्तत्सर्वमैकध्यमभिसंक्षिप्यासंस्कृतस्कन्ध इति संख्यां गच्छेत् /
426 SK [०१५|०३-०१५|०४] संक्लेशवस्तुज्ञापनार्थं खलूपादानस्कन्धवचनं संक्लेशव्यवदानवस्तुज्ञापनार्थं स्कन्धवचनं /
427 SK [०१५|०४-०१५|०५] नचोभयथा ᳚प्यसंस्कृतमित्यर्थायोगान्न तेशु व्यवस्थापितम् /
428 SK [०१५|०५-०१५|०६] यथा घटोपरमो न घट एवं स्कन्धोपरमो न स्कन्धो भवितुमर्हतीत्यपरे /
429 SK [०१५|०६-०१५|०७] तेषां धात्वायतनेष्वप्येष प्रसङ्गः /
430 SK [०१५|०७] उक्तः स्कन्धानामन्यः प्रकारः //
431 SK [०१५|०८] क्रमः पुनः /
432 SK [०१५|०९] यथौदारिकसंक्लेशभाजनाद्यर्थधातुतः // VAक्K_१.२२ //
433 SK [०१५|१०] रूपं हि सप्रतिघत्वात्सर्वौदारिकम् / अरुपिणां वेदना प्रचारौदारिकतया /
434 SK [०१५|१०-०१५|११] तथा हि व्यपदिशन्ति हस्ते मे वेदना पादे मे वेदनेति /
435 SK [०१५|११] द्वाभ्यां चौ दारिकतरा संज्ञा /
436 SK [०१५|११-०१५|१२] विज्ञानात्संस्कारा इत्यतो यदौदारिकतरं तत्पूर्वमुक्तम् /
437 SK [०१५|१२-०१५|१३] अथवा अनादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामास्ते च वेदनास्वादगर्द्धात् /
438 SK [०१५|१३] तद्गर्द्धः संज्ञाविपर्यासात् /
439 SK [०१५|१४] तद्विपर्यासः क्लेशैश्चित्तं अच तत्संक्लिष्टमिति यथासंक्लेशं च क्रमः /
440 SK [०१५|१४-०१५|१५] भाजनाद्यर्थेन वा /
441 SK [०१५|१५] भजनभोजनव्यञ्जनकर्त्तृ भोक्तृभूता हि रूपादयः स्कन्धाः / धातुतो वा /
442 SK [०१५|१६] कामगुणरूपप्रभावितो हि कामधातुः / वेदनाप्रभावितानि ध्यानानि /
443 SK [०१५|१६-०१५|१७] संज्ञाप्रभाविताः त्रयः आरूप्याः /
444 SK [०१५|१७] संस्कारमात्रप्रभावितं भवाग्रम् /
445 SK [०१५|१७-०१५|१८] एता एव विज्ञानस्थितयः तासु च प्रतिष्ठितं विज्ञानमिति क्षेत्रबिजसंदर्शनार्थः स्कन्धानुक्रमः /
446 SK [०१५|१८-०१५|१९] अत एव पञ्चस्कन्धा नाल्पीयांसो न भूयांसः /
447 SK [०१५|१९-०१५|२०] अत एव च क्रमकारणाद्वेदनासंज्ञे संस्कारेभ्यः पृथक स्कन्धीकृते /
448 SK [०१५|२०-०१५|२१] यत एते औदारिकतरे संक्लेशानुक्रमहेतू भाजनव्यञ्जनभूते तत्प्रभावितं च धातुद्वयमिति //
449 SK [०१५|२२] आयतनधातूनां षण्णां चक्षुरादीनामनुक्रमो वक्तव्यः /
450 SK [०१५|२३] तद्वशेनैव हि तद्विषयविज्ञानानां क्रमः / तेषां च पुनः षण्णां /
451 SK [०१५|२४] प्राक् पञ्च वार्त्तमार्थ्यात्
452 SK [०१५|२५] चक्षुरादीनि पञ्च वर्त्तमानविषयत्वात् पूर्वमुक्तानि / मनस्त्वनियतविषयम्
453 SK [०१५|२५-०१६|०१] किञ्चिद्वर्त्तमानविषयं किञ्चित् व्यध्वानध्रविषयम् /
454 SK [०१६|०२] भौतिकार्थ्याच्चतुष्टयम् /
455 SK [०१६|०३] प्रागिति वर्त्तते / पञ्चानां पुनश्च्त्वारि पूर्वमुक्तानि / भौतिकविषयत्वात् /
456 SK [०१६|०३-०१६|०४] कायस्य त्वनियतो विषयः
457 SK [०१६|०४] कदाचिद् भूतानि कदाचिद् भौतिकम् कदाचिदुभयम् /
458 SK [०१६|०५] दूराशुतरवृत्त्या ऽन्यत्
459 SK [०१६|०६] शेषं पुनरितस्माद् यथायोगं दूराशुतरवृत्त्या पूर्वमुक्तम् / चक्षुःश्रोत्रं हि दूरविषयम् /
460 SK [०१६|०७] तत् पूर्वमुक्तं द्वयात् / तयोरपि चक्षुषो दूरतरे वृत्तिः /
461 SK [०१६|०७-०१६|०८] पश्यतो ऽपि दूरान्नदीं तच्छब्दाश्रवणादतस्तत् पूर्वमुक्तम् /
462 SK [०१६|०८] घ्राणस्य तु नास्ति दूरे वृत्तिः / जिह्वायाश्च /
463 SK [०१६|०९] तयोराशुतरवृत्तित्वात् घ्राणं पूर्वमुक्तमप्राप्तस्यैव जिह्वा भोज्यस्य गन्धग्रहणात् /
464 SK [०१६|१०] यथास्थानं क्रमो ऽथवा // VAक्K_१.२३ //
465 SK [०१६|११] अथवा अस्मिन् शरीरे चक्षुषो ऽधिष्ठानमुपारिष्टात् निविष्टम् / तस्मादधः श्रोत्रस्य /
466 SK [०१६|१२] तस्मादधो घ्राणस्य / तस्मात् जिह्वायाः तक्याः स्यास्य बहुल्येन /
467 SK [०१६|१२-०१६|१३] मनः पुनस्तान्येव निश्रितमदेशस्थं चेति यथास्थानमेषां क्रमः स्यात् /
468 SK [०१६|१४] किं पुनः कारणं दशस्वायतनेषु रूपस्कन्धसंगृहीतेष्वेकं रूपायतनमुच्यते /
469 SK [०१६|१४-०१६|१५] सर्वेषु च धर्मस्वभवेष्वेकं धर्मायतनमित्याह
470 SK [०१६|१६-०१६|१७] विशेषणार्थं प्राधान्याद्बहुधर्माग्रसंग्रहात् / एकमायतनं रूपमेकं धर्माख्यमुच्यते // VAक्K_१.२४ //
471 SK [०१६|१८] कथं विशेषणार्थम् /
472 SK [०१६|१८-०१६|१९] यथा गम्येत प्रत्येकमेषां दशानामायतनत्वं विषयविषयित्वेन व्यवस्थानं न समस्तानामिति /
473 SK [०१६|१९-०१६|२०] चक्षुरादिभिश्च विशेषितैर्यन्न चक्षुरादिसंज्ञकं रूपं च तद्रूपकयातनं ज्ञास्यत इत्यस्य पुनर्नामान्तरं नोच्यते /
474 SK [०१६|२०-०१६|२१] अथवा रूपायतनस्य प्राधान्यात् /
475 SK [०१६|२१] तद्धि सप्रतिघत्वाच्च / पाण्यादिसंस्पर्शैः स्पृष्टं रूप्यते /
476 SK [०१६|२२] सनिदर्शनत्वाच्च /
477 SK [०१६|२२-०१६|२३] इदमिहामुत्रेति निरूपणात् लोके ऽपि च तद्रूपमिति प्रतीतं नान्यानि /
478 SK [०१६|२३] विशेषणार्थमेव चैकं धर्मायतनमुक्तं न सर्वाणि /
479 SK [०१६|२३-०१७|०१] अपि चात्रबहूनां धर्माणां संग्रहो वेदनादीनाम् /
480 SK [०१७|०१] अतः सामान्येनाभिधानं क्रियते धर्मशब्देन / [०१७|०२] अग्रस्य च निर्वाणधर्मस्यात्र संग्रहो नान्येष्विति /
481 SK [०१७|०२-०१७|०३] विंशतिप्रकारत्वेनौदारिकत्वान्मांस दिव्यार्यप्रज्ञाचक्षुस्त्रयगोचरत्वाच्चैकं रूपायतनमित्यपरे //
482 SK [०१७|०४-०१७|०५] अन्यान्यपि स्कन्धायतनधातुसंशब्दितान्युपलभ्यन्ते सूत्रेषु तेषां किंएभिरेव संग्रहो वेदितव्य आहोस्विद्व्यतिरेकः
483 SK [०१७|०५] एभिरेव संग्रहो न व्यतिरेकः / तत्र तावत्
484 SK [०१७|०६-०१७|०७] धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः / तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः // VAक्K_१.२५ //
485 SK [०१७|०८] येषां वाक्स्वभावं बुद्धवचनं तेषां तानि रूपस्कन्धसंगृहीतानि /
486 SK [०१७|०९] येषां नामस्वभावं तेषां संस्कारस्कन्धेन //
487 SK [०१७|१०] किं पुनर्धर्मस्कन्धस्य प्रमाणम् /
488 SK [०१७|११] शास्त्रप्रमाण इत्येके
489 SK [०१७|१२] एके तावत् आहुर्धर्मस्कन्धसंज्ञकस्यैवाभिधर्मशास्त्रस्यास्य ओप्रमणमिति /
490 SK [०१७|१२-०१७|१३] तच्च षट्सहस्राणि /
491 SK [०१७|१३] अपरे पुनराहुः
492 SK [०१७|१४] स्कन्धादीनं कथैकशः /
493 SK [०१७|१५-०१७|१७] स्कन्धायतनधातुप्रतीत्यसमुत्पादसत्याहारध्यानाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनबोधिपाक्षिकाभिज्ञाप्रतिसंवित्प्रणिधिज्ञानारणादीनां कथा प्रात्येकं धर्मस्कन्ध इति /
494 SK [०१७|१८] चरितप्रतिपक्षस्तु धर्मस्कन्धो ऽनुवर्णितः // VAक्K_१.२६ //
495 SK [०१७|१९] एवं तु वर्णयन्त्यशीतिश्चरितसहस्रणि सत्त्वानाम् / रागद्वेषमोहमानादिचरितभेदेन /
496 SK [०१७|२०] तेषां प्रतिपक्षेण भगवता ऽशीतिर्धर्मस्कन्धसहस्राण्युक्तानि /
497 SK [०१७|२०-०१७|२१] यथैतान्यशीतिर्धर्मस्कन्धसहस्राण्येष्वेव पञ्चस्कन्धेषु ओप्रतिपादितानि /
498 SK [०१७|२२-०१७|२३] तथा ऽन्ये ऽपि यथायोगं स्कन्धायतनधातवः / प्रतिपाद्या यथोक्तेषु संप्रधार्य स्वलक्षणम् // VAक्K_१.२७ //
499 SK [०१७|२४-०१७|२६] ये ऽप्यन्ये स्कन्धायतनधातवः सूत्रान्तरेषूक्तास्ते ऽप्येष्वेव यथोक्तेषु स्कन्धादिषु प्रतिओपाद्याः स्वं स्वं लक्षणमेषां यथाविहितमस्मिंअच्छास्त्रे संप्रधर्य /
500 SK [०१७|२६-०१८|०२] तत्र तावत् पञ्चानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनस्कन्धानां शीलस्कन्धो रूपस्कन्धेन संगृहीतः /
501 SK [०१८|०२-०१७|०२] शेषाः संस्कारस्कन्धेन /
502 SK [०१८|०२-०१८|०३] दशानां कृत्स्नायतनानामष्टावलोभस्वभावत्वाद्धर्मायतनेन /
503 SK [०१८|०३] सपरिवाराणि तु पञ्चस्कन्धस्वभावत्वान्मनोधर्मायतनाभ्याम् /
504 SK [०१८|०४] तथा ऽभिभ्वायतनानि /
505 SK [०१८|०४-०१८|०५] आकाशविज्ञानानन्त्यायतनकृत्स्ने चत्वारि चाकाशानन्त्यायतनादीनि चतुःस्कन्धस्वभावत्वात् मनोधर्मायतनाभ्याम् /
506 SK [०१८|०५-०१८|०६] पञ्च विमुक्त्यायतनानि प्रज्ञास्वभावत्वाद्धर्मायतनेन /
507 SK [०१८|०६] सपरिवाराणि तु शब्दो मनोधर्मायतनैः /
508 SK [०१८|०७] द्वयोरायतनयोरसंज्ञिसत्त्वा दशभिरायतनैर्गन्धर्सायतनाभावात् /
509 SK [०१८|०७-०१८|०८] नैवसंज्ञानासंज्ञायतनोपगा मनोधर्मायतनाभ्याम् /
510 SK [०१८|०८] एवं बहुधातुके ऽपि द्वाषष्टिर्धातवो देशिताः /
511 SK [०१८|०८-०१८|०९] तेषां यथायोगं संग्रहो वेदितव्यः //
512 SK [०१८|१०-०१८|११] य इमे तत्र षड् धातवः उक्ताः पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुरित्येषां द्वयोर्लक्षणमनुक्तम् /
513 SK [०१८|११-०१८|१२] तत् किमाकाशमेवाकाशधातुर्वेदितव्यः सर्वं अच विज्ञानं विज्ञानधातुः/
514 SK [०१८|१२] नेत्याह / किं तर्हि / द्वारवातायनमुखनासिकादिषु
515 SK [०१८|१३] छिद्रमाकाशधात्वाख्यम्
516 SK [०१८|१४] छिद्रमित्युच्यमानं किं वेदितव्यम् /
517 SK [०१८|१५] आलोकतमसी किल /
518 SK [०१८|१६] नहि छिद्रमालोकतमोभ्यामन्यद् गृह्यते /
519 SK [०१८|१६-०१८|१७] तस्मात् किलाकाशधातुरालोकतमःस्वभावो रात्रिन्दिवस्वभावो वेदितव्यः /
520 SK [०१८|१७-०१८|१८] स एव चाघसामन्तकं रूपमित्युच्यते /
521 SK [०१८|१८] अघं किल चित्तस्थं रूपम् / अत्यर्थं घातात् /
522 SK [०१८|१८-०१८|१९] तस्य तत्सामन्तकमिति /
523 SK [०१८|१९] अघं च तदन्यस्य रूपस्य तत्राप्रतिघातात्सामन्तकं चान्यस्य रूपस्येत्यपरे /
524 SK [०१८|२०] विज्ञानधातुर्विज्ञानं सास्रवं
525 SK [०१८|२१] कस्मादनास्रवं नोच्यते / यस्मादिमे षड् धातव इष्टाः /
526 SK [०१८|२२] जन्मनिश्रयाः // VAक्K_१.२८ //
527 SK [०१८|२३] एते हि जन्मनः प्रतिसन्धिचित्ताद्यावत् च्युतिचित्तसाधारणभूताः
528 SK [०१८|२३-०१८|२४] अनास्रवास्तु धर्मा नैवमिति /
529 SK [०१८|२४-०१८|२५] तदेवं सत्येषां चत्वारो धातवः स्प्रष्टव्यधातावन्तर्भूताः पञ्चमो रूपधातौ षष्ठः सप्तसु विज्ञानधातुष्विति /
530 SK [०१८|२६] ये पुनरिमे अष्टादश धातव उक्तास्तेषां कति सनिदर्शनाः कत्यनिदर्शनाः /
531 SK [०१९|०१] सनिदर्शन एको ऽत्र रूपं
532 SK [०१९|०२] स हि शक्यते निदर्शयितुमिदमिहामुत्रेति / उक्तं भवति अनिदर्शनाः शेषा इति //
533 SK [०१९|०३] कति सप्रतिघाः कत्यप्रतिघाः /
534 SK [०१९|०४] सपरतिघा दश /
536 SK [०१९|०६] य एते रूपस्कन्धसंगृहीता दश धातव उक्तास्ते सप्रतिघाः /
537 SK [०१९|०६-०१९|०७] प्रतिघो नाम प्रतिघातः स च त्रिविधः /
538 SK [०१९|०७] आवरणविषयालम्बनप्रतिघातः /
539 SK [०१९|०७-०१९|०८] तत्रावरणप्रतिघातः स्वदेशे परस्योत्पत्तिपोरतिवन्धः /
540 SK [०१९|०८] यथा हस्तो हस्ते प्रतिहन्यते उपले वा / उपलो ऽपि तयोः /
541 SK [०१९|०९] विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु विषयेषु /
542 SK [०१९|०९-०१९|१०] यथोक्तं प्रज्ञप्ता᳚वस्ति चक्षुर्जले प्रतिहन्यते न स्थले /
543 SK [०१९|१०] यथा मत्स्यानाम् /
544 SK [०१९|१०-०१९|११] अस्ति स्थले न जले /
545 SK [०१९|११] प्रायेण मनुष्याणाम् / अस्त्युभयत्र /
546 SK [०१९|११-०१९|१२] शिशुमारमण्डूकपिशाचकैवर्त्तादीनाम् /
547 SK [०१९|१२] अस्ति नोभयत्र / एतानाकारान् स्थापयित्वा /
548 SK [०१९|१२-०१९|१३] अस्ति चक्षुर्यद्रात्रौ प्रतिहन्यते न दिवा /
549 SK [०१९|१३] तद्यथा तितीलोलूकादीनाम् / दिवा न रात्रौ /
550 SK [०१९|१३-०१९|१४] प्रायेण मनुष्याणाम् /
551 SK [०१९|१४] रात्रौ दिवा च / श्वशृगालतुरगद्वीपिमार्जारादीनाम् / नोभयत्र /
552 SK [०१९|१४-०१९|१५] एतानाकारान् स्थापयित्वे᳚त्ययं विशयप्रतिघातः /
553 SK [०१९|१५-०१९|१६] आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्बालम्वनेषु /
554 SK [०१९|१६] कः पुनर्विषयालम्बनयोर्विशेषः /
555 SK [०१९|१६-०१९|१७] यस्मिन् यस्य कारित्रं स तस्य विषयः /
556 SK [०१९|१७] यच्चित्तचैत्तैर्गृह्यते तदालम्बनम् /
557 SK [०१९|१७-०१९|१८] कः पुनः स्वस्मिन्विषये प्रवर्त्तमानमालम्वने वा प्रतिहन्यत इत्युच्यते /
558 SK [०१९|१८] तस्मात् परेणाप्रवृत्तेः /
559 SK [०१९|१८-०१९|१९] निपातो वा ऽत्र प्रतिघातो या स्वविषये प्रवृत्तिः
560 SK [०१९|१९-०१९|२०] तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वं वेदितव्यमन्योन्यावरणात् /
561 SK [०१९|२०-०१९|२१] ये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि त इति चतुष्कोटिकः
562 SK [०१९|२१] प्रथमा कोटिः सप्त चित्तधातवो धर्मधातुप्रदेशश्च यः संप्रयुक्तः /
563 SK [०१९|२२] द्वितीया पञ्च विषयाः / तृतीया पञ्चेन्द्रियाणि /
564 SK [०१९|२२-०१९|२३] चतुर्थी धर्मधातुप्रदेशः संप्रयुक्तकवर्ज्यः /
565 SK [०१९|२३-०१९|२४] ये धर्मा विशयप्रतिघातेन सप्रतिघा आलम्बन प्रतिघातेनापि त इति /
566 SK [०१९|२४] पश्चात्पादकः / ये तावदालम्बनप्रतिघातेनापि विषयप्रतिघातेनापि ते /
567 SK [०१९|२५-०१०|२५] स्युर्विषयप्रतिघतेनैव नालम्बनप्रतिघातेन /
568 SK [०१९|२५] पञ्चेन्द्रियाणि /
569 SK [०२०|०१-०२०|०२] ᳚यत्रोत्पित्सोर्मनसः प्रतिघतः शक्यते परैः कर्त्तुम् / तत्सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टमि᳚ति
570 SK [०२०|०३] भदन्तकुमारलातः / उक्ताः सप्रतिघा अप्रतिघाश्च //
571 SK [०२०|०४] एषामष्टादशधातूनां कति कुशलाः कत्यकुशलाः कत्यव्याकृता /
572 SK [०२०|०५] अव्याकृता अष्टौ
573 SK [०२०|०६] कतमे अष्टौ / य एते सप्रतिघा दशोक्ताः /
574 SK [०२०|०७] त एवारूपशब्दकाः // VAक्K_१.२९ //
575 SK [०२०|०८] पञ्चेन्द्रियाणि गन्धरसस्प्रष्टव्या धातवश्च /
576 SK [०२०|०८-०२०|०९] एते ऽष्टौ कुशलाकुशलभावेनाव्याकरणादव्याकृताः /
577 SK [०२०|०९] विपाकं प्रत्यव्याकरणादित्यपरे / एवमनास्रवे ऽपि प्रसङ्गः //
578 SK [०२०|१०] त्रिधा ऽन्ये
579 SK [०२०|११] अन्ये दश धातवः कुशलाकुशलाव्याकृताः /
580 SK [०२०|११-०२०|१२] तत्र सप्त धातवो ऽलोभादिसंप्रयुक्ता कुशलाः /
581 SK [०२०|१२] लोभादिसंप्रयुक्ता अकुशलाः / अन्ये अव्याकृताः /
582 SK [०२०|१२-०२०|१३] धर्मधातुरलोभादिस्वभावसंप्रयुक्तसमुत्थः प्रतिसंख्यानिरोधश्च कुशलः /
583 SK [०२०|१३-०२०|१४] लोभादिस्वभावसंप्रयुक्तसमुत्थो ऽकुशलः
584 SK [०२०|१४] अन्यो ऽव्याकृतः /
585 SK [०२०|१४-०२०|१५] रूपशब्दधातू कुशलाकुशलचित्तसमुट्थौ कुशलाकुशलौ कायवाग्विज्ञप्तिसंगृहीतौ /
586 SK [०२०|१५] तदन्याव्याकृतौ / उक्तः कुशलादिभावः /
587 SK [०२०|१६] एषामष्टादशधातूनां कति कामधात्वाप्ताः कति रूपधात्वाप्ताः /
588 SK [०२०|१७] कामधात्वाप्ताः सर्वे
589 SK [०२०|१८] आप्ता अवियुक्ताः कामधातुप्रतिसंयुक्ता इत्यर्थः /
590 SK [०२०|१९] रुपे चतुर्दश /
591 SK [०२०|२०] रूपधातौ चतुर्दश धातवः /
592 SK [०२०|२१] विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः // VAक्K_१.३० //
593 SK [०२०|२२] तत्र हि गन्धरसौ न स्तः /
594 SK [०२०|२२-०२०|२३] तयोः कवडीकाराहारत्वात्तद्द्वीतरागाणां च तत्रोपपत्तेः /
595 SK [०२०|२३] ततो घ्राणजिह्वाविज्ञाने अपि न स्तः /
596 SK [०२०|२३-०२०|२४] आलम्बनाभावात् /
597 SK [०२०|२४] एवं तर्हि स्प्रष्टव्यधातोरपि तत्रभावप्रसङ्गः / कवडीकाराहारत्वात् /
598 SK [०२०|२५] यो नाहारस्वभावः स तत्रास्ति / गन्धरसयोरप्येष प्रसङ्गः /
599 SK [०२०|२५-०२०|२६] नास्ति विना ऽभ्यवहारेण गन्धरसयोः परिभोगः /
600 SK [०२०|२६-०२१|०१] अस्ति तु स्प्रष्टव्यस्येन्द्रियाश्रयाधारप्रावरणभावेन /
601 SK [०२१|०१-०२१|०२] तस्मादभ्यवहारवीतरागाणां गन्धरसौ तत्र निष्प्रयोजनौ न तु स्प्रष्टव्यम् /
602 SK [०२१|०२] अन्ये पुनराहुः /
603 SK [०२१|०२-०२१|०३] ध्यानसमापत्तिसनिश्रयेणेह रूपाणि संदृश्यन्ते शब्दाश्च श्रूयन्ते /
604 SK [०२१|०३] प्रस्रब्धिसहगतेन स्प्रष्टव्य विशेषेण च कायो ऽनुगृह्यते /
605 SK [०२१|०३-०२१|०४] अत एषामेव त्रयाणां ध्यानोपपत्तौ संभवो न गन्धरसयोरिति /
606 SK [०२१|०४] एवं तर्हि घ्राणजिह्वेन्द्रिययोरभावप्रसङ्गो निष्प्रयोजनत्वात् /
607 SK [०२१|०५] अस्ति प्रयोजनम् /
608 SK [०२१|०५-०२१|०६] ताभ्यां हि विनाऽ; श्रयशोभैव न स्यादिति व्यवहार्श्च /
609 SK [०२१|०६-०२१|०७] यद्येतत् प्रयोजनमधिष्ठानमेवास्तु शोभार्थं वचनार्थं च मा भूदिन्द्रियम् /
610 SK [०२१|०७] नानिन्द्रियमधिष्ठानं संभवति / पुरुषेन्द्रियाधिष्ठानवत् /
611 SK [०२१|०७-०२१|०८] युक्तस्तदसंभवो निष्प्रयोजनत्वात् /
612 SK [०२१|०८-०२१|०९] घ्राणजिह्वाधिष्ठानं तु सप्रयोजनम्
613 SK [०२१|०९] अतो ऽस्य विना ऽपीन्द्रियेण युक्तः संभवः /
614 SK [०२१|०९-०२१|१०] निःप्रयोजना ऽपीन्द्रियाभिनिर्वृत्तिर्भवति /
615 SK [०२१|१०] यथा गर्भे नियतमृत्यूनाम् / स्यान्नाम निःप्रयोजना न तु निर्हेतुका /
616 SK [०२१|११] कश्च हेतुरिन्द्रियोत्पत्तेः / इन्दरियसतृष्णस्य कर्मविशेषः /
617 SK [०२१|११-०२१|१२] यश्च विषयाद्वितृष्णः स नियतमिन्द्रियादपीति /
618 SK [०२१|१२] न तद्विषयवीतरागाणां घ्राणजिह्वेन्द्रिये संभवितुमर्हतः /
619 SK [०२१|१३] पुरुषेन्द्रैयमपि वा किं न निवर्त्तते / अशोभाकरत्वात् /
620 SK [०२१|१३-०२१|१४] कोशगतवस्तिगुह्यानां किं न शोभेत /
621 SK [०२१|१४] न च प्रयोजनवशादुत्पत्तिः / किं तर्हि /
622 SK [०२१|१४-०२१|१५] कारणवशादित्यशोभाकरस्यापि स्यादेव सति हेतावुत्पत्तिः /
623 SK [०२१|१५] सूत्रं तर्हि विरुध्यते /
624 SK [०२१|१५-०२१|१६] ᳚अविकला अहीनेन्दरिया᳚ इति /
625 SK [०२१|१६] यानि तत्रेन्द्रियाणि तैरविकला अहीनेन्द्रिया इति को ऽत्र विरोधः /
626 SK [०२१|१६-०२१|१७] इतरथा हि पुरुशेन्द्रियस्यापि स्यात् प्रसङ्गः /
627 SK [०२१|१७] एवं तुवर्णयन्ति /
628 SK [०२१|१७-०२१|१८] स्त एव तत्र घ्राणजिव्हेन्द्रिये न तु गन्धरसौ /
629 SK [०२१|१८] आत्मभावमुखेन हि षडायतने तृष्णासमुदाचारो न विषयमुखेन /
630 SK [०२१|१९] पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेनेति / तस्मात्सिद्धमेतद्रूपधात्वाप्ताश्चतुर्दश धातव इति /
631 SK [०२१|२०] आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः /
632 SK [०२१|२१-०२१|२२] रूपवीतरागाणां तत्रोपपत्तिरतो ऽत्र दश रूपस्वभावा धातवस्तदाश्र्रयालम्बनाश्च पञ्च विज्ञानधातावो न संअभवन्ति //
633 SK [०२१|२३] कति सास्रवाः कत्यनास्रवाः / य एते मनोधर्ममनोविज्ञानधातव उक्ताः
634 SK [०२१|२४] सास्रवानास्रवा एते त्रयः
635 SK [०२१|२५] ये मार्गसत्यासंस्कृतसंघृहीतास्ते ऽनास्रवा अन्ये सास्रवाः /
636 SK [०२१|२६] शेषास्तु सास्रवाः // VAक्K_१.३१ //
637 SK [०२२|०१] पञ्चदश धातवः शेषास्त्वेकान्तसास्रवाः //
638 SK [०२२|०२] कति सवितर्काः सविचाराः कत्यवितर्का विचारमात्राः कत्यवितर्का अविचाराः /
639 SK [०२२|०३] सवितर्कविचारा हि पञ्च विज्ञानधातवः /
640 SK [०२२|०४] नित्यमेते वितर्कविचाराभ्यां संप्रयुक्ताः / अवधारणार्थो हिशब्दः /
641 SK [०२२|०५] अन्त्यास्त्रयस्त्रिप्रकाराः
642 SK [०२२|०६] मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्चान्त्याः एते त्रयस्त्रिप्रकाराः /
643 SK [०२२|०६-०२२|०८] तत्र मनोधातुर्मनोविज्ञानधातुः संप्रयुक्तश्च धरमधातुरन्यत्र वितर्कविचाराभ्यां कामधातौ प्रथमे च ध्याने सवितर्काः सविचाराः /
644 SK [०२२|०८] ध्यानान्तरे ऽवितर्का विचारमात्राः /
645 SK [०२२|०८-०२२|०९] द्वितीयाद्ध्यानात् प्रभृत्याभवाग्रादवितर्का अविचाराः /
646 SK [०२२|०९-०२२|१०] सर्वश्चासंप्रयुक्तो धर्मधातुर्ध्यानातरे अच विचारः /
647 SK [०२२|१०-०२२|११] वितर्कस्तू नित्यमविअतर्को विचारमात्रो द्वितीयवितर्काभावात् विचारसंप्रयोगाच्च /
648 SK [०२२|११] कामधातौ प्रथमे ध्याने विचार एषु त्रिप्रकारेषु नान्तर्भवति /
649 SK [०२२|११-०२२|१२] स कथं वक्तव्यः /
650 SK [०२२|१२] अविचारो वितर्कमातरः / द्वितीयविचाराभावात् वितर्कसंप्रयोगाच्च /
651 SK [०२२|१३] अत एवोच्यते ᳚स्युः सवितर्कसविचारायां भूमौ धर्माश्चतुःप्रकाराः /
652 SK [०२२|१४] सवितर्काः सविचारा विचारवितर्कवर्ज्याः संप्रयुक्ताः /
653 SK [०२२|१४-०२२|१५] अवितर्को विचारमात्रो वितर्कः /
654 SK [०२२|१५] अवितर्का अविचारा असंप्रयुक्ताः / अविचारो वितर्कमात्रो विचार᳚ इति /
655 SK [०२२|१६] शेषा उभयवर्जिताः // VAक्K_१.३२ //
656 SK [०२२|१७] दश रुपिणो धातवः शेषा नित्यमवितर्का अविचारा असंप्रयोगित्वात् //
657 SK [०२२|१८] यदि पञ्च विज्ञानकायाः सवितर्काः सविचाराः कथमविकल्पका इत्युच्यन्ते /
658 SK [०२२|१९] निरूपणानुस्मरणविकल्पेनाविकल्पकाः /
659 SK [०२२|२०] त्रिविधः किल विकल्पः / स्वभावाभिनिरूपणानुस्मरणविकल्पः /
660 SK [०२२|२०-०२२|२१] तदेषां स्वभावविकल्पो ऽस्ति /
661 SK [०२२|२१] नेतरौ / तस्मादविकल्पका इत्युच्यन्ते /
662 SK [०२२|२१-०२२|२२] यथा एकपादको ऽश्वो ऽपादक इति /
663 SK [०२२|२२] तत्र स्वभावविकल्पो वितर्कः / स चैत्तेषु पश्चान्निर्देक्ष्यते /
664 SK [०२२|२२-०२२|२३] इतरौ पुनः किंस्वभावौ /
666 SK [०२२|२४] तौ प्रज्ञा मानसी व्यग्रा स्मृतिः सर्वैव मानसी // VAक्K_१.३३ //
667 SK [०२२|२५] मनोविज्ञानसंप्रयुक्ता प्रज्ञा मानसीत्युच्यते / असमाहिता व्यग्रेत्युच्यते /
668 SK [०२२|२५-०२२|२६] सा ह्यभिनिरूपणाविकल्पः /
669 SK [०२२|२६] मानस्येव सर्वा स्मृतिः समाहिता चासमाहिता चानुस्मरणविकल्पः /
670 SK [०२२|२७] कति सालम्बनाः कत्यनालम्बनाः /
671 SK [०२३|०१] सप्त सालम्बनाश्चित्तधातवः
672 SK [०२३|०२-०२३|०३] चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातवो मनोधातुश्च एते सप्त चित्तधातवः सालम्बना विषयग्रहणात् /
673 SK [०२३|०४-०२१|०४] अर्धं च धर्मतः /
674 SK [०२३|०५] सालम्बनं यच्चैतसिकस्वभावम् /
675 SK [०२३|०५-०२३|०६] शेषा दश रूपिणो धातवो धर्मधातुप्रदेशश्चासंप्रयुक्तको ऽनालम्बना इत् इसिद्धम् /
676 SK [०२३|०७] कत्युपात्ताः कत्यनुपात्ताः /
677 SK [०२३|०८] नवानुपात्ताः /
678 SK [०२३|०९] कतमे नव / ये सप्त सालम्बना उक्ताः अष्टमष्यार्धेन सार्धम् /
679 SK [०२३|१०] ते चाष्टौ शब्दश्च
680 SK [०२३|११] इमे ते नवानुपात्ताः / सप्त चित्तधातवो धर्मधातुः शब्दधातुश्च /
681 SK [०२३|१२] अन्ये नव द्विधा // VAक्K_१.३४ //
682 SK [०२३|१३-०१३|१३] उपात्ता अनुपात्ताश्च /
683 SK [०२३|१३] तत्र चक्षुःश्रोत्रघ्राणजिह्वाकायाः प्रत्युत्पन्ना उपात्ताः /
684 SK [०२३|१४] अतीतानागता अनुपात्ताः /
685 SK [०२३|१४-०२३|१५] रूपगन्धरसस्प्रष्टव्यधातवः प्रत्युत्पन्ना इन्द्रियाविनिर्भागिण उपात्ताः /
686 SK [०२३|१५-०२३|१६] अन्ये ऽनुपात्तास्तद्यथा मूलवर्जेषु केशरोमनखदन्तेषु विण्मूत्रखेटसिंघाणकशेणितादिषु भूम्युदकादिषु च /
687 SK [०२३|१६] उपात्तमिति को ऽर्थः /
688 SK [०२३|१६-०२३|१७] यच्चित्तचैत्तैरधिष्ठानभावेनोपिअगृहीतमनुग्रहोपघाताभ्यामन्योन्यानुविधानात् /
689 SK [०२३|१७] यल्लोके सचेतनमित्युच्यते /
690 SK [०२३|१८] कति धातवो भूतस्वभावाः कति भौतिकाः /
691 SK [०२३|१९] स्प्रष्टव्यं द्विविधं
692 SK [०२३|२०] भूतानि भौतिकं च / तत्र भूतानि चत्वारि / भौतिकं श्लक्ष्णत्वादि सप्तविधम् /
693 SK [०२३|२१] भूतेषु भवत्वात् /
694 SK [०२३|२२] शेषा रूपिणो नव भौतिकाः /
695 SK [०२३|२३] पञ्चेन्द्रियधातवश्च चत्वारो विषयाः / एते नव धातवो भौतिका एव /
696 SK [०२३|२४] धर्मधात्वेकदेशश्च
697 SK [०२३|२५] अविज्ञप्तिसंज्ञको भौतिकः /
698 SK [०२३|२५-०२४|०१] शेषाः चित्तधातवो धर्मधातुश्चाविज्ञप्तिवर्ज्यो नोभयथा /
699 SK [०२४|०१-०२३|०१] ᳚भूतमात्रं दशायतनानी᳚ति भदन्त्ब्दुद्धदेवः /
700 SK [०२४|०१-०२४|०२] तच्च नैवं भूतानां चतुष्ट्व खक्खटादिलक्षणावधारणात् सूत्रे /
701 SK [०२४|०२] तेषां स्प्रष्टव्यत्वात् /
702 SK [०२४|०२-०२४|०३] न हि काठिन्यादीनि चक्षुरादिभिर्गृह्यन्ते नापि वर्णादयः कायेन्द्रियेण /
703 SK [०२४|०३-०२४|०५] उक्तं च सूत्रे ᳚चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय रूपप्रसादो अरुप्यनिदर्शनं सप्रतैघं एवं यावत् कायः
704 SK [०२४|०५-०२४|०६] रूपाणि भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादायरुपि सनिदर्शनं सप्रतिघम् /
705 SK [०२४|०६-०२४|०७] शब्दो भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादाय रुप्यनिदर्शनं सप्रतिघम् /
706 SK [०२४|०७] एवं गन्धरसाः /
707 SK [०२४|०७-०२४|०८] स्प्रष्टव्यानि भिक्षो बाह्यमायतनं चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय रूप्यनिदर्शनं सप्रतिघमि᳚ति /
708 SK [०२४|०९] स्प्रष्ट्र्व्यायतनिकदेशेनैव भूतानां संग्रहाच्छेषं न भूतानीति स्पष्टमादर्शितम् /
709 SK [०२४|०९-०२४|१०] यत्तर्हि सूत्रे उक्तं ᳚यच्चक्षुषि मंसपिण्डे खक्खटं खरगतमि᳚ति
710 SK [०२४|१०-०२४|११] तेनाविनिर्भदिवर्त्तिनो मंसपिण्ड्स्यैष उपदेशः /
711 SK [०२४|११-०२४|१२] षड्धातुरयं भिक्षो पुरुष᳚इति गर्भवक्रान्तौ मौलसत्त्वद्रव्यसंदर्शनार्थम् /
712 SK [०२४|१२] पुनः षट्स्पर्श्यतनवचनाच्चैत्ताभावप्रसङ्गाच्च /
713 SK [०२४|१२-०२४|१३] न च युक्तं चित्तमेव चैत्ता इत्यभ्युपेतुम् /
714 SK [०२४|१३-०२४|१४] ᳚संज्ञा च वेदना च चैतसिक एष धर्मश्चित्तान्वयाच्चित्तनिश्रितऽ; इति सूत्रे वचनात्सरागचित्तादि वचनाच्च /
715 SK [०२४|१५] तस्माच्यथोक्तं धातूनं भूतभौतिकत्वम् /
716 SK [०२४|१६] कति संचिताः कत्यसंचिताः /
717 SK [०२४|१७] संचिता दश रूपिणः // VAक्K_१.३५ //
718 SK [०२४|१८] पञ्चेन्द्रियधातवः पञ्च विषयाः संचिताः /
719 SK [०२४|१८-०२४|१९] परमाणुसंघातत्वात् शेषा न संचिता इति सिद्धं भवति //
720 SK [०२४|२०-०२४|२१] अष्टादशानं धातूनां कश्छीनत्ति कशिचिआद्यते को दहति को दह्यते कस्तुलयति कस्तुल्यते /
721 SK [०२४|२२] छिनत्ति च्छिद्यते चैव बाह्यं धातुए चतुष्टयम् /
722 SK [०२४|२३] रूपगन्धरसस्प्रष्टव्याख्यं परशुदार्वादिसंज्ञकम् / छेदो नाम क एष धर्मः /
723 SK [०२४|२३-०२४|२४] संबन्धोत्पादिनः संघातस्रोतसो विभक्तोत्पादनम् /
724 SK [०२४|२४] न कायेन्द्रियादीनि च्छिद्यन्ते /
725 SK [०२४|२४-०२४|२५] निरवशेषाङ्गच्छेदे तदद्वैधीकरणात् /
726 SK [०२४|२५] न हीन्द्रियाणि द्विधा भवन्ति /
727 SK [०२४|२५-०२४|२६] छिन्नस्याङ्गस्य निरिन्द्रियत्वात् /
728 SK [०२४|२६] न चापि च्छिन्दन्ति / मणिप्रभावदन्धत्वात् /
729 SK [०२४|२६-०२४|२७] यथा च्छिनत्ती च्छियते चैव बाह्यं धातुचतुष्टयम् /
730 SK [०२५|०१] दह्यते तुलयत्येवं
731 SK [०२५|०२] तदेव दह्यते तदेव तुलयति / नेन्द्रियाण्यच्छत्वान्मणिप्रभावत् / न शब्द उछेदित्वात् /
732 SK [०२५|०३] विवादो दग्धृतुल्ययोः // VAक्K_१.३६ //
733 SK [०२५|०४] केचिदाहुः तदेव धातुचतुष्टयं दाहकं तुल्यं च
734 SK [०२५|०४-०२५|०५] केचिदाहुस्तेजोधातुरेव दग्धा गुरुत्वमेव च तुल्यमिति /
735 SK [०२५|०६-०२५|०७] कति विपाकजाः धातवः कत्यौपचयिकाः कति नैह्ष्यन्दिकाः कति द्रवयुक्ताः कति क्षणिकाः /
737 SK [०२५|०८] विपाकजौपचयिकाः पञ्चाध्यात्मं /
738 SK [०२५|०९-०२५|१०] अध्यात्मं तावत् पञ्च धातवः चक्षुरादयो विपाकजाश्चौपचयिकाश्च /
739 SK [०२५|१०] नैःष्यन्दिका न सन्ति / तद्व्यतिरिक्तनिष्यन्दाभावात् /
740 SK [०२५|१०-०२५|११] तत्र विपाकहेतोर्जाताः विपाकजाः /
741 SK [०२५|११] मध्यपदलोपात् गोरथवत् /
742 SK [०२५|११-०२५|१२] फलकालप्राप्तं वा कर्म विपाक इत्युच्यते /
743 SK [०२५|१२] विपच्यत इति कृत्वा / तस्माज्जाता विपाकजाः /
744 SK [०२५|१२-०२५|१३] फलं तु विपक्तिरेवेति विपाकः /
745 SK [०२५|१३] भवतु फलहेतौ फलोपचारो यथा फले हेतूपचारः /
746 SK [०२५|१३-०२५|१४] ᳚षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यम्᳚इति /
747 SK [०२५|१४-०२५|१५] आहारसंस्कारस्वप्नसमाधिविशेषैरुपचिता औपचयिकाः /
748 SK [०२५|१५] ब्रह्ंअचर्येण चेत्येके / अनुपघातमात्रं तु तेन स्यान्नोपचयः /
749 SK [०२५|१५-०२५|१६] विपाकसन्तानस्योपचयसन्तानः प्रतिप्राकार इवारक्षा /
750 SK [०२५|१६-०२५|१७] शब्द औपचयिको नैःष्यन्दिकश्चास्ति /
753 SK [०२५|२०] किं कारणम् / ईहातः प्रवृत्तेः /
754 SK [०२५|२०-०२५|२१] यत्तर्हि प्रज्ञप्तिशास्त्रे उक्तं ᳚पारुष्यविरतेः सुभावितत्वाद् ब्रह्मस्वरता महापुरुषलक्षणं निर्वर्त्त इति /
755 SK [०२५|२१] तृतीया ऽसौ परंपरेत्येके /
756 SK [०२५|२२] कर्मभ्यो हि भूतानि भूतेभ्यः शब्दः इति / पञ्चम्यसौ परंपरेत्यपरे /
757 SK [०२५|२२-०२५|२४] कर्मभ्यो हि विपाकजानि महाभूतानि तेभ्यश्चौपचयिकानि तेभ्यो नैःष्यन्दिकानि तेभ्यः शब्द इति /
758 SK [०२५|२४-०२५|२५] एवम् तर्हि शाही हिक्यपि वेदना कर्मजभूतसंभूतत्वान्न विपाकः प्रप्नोति /
759 SK [०२५|२५] यदि शब्दवद् युक्तिविरोधः स्यात् /
760 SK [०२५|२६] अप्रतिघा अष्टौ नैःष्यन्दिकविपोआकजाः // VAक्K_१.३७ //
761 SK [०२५|२७] कतमे ऽष्टौ / सप्त चित्तधातवो धर्मधातुश्च / नैःष्यन्दिकाः सभागसर्वत्रगहेतुजनिताः /
762 SK [०२६|०१] विपाकजा विपाकहेतुजनिताः / औपचयिका न सन्त्यप्रतिघानां सञाभावात् /
763 SK [०२६|०२] त्रिधा ऽन्ये
764 SK [०२६|०३] अन्ये चत्वारः शेषा रूपरसगन्धस्प्रष्टव्यधातवः /
765 SK [०२६|०३-०२६|०४] ते विपाकजा अप्यौपचयिका अपि नैःष्यन्द्रिका अपि /
766 SK [०२६|०५] द्रव्यवानेकः
767 SK [०२६|०६] असंस्कृतं हि सारत्वाद् द्रव्यम् / तच्च धर्मधातावस्त्यतो धर्मधातुरेको द्रव्ययुक्तः /
768 SK [०२६|०७] क्षणिकाः पश्चिमास्त्रयः /
769 SK [०२६|०८] मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च पाठक्रमेण पश्चिमाः /
770 SK [०२६|०८-०२६|०९] ते प्रथमानास्रवे दुःखे धर्मज्ञानक्षान्तिकलापे क्षणमेकमनैःष्यन्दिका भवन्त्यतः क्षणिका इत्युच्यन्ते /
771 SK [०२६|०९-०२६|१०] अन्यसंभूतसंस्कृतो नास्ति कश्चिदनैःष्यन्दिकः /
772 SK [०२६|१०-०२६|११] तत्र दुःखे धर्मज्ञानक्षान्तिसंप्रयुक्तं चित्तं मनोधातुर्मनोविज्ञानधातुश्च /
773 SK [०२६|११] शेषास्तत्सहभुवो धर्मधातुः //
774 SK [०२६|१२-०२५|१२] इदं विचार्यते /
775 SK [०२६|१२-०२६|१३] यश्चक्षुर्धातुना ऽसमन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुना ऽपि सः /
776 SK [०२६|१३] यो वा चक्षुर्विज्ञानधातुना चक्षुर्धातुना ऽपि सः / आह /
777 SK [०२६|१४] चक्षुर्विज्ञानधात्वोः स्यात् पृथक् लाभः सहापि च // VAक्K_१.३८ //
778 SK [०२६|१५] पृथक् तावत् स्याच्चक्षुर्धातुना न चक्षुर्विज्ञानधातुना /
779 SK [०२६|१५-०२६|१६] कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः /
780 SK [०२६|१६] आरुप्यधातुच्युतश्च द्वितीयादिषु ध्यानेषूपपद्यमानः /
781 SK [०२६|१६-०२६|१७] स्याच्चक्षुर्विज्ञानधातुना न चक्षुर्धातुना /
782 SK [०२६|१७-०२६|१८] द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञान संमुखीकुर्वाणस्तत्प्रच्युतश्चाधस्तादुपपद्यमानः /
783 SK [०२६|१८-०२६|१९] सहापि स्यादुभयेन समन्वागमं प्रतिलभते /
784 SK [०२६|१९] आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः / नोभयेन /
785 SK [०२६|२०] एतानाकारान् स्थापयित्वा / यश्चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञानधातुना ऽपि सः /
786 SK [०२६|२१] चतुष्कोटिकः / प्रथमा कोटिर्द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानासंमुखीकुर्वाणः /
787 SK [०२६|२२] द्वितीया कामधातावलब्धविहीन चक्षुः /
788 SK [०२६|२२-०२६|२३] तृतीया कामधातौ लब्धाविहीनचक्षुः प्रथमध्यानोपपन्नो द्वितीयादिध्यानोपपन्नश्च पश्यन् /
789 SK [०२६|२३-०२६|२४] चतुऋथ्येतानाकारान् स्थापयित्वा /
790 SK [०२६|२४-०२६|२५] एवं चक्षुर्धातुरूपधात्वोश्चक्षुर्विज्ञानरूपधात्वोश्च प्रतिलम्भसमन्वागमौ यथायोगमभ्यूहितव्यौ /
791 SK [०२६|२५] एतस्य प्रसङ्गस्य समुच्चयार्थश्चशब्दः सहापि च इति /
792 SK [०२७|०१] कत्याध्यात्मिका धातवः कति बाह्याः /
793 SK [०२७|०२] द्वादशाध्यात्मिकाः
794 SK [०२७|०३] कतमे द्वादश /
795 SK [०२७|०४] हित्वा रूपादन्
796 SK [०२७|०५] षड् विज्ञानानि षडाश्रया इत्येते द्वादश धातव आध्यात्मकाः /
797 SK [०२७|०५-०२७|०६] रूपादयस्तु षड् विषयधातवो बाह्याः /
798 SK [०२७|०६] आत्मन्यसति कथमाध्यात्मिकं बाह्यं वा /
799 SK [०२७|०६-०२७|०७] अहङ्कारसन्निश्रयत्वाच्चित्तमात्मेत्युपचर्यते /
800 SK [०२७|०८] ᳚आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः᳚
801 SK [०२७|०९-०२६|०९] इत्युक्तम् /
802 SK [०२७|०९] चित्तस्य चान्यत्र दमनमुक्तं भगवता /
803 SK [०२७|१०] ᳚चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्᳚ इति /
804 SK [०२७|११] अत आत्मभूतस्य चित्तस्याश्रयभावेन प्रत्यासन्नत्वात् /
805 SK [०२७|११-०२७|१२] चक्षुरादीनामाध्यात्मिकत्वं रूपादीनां विषयभावाद् बाह्यत्वम् /
806 SK [०२७|१२-०२७|१३] एवम् तर्हि षड् विज्ञानधातव आध्यात्मिका न प्राप्नुवन्ति /
807 SK [०२७|१३] न ह्येते मनोधातुत्वमप्राप्ताश्चित्तस्याश्रयीभवन्ति /
808 SK [०२७|१३-०२७|१४] यदा तदा त एव ते भवन्तीति लक्षणं नातिबर्त्तन्ते /
809 SK [०२७|१४-०२७|१५] अन्यथा हि मनोधातुरतीत एव स्यान्नानागतप्रत्युत्पन्नः /
810 SK [०२७|१५] इष्यन्ते चाष्टादश धातवस्त्रैयध्विकाः /
811 SK [०२७|१५-०२७|१६] यदि चानागतप्रत्युत्पन्नस्य विज्ञानस्य मनोधातुलक्षणं न स्यात् अतीते ऽप्यध्वनि मनोधातुर्न व्यवस्थाप्येत /
812 SK [०२७|१७] नहि लक्षणस्याध्वसु व्यभिचारो ऽस्तीति //
813 SK [०२७|१८] कति धातवः सभागाः कति तत्सभागाः / एकान्तेन तावत् [०२७|१९] धर्मसंज्ञकः /
815 SK [०२७|२१-०२७|२२] यो हि विषयो यस्य विज्ञानस्य नियतो यदि तत्र तद्विज्ञानमुत्पन्तं भवत्युत्पत्तिधर्मि वा एवं स विषयः सभाग इत्युच्यते /
816 SK [०२७|२२-०२७|२३] न च सो ऽस्ति कश्चिद्धर्मधातुर्यत्र नानन्तं मनोविज्ञानमुत्पन्नमुत्पत्स्यते वा /
817 SK [०२७|२३-०२७|२४] तथा हि सर्वार्यपुद्गलानामिदं चित्तमवश्यमुत्पद्यते ᳚सर्वधर्मा अनात्मान᳚ इति /
818 SK [०२७|१४-०२७|२५] तस्य च स्वभावसहभूनिर्मुक्ताः सर्वधर्मा आलम्बनम् /
819 SK [०२७|२५-०२७|२६] स पुनश्चित्तक्षणो ऽन्यस्य चित्तक्षणस्यालम्बनमिति द्वयोः क्षणयोः सर्वधर्मा ह्यालम्बनं भवन्ति /
820 SK [०२७|२६] तस्माद् धर्मधातुअर्नित्यं सभागः /
821 SK [०२७|२७] तत्सभागाश्च शेषाः
822 SK [०२७|२८] सभागश्चेति चशब्दः / को ऽयं तत्सभागो नाम /
823 SK [०२८|०१] यो न स्वकर्मकृत् // VAक्K_१.३९ //
824 SK [०२८|०२] उक्तं भवति यः स्वकर्मकृत् स सभाग इति /
825 SK [०२८|०२-०२८|०३] तत्र येन चक्षुषा रूपाण्यपश्यत् पश्यति द्रक्ष्यति वा तदुच्यते सभागं अचक्षुः /
826 SK [०२८|०३-०२८|०४] एवं यावन्मनः स्वेन विषयकारित्रेण वक्तव्यम् /
827 SK [०२८|०४] तत्सभागं चक्षुः काश्मीराणां चतुर्विधम् /
828 SK [०२८|०४-०२८|०५] यद् दृष्ट्वा रूपाणि निअरुद्धं निरुध्यते निरोत्स्यते वा यच्चानुत्पत्तिधर्मि /
829 SK [०२८|०५-०२८|०६] पाश्चात्त्यानां पुनः पञ्चविधम् /
830 SK [०२८|०६] तदेवानुत्पत्तिधर्मि द्विधा कृत्वा विज्ञानसमायुक्तं चासमायुस्क्तं च /
831 SK [०२८|०७] एवं यावत् कायो वेदितव्यः / मनस्त्वनुत्पत्तिधर्मकमेव तत्सभागम् /
832 SK [०२८|०७-०२८|०८] रूपाणि च यानि चक्षुषा ऽपशायत् पश्यति द्रक्ष्यति वा तानि सभागानि /
833 SK [०२८|०८] तत्सभागानि चतुर्विधानि /
834 SK [०२८|०९] यान्यदृष्टान्येव निरुद्धानि निरुध्यन्ते निरुत्स्यन्ते वा यानि चानुत्पत्तिधर्मीणि /
835 SK [०२८|०९-०२८|१०] एवं यावत् स्प्रष्टव्यानि /
836 SK [०२८|१०] स्वेन्द्रियकारित्रेण सभागतत्सभागानि वेदितव्यानि /
837 SK [०२८|१०-०२८|११] यदेकस्य चक्षुः सभागं तत्सर्वेषाम् /
838 SK [०२८|११] एवं तत्सभागमपि /
839 SK [०२८|११०-०२८११] तथ यावन्मनः /
840 SK [०२८|११-०२८|१२] रूपं तु यः पश्यति तस्य सभागं यो न पश्यति तस्य तत्सभागम् /
841 SK [०२८|१२] किं कारणम् /
842 SK [०२८|१२-०२८|१३] अस्ति हि संभवो यद्रूपमेकः पश्यति तद्धवो ऽपि पश्येयुर्यथा चन्द्रनट्मल्लप्रेक्षासु /
843 SK [०२८|१३-०२८|१४] नतु संभवो ऽस्ति यदेकेन चक्षुषा द्वौ पश्येताम् /
844 SK [०२८|१४] अतो ऽस्यासाधारणत्वादेकसन्तानवशेन व्यवस्थानम् /
845 SK [०२८|१५] रूपस्य तु साधारणत्वात् अनेकसन्तानवशेन /
846 SK [०२८|१५-०२८|१६] यथा रौपमेवं शब्दगन्धरसस्प्रष्टव्यधातवो वेदितव्याः /
847 SK [०२८|१६] भवतु शब्द एवम् /
848 SK [०२८|१६-०२८|१८] गन्धादयस्तु य एकेन गृह्यन्ते न ते ऽन्येन प्राप्तगृहणादित्यसाधारणत्वादेषां चक्षुरादिवदतिदेशो न्याय्यः /
849 SK [०२८|१८] अस्त्येतदेवमपि त्वेशामपि संभवं प्रति साधारणत्वम् /
850 SK [०२८|१८-०२८|१९] अस्ति ह्येष संभवो य एव गन्धादय एकस्य घ्राणादिविज्ञानमुत्पादयेयुस्त एवान्येषामपि /
851 SK [०२८|२०] न त्वेवं चक्षुरादयः / तस्मान्देषां रूपादिवदतिदेशः /
852 SK [०२८|२०-०२८|२१] चक्षुर्विज्ञानादीनां सभागतत्सभागत्वमुत्पत्त्यनुत्पत्तिधर्मित्वाद्यथा मनोधातोः /
853 SK [०२८|२२] सभाग इति को ऽर्थः /
854 SK [०२८|२२-०२८|२३] इन्द्रियविषयविज्ञानानामन्योन्यभजनं कारित्रभजनं वा भागः /
855 SK [०२८|२३] स एषामस्तीति सभागः / स्पर्शसमानकार्यत्वाद्वा /
856 SK [०२८|२३-०२८|२४] ये पुनरसभागास्ते तेषा सभागानां जातिसामान्येन सभागत्वात् तत्सभागाः /
857 SK [०२८|२५] कति धातवो दर्शनहेयाः कति भावनाहेयाः कत्यहेयाः / रूपिणस्तावत्
858 SK [०२८|२६] दश भावनया हेयाः पञ्च च
859 SK [०२८|२७] विज्ञानधातवः /
860 SK [०२८|२८] अन्त्यास्त्रयस्त्रिधा /
861 SK [०२८|२९] मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च / एते त्रयो धातवः पाठानुपूर्व्या ऽन्त्यास्त्रिप्रकाराः /
862 SK [०२९|०१] अष्टाशीत्यनुशयाः तत्सहभुवस्तत्प्रप्तयशाच सानुचरा दऋशनहेयाः /
863 SK [०२९|०१-०२९|०२] शेषाः सास्रवा भावनाहेयाः /
864 SK [०२९|०२] अनास्रवा अहेयाः /
865 SK [०२९|०२-०२९|०३] ननु चान्यदपि दर्शनप्रहातव्यमस्ति पृथग्जनत्वमापायिकं च कायवाक्कर्म /
866 SK [०२९|०३-०२९|०४] आर्यमार्गविरोधित्वात् न तद् दऋशनप्रहातव्यम् /
867 SK [०२९|०४] एष हि संक्षेपः /
868 SK [०२९|०५] न दृष्टिहेयमक्लिष्टं न रूपं नाप्यडड्त्ःअजं
869 SK [०२९|०६] नास्ति किञ्चिदक्लिष्टं दर्शनप्रहातव्यं नापि रूपम् /
870 SK [०२९|०६-०२९|०७] अक्लिष्टव्याकृतं च पृथग्जनत्वम् /
871 SK [०२९|०७] समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वामत् रूपं कायवाक्कर्म /
872 SK [०२९|०८] तस्मान्न दर्शनप्रहातव्यम् /
873 SK [०२९|०८-०२९|०९] सत्येष्व विप्रतिपत्तेर्दुःखे धर्मज्ञानक्षान्तौ प्र्थग्जनत्वप्रसङ्गाच्च /
874 SK [०२९|१०] नाप्यषष्टजम् // VAक्K_१.४० //
875 SK [०२९|११] षष्ठमुच्यते मन आयतनम् /
876 SK [०२९|११-०२९|१२] तस्मादन्यत्र जातमषष्ठजं पञ्चेन्द्रियजं च यत्तदपि नास्ति दर्श्नप्रहातव्यम् //
877 SK [०२९|१३] अष्टादशानां धातूनां कति दृष्टिः कति न दृष्टिः /
878 SK [०२९|१४] चक्षुश्च धर्मधातोश्च प्रदेशु दृष्टिः
879 SK [०२९|१५] कतमः स इत्याह
881 SK [०२९|१७-०२९|१८] पञ्च सत्कायदृष्ट्यादिका दृष्टयः लौकिकी सम्यग् दृष्टिः शैङ्क्षी दृष्टिरशैक्षी दृष्टिरित्ययमष्टप्रकारो धर्मधातुर्दृष्टि रव्रशिष्टो न दृष्टिः / तत्र सत्कायदृष्ट्यादीनामनुशायनिर्देशे निर्द्देशः प्राप्तकालो भविष्यति /
882 SK [०२९|१९-०२९|२०] लौकिकी पुनः सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्ता कुशलसास्रवा प्रज्ञा /
883 SK [०२९|२०-०२९|२१] शैक्षस्यनास्रवा दृष्टिः षैक्षी अशैक्षस्य अक्शैक्षी /
884 SK [०२९|२१-०२९|२२] समेघामेघरत्रिन्दिवरूपदर्शनवत् क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर्दृष्टिभिर्धर्मदर्शनम् /
885 SK [०२९|२२] अथ कस्माल्लौदिकी सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्तैवोच्यते /
887 SK [०२९|२४] पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात् // VAक्K_१.४१ //
888 SK [०२९|२५] सन्तीरिका हि दृष्टिरुपध्यानप्रवृत्तत्त्वात् / न चैवं पञ्चविज्ञानसहाजा प्रज्ञा /
889 SK [०३०|०१] तस्माद्सौ न दृष्टिः / अत एव चान्या ऽपि क्लिष्टा ऽक्लिष्टा वा प्राज्ञा न दृष्टिः /
890 SK [०३०|०२] चक्षुरिदानीमसन्तीरकत्वे कथं दृष्टिः / रूपालोचनार्थेन / यस्मात्
891 SK [०३०|०३] चक्षुः पश्यति रूपाणि
892 SK [०३०|०४] यदि चक्षुः पश्येदन्यविज्ञानसमङ्गिनो ऽपि पश्येत् / न वै सर्वं चक्षुः पश्यति / किं तर्हि /
894 SK [०३०|०६] सविज्ञानकं यदा भवति तदा पश्यत्यन्यदा नेति /
895 SK [०३०|०६-०३०|०७] एवम् तर्हि तदेव चक्षुराश्रितम् विज्ञानं पश्यतीत्यस्तु /
896 SK [०३०|०८] न तदाश्रितम् /
898 SK [०३०|१०] पश्यतीति शस्यमविज्ञातुम् / किं कारणम् /
899 SK [०३०|११] दृश्यते रूपं न किलान्तरितं यतः // VAक्K_१.४२ //
900 SK [०३०|१२] यस्मात् किल रूपं कुड्यादिव्यवहितं न दृश्यते /
901 SK [०३०|१२-०३०|१३] यदि हि विज्ञानं पश्येत्तस्स्याप्रतिघत्वात् कुड्यादिषु प्रतिघातो नास्ति इत्य्वाऋतमपि रूपं पश्येत् /
902 SK [०३०|१३-०३०|१४] नैव हावृते चक्षुर्विज्ञानमुत्पद्यत इत्यनुत्पन्नं कथं द्रक्ष्यति /
903 SK [०३०|१४] किं खलु नोत्पद्यते /
904 SK [०३०|१४-०३०|१६] यस्य तु चक्षुः पश्यति तस्य चक्षुषः सपरतिघत्वाद्व्ययवहिते वृत्त्यभाव इति विज्ञानस्यानुत्पत्ति राश्रयेणैक विषयप्रवृत्तत्वात् युज्यते /
905 SK [०३०|१६-०३०|१७] किं नु वै चक्षुः प्राप्तविषयं कायेन्द्रियवत् यत आवृतं न पश्येत् /
906 SK [०३०|१७] सप्रतिघत्वात् /
907 SK [०३०|१७-०३०|१८] काचाभ्रपटलस्फटिकाम्बुभिश्चान्तरितं कथं दृश्यते /
908 SK [०३०|१८] सप्रतिघत्वाच्चक्षुष आवृतस्य रूपस्यादर्शनम् /
909 SK [०३०|१९] किं तर्हि /
910 SK [०३०|१९-०३०|२०] यत्रालोकस्याप्रतिबन्ध आवृते ऽपि रुपे तत्रोपपद्यत एव चक्षुर्विज्ञानम् /
911 SK [०३०|२०-०३०|२१] यत्र तु प्रतिबन्धस्तत्र नोत्पद्यत इत्यनुत्पन्नत्वादावृतं नेक्ष्यते /
912 SK [०३०|२१] यत्तर्हि सूत्र उक्तं ᳚चक्षुषा रूपाणि दृष्ट्वे᳚ति /
913 SK [०३०|२१-०३०|२२] तेनाश्रयेणेत्ययमत्राभिसन्धिर्यथा ᳚मनसा धर्मान् विज्ञाये᳚ त्याह /
914 SK [०३०|२२-०३०|२३] न च मनो धर्मान् विजानाति /
915 SK [०३०|२३] अतीतत्वात् / किं तर्हि / मनोविज्ञानम् /
916 SK [०३०|२३-०३०|२४] आश्रितकर्म वा आश्रयस्योपचर्यते /
917 SK [०३०|२४] यथा मञ्चाः क्रोशन्तीति /
918 SK [०३०|२४-०३०|२५] यथा च सूत्र उक्तं ᳚चक्षुर्विज्ञेयानि रूपाणीष्टानि कान्तानि᳚ति /
919 SK [०३०|२५] न च तानि चक्षुषा विज्ञायन्ते /
920 SK [०३०|२५-०३०|२७] उक्तं च सूत्रे ᳚चक्षुर्ब्राह्मण द्वारं यावदेव रूपाणां दर्शनाय᳚ इत्यतो गम्यते चक्षुषा द्वारेण विज्ञानं पश्यतीति / श्
921 SK [०३०|२७] दर्शने तत्र द्वाराख्या / नह्येतद्युज्यते / चक्षुर्दार्शनं अरूपाणां दर्श्नायेति /
922 SK [०३१|०१] यदि विज्ञानं क्पश्यति को विजानाति कश्चानयोर्विशेषः /
923 SK [०३१|०१-०३१|०२] यदेव हि रूपस्य विज्ञानं तदेवास्य दर्श्नमिति /
924 SK [०३१|०२-०३१|०३] तद्यथा काचित् प्रज्ञा पश्यतीत्यप्युच्यते प्रजानातीत्यप्येवं किञ्चिद्विज्ञानं पश्यतीत्यप्युच्याते विजानातीत्यपि /
925 SK [०३१|०३] अन्ये पुनराहुः /
926 SK [०३१|०३-०३१|०४] ᳚यदि चक्षुः पश्यति कर्तृभूतस्य चक्षुषः का ऽन्या दृशिक्रिये᳚ति वक्तव्यम् /
927 SK [०३१|०४] तदेतदचोद्यम् /
928 SK [०३१|०४-०३१|०५] यदि हि विज्ञानं विजानातीतीष्यते /
929 SK [०३१|०५] न च तत्र कर्तृक्रियाभेदः / एवमत्रापि /
930 SK [०३१|०५-०३१|०६] अपरे पुनर्ब्रुवते /
931 SK [०३१|०६-०३१|०७] ᳚चक्षुर्विज्ञानं दर्शनं तस्याश्रयभावाच्चक्षुः पश्यतीत्युच्यते /
932 SK [०३१|०७] यथा नादस्याश्रयभावात् घण्टा नदतीत्युच्यते᳚ इति /
933 SK [०३१|०७-०३१|०८] ननु चईवं विज्ञानस्याश्रयभावाचक्षुर्विजानातीति प्राप्नोति /
934 SK [०३१|०८] न प्राप्नोति /
935 SK [०३१|०८-०३१|०९] तद्विज्ञानं दर्शनमिति रुढं लोके /
936 SK [०३१|०९] तथा हि तस्मिन्नुत्पन्ने रूपं दृष्टमित्युच्यते न विज्ञातम् /
937 SK [०३१|०९-०३१|१०] विभाषायामप्युक्तं ᳚चक्षुः संप्रप्तं चक्षुर्विज्ञानानुभूतं दृष्टमित्युच्यत᳚ इति /
938 SK [०३०|१०-०३१|११] तस्माच्चक्षुः पश्यतीत्येवोच्यते न विजानातीति /
939 SK [०३१|११] विज्ञानं तु सान्निध्यमात्रेण रूपं विजानातीत्युच्यते /
940 SK [०३१|१२] यथा सूर्यो दिवसकर इति / अत्र सौत्रान्तिका आहुः / किमिदमाकाशं खाद्यते /
941 SK [०३१|१३] चक्षुर्हि प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् / तत्र कः पश्यति को वा दृश्यते /
942 SK [०३१|१४] निव्र्यापारं हीदं धर्ममात्रं हेतुफलमात्रं च /
943 SK [०३१|१४-०३१|१५] तत्र व्यवहारार्थं च्छन्दत उपचाराः क्रियन्ते /
944 SK [०३१|१५] चक्षुः पश्यति विज्ञानं विजानातीति नात्राभिनिवेष्टव्यम् /
945 SK [०३१|१५-०३१|१६] उक्तं हि भगवता ᳚जनपदनिरुक्तिं नाभिनिविशेत संज्ञां च लोकस्य नाभिधावेदि᳚ति /
946 SK [०३१|१६-०३१|१७] एष तु काश्मीरवैभाषिकाणां सिद्धान्तः /
947 SK [०३१|१७-०३१|१८] चक्षुः पश्यति श्रोत्रं शृणोति घ्राणं जिघ्रति जिह्वा आस्वादयति कायः स्पृशति मनो विजानातीति /
948 SK [०३१|१९] तद्यदि चक्षुः पश्यति किमेकेन चक्षुषा रूपाणि पश्यत्याहोस्विदुभाभ्याम् /
949 SK [०३१|२०] नात्र नियमः /
950 SK [०३१|२१] उभाभ्यामपि चक्षुभुयां पश्यति व्यक्तदर्शनात् /
951 SK [०३१|२२] उभाभ्यामपि चक्षुर्भ्यां पश्यतीत्याभिधार्मिकाः /
952 SK [०३१|२२-०३१|२३] तथा हि द्वयोर्विवृतयोः परैशाउद्धतरं दराशनं भवति /
953 SK [०३१|२३-०३१|२४] एकस्मिंश्चीन्मीलिते चक्षुषि द्वितीये चार्धनिमीलिते द्विचन्द्रादिग्रहणं भवति /
954 SK [०३१|२४] नैकतरान्यथीभावात् /
955 SK [०३१|२४-०३१|२५] न चाश्रयविच्छेदाद् विच्छेदपरसङ्गो विज्ञानस्य देशाप्रतिष्ठितत्वाद् रौपवदिति /
956 SK [०३१|२६-०३१|२७] यदि चक्षुः पश्यति श्रोत्रं शृणोति यावन्मनो विजानाति किमेषां प्राप्तो विषय आहोस्विदप्राप्तः /
957 SK [०३२|०१] चक्षुःश्रोत्रमनो ऽप्राप्तविषयं
958 SK [०३२|०२] तथा हि दूराद्रूपं पश्यत्यक्षिस्थमञ्जनं न पश्यति / दूराच्छब्दं शृणोति /
959 SK [०३२|०२-०३२|०३] सति च प्राप्तविषयत्वे दिव्यं चक्षुःश्रोत्रमिह ध्यायिनां नोपजायेत /
960 SK [०३२|०३] घ्राणादिवत् /
961 SK [०३२|०३-०३२|०४] यद्यप्राप्तविषयं चक्षुः कस्मान्न सर्वमप्राप्तं पश्यति दूरं तिरस्कृतं च /
962 SK [०३२|०४-०३२|०५] कथं तावदय्स्कान्तो न सर्वमप्राप्तमयः कर्षति /
963 SK [०३२|०५] प्राप्तविषयत्वे ऽपि चैतत्समानम् /
964 SK [०३२|०५-०३२|०६] कस्मान्न सर्वं प्राप्तं पश्यत्यञ्जनं शलाकां वा /
965 SK [०३२|०६-०३२|०७] यथा च घ्राणादीनं प्राप्तो विषयो न तु सर्वः /
966 SK [०३२|७-०३२०७] सहभूगन्धाद्यग्रहणात् /
967 SK [०३२|०७] एवं चक्षुषो ऽप्यप्राप्तः स्यान्न तु सर्वः /
968 SK [०३२|०७-०३२|०८] मनस्त्वरूपित्वात् प्राप्तुमेवाशक्तम् /
969 SK [०३२|०८] केचित् पुनः श्रोत्रं प्रप्ताप्राप्तविषयं मन्ययन्ते /
970 SK [०३२|०९] कर्णभ्यन्तरे ऽपि शब्दश्रवणात् / शेषं तु घ्राणजिह्वाकायाख्यम् /
971 SK [०३२|१०] त्रयमन्यथा // VAक्K_१.४३ //
972 SK [०३२|११] प्राप्तविषयमित्यर्थः / घ्राणं कथं प्राप्तविषयम् / निरुच्छ्वासस्य गन्धाग्रहणात् /
973 SK [०३२|१२] केयं प्राप्तिर्नाम / निरन्तरोत्पत्तिः /
974 SK [०३२|१२-०३२|१३] किं पुनः परमाणवः स्पृशन्त्यन्योन्यमाहोस्विन्न /
975 SK [०३२|१३-०३१|१३] न स्पृशन्तीति काश्मीरकाः /
976 SK [०३२|१३] किं कारणम् /
977 SK [०३२|१३-०३२|१४] यदि तावत् सर्वान्मना स्पृशेयुर्मिश्रीभवेयुर्द्रव्याणि /
978 SK [०३२|१४] अथैकदेशेन सावयवाः प्रसज्येरन् /
979 SK [०३२|१५] निरवयवाश्च परमाणवः / कथं शब्दाभिनिश्पत्तिर्भवति /
980 SK [०३२|१५-०३२|१६] अत एव यदि हि स्पृशेयुर्हस्तो हस्ते ऽभ्याहतः सज्येतो पलश्चोपले / [०३२|१६-०३२|१७] कथं चितं प्रत्याहतं न विशीर्यते /
981 SK [०३२|१७] वायुधातुसंधारितत्वात् /
982 SK [०३२|१७-०३२|१८] कश्चिद्वायुधातुर्विकिरणाय प्रवृत्तो यथा संवर्त्तन्यां कश्चित् संधारणाय यथा विवर्त्तन्यामिति /
983 SK [०३२|१८-०३२|१९] कथमिदानीं निरन्तर प्राप्त्या प्राप्तविषयं त्रयमुच्यते /
984 SK [०३२|१९] तदेवैषां निरुत्तरत्वं यन्मध्ये नास्ति किञ्चित् /
985 SK [०३२|२०] अपिख्लु संघाताः सावयवत्वात् स्पृशन्तीत्यद्वीषः /
986 SK [०३२|२०-०३२|२१] एवं च कृत्वा ऽयमपि ग्रन्थ उपपन्नो भवति विभाषायाम् /
987 SK [०३२|२१-०३२|२२] किं नु स्पृष्टहेतुकं स्पृष्टमुत्पद्यते आहोस्विदस्पृष्टहेतुकमिति प्रश्नयित्वाह᳚कारणं प्रति /
988 SK [०३२|२२-०३२|२३] कदाचित् स्पृष्टहेतुकमस्पृष्टमुत्पधते यदा विशीर्यते /
989 SK [०३२|२३] कदाचिदस्पृष्टहेतुकं स्पृष्टं यदा चयं गच्छति /
990 SK [०३३|०१] कदाचित् स्पृष्टहेतुकं स्पृष्टं यदा चयवतां चयः /
991 SK [०३३|०१-०३३|०२] कदाचिदस्पृष्टहेतुकमस्पृष्टं यदा वातायनरज᳚ इति /
992 SK [०३३|०२] यदि परमाणवः स्पृशेयुरुत्तरक्षणावस्थानं स्यादिति भदन्तवसुमित्रः /
993 SK [०३३|०३] न स्पृशन्ति / निरन्तरे तु स्पृष्टसंज्ञेति भदन्तः / भदन्तमतं चैष्टव्यम् /
994 SK [०३३|०४] अन्यथा हि सान्तराणां परमाणूनां शून्येष्वन्तरेषु गतिः केन प्रतिबध्येत /
995 SK [०३३|०४-०३३|०५] यतः सप्रतिघा इष्यन्ते /
996 SK [०३३|०५] नच परमाणुभ्यो ऽन्ये संघाता इति /
997 SK [०३३|०५-०३३|०६] त एव ते संघाताः परमाणवः स्पृश्यन्ते यथा रूप्यन्ते /
998 SK [०३३|०६-०३३|०७] यदि च परमाणोर्दिग्भागभेदः कल्प्यते स्पृष्टस्यास्पृष्टस्य वा सावयवत्वप्रसङ्गः /
999 SK [०३३|०७] नो चेत् स्पृष्टस्याप्यप्रसङ्गः //
1000 SK [०३३|०८-०३३|०९] किं पुनरेभिश्चक्षुरादिभिरात्मपरिमाणतुल्यस्यार्थस्य ग्रहणं भवत्याशुवृत्त्या च पर्वतादीनामलातक्रादिवदाहोस्वित्तुल्यातुल्यस्य /
1001 SK [०३३|०९-०३३|१०] यानि तावदेतानि प्राप्तविषयाण्युक्तान्येभिः /
1002 SK [०३३|११] त्रिभिर्घ्राणादिभिस्तुल्यविषयग्रहणं मतम् /
1003 SK [०३३|१२] यावन्तो हीन्द्रियपरमाणवस्तावन्तो हि विषयपरमाणवः समेत्य विज्ञानं जनयन्ति /
1004 SK [०३३|१३] चक्षुःश्रोत्राभ्यां त्वनियमः / कदाचिदल्पीयांसो यदा वालाग्रं पश्यति /
1005 SK [०३३|१३-०३३|१४] कदाचित् समा यदा द्राक्षाफतं पश्यति /
1006 SK [०३३|१४-०३३|१५] कदाचित् भूयांसो यदा महान्तं पर्वतं पश्यत्युन्मिषितमात्रेण /
1007 SK [०३३|१५] एवम् श्रोत्रेण मशकमेघादिशब्दश्रवणे घोषम् /
1008 SK [०३३|१५-०३३|१६] मनस्त्वमूर्त्तिवदेवेति नास्य परिमाणपरिच्छेदः संप्रधार्यते /
1009 SK [०३३|१६] कतहं पुनरेषां चक्षुरादीन्द्रियपरमाणूनां संनिवेशः /
1010 SK [०३३|१७] चक्षुरिन्द्रियपरमाणवस्तावदक्षितारकायामजाजीपुष्पवदवस्थिताः /
1011 SK [०३३|१७-०३३|१८] अच्छचर्मावच्छादितास्तु न विकीर्यन्ते /
1012 SK [०३३|१८-०३३|१९] अधरौत्तर्येण पिण्डवदवस्थिता इत्यपरे /
1013 SK [०३३|१९] न चान्यो ऽन्यमावृण्वन्ति स्फटिकवदच्छत्वात् /
1014 SK [०३३|१९-०३३|२०] श्रोत्रेन्द्रियपरमाणवो भूर्जाभ्यन्तरावस्थिताः /
1015 SK [०३३|२०] घ्राणेन्द्रियपरमाणवो घटाभ्यन्तरेण शलाकावत् /
1016 SK [०३३|२०-०३३|२१] आद्यानि त्रीणीन्द्रियाणि मालावदवस्थितानि /
1017 SK [०३३|२१] जिह्वेन्द्रियपरमाण्वो ऽर्धचन्द्रवत् /
1018 SK [०३३|२१-०३३|२२] वालाग्रमात्रं किल मध्यजिव्हायां जिह्वेन्द्रियपरमाणुभिरस्फुटम् /
1019 SK [०३३|२२-०३३|२३] कायेन्द्रियपरमाणवः कायवदवस्थिताः /
1020 SK [०३३|२३] स्त्रीन्द्रियपरमाणवो भेरीकटाहवत् / पुरुषेन्द्रियपरमाणवो ऽङ्गुष्ठवत् /
1021 SK [०३३|२४] तत्र चक्षुरिन्द्रियपरमाणवः कदाचित् सर्वे सभागा भवन्ति कदाचित्तत्सभागाः /
1022 SK [०३३|२४-०३३|२५] कदाचिदेके सभागाः एके तत्सभागाः /
1023 SK [०३३|२५] एवम् यावज्जिह्वेन्द्रियपरमाणवः /
1024 SK [०३३|२५-०३३|२६] कायेन्द्रियपरमाणवस्तु सर्वे सभागा न भवन्ति /
1025 SK [०३३|२६-०३३|२७] प्रदीप्तनरकाभ्यन्तरावरुद्धानामपि ह्यपरिमाणाः कायेन्द्रियपरमाणवस्तत्सभागा भवन्ति /
1026 SK [०३३|२७-०३४|०१] सर्वैः किल विज्ञानोत्पत्तावाश्रयो विशीर्येत /
1027 SK [०३४|०१] न चैक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानं जनयति /
1028 SK [०३४|०१-०३४|०२] संचिताश्रयालम्बनत्वात् पञ्चानां विज्ञानकायानाम् /
1029 SK [०३४|०२] अत एवानिदर्शनः परमाणुरदृश्यत्वात् //
1030 SK [०३४|०३-०३४|०४] य इमे षड्विज्ञानधातव उक्ताश्चक्षुर्विज्ञानं यवन्मनोविज्ञानं किमेषां यथ विषयो वर्त्तमानः पञ्चानां चरमस्य त्रिकाल एवमाश्रयो ऽपि /
1032 SK [०३४|०५-०३४|-५] किं तर्हि /
1033 SK [०३४|०६] चरमस्याश्रयो ऽतीतः
1034 SK [०३४|०७] मनोविज्ञानधातोः समनन्तरनिरुद्धं मन आश्रयः /
1035 SK [०३४|०८-०३४|०७] पञ्चानां सहजश्च तैः // VAक्K_१.४४ //
1036 SK [०३४|०९] अतीतश्चेति चशब्दः /
1037 SK [०३४|०९-०३४|१०] तत्र चक्षुर्विज्ञानस्य चक्षुः सहज आशारयो यावत् कायविज्ञानस्य कायः /
1038 SK [०३४|१०] अतीतः पुनरेषामाश्रयो मन इत्यप्येते पञ्च विज्ञानकाया इन्द्रियद्वयाश्रयाः /
1039 SK [०३४|११] अत एवोच्यते ᳚यश्चक्षुर्विज्ञानस्याश्रयभावेन समनन्तरप्रत्ययभावेनापि स तस्ये᳚ति /
1040 SK [०३४|१२] चतुष्कोतिकः / प्रथमा कोतिश्चक्षुः / द्वितीया समनन्तरातीतश्चैतसिको धर्मधातुः /
1041 SK [०३४|१३] तृतीया समनन्तरातीतं मनः / चतुर्थी कोटिरुक्तनिर्मुक्ता धर्माः /
1042 SK [०३४|१३-०३४|१४] एवं यावत् कायविज्ञानस्य स्वमिन्द्रियं वक्तव्यम् /
1043 SK [०३४|१४] मनोविज्ञानस्य पूर्वपादकः /
1044 SK [०३४|१४-०३४|१५] यस्तावदाश्रयभावेन समनन्तरप्रत्ययभावेनापि सः /
1045 SK [०३४|१५] स्यात्समनन्तरप्रत्ययभावेन नाश्रयभावेन /
1046 SK [०३४|१५-०३४|१६] समनन्तराभ्यतीतश्चेतसिको धर्मधातुरिति /
1047 SK [०३४|१७-०३४|१८] किं पुनः कारणमुभयाधीनायां विज्ञानोत्पत्तौ चक्षुरादयः एवाश्रया उच्यन्ते न रूपादयः /
1048 SK [०३४|१९] तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः /
1049 SK [०३४|२०] धातव इत्यधिकारः /
1050 SK [०३४|२०-०३४|२१] चक्षुरादीनां हि विकारेण तद्विज्ञानानां विकारो भवत्यनुग्रहोपघातपटुमन्दतानुविधानात् न तु रूपादीनां विकारेण तद्विकारः /
1051 SK [०३४|२२] तस्मात् साधीयस्तदधीनत्वत् त एवाश्रया न रूपादयः /
1052 SK [०३४|२३-०३४|२४] किं पुनः कारणं रूपादयश्च तैर्विज्ञायन्ते चक्षुर्विज्ञानं चोच्यते यावन्मनोविज्ञानम् /
1053 SK [०३४|२४] न पुना रूपविज्ञानं यावद्धर्मविज्ञानमिति /
1054 SK [०३४|२४-०३४|२५] य एते चक्षुरादय आश्रया एषाम् /
1055 SK [०३४|२६] अतो ऽसाधारणत्वाद्धि विज्ञानं तैर्निरुच्यते // VAक्K_१.४५ //
1056 SK [०३४|२७] कथमसाधारणत्वम् / न हि चक्षुरन्यस्य विज्ञानस्याश्रयीभवितुमुत्सहते /
1057 SK [०३४|२७-०३४|२८] रूपं तु मनोविज्ञानस्यालम्बनीभवत्यन्यचक्षुर्विज्ञानस्यापीति /
1058 SK [०३४|२८] एवं यावत् कायो वेदितव्यः /
1059 SK [०३४|२९] तस्मादाश्रयभावादसाधारणत्वाच्च विज्ञानं तेनैव निर्दिश्यते न रूपादिभिः /
1060 SK [०३४|२९-०३४|३०] यथा भेरीशब्दो यवाङ्कुर इति /
1061 SK [०३५|०१-०३५|०२] अथ यत्र काये स्थितश्चक्षुषा रूपाणि पश्यति किं तानि कायचक्षूरूपविज्ञानान्येकभूमिकान्येव भवन्त्याहोस्विदन्यभूमिकान्यपि /
1062 SK [०३५|०२] आह / सर्वेषां भेदः /
1063 SK [०३५|०३] कामधातूपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकम् भवति /
1064 SK [०३५|०४-०३५|०५] तस्यैव स्वानि रूपाणि प्रथमध्यानभूमीनि पश्यनो रूपाणि त्रीणपि तद्भूमिकानि /
1065 SK [०३५|०६-०३५|०७] द्वितीयध्यानचक्षुषा स्वानि रूपोआणि पश्यतः कायरूपे स्वभूमिके चक्षुस्तद्भूमिकं विज्ञानं प्रथमध्यान भूमिकम् / [०३५|०७-०३५|०६] प्रथमध्यानभूमीनि पश्यतो विज्ञानरुपे तद्भूमिके कायः कामावचरश्चक्षुर्द्वितीयद्यानभूमिकम् /
1066 SK [०३५|०८-०३५|१०] द्वितीयध्यानभूमीनि पश्यतश्चक्षूअरूपे तद्भूमिके कायः कामावचरो विज्ञानं प्रथमभूमीकम् /
1067 SK [०३५|१०-०३५|११] एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभुमिकानि रूपाणि पश्यतो योजयितव्यम् /
1068 SK [०३५|११-०३५|१२] प्रथ्मध्यानोपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकमधराणि पश्यतः त्रयं स्वभूमिकं /
1069 SK [०३५|१२-०३५|१३] द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतस्त्रयं स्वभूमिकं चक्षुस्तद्भूमिकम् /
1070 SK [०३५|१३-०३५|१४] कामावचराणि पश्यतः कायविज्ञाने स्वभूमिके रूपाण्यधराणि चक्षुस्तद्भूमिकम् /
1071 SK [०३५|१४-०३५|१५] द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे तद्भूमिके शेषं स्वभूमिकम् /
1072 SK [०३५|१५] एवं तृतीयध्यानचक्षुषा योज्यम् /
1073 SK [०३५|१६-०३५|१७] द्वितीयादिध्यानोपपन्नस्य स्वपरचक्षुर्भ्यां स्वपरभूमिकानि रूपाणि पश्यतो यथायोगं योजयितव्यम् /
1074 SK [०३५|१७] अयं तु नियमः /
1075 SK [०३५|१८] न कायस्याधरं चक्षुः /
1076 SK [०३५|१९] पञ्चभूमिकानि हि कायचक्षूरूपाणि कामावचराणि यावच्चतुर्थध्यानभूमिकानि /
1077 SK [०३५|२०] द्विभूमिकं चक्षुर्विज्ञानं कामावचरं प्रथमध्यानभूमिकं च /
1078 SK [०३५|२०-०३५|२१] तत्र यद्भूमिकः कायस्तद्भूमिकं चक्षुरूर्ध्वभूमिकं वा चक्षुर्भवति न त्वधरभूमिकम् /
1079 SK [०३५|२१-०३५|२२] यद्भूमिकं चक्षुस्तद्भूमिकमधरभूमिकं वा रूपं विषयो भवति /
1080 SK [०३५|२३] ऊध्र्वं रूपं न चक्षुषः /
1081 SK [०३५|२४] न हि कदाचिदूर्ध्र्वभूमिकं रूपमधोभूमिकेन चक्षुषा द्रष्टुं शक्यते /
1082 SK [०३५|२५] विज्ञानं च
1083 SK [०३५|२६] ऊर्ध्व न चक्षुषो रूपवत् /
1084 SK [०३६|०१] अस्य रूपं तु कायस्योभे च सर्वतः // VAक्K_१.४६ //
1085 SK [०३६|०२] अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्य रूपं सर्वतो विषयः ऊर्ध्वमधः स्वभूमौ च /
1086 SK [०३६|०३] कायस्य चोभे रूपविज्ञाने सर्वतो भवतः / यथा चेचं चक्षुरुत्तं विस्तरेण वेदितव्यम्
1087 SK [०३६|०४] तथा श्रोत्रं
1088 SK [०३६|०५-०३६|०६] ᳚न कायस्याधरं श्रोत्रमूर्ध्वं शब्दो न च श्रुतेः / विज्ञानं चास्य शब्दस्तु कायस्योभे च सर्वतः //᳚इति
1089 SK [०३६|०७] विस्तरेण योज्यम् /
1090 SK [०३६|०८] त्रयाणां तु सर्वमेव स्वभूमिकम् /
1091 SK [०३६|०९] घ्राणजिह्वाकायधातूनां कायविषयविज्ञानानि स्वभूमिकान्येव /
1092 SK [०३६|०९-०३६|१०] इत्युत्सर्गविशेषेण कृत्वा पुनर्विशेषणार्थमपवाद आरभ्यते /
1093 SK [०३६|११] कायविज्ञानमधरस्वभूमि
1094 SK [०३६|१२] कायः कायधातुः स्प्रष्टव्यं च स्वभूमिकान्येव नित्यं भवन्ति /
1095 SK [०३६|१२-०३६|१३] कायविज्ञानं तु केषाञ्चित् स्वभूमिकं यथाकामधातुप्रथमध्यानोपपन्नां /
1096 SK [०३६|१३-०३६|१४] केषाञ्चिदधरभूमिकं यथा द्वितीयादिध्यानोपपन्नानामिति /
1097 SK [०३६|१५] अनियतं मनः // VAक्K_१.४७ //
1098 SK [०३६|१६-०३६|१७] कदाचित् कायमनोविज्ञानधर्मैः समानभूमिकं मनो भवति कदाचिदूर्ध्वाधोभूमिकम् /
1099 SK [०३६|१७-०३६|१९] पञ्चभूमिके ऽपि हि काये सर्वभूमिकानि मन आदीनि भवन्ति समापत्त्युपपत्तिकाले यथायोगमिति विस्तरेण समापत्तिनिर्देशे कोशस्थान एतदाख्यायिष्यते /
1100 SK [०३६|१९-०३६|२०] अतिहहुग्रन्थभारपरिहारार्थं तु नेदानीं पुनराख्यायते /
1101 SK [०३६|२०] अल्पं च प्रयोजनं महांश्च श्रम इति समाप्त आनुषङ्गिकः प्रसङ्गः /
1102 SK [०३६|२१] इदमिदानीं विचार्यते /
1103 SK [०३६|२१-०३६|२२] अष्टादशानां च्दातूनां षण्णां च विज्ञानानां कः केन विज्ञेयः /
1105 SK [०३६|२३] पञ्च बाह्या द्विविज्ञेयाः
1106 SK [०३६|२४-०३६|२५] रूपशबगन्धरसस्प्रष्टव्यधातवो यथासंख्यं चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानैरनुभूता मनोविज्ञानेन विज्ञायन्ते /
1107 SK [०३६|२५] एवमेते प्रत्येकं द्वाभ्यां विज्ञानाभ्यां विज्ञेया भवन्ति /
1108 SK [०३६|२६-०३६|२७] शेषास्त्रयोदश धातवः पञ्चानां विज्ञानकायानामविषयत्वादेकेन मनोविज्ञानेन विज्ञेया इत्याख्यातं भवति /
1109 SK [०३७|०१] एषामष्टादशानां धातूनां मध्ये कति नित्याः कत्यनित्याः /
1110 SK [०३७|०१-०३७|०२] न कश्च्त् सकलो ऽस्ति नित्यो धातुरपि तु
1111 SK [०३७|०३] नित्या धर्मा असंस्कृताः /
1112 SK [०३७|०४] तेन धार्मधात्वेकदेशो नित्यः शेषा अनित्याः /
1113 SK [०३७|०५] कतीन्द्रियं कति नेन्द्रियम् /
1114 SK [०३७|०६] धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः // VAक्K_१.४८ //
1115 SK [०३७|०७] द्वाविंशतिरिन्द्रियाण्युक्तानि सूत्रे /
1116 SK [०३७|०७-०३७|११] चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियं मनैन्द्रियं स्त्रीन्द्रियं पुरुषेन्द्रियं जीवितेन्द्रियं सुखेन्द्रियं दुःखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रैयं उपेक्षेन्द्रियं श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं स्माधीन्द्रियं प्रज्ञेन्दरियं अनाज्ञातमाज्ञास्यामीन्दरियम् आज्ञेन्द्रियं आज्ञातावीन्द्रियमिति /
1117 SK [०३७|११-०३७|१२] आभिधार्मिकास्तु षडायतनव्यवस्थानमादृत्य जीवितेन्द्रियानन्तरं मनैन्द्रियं पठन्ति /
1118 SK [०३७|१२] सालम्बनत्वात् /
1119 SK [०३७|१२-०३७|१३] तत्र धर्मार्धं जीवितेन्द्रियादीन्येकादशेन्द्रियाणि त्रयाणां च भागो धर्मधातुप्रदेशत्वात् /
1120 SK [०३७|१३-०३७|१४] द्वादशानामाध्यात्मिकानां चक्षुरादयः पञ्च स्वनामोक्ताः /
1121 SK [०३७|१४-०३७|१५] सप्त चित्तधातवो मनैन्द्रियं स्त्रिपुरुषेन्द्रिये कायधातुप्रदेश् इति पश्चाद् वक्ष्यति /
1122 SK [०३७|१५-०३७|१६] शेषाः पञ्च धातवो धर्मधातुप्रदेशश्च नेन्द्रियमिति सिद्धम् //
1123 SK [०३७|१७] अभिधर्मकोशभाष्ये धातुनिर्देशो नाम
1124 SK [०३७|१८] प्रथमं कोशस्थानं समाप्तम् इति /
1125 SK [०३७|१९-०३७|२१] ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् / तेषां च यो निर्होध एवंवादीउ महाश्रमणः //
1126 SK [०३७|२२] लिखापितमिदं श्रीलामावाकेनेति /
1127 SK द्वितीयं कोशस्थानम्
1128 SK =====================================================================
1129 SK [०३८|०२] ॐ नमो बुद्धाय /
1130 SK =====================================================================
1131 SK [०३८|०३] उक्तानीन्द्रियाणि / कः पुनरिन्द्रियार्थः / ᳚इदि परमैश्वर्ये᳚ /
1132 SK [०३८|०३-०३८|०४] तस्य इन्दन्तीति इन्द्रियाणि /
1133 SK [०३८|०४] अत आधिपत्यार्थ इन्द्रियार्थः / कस्य चैषां क्वाधिपत्यम् /
1134 SK [०३८|०५] चतुर्ष्वर्थेषु पञ्चानामाधिपत्यं
1135 SK [०३८|०६] चक्षुःश्रोत्रयोस्तावत् प्रत्येकं चतुर्ष्वर्थेवाधिपत्यम् /
1136 SK [०३८|०६-०३८|०७] आत्मभावशोभायामन्धबधिरयोरकान्तरूपत्वात् /
1137 SK [०३८|०७] आत्मभावपरिकर्षणे दृष्ट्वा श्रुत्वा च विषमपरिवर्जनात् /
1138 SK [०३८|०८] चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरुत्पत्तौ /
1139 SK [०३८|०८-०३८|०९] रूपदर्शनशब्दशारवणयोश्चासाधारणकारणत्वे /
1140 SK [०३८|०९] घ्राणजिह्वाकायानामात्मभावशोभायां पूर्ववत् /
1141 SK [०३८|०९-०३८|१०] आत्मभावपरिकर्षणे तैः कवडीकाराहारपरिभोगात् /
1142 SK [०३८|१०] घ्राणादिविज्ञानानां ससंप्रयोगाणामुत्पत्तौ /
1143 SK [०३८|११] गन्धघ्राणरसास्वादनस्प्रष्टव्यस्पऋशनानां चासाधारणकारणत्व इति /
1144 SK [०३८|१२] द्वयोः किल /
1146 SK [०३८|१४] स्त्रीपुरुषजीवितमनैन्द्रियाणां / द्वयोरर्थयोः प्रत्येकमाधिपत्यम् /
1147 SK [०३८|१४-०३८|१५] स्त्री पुरुशेन्द्रियय्योस्तावत्सत्त्वभेदविकल्पयोः /
1148 SK [०३८|१५] तत्र सत्त्वभेदः स्त्रि पुरुष इति /
1149 SK [०३८|१५-०३८|१६] सत्त्वविकल्पः स्तनादिसंस्थानस्वराचारान्यथात्वम् /
1150 SK [०३८|१६] संस्लेशव्यवदानयोरित्यपरे /
1151 SK [०३८|१७-०३८|१८] तथा हि तद्विप्रयुक्तविकल्पानां षण्ढ पण्डकोभयव्यञ्जनानामसंवरानन्तार्यकुआशलमुलसमुच्छेदा न भवन्ति संवरफलप्राप्तिवैराग्याणि चेति /
1152 SK [०३८|१९] जीवितेन्द्रियस्य निकायसभागसंबन्धसाधारणयोः /
1153 SK [०३८|१९-०३८|२०] मनैन्द्रियस्य पुनर्भवसंबन्धवशिभावानुवर्त्तनयोः /
1154 SK [०३८|२०-०३८|२२] तत्र पुन्र्भवसंबन्धे यथोक्तं ᳚गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरचित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वे᳚ति /
1155 SK [०३८|२२] वशिभावानुवर्त्तने यथोक्तं ᳚चित्तेनायं लोको नीयत᳚ इति विस्तरः /
1156 SK [०३८|२२-०३८|२३] यत् पुनः सुखादीन्द्रियपञ्चकं यानि चाष्टौ श्रद्धादीनि तेषां
1157 SK [०३८|२४] पञ्चकाष्टानं संक्लेशव्यवदानयोः // VAक्K_२.१ //
1158 SK [०३८|२५] आधिपत्यं यथाक्रमं पञ्चानां सुखादीनां संक्लेशे / रागादीनां तदनुशायित्वात् /
1159 SK [०३८|२५-०३९|०१] श्रद्धादीनां व्यवदाने /
1160 SK [०३९|०१] तै र्व्यवदायते / व्यवदाने ऽपि सुखादीनामाधिपत्यमित्यपरे /
1161 SK [०३९|०१-०३९|०२] ᳚यस्मात् सुखितस्य चित्तं समाधीयते᳚ /
1162 SK [०३९|०२-०३९|०३] दुःधुपनिषच्छ्रद्धाषण्नैष्क्रम्याश्रिताः सौमनस्यादय इति वैभाषिकाः /
1163 SK [०३९|०३] अपरे पुनराहुः /
1164 SK [०३९|०३-०३९|०४] नैव चक्षुःश्रीत्राभ्यामात्मभावपरिकऋषणं विज्ञाय विषमपरिहारात् /
1165 SK [०३९|०४] विज्ञाने तु तयोराधिपत्यम् /
1166 SK [०३९|०४-०३९|०५] नापि विज्ञानादन्यद्रूपदर्शनं शब्दश्रवणं वा ऽस्ति /
1167 SK [०३९|०५] यतस्तयोरसाधारणकारणत्वे पृथगाधिपत्यं युज्येत /
1168 SK [०३९|०५-०३९|०६] तस्मान्नैवमेषामिन्द्रियत्वम् /
1169 SK [०३९|०६] कथं तर्हि /
1170 SK [०३९|०७] स्वार्थोपलब्ध्याधिपत्यात् सर्वस्य च षडिन्द्रियम् /
1171 SK [०३९|०८] चक्षुरादीनांपञ्चानां स्वस्यस्वस्यार्थस्योपलब्धाधिपत्यम् /
1172 SK [०३९|०८-०३९|०९] मनसः पुनः सर्वार्थोपलब्धावाधिपत्यम् /
1173 SK [०३९|०९] अत एतानि षट् प्रत्येकमिन्द्रियम् /
1174 SK [०३९|०९-०३९|१०] ननु चार्थानामप्यत्राधिपत्यम् /
1175 SK [०३९|१०] नाधिपत्यम् / अधिकं हि प्रभुत्वमाधिपत्यम् /
1176 SK [०३९|१०-०३९|११] चक्षुषश्चक्षूरूपोपलब्धावधिकमैश्वर्यम् /
1177 SK [०३९|११-०३९|१२] सर्वरूपोपलब्धौ सामान्यकारणत्वात्तत्पटुमन्दताद्यनुविधानाच्चोपलब्धेः /
1178 SK [०३९|१२] न रूपस्य / तद्वि पर्ययात् / एवं यावत् मनसो धर्मेषु योज्यम् /
1179 SK [०३९|१३] स्रीत्व पुंस्त्वाधिपत्यात्तु कायात् स्त्रीपुरुषेन्द्रिये // VAक्K_२.२ //
1180 SK [०३९|१४] कायेन्द्रियादेव स्त्रीपुरुषेन्द्रिये पृथक् व्यवस्थाप्येते / नार्थन्तरभूते /
1181 SK [०३९|१४-०३९|१५] कश्चिदसौ कायेन्द्रियभाग उपस्थ प्रदेशो यः स्त्रीपुरुषेन्द्रियाख्यां परतिलभते /
1182 SK [०३९|१५-०३९|१६] यथाक्रमं स्त्रीत्वपुंस्त्वय्योराधिपत्यात् /
1183 SK [०३९|१६] तत्र स्त्रीभावः स्त्रियाकृतिः स्वरचेष्टा अभिप्रायाः /
1184 SK [०३९|१६-०३९|१७] एतद्धि स्त्रिया स्त्रीत्वम् /
1185 SK [०३९|१७] पुंभावः पुरुषाकृतिः स्वरचेष्टा अभिप्रायाः / एतद्धि पुंसः पुंस्त्वम् /
1186 SK [०३९|१८-०३९|१९] निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः / जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः // VAक्K_२.३ //
1187 SK [०३९|२०] निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यं संक्लेशे वेदनानाम् /
1188 SK [०३९|२०-०३९|२१] तथाहि सुखायां वेदनायां रागो ऽनुशेते दुःखायां प्रतिघो ऽदुःखासुखायामविद्येत्युक्तं सूत्रे /
1189 SK [०३९|२१-०३९|२२] व्यवदाने श्रद्धादीनां पञ्चानाम् /
1190 SK [०३९|२२] तथाहि तैः क्लेशाश्च विष्कभ्यन्ते मार्गश्चावाह्यते /
1191 SK [०३९|२३] अत एते ऽपि प्रत्येकमिन्द्रियमिष्टाः /
1192 SK [०४०|०१] आज्ञास्या म्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा /
1193 SK [०४०|०२] उत्तरोत्तरसंप्राप्तिनिर्वाणाद्याधिपत्यतः // VAक्K_२.४ //
1194 SK [०४०|०३] प्रत्येकमिन्द्रिमित्युपदर्शनार्थं तथाशब्दः /
1195 SK [०४०|०३-०४०|०४] तत्राज्ञास्यामीन्द्रियस्याज्ञेन्द्रियस्य प्राप्तावाधिपत्यम् /
1196 SK [०४०|०४] आज्ञेन्द्रैयस्याज्ञातावीन्द्रियप्राप्तौ आज्ञातावीन्द्रियस्य परिनिर्वाणे /
1197 SK [०४०|०५] नह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति / आदिशब्दो ऽन्यपर्यायद्योतनार्थः /
1198 SK [०४०|०६] कतमो ऽन्यः पार्यायः / दर्श्नहेयक्लेशपरिहाणम् प्रत्याज्ञास्यामीन्द्रियस्याधिपत्यम् /
1199 SK [०४०|०७] भावनाहेयक्लेआशप्रहाणं प्रत्याज्ञेन्द्रियस्य / दृष्टधर्मसुखविहारं प्रत्याज्ञातावीन्द्रियस्य /
1200 SK [०४०|०८] विमुक्तिप्रीतिसुखसंवेदनादिति /
1201 SK [०४०|०८-०४०|०९] आधिपात्यादिन्द्रियत्वे ऽविद्यादीनामुपसंख्यानं कर्त्तव्यम् /
1202 SK [०४०|०९-०४०|१०] अविद्यादीनामपि हि संस्कारादिष्वाधिपत्यमत एषामपीन्द्रियत्वमुपसंख्यातव्यम् /
1203 SK [०४०|१०] वागादीनां च / वाक्याणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यम् /
1204 SK [०४०|११] वचनादानविहरणोत्सर्गानन्देष्वाधिपत्यात् / न खलूपसंख्यातव्यम् / यस्मादिहेष्टम्
1205 SK [०४०|१२-०४०|१३] चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च / संभारो व्यवदानं च यावता तावदिन्द्रियम् // VAक्K_२.५ //
1206 SK [०४०|१४] तत्र चित्ताश्रयः षडिन्द्रियाणि / एतच्च षडायतनं मौलं सट्त्वद्रव्यम् /
1207 SK [०४०|१४-०४०|१६] तस्य स्त्रीपुरुषविकल्पः स्त्रीपुरुषेन्द्रैयाभ्यां स्थितिर्जीवितेन्द्रियेण संक्लेशो वेदना भिः /
1208 SK [०४०|१६] व्यवदानसंभरणं पञ्चभिर्व्यवदानं त्रिभिः /
1209 SK [०४०|१६-०४०|१७] अतो नाविद्यादीनामिन्द्रियत्वमिष्टम् /
1210 SK [०४०|१८-०४०|१९] प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः / चतुर्दश तथा ऽन्यानि निवृत्तेरिन्द्रियाणि वा // VAक्K_२.६ //
1211 SK [०४०|२०] मतविकल्पार्थो वाशब्दः / अपरे पुनराहुः / प्रवृत्तेरश्रयः षडिन्द्रियाणि /
1212 SK [०४०|२०-०४०|२१] उत्पत्तिः स्त्रीपुरुषेन्द्रिये /
1213 SK [०४०|२१] तत उत्पत्तेः / स्थितिर्जीवितेन्द्रियम् / तेनावस्थानात् /
1214 SK [०४०|२१-०४०|२२] उपभोगो वेदनाभिः /
1215 SK [०४०|२२] अत एतानि चतुर्दशेन्द्रियाणि / तेनैव प्रकारेण निवृत्तेरन्यानि /
1216 SK [०४०|२२-०४०|२३] श्रद्धदीनि हि निवृत्तेराश्रयाः /
1217 SK [०४०|२३-०४०|२४] आज्ञास्यामीन्द्रियं प्रभवः स्थितिराज्ञेन्द्रियम् उपभोग आज्ञातावीन्द्रियेणेत्यत एतावन्त्येवेन्द्रियाणि /
1218 SK [०४०|२४] अत एव चईषामेषो ऽनुक्रमः /
1219 SK [०४०|२५] वाचस्तु नेन्द्रियत्वं वचने शिक्षाविशेषापेक्षत्वात् /
1220 SK [०४०|२५-०४०|२६] पाणिपादस्य चादानविहरणादनन्यत्वात् /
1221 SK [०४०|२६-०४०|२७] तदेव हि तदन्यथा ऽन्यत्र चोत्पन्नमादानं विहरणं चोच्यते /
1222 SK [०४०|२७] विनापि च पाणिपादेनादानविहरणादुरगप्रभृतीणाम् /
1223 SK [०४०|२७-०४०|२८] पायोरपि नेन्द्रियत्वमुत्सर्गे गुरुद्रव्यस्याकाशे सर्वत्र पतनात् /
1224 SK [०४०|२८] वायुना च तत्प्रेरणात् /
1225 SK [०४१|०१] उपस्थस्यापि नेन्द्रियत्वमानन्दे स्त्रीपुरुषेन्द्रियकृतं हि तत् सौख्यमिति /
1226 SK [०४१|०१-०४१|०३] कण्ठदन्ताक्षिवर्त्मपर्वणामपि चाभ्यवहरणचर्वणोन्मेषनिमेषाकुञ्चनविकाशन क्रियास्विन्द्रियत्वं प्रसज्येत /
1227 SK [०४१|०३-०४१|०४] सर्वस्य वा कारणभूतस्य स्वस्यां करियायामित्ययुकतं वागादीनामिन्द्रियत्वम् //
1228 SK [०४१|०५] तत्र चक्षुरादीनां पुरुषेन्द्रियपर्यन्तानां कृतो निर्देशः /
1229 SK [०४१|०५-०४१|०६] जीवितेन्द्रियस्य विप्रयुक्तत्वाद्विप्रयुक्तेष्वेव करिस्यते निर्देशः /
1230 SK [०४१|०६] श्रद्धादीनां चैत्तेषु करिष्यते /
1231 SK [०४१|०६-०४१|०७] सुखादीनामाज्ञास्यामीन्द्रियादीनां च कर्त्तव्यः /
1232 SK [०४१|०७] सो ऽयं क्रियते /
1233 SK [०४१|०८] दुःखेन्द्रियमशाता या कायिकी वेदना [०४१|०९] अशातेत्युपधातिका दुःखेत्यर्थः /
1236 SK [०४१|१२] सुखेन्द्रियं कायिकी शात वेदना / शातेत्यनुग्राहिका सुखेत्यर्थः /
1237 SK [०४१|१३] ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम् // VAक्K_२.७ //
1238 SK [०४१|१४] तृतीये तु ध्याने सैव शाता वेदना चैतसी सुखेन्द्रियम् /
1239 SK [०४१|१४-०४१|१५] नहि तत्र कायिकी वेदना ऽस्ति /
1240 SK [०४१|१५] पञ्चविज्ञानकायाभावात् /
1241 SK [०४१|१६] अन्यत्र सा सौमनस्यं
1242 SK [०४१|१७-०४१|१८] तृतीयाद्ध्यानादन्यत्र कामधातौ प्रथमे द्वितीये च ध्याने सा चैअतसिकी शाता वेदना सौमनस्येन्द्रियम् /
1243 SK [०४१|१८-०४१|१९] तृतीये तु ध्याने प्रीतिवीतरागत्वात् सुखेन्द्रियमेव सा न सौमनस्येन्द्रियम् /
1244 SK [०४१|१९] प्रीतिर्हि सौमनस्यम् /
1245 SK [०४१|२०] अशाता चैतसी पुनः /
1246 SK [०४१|२१] दौर्मनस्यमुपेक्षा तु मध्या
1247 SK [०४१|२२] नैवशातानाशाता अदुःखासुखा वेदना मध्येत्युच्यते / सोपेक्षेन्द्रियम् /
1248 SK [०४१|२२-०४१|२३] किं कायिकी चैतसिकीत्याह /
1250 SK [०४१|२५] किं पुनः कारणमियमभिसमस्यै कमिन्द्रियं क्रियते /
1251 SK [०४२|०१] अविकल्पनात् // VAक्K_२.८ //
1252 SK [०४२|०२] चैतसिकं हि सुखदुःखं प्रायेण विकल्पनादुत्पद्यते न तु कायिकम् /
1253 SK [०४२|०२-०४१|०३] विषयवशादर्हतामप्युत्पत्तेः /
1254 SK [०४२|०३] अतस्तयोरिन्द्रियत्वेन भेदः /
1255 SK [०४२|०३-०४२|०४] उपेक्षा तु स्वरसेनाविकल्पयत एवोत्पद्यते कायिकी चैतसिकी चे त्येकमिन्द्रियम् क्रियते /
1256 SK [०४२|०४-०४२|०५] अन्यथा च कायिकम् सुखमनुगृह्णात्यन्यथा चैतसिकम् /
1257 SK [०४२|०५] एवम् दुःखमन्यथा कायिकमुपहन्त्यन्यथा चैतसिकम् /
1258 SK [०४२|०५-०४२|०६] उपेक्षायां त्वेष विकल्पो नास्त्यत उपेक्षणं प्रत्यविकल्पनादभेदः /
1259 SK [०४२|०७] दृग्भावना ऽसैक्षपथे नव त्रीणि
1260 SK [०४२|०८] मनः सुखसौमनस्योपेक्षाः स्रद्धादीनि च पञ्च /
1261 SK [०४२|०८-०४२|०९] तानि नवेन्द्रियाणि त्रिषु मार्गेषु त्रीणीन्द्रियाण्युच्यन्ते /
1262 SK [०४२|०९-०४२|१०] दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियं भावनामार्गे आज्ञेन्द्रियम् अशैक्षमार्गे आज्ञातावीन्द्रियमिति /
1263 SK [०४२|१०] किं कारणम् /
1264 SK [०४२|१०-०४२|११] दर्शनमार्गे ह्यनाज्ञातमाज्ञातुं प्रवृत्तः /
1265 SK [०४२|११-०४२|१२] भावनामार्गे नास्त्यपूर्वमाज्ञेयं तदेव त्वाजानाति शेषानुशयप्रहाणार्थम् /
1266 SK [०४२|१२] अशैक्षमार्गे त्वाज्ञात्मित्यवगम आज्ञातावः /
1267 SK [०४२|१२-०४२|१३] सो ऽस्यास्तीति आज्ञातावी /
1268 SK [०४२|१३] आज्ञातमवितुं शीलमस्येति वा / क्षयानुत्पादिज्ञानलाभात् /
1269 SK [०४२|१४] ᳚दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यमिति᳚ तथाभूतस्येन्रियमाज्ञातावीन्रियम् /
1270 SK [०४२|१५-०४२|१६] स्वभावनिर्देशां कृत्वा प्रकारभेदो वक्तव्य कति सास्रवाणि कत्यनास्रवाणि इन्रियाणित्येवमादि /
1271 SK [०४२|१६-०४२|१७] तत्र तावद्यदेतदनन्तरोक्तमाज्ञास्यामीन्रियादिकमेतत् /
1272 SK [०४२|१८] अमलं त्रयम् /
1273 SK [०४२|१९] अनास्रवमित्यर्थः / मलानामास्रवपर्यायत्वात् /
1274 SK [०४२|२०] रूपीणि जीवितं दुःखे सास्रवाणि
1275 SK [०४२|२१] रूपीणि सप्तेन्द्रियाणि जीवितेन्द्रियं दुखःदौर्मनस्येन्द्रिये चैकान्तसास्रवाणि /
1276 SK [०४२|२२] रूपीणि पुनः सप्त चक्षुः श्रोत्रघ्राणजिह्वाकायस्त्रिपुरुषेन्द्रियाणि रूपस्कन्धसंग्रहात् /
1277 SK [०४२|२३] द्विधा नव // VAक्K_२.९ //
1278 SK [०४२|२४-०४२|२५] मनःसुखसौमनस्योपेक्षाः श्रद्धादीनि च पञ्च एतानि नवेन्द्रियाणि सास्रवाण्यनास्रवाण्यपि /
1279 SK [०४२|२५] अनास्रवाण्येव श्रद्धादीनीत्येके /
1280 SK [०४२|२५-०४२|२७] उक्तं हि भगवता ᳚यस्येमानि पञ्चेन्द्रियाणि सर्वेण स्र्वं न सन्ति तमहं बाह्यं पृथग्जनपक्षावस्थितं वदामी᳚ति /
1281 SK [०४२|२७] नेदं ज्ञापकमनास्रवाण्यधिकृत्य वचनात् /
1282 SK [०४२|२७-०४२|२८] तथा ह्यार्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्याह /
1283 SK [०४२|२८] पृथग्जनो वा द्विविधः /
1284 SK [०४३|०१] आभ्यन्तरकश्चासमुच्छिन्न कुशलमूलो बाह्यकश्च समुच्छिन्नकुशलमूलः /
1285 SK [०४३|०२] तमधिकाऋत्याह ᳚बाह्यं पृथग्जनपक्षावस्थितं वदामी᳚ति /
1286 SK [०४३|०२-०३२|०४] उक्तं च सूत्रे ᳚सन्ति च सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपी᳚ त्यप्रवर्त्तित एव धर्मचक्रे /
1287 SK [०४३|०४] तस्मात्सन्त्येव सास्रवाणि श्रद्धादीनि /
1288 SK [०४३|०५-०४३|०७] पुनश्चोक्तं ᳚यावच्छाहमेषां पञ्चानामिन्द्रियाणां समुदयं चास्तगमं च स्वादं चादीनवं च निःसरणं च यथाभूतं नाध्यज्ञासिषं न तावदहमस्मात्सदेवकाल्लोकादि᳚ति विस्तरः /
1289 SK [०४३|०७] न चानास्रवाणां धर्माणामेष परीक्षाप्रकारः //
1290 SK [०४३|०८] कतीन्द्रियाणि विपाकः कति न विपाकः / एकान्तेन तावत्
1291 SK [०४३|०९] विपाको जीवितं
1292 SK [०४३|१०] अथ यदर्हन् भिक्षुरायुःसंस्कारान् स्थापयति तज्जीवितेन्द्रियं कस्य विपाकः /
1293 SK [०४३|११] शास्त्र उक्थं ᳚कथमायुःसंस्कारान् स्थापयति /
1294 SK [०४३|११-०४३|१३] अर्हन् भिक्षुः ऋद्धिमांश्चेतोवशित्वं प्राप्तः संघाय व पुद्गलाय वा पात्रः वा चीवरं वा अन्यतमान्यतमं वा श्रामणकं जीवितपरिष्कारं वा दत्त्वा तत् प्रणिधाय प्रन्तकोटिकम् चतुर्थं ध्यानं समापद्यते /
1295 SK [०४३|१४-०४३|१५] स तस्मात् व्युत्थाय चित्तमुत्पादयति वाचं च भाषते यन्मे भोगविपाकं तदायुर्विपाकं भवत्विति /
1296 SK [०४३|१५] तस्य यत् भोगविपाकं तदायुर्विपाकं भवति /
1297 SK [०४३|१५-०४३|१६ येषां पुनरयमभिप्रायो विपाकोच्छेषं विपच्यत इति /
1298 SK [०४३|१६-०४३|१७] त आहुः पूर्वजातिकृतस्य कर्मणो विपाकोच्छेषं /
1299 SK [०४३|१७] स भावनाबलेनाकृष्य प्रतिसंवेदयत᳚ इति /
1300 SK [०४३|१७-०४३|१८] कथमायुःसंस्कारा नुत्सृजति /
1301 SK [०४३|१८] तथईव दानं दत्त्वा प्रणिधाय प्रन्तकोटिकं चतुर्थं ध्यानं समापद्यते/
1302 SK [०४३|१९] यन्मे आयुर्विपाकं तत् भोगविपाकं भवत्विति तस्य तथा भवति /
1303 SK [०४३|२०] भदन्तघोषकस्त्वाह /
1304 SK [०४३|२०-०४३|२१] तस्मिन्नेव आश्रये रूपावचराणि महाभूतानि ध्यानबलेन संमुधकरोत्यायुषो ऽनुकूलानि वैहोधिकानि च /
1305 SK [०४३|२१-०४३|२२] एवमायुःसंस्कारान् स्थापयत्येवमुत्सृजतीति /
1306 SK [०४३|२२] एवं तु भवितव्यम् /
1307 SK [०४३|२२-०४३|२४] समाधिप्रभाव एव स तेषां तदृशो येन पूर्वकर्मजं च स्थितिकालावेधमिन्द्रियमहाभूतानां व्याव्र्त्तयन्त्यपूर्वं च समाधिजमावेधमाक्षिपन्ति /
1308 SK [०४३|२४] तस्मान्न तज्जीवितेन्द्रियं विपाकं ततो ऽन्यत्तु विपाकः /
1309 SK [०४३|२५] प्रश्नात् प्रश्नान्तरमुपजायते / किमर्थमायुःसंस्कारानधितिष्ठन्ति /
1310 SK [०४३|२५-०४३|२६] परहितार्थं शासन्स्थित्यर्थं वा /
1311 SK [०४३|२६] ते ह्यात्मनः क्षीणमायुः पश्यन्ति /
1312 SK [०४३|२७] न च तत्रान्यं शक्तं पश्यन्ति / अथ किमर्थमुत्सृजन्ति /
1313 SK [०४४|०१] अल्पं च परहितं जीविते पश्यन्ति रोगाभिभूतं चात्मभावम् / यथोक्तं
1314 SK [०४४|०२-०४४|०३] ᳚सुचीर्णे ब्रह्मचर्ये ऽस्मिन् मार्गे चैव सुभाविते / तुष्ट आयुःक्षयात् भवति रोगस्यापगमे यथा //᳚
1315 SK [०४४|०४] इति / अथैतदायुः संस्काराणां स्थापनार्थमुत्सर्जनं वा क्व कस्य वा वेदितव्यम् /
1316 SK [०४४|०५] मनुष्येष्वेवत्रिषु द्वीपेषु स्त्रीपुरुषयोरसमयविमुक्तस्यार्हतः प्रान्तकोटिकध्यानलाभिनः /
1317 SK [०४४|०६] तस्य हि समाधौ वशित्वम् / क्लेशैश्चानुपस्तब्धा सन्ततिः / [०४४|०६-०४४|०७] सूत्र उक्तम् ᳚भगवान् जीवितसंस्कारानधिष्ठायायुःसंस्कारानुस्त्सृष्टवान्᳚ /
1318 SK [०४४|०७-०४४|०८] तेषां को विशेषः /
1319 SK [०४४|०८] न कश्चिदित्येके / तथा ह्युक्तम् ᳚जीवितेन्द्रियं कतमत् /
1320 SK [०४४|०८-०४४|०९] त्रैधातुकमायुरि᳚ति /
1321 SK [०४४|०९] पूर्वकर्मफलमायुःसंस्काराः प्रत्युत्पन्नकर्मफलं जीवितसंस्कारा इत्यपरे /
1322 SK [०४४|१०] यैर्वा निकायसभागस्थितिस्त आयुःसंस्काराः /
1323 SK [०४४|१०-०४४|११] यैस्तु कालान्तरं जीवति ते जीवितसंस्कारा इति /
1324 SK [०४४|११-०४४|१२] बहुवचनं बहूनामायुर्जीवितसंस्कारक्षणानामुत्सर्जना धिष्ठानात् /
1325 SK [०४४|१२] नह्येकस्य क्षणस्योत्सर्जनमधिष्ठनं चास्ति /
1326 SK [०४४|१२-०४४|१३] न च कालान्तरस्थावरमेकमायुर्द्रव्यमिति द्योतनार्थमित्येके /
1327 SK [०४४|१३-०४४|१४] बहुश्वेव संस्कारेष्वायुराख्या नास्त्येकमायुर्द्रव्यम् /
1328 SK [०४४|१४] अन्यथा नैव संस्कारग्रहणमकरिष्यदित्यपरे /
1329 SK [०४४|१४-०४४|१५] किमर्थं पुनर्भगवता आयुह्संस्कारा उत्सृष्टाश्चाधिष्टिताश्च /
1330 SK [०४४|१५-०४४|१६] मरणवशित्वज्ञापनार्थमुत्सृष्टाजीवितवशित्वज्ञापनार्थमधिष्टिताः /
1331 SK [०४४|१६] त्रैमास्यमेव नोध्र्वम् विनेयकार्याभावात् /
1332 SK [०४४|१७-०४४|१८] यच्चापि तत् प्रतिज्ञातम् ᳚एवंभावितैरहं चतुर्भिरृद्धि पादैराकाङ्क्षन्कल्पमपि तिष्ठेयं कल्पावशेषमपी᳚ति /
1333 SK [०४४|१८] तस्यापि संपादनार्थम् /
1334 SK [०४४|१८-०४४|१९] स्कन्धमरणमारयोर्निर्जयार्थमिति वैभषिकाः /
1335 SK [०४४|१९] बोधिमूले क्लेशदेवपुत्रमारौ निर्जिताविति /
1336 SK [०४४|१९-०४४|२०] निष्ठितमानुषङ्गिकम् //
1337 SK [०४४|२१] प्रकृतमेवारभ्यते /
1338 SK [०४४|२२] द्वेधा द्वादश
1339 SK [०४४|२३] कतमानि द्वादश /
1340 SK [०४४|२४] अन्त्याष्टकादृते /
1341 SK [०४४|२५] दौर्मनस्याच्च
1342 SK [०४४|२६] अन्त्यमष्टकं श्रद्धादीनि दौर्मनस्यं च वर्जयित्वा /
1343 SK [०४४|२७-०४५|०१] जीवितेन्द्रियादन्यानि द्वादश द्विविधानि विपाकश्चाविपाकश्च /
1344 SK [०४५|०१] तत्र चक्षुरादीनि सप्तौपचयिकानि अविपाकः / शेषाणि विपाकः /
1345 SK [०४५|०२] मनोदुःखसुखसौमनस्योपेक्षेन्द्रियाणि कुशलक्लिष्टान्य विपाकः /
1346 SK [०४५|०२-०४५|०३] ऐर्यापथिकशाइल्पस्थानिकनैर्माणिकानि च यथायोगम् /
1347 SK [०४५|०३] शेषाणि विपाकः /
1348 SK [०४५|०३-०४५|०४] जीवितेन्द्रियं चक्षुरादीनि द्वादश हित्वा शेषाण्यविपाक इति सिद्धम् /
1349 SK [०४५|०४-०४५|०५] यदि दौअर्मनस्येन्द्रियं न विपाक इति सूत्रं कथं नीयते ᳚त्रीणि कार्याणि /
1350 SK [०४५|०५-०४५|०६] सौमनस्यवेदनीयं कर्म दौर्मनस्यवेदनीयं कर्म उपेक्षा वेदनीयं कर्मे᳚ति संप्रयोगवेदनीयतामधिकृत्योक्तम् /
1351 SK [०४५|०६-०४५|०७] दौर्मस्येन संप्रयुक्तं कर्म दौर्मनस्यवेदनीयम् /
1352 SK [०४५|०७] यथा सुखसंपरयुक्तः स्पर्शः सुखवेदनीयः /
1353 SK [०४५|०७-०४५|०८] सौमनस्योपेक्षावेदनीये अपि तर्हि कर्मणी एवं भविष्यतः /
1354 SK [०४५|०८] यथेच्छसि तथा ऽस्तु /
1355 SK [०४५|०८-०४५|०९] संप्रयोगे ऽपि न दोषः विपाके ऽपि न दोषः /
1356 SK [०४५|०९] अगत्या ह्येतदेवं गम्येत /
1357 SK [०४५|०९-०४५|१०] का पुन्रत्र युक्तिर्दौर्मनस्यं न विपाक इति /
1358 SK [०४५|१०] दौर्मनस्यं हि परिकल्पविशेषैरुत्पाद्यते च व्युपशाम्यते च /
1359 SK [०४५|१०-०४५|११] नचैवम् विपाकः /
1360 SK [०४५|११] सौमनस्यमप्येवं न स्याद्विपाकः /
1361 SK [०४५|११-०४५|१२] यदि तर्हि दौमनस्यं विपाकः स्यादानन्तर्यकारिणां तन्निमित्तं दौर्मनस्योत्पादात्तत्कर्म विपक्वं स्यात् /
1362 SK [०४५|१३] सौमनस्यमप्येवम् /
1363 SK [०४५|१३-०४५|१४] यदि सौमनस्यं विपाकः स्यात् पुण्यकारिणां तन्निमित्तं सौमनस्योत्पादात्तत्कर्म विपक्वं स्यात् /
1364 SK [०४५|१४] वीतरागाणां तर्हि दौर्मनस्यासंभवात् /
1365 SK [०४५|१४-०४५|१५] न चैवं विपाकः /
1366 SK [०४५|१५] सौमनस्यमप्येषामव्याकृतं कोदृशं विपाकः स्यात् / यादृशं तादृशमस्तु /
1367 SK [०४५|१६] सति तु संभवे सौमनस्यस्यास्ति विपाकावकाशी न दौअर्मनस्यस्य /
1368 SK [०४५|१६-०४५|१७] सर्वथा ऽसमुदाचारादिति नास्त्येवं दौर्मनस्यं विपाक इति वैभाषिकाः /
1369 SK [०४५|१७-०४५|१८] तत्र जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य विपाको दुर्गतावकुशलस्य /
1370 SK [०४५|१८] मनैन्द्रियमुभयोरुभयस्य /
1371 SK [०४५|१८-०४५|१९] सुखसौमनस्योपेक्षेन्द्रियाणि कुशलस्य /
1372 SK [०४५|१९] दुःखेन्द्रियमकुशलस्य /
1373 SK [०४५|१९-०४५|२०] सुगताबुभयव्यञ्जनस्याकुशलेनतत्स्थानप्रतिलम्भः /
1374 SK [०४५|२०] नत्विन्द्रियस्य कुशलाक्षेपात् / गतमेतद् /
1375 SK [०४५|२१] इदं नु वक्तव्यम् / कतीन्द्रियाणि सविपाकानि कत्यविपाकानि /
1376 SK [०४५|२१-०४५|२२] यदेतत् दौर्मनस्यमनन्तरोक्तं
1377 SK [०४५|२३] तत्त्वेकं सविपाकं /
1378 SK [०४५|२४] तदेकं सविपाकमेव / तुशब्द एवकारार्थो भिन्नक्रमश्च वेदितव्यः /
1379 SK [०४५|२४-०४५|२५] नहि तदव्याकृतमस्ति नाप्यनास्रवमसमाहितत्वात् /
1380 SK [०४५|२५] अतो नास्त्यविपाकं दौर्मनस्यम् /
1381 SK [०४५|२६] दश द्विधा // VAक्K_२.१० //
1382 SK [०४५|२७] सविपाकान्यविपाकानि च / कतमानि दश /
1383 SK [०४६|०१] मनो ऽन्यवित्तिश्रद्धादीनि
1384 SK [०४६|०२] अन्यवित्तिग्रहणात् दौर्मनस्यादन्यत् वेदितं गृह्यते /
1385 SK [०४६|०२-०४६|०३] श्रद्धादीनि श्रद्धावीर्यस्मृतिसमाछिप्रज्ञाः /
1386 SK [०४६|०३-०४६|०४] तत्र मनःसुखसौमनस्योपेक्षा अकुआशलाः कुशलाः सास्रवाश्च सविपाकाः /
1387 SK [०४६|०४] अनास्रवा अव्याकृताश्चाविपाकाः /
1388 SK [०४६|०४-०४६|०५] दुःखेन्द्रियं कुशलाकुआशलं सविपाकमव्याकृतमविपाकम् /
1389 SK [०४६|०५] श्रद्धादीनि सस्रवाणि सविपाकान्यनास्रवाण्यविपाकानि /
1390 SK [०४६|०६] अन्यदविपाकमिति सिद्धम् /
1391 SK [०४६|०७] कति कुशलानि कत्यकुशलानि कत्यव्याकृतानि / एकान्तेन तावत् /
1392 SK [०४६|०८] अष्टकं कुशलं [०४६|०९] पञ्चश्रद्धादीनि त्रीणि चाज्ञास्यामीन्द्रियादीनि /
1394 SK [०४६|११] दौर्मनस्यं /
1395 SK [०४६|१२] कुशलं चाकुशलं च /
1396 SK [०४६|१३] मनो ऽन्या च वित्तिस्त्रेधा
1397 SK [०४६|१४] कुशलाकुशलाव्याकृतानि /
1398 SK [०४६|१५] अन्यदेकधा // VAक्K_२.११ //
1399 SK [०४६|१६] किञ्चिदन्यत् / जीविताष्टमं चक्षुरादि / एतदव्याकृतमेव //
1400 SK [०४६|१७] कतमदिन्द्रियं कतमधात्वाप्तमेषामिन्द्रियाणाम् /
1401 SK [०४६|१८] कामाप्तममलं हित्वा / [०४६|१९] कामप्रतिसंयुक्तं तावदिन्द्रियं वेदितव्यम् /
1402 SK [०४६|१९-०४६|२०] एकान्तानास्रवमाज्ञास्यामीन्द्रियादित्रयं हित्वा /
1403 SK [०४६|२०] तद्ध्यप्रतिसंयुक्तमेव /
1404 SK [०४६|२१] रूपाप्तं स्त्रीपुमिन्द्रिये /
1405 SK [०४६|२२] दुःखे च हित्वा
1406 SK [०४६|२३] अमलं चेति वर्त्तते / दुःखे इति दुःखदौर्मनस्ये /
1407 SK [०४६|२३-०४६|२४] तत्र मैथुनधर्मवैराग्यादशोभाकरत्वाच्च रूपधातौ स्त्रीपुरुषेन्द्रिये न स्तः /
1408 SK [०४६|२४] कथमिदानीं पुरुषास्त उच्यन्ते /
1409 SK [०४६|२५] क्वोच्यन्ते / सूत्रे /
1410 SK [०४६|२५-०४६|२६] ᳚अस्थानमनवकाशो यत् स्त्री ब्रह्मत्वं कारयिष्यति /
1411 SK [०४६|२६] नेदं स्थानं विद्यते / स्थानमेतत् विद्यते यत् पुरुष᳚ इति /
1412 SK [०४६|२६-०४६|२७] अन्यः पुरुषभावो यः कामछातौ पुरुषाणां भवति /
1413 SK [०४६|२७-०४६|२८] दुःखेन्द्रियं नास्त्याश्रयस्याच्छत्वादकुशला भावाच्छ /
1414 SK [०४६|२८] दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसन्तानत्वादाघातवस्त्वभावाच्च /
1415 SK [०४७|०१-०४७|०१] आरूप्याप्तं सुखे चापोह्य रूपि च // VAक्K_२.१२ //
1416 SK [०४७|०२] स्त्रीपुरुषेन्द्रिये दुःखे चामलं हित्वेति वर्त्तते / किमवशाइष्यते /
1417 SK [०४७|०२-०४७|०३] मनोजीवितोपेक्षेन्द्रियाणि श्रद्धादीनि च पञ्च /
1418 SK [०४७|०३] एतान्यारूप्यप्रतिसंयुक्तानि सन्ति नान्यानि /
1419 SK [०४७|०४] कतीन्द्रियाणि दर्शनप्रहातव्यानि कति भावनाप्रहातव्यानि कत्यप्रहातव्यानि /
1420 SK [०४७|०५] मनोवित्तित्रयं त्रेधा
1421 SK [०४७|०६] कतमद् वित्तित्रयम् / सुखसौमनस्योपेक्षाः /
1422 SK [०४७|०७] द्विहेया दुर्मनस्कता /
1423 SK [०४७|०८] दौअर्मनस्यं द्वाभ्यां प्रहेयं दर्शनभावनाभ्याम् /
1424 SK [०४७|०९] नव भावनया /
1425 SK [०४७|१०] हेयानीत्यधिकारः / जीविताष्टमानि चक्षुरादीनि दुःखेन्द्रियं च भावनाहेयान्येव /
1426 SK [०४७|११] पञ्च त्वहेयान्यपि
1427 SK [०४७|१२] श्रद्धादीनि पञ्च भावनाहेयान्यप्यहेयान्यपि / सास्रवानास्रवत्वात् /
1428 SK [०४७|१३] न त्रयम् // VAक्K_२.१३ //
1429 SK [०४७|१४] त्रयं नैव प्रहेयमाज्ञास्यामीन्द्रियादिकमनास्रवत्वात् / नहि निर्दोषं प्रहाणार्हम् /
1430 SK [०४७|१५] उक्तः प्रकारभेदः /
1431 SK [०४७|१६] लाभ इदानीं वक्तव्यः /
1432 SK [०४७|१६-०४७|१७] कतीन्द्रियाणि कस्मिन्धातौ विपाकः प्रथमतो लभ्यन्ते /
1433 SK [०४७|१८] कामेष्वादौ विपाको द्वे लभ्यते
1434 SK [०४७|१९] कायेन्द्रियं जीवितेन्द्रियं च / ते पुनः
1435 SK [०४७|२०] नोपपादुकैः /
1436 SK [०४७|२१] उपपादुकप्रतिषेधादण्डजजरायुजसंस्वेदजईरिति वेदितव्यम् / कस्मान्न मनौपेक्षेन्द्रिये /
1437 SK [०४७|२२] प्रतिसन्धिकाले तयोरवश्यं क्लिष्टत्वात् / अथोपपादुकैः कति लभ्यन्ते /
1439 SK [०४७|२४] यद्यव्यञ्जना भवन्ति / यथा प्राथमकल्पिकाः / कतमानि षट् /
1440 SK [०४७|२४-०४७|२५] चक्षुःश्रोत्रघ्राणजिह्वाकायजीवितेन्द्रियाणि /
1442 SK [०४८|०२] यद्येकव्यञ्जना भवन्ति /
1443 SK [०४८|०२-०४८|९२] यथा देवादिषु /
1445 SK [०४८|०४] यद्युभयव्यञ्जना भवन्ति / किं पुनरुभयव्यञ्जना अप्युपपादुका भवन्ति /
1446 SK [०४८|०४-०४८|०५] भवन्त्यपायेषु
1447 SK [०४८|०५] एवं तावत् कामधातौ / अथ रूपधातावारूप्यधातौ च कथमित्याह /
1448 SK [०४८|०६] षड् रूपेषु
1449 SK [०४८|०७] कामप्रधानत्वात् कामधातुः कामा इति निर्दिश्यते /
1450 SK [०४८|०७-०४८|०८] रूपप्रधानत्वाद् रूपधातू रूपाणीति /
1451 SK [०४८|०८-०४८|०९] सूत्रे ऽप्युक्तं ᳚ये ऽपि ते भिक्षवः शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्या᳚ इति /
1452 SK [०४८|०९] तत्र रूपधातौ षड्डिन्द्रियाणि विपाकः परथमतो लभ्यन्ते /
1453 SK [०४८|०९-०४८|१०] यान्येव कामधातावव्यञ्जनैअरुपपादुकैः
1454 SK [०४८|११] एकमुत्तरे // VAक्K_२.१४ //
1455 SK [०४८|१२] रूपधातोरारूप्यधातुरुत्तरः / समापत्तितश्च परत्वादुपपत्तितश्च प्रधानतरत्वात् /
1456 SK [०४८|१३] तस्मिन् एकमेव जीवितेन्द्रियं विपाकः प्रथमतो लभ्यते नान्यत् /
1457 SK [०४८|१४] उक्तो लाभः /
1458 SK [०४८|१५] त्याग इदानीं वक्तव्यः / कस्मिन्धातौ म्रियमाणः कतीन्द्रियाणि निरोधयतीति
1459 SK [०४८|१६] निरोधयत्युपरमान्नारूप्ये जीवितम् मनः /
1460 SK [०४८|१७] उपेक्षां चैव रूपे ऽष्टौ
1461 SK [०४८|१८] रूपधातौ म्रियल्माणो ऽष्टौ निरोधयति / तानि च त्रीणि चक्षुरादीनि पञ्च /
1462 SK [०४८|१८-०४८|१९] सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते म्रियन्ते च /
1463 SK [०४८|२०] कामे दश नवाष्टौ वा // VAक्K_२.१५ //
1464 SK [०४८|२१] कामधातौ म्रियमाण उभयव्यञ्जनी दशेन्द्रियाणि निरोधयति /
1465 SK [०४८|२१-०४८|२२] तानि चाष्टौ स्त्री पुरुषेन्द्रिये च /
1466 SK [०४८|२२] एकव्यञ्जनो नव / अव्यञ्जनो ऽष्टौ / सकृन्मरण एष न्यायः /
1467 SK [०४८|२३] क्रममृत्यौ तु चत्वारि /
1468 SK [०४८|२४] क्रमेण तु म्रियमाणश्चत्वारीन्द्रियाणि निरोधयति / कायजीवितमनौपेक्षेन्द्रियाणि /
1469 SK [०४८|२५] नह्येषां पृथग्निरोधः / एष च न्यायः क्लिष्टाव्याकृतचित्तस्य मरणे वेदितव्यः /
1470 SK [०४८|२६] यदा तु कुशले चेतसि स्थितो म्रियते तदा
1471 SK [०४९|०१] षुभे सर्वत्र पञ्च च /
1472 SK [०४९|०२] कुशले चेतसि म्रियमाणः सर्वत्र यथोक्तमिन्द्रियाणि निरोधयति /
1473 SK [०४९|०२-०४९|०३] श्रद्धादीनि च पञ्चाधिकानि /
1474 SK [०४९|०३] एषां कुशले चेतस्यवश्यंभावः /
1475 SK [०४९|०३-०४९|०४] एवमारूप्येष्वष्टौ निरोधयति रूपेषु त्रयोदशाएति विस्तरेण गणनीयम् /
1476 SK [०४९|०५] इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्ते /
1477 SK [०४९|०५-०४९|०६] अथ कतमच्छ्रामण्यफलं कतिभिरिन्द्रियैः प्राप्यते /
1478 SK [०४९|०७] नवाप्तिरन्त्य फलयोः
1479 SK [०४९|०८] नवभिरिन्द्रियैः प्रप्तिरन्त्यफलयोः / के पुनरन्त्ये / स्रोत आपत्तिफलमर्हत्त्वं च /
1480 SK [०४९|०९] के मध्ये / सकृदागामिफलमनागामिफलं च /
1481 SK [०४९|०९-०४९|१०] तत्र स्रोत आपत्तिफलस्य श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्मनौपेक्षेन्द्रियाभ्यां चेति नवभिः /
1482 SK [०४९|१०-०४९|११] आज्ञास्यामीन्द्रियमानन्तर्यमार्गे वेदितव्यमाज्ञेन्द्रियं च विमुक्तिमार्गे /
1483 SK [०४९|११-०४९|१२] उभाभ्यां हि तस्य प्राप्तिर्विसंयिओगप्राप्तेरावाहकसन्निश्रयत्वाद्यथाक्रमम् /
1484 SK [०४९|१२-०४९|१३] अर्हत्त्वमस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्यैर्मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति नवभिः /
1485 SK [०४९|१४] सप्ताष्ट्नवभिर्द्वयोः // VAक्K_२.१६ //
1486 SK [०४९|१५] सकृदागाम्यनागामिफलयोः प्रत्येकं सप्तभिरष्टभिर्नवभिष्चेन्द्रियैः प्राप्तिः /
1487 SK [०४९|१५-०४९|१६] कथं कृत्वा /
1488 SK [०४९|१६-०४९|१७] सकृदागामिफलं तावद्यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः /
1489 SK [०४९|१७] पञ्चभिः श्रद्धादिभिरुपेक्षामनैन्द्रियाभ्यां चेति /
1490 SK [०४९|१७-०४९|१८] अथ लोकोत्तरेण मार्गेण तस्याष्टभिरिन्द्रियै प्रप्तिः /
1491 SK [०४९|१८] आज्ञेन्द्रियमष्टमं भवति /
1492 SK [०४९|१८-०४९|१९] अथ भूयोवीतरागः प्राप्नोति तस्य नवभिर्येनेव स्रोत आपत्तिफलस्य /
1493 SK [०४९|१९-०४९|२०] अनागामिफलं यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः /
1494 SK [०४९|२१] यथा सकृदागामिफलस्य /
1495 SK [०४९|२१-०४९|२२] अथ लोकोत्तरेण मार्गेण तस्याष्टभिस्तथैव /
1496 SK [०४९|२२] अथ वीतरागः प्राप्नोति तस्य नवभिः /
1497 SK [०४९|२२-०४९|२३] यथा स्रोत आपत्तिफलस्य /
1498 SK ०४९२३-०४९२३] अयं तु विशेषः /
1499 SK [०४९|२३-०४९|२४] सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति /
1500 SK [०४९|२४] निश्रयविशेषात् /
1501 SK [०४९|२४-०४९|२६] यदाप्ययमानुपूर्विको नवमे विमूक्तिमार्गे तीक्ष्णेन्रियत्वा द्ध्यानं प्रविशाति लौकिकेन मार्गेण तदाप्यष्टाभिरिन्द्रियैरनागामिफलं प्राप्नोति /
1502 SK [०४९|२६] तत्रहि नवमे विमुक्तिमार्गे सौमनस्येन्द्रियमष्टमं /
1503 SK [०४९|२६-०४९|२७] भवत्यानन्तर्यमार्गे तूपेक्षेन्द्रियमेव नित्यमुभाभ्यां च तस्य प्राप्तिः /
1504 SK [०४९|२७-०४९|२८] अथ लोकोत्तरेण प्रविशाति तस्य नवभिरिन्द्रियैः प्राप्तिः /
1505 SK [०४९|२८] आज्ञेन्रियं नवमं भवति /
1506 SK [०४९|२८-०५०|०१] यत्तर्ह्यभिधर्म उक्तं ᳚कतिभिरिन्द्रियैरर्हत्त्वं प्रप्नोतीत्याह एकादश्भ्हिरिति᳚ /
1507 SK [०५०|०१-०५०|०२] तत् कथं नवभिरित्युच्यते /
1508 SK [०५०|०२] नवभिरेव तत् प्राप्नोति /
1509 SK [०५०|०३] एकादशभिरर्हत्तवमुक्तं त्वेकस्य संभवात् /
1510 SK [०५०|०४-०५०|०५] अस्ति संभवो यदेकः पुद्गलः परिहाय परिहाय सुखसौमनस्यीपेक्षाभिरर्हत्त्वं प्राप्नुयादत एकादशभिरित्युक्तम् /
1511 SK [०५०|०५-०५०|०६] नतु खलु संभवो ऽस्ति सुखादीनामेकस्मिन् काले /
1512 SK [०५०|०६] कथमनागाभिनो ऽप्येष प्रसङ्गो न भवति /
1513 SK [०५०|०६-०५०|०७] नह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्न्नोति न च वीतरागपूर्वी परिहीयते /
1514 SK [०५०|०७-०५०|०८] तद्वैराग्यस्य द्विमार्गप्रापणात् /
1515 SK [०५०|०९] इदं विचार्यते/ कतमेनेन्द्रियेण समन्वागतः कतिभिः अवश्यं समन्वागतो भवति /
1517 SK [०५०|११] उपेक्षाजीवितमनोयुक्तो ऽवश्यं त्रयान्वितः // VAक्K_२.१७ //
1518 SK [०५०|१२-०५०|१३] य एषामुपेक्षादीनामन्यतमेन समन्वागतः सो ऽवश्यं त्रिभिरिन्द्रियैः समन्वागतो भवत्येभिरेव /
1519 SK [०५०|१३] नह्येषामन्यो ऽय्नेन विना समन्वागमः / शेषैस्त्वनियमः /
1520 SK [०५०|१३-०५०|१४] स्यात्समन्वागतः स्यादसमन्वागतः /
1521 SK [०५०|१४-०५०|१५] तत्र तावच्चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियै रारूप्योपपन्नो न समन्वागतः /
1522 SK [०५०|१५] कामधातौ च येनाप्रतिलब्धविहीनानि /
1523 SK [०५०|१५-०५०|१६] कायेन्द्रियेणारूप्योपपन्नो न समन्वागतः /
1524 SK [०५०|१६] स्त्रीन्द्रियेण रूपारूप्योपपन्नः / कामधतौ येनाप्रतिलब्धविहीनम् /
1525 SK [०५०|१६-०५०|१७] एवं पुरुषेन्द्रियेण /
1526 SK [०५०|१७] सुखेन्द्रियेण चतुर्ध्यानारूप्योपपन्नः पृथग्जनो न समन्वागतः /
1527 SK [०५०|१८] सौमनस्येन्द्रियेण तृतीयचतुर्थध्यानारूप्योपपन्नः पृथग्जन एव /
1528 SK [०५०|१८-०५०|१९] दुःखेन्द्रियेण रूपारूप्योपपन्नः /
1529 SK [०५०|१९] दौर्मनस्येन कामवीतरागः /
1530 SK [०५०|१९-०५०|२०] श्रद्धादिभिः समुच्छिन्नकुशलमूलः /
1531 SK [०५०|२०] आज्ञास्यामीन्द्रियेण पृथग्जनफलथानसमन्वागताः /
1532 SK [०५०|२०-०५०|२१] आज्ञेन्द्रियेण पृथग्जनदर्शनाशैक्षमार्गस्थाः /
1533 SK [०५०|२१] आज्ञातावीन्द्रियेण पृथग्जनशैक्षैक्ष्या असमन्वागताः /
1534 SK [०५०|२२] अप्रतिपिद्धास्ववस्थासु यथोक्तसमन्वागतो वेदितव्यः /
1535 SK [०५०|२३] चतुर्भिः सुख कायाभ्यां
1536 SK [०५०|२४-०५०|२५] यः सुखेन्द्रियेण समन्वागतः सो ऽवश्यं चतुर्भिरिन्द्रियैस्तैश्च त्रिभिरुपेक्षादिभिः सुखेन्द्रियेण च /
1537 SK [०५०|२५] यः कायेन्द्रियेण सो ऽपि चतुर्भिस्तैश्च त्रिभिः कायेन्द्रियेण च /
1538 SK [०५१|०१] पञ्चभिश्चक्षुरादिमान् /
1539 SK [०५१|०२] यश्चक्षुरिन्द्रियेण सो ऽवश्यं पञ्चभिरुपेक्षाजीवितमनः कायेन्द्रियैस्तेन च/
1540 SK [०५१|०२-०५१|०३] एवं श्रोत्रघ्राणजिह्वेन्द्रियैर्वेदितव्यम् /
1541 SK [०५१|०४] सौमनस्यी च
1542 SK [०५१|०५] यश्चापि सौमनस्येन्द्रियेण सो ऽवश्यं पञ्चभिरुपेक्षाजीवितमनःसुखसौमनस्यैः /
1543 SK [०५१|०६] द्वितीयध्यानजस्तृतीयध्यानालाभी कतमेन सुखेन्द्रियेण समन्वागतो भवति /
1544 SK [०५१|०७] क्लिष्टेन तृतीयध्यानभूमिकेन /
1545 SK [०५१|०८] दुःखी तु सप्तभिः /
1546 SK [०५१|०९] यो दुःखेन्द्रियेण सो ऽवश्यं सप्तभिः कायजीवितमनोभिश्चतुर्भिर्वेदनेन्द्रियैः /
1547 SK [०५१|१०] स्त्रीन्द्रियादिमान् // VAक्K_२.१८ //
1549 SK [०५१|१२] यः स्त्रीन्द्रियेण समन्वागतः सो ऽवश्यमष्टभिः तैश्च सप्तभिः स्त्रीन्द्रियेणच /
1550 SK [०५१|१३] आदिशब्देन पुरुषेन्द्रियदौर्मनस्यशरद्धादीनां संग्रहः /
1551 SK [०५१|१३-०५१|१४] तद्वानपि प्रत्येकमष्टाभिः समन्वागतो भवति /
1552 SK [०५१|१४] तैश्च सप्तभिरष्टमेन च पुरुषेन्द्रियेण / एवं दौर्मनस्येन्द्रियेण /
1553 SK [०५१|१४-०५१|१५] श्रद्धादिमांस्तु तैश्च पञ्चभिरुपेक्षाजीवितमनोभिश्च /
1554 SK [०५१|१६] एकादशभिस्त्वाज्ञाज्ञातेन्द्रियान्वितः /
1555 SK [०५१|१७] आज्ञात इन्द्रियमाज्ञातेन्द्रियम् /
1556 SK [०५१|१७-०५१|१८] य आज्ञातेन्द्रियेण समन्वागतः सो ऽवश्यमेकादशभिः सुखसौमनस्योपेक्षाजीवितमनश्रद्धादिबहिराज्ञेन्द्रियेण च /
1557 SK [०५१|१९] एवमाज्ञा तावीन्द्रियेणापि / तैरेव दशभिराज्ञातावीन्द्रियेण च /
1558 SK [०५१|२०] आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः // VAक्K_२.१९ //
1559 SK [०५१|२१] कतमैस्त्रयोदशभिः /
1560 SK [०५१|२१-०५१|२२] मनोजीवितकायेन्द्रियैः चतसृभिर्वेदनाभिः श्रद्धादिभिराज्ञास्यामीन्द्रियेण च //
1561 SK [०५१|२३] अथ यः स्र्वाल्पैः समन्वागतः स कियद्भिरिन्द्रियैः /
1562 SK [०५१|२४] सर्वाल्पैर्निःशुभो ऽष्टाभिर्विन्मनःकायजीवितैः /
1564 SK [०५१|२६] समुच्छिन्नकुशमूलो निःशुभः / स सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः /
1565 SK [०५१|२६-०५२|०१] पञ्चभिर्वेदनादिभिः कायमनोजीवितैश्च /
1566 SK [०५२|०१] वेदना हि वित् वेदयत इति कृत्वा / वेदनं वा वित् /
1567 SK [०५२|०२] यथा संपदनं संपत् / यथा च निःशाउभः सर्वाल्पैरष्टाभिरिन्द्रियैर्युक्तः
1568 SK [०५२|०३] बालस्तथारूप्ये
1569 SK [०५२|०४] बाल इति पृथग्जनस्याख्या / कतमैरष्टाभिः /
1570 SK [०५२|०५] उपेक्षायुर्मनःशुभैः // VAक्K_२.२० //
1571 SK [०५२|०६] उपेक्षाजीवितमनोभिः श्रद्धादिभिश्च //
1572 SK [०५२|०६-०५२|०७] एकान्तकुशलत्वात् श्रद्धादीनि शुभग्रहणेन गृह्यन्ते /
1573 SK [०५२|०७] आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रसङ्गः / न /
1574 SK [०५२|०७-०५२|०८] अष्टाधिकाराद् द्वालाधिकाराच्च //
1575 SK [०५२|०९] अथ यः सर्वबहुभिरिन्द्रियैः समन्वागतः स कियद्भिः /
1576 SK [०५२|१०] बहुभिर्युक्त एकान्नविंआशत्या ऽमलवर्जितैः /
1577 SK [०५२|११] अना स्रवणि त्रीणि वर्जयित्वा / स पुनः /
1578 SK [०५२|१२] द्विलिङ्गः
1579 SK [०५२|१३] द्विव्यञ्जनो यः समग्रेन्द्रियः एकान्नविंशत्या समन्वागतः / कश्चापरः /
1580 SK [०५२|१४] आर्यो रागी
1581 SK [०५२|१५] अवीतरागो ऽपि शैक्षः सर्वबहुभिरेकान्नविंशत्या समन्वागतः /
1582 SK [०५२|१६] एकलिङ्गद्वयमलवर्जितैः // VAक्K_२.२१ //
1583 SK [०५२|१७] एकं व्यञ्जनं द्वे चानास्रवे वर्जयित्वा / आज्ञातावीन्द्रियं द्वयोशाचान्यतरत् /
1584 SK [०५२|१७-०५२|१८] उक्त इन्द्रियाणां धातुप्रभेदप्रसङ्गेनागतानां विस्तरेण प्रभेदः /
1585 SK [०५२|१९] इदमिदानीं विचार्यते /
1586 SK [०५२|१९-०५२|२०] किमेते संस्कृता धर्मा यथा भिन्नलक्षणा एवं भिन्नोत्पादा उताहो नियतसहोत्पादा अपि केचित्सन्ति /
1587 SK [०५२|२०] सन्तीत्याह /
1588 SK [०५२|२०-०५२|२१ सर्व इमे धर्माः पञ्च भवन्ति /
1589 SK [०५२|२१] रूपं चित्तं चैतसिकाश्च्त्तविप्रयुक्ताः संस्कारा असंस्कृतं च /
1590 SK [०५२|२२] तत्रासंस्कृतं नैवोत्पद्यते / रूपिणां तु धर्माणामयं नियमः /
1591 SK [०५२|२३] कामे ऽष्टद्रव्यको ऽशब्दः परमाणुरनिन्द्रियः /
1592 SK [०५२|२४] सर्वसूक्ष्मो हि रूपसंघातः परमाणुर् इत्य् उच्याते / यतो नान्यतरो विज्ञायेत /
1593 SK [०५२|२४-०५२|२५] स काम घातावशब्दको ऽनिन्द्रियश्चाष्टद्रव्यक उत्पद्यते नान्यतमेन हीनः/
1594 SK [०५२|२५-०५३|०१] अष्टो द्रव्याणिचत्वारि महाभूतानि चत्वारि चोपादायरूपाणि रूपगन्धरसस्प्रष्टव्यानि /
1595 SK [०५३|०१-०५३|०२] सेन्द्रियस्तु परमाणुरशब्दको नवद्रव्यक उत्पद्यते दशद्रव्यको वा /
1596 SK [०५३|०२] तत्र तावत्
1597 SK [०५३|०३] कायेन्द्रियी नवद्रव्यः
1598 SK [०५३|०४] कायेन्द्रियमत्रास्तीति सो ऽयं कायेन्द्रियी / तत्र नवद्रव्याणि / तानि चाष्टौ कायेन्द्रियं च /
1599 SK [०५३|०५] दशद्रव्यो ऽपरेन्द्रियः // VAक्K_२.२२ //
1600 SK [०५३|०६] अपरमिन्द्रियं यत्र परमाणौ तत्र दश द्रव्याणि /
1601 SK [०५३|०६-०५३|०७] तान्येव नव चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियाणां चान्यतमम् /
1602 SK [०५३|०७-०५३|०८] सशब्दा पुनरेते परमाणव उत्पद्यमाना यथाक्रमं नवदशैकादश द्रव्यका उत्पद्यन्ते /
1603 SK [०५३|०८-०५३|०९] अस्ति हीन्द्रियाविनिर्भागी शब्दो ऽपि य उपात्तमहाभूतहेतुकः /
1604 SK [०५३|०९-०५३|१०] कथमिहाविनिर्भागे भूतानां कश्चिदेव संघातः कठिन उत्पद्यते कश्चिदेव द्रव उष्णो वा समुदीरणो वा /
1605 SK [०५३|१०-०५३|११] यद्यत्र पटुतमं प्रभावत उद्भूतं तस्य तत्रोपलब्धिः /
1606 SK [०५३|११] सूचीतूनी कलापस्पर्शवत् सक्तुलवणचूर्णरसवच्च /
1607 SK [०५३|११-०५३|१२] कथं पुनस्तेषु शेषास्तित्वं गम्यते /
1608 SK [०५३|१२] कर्मतः संग्रहघृतिपक्तिव्यूहनात् /
1609 SK [०५३|१२-०५३|१३] प्रत्ययलाभे च सति कठिनादीनां द्रवणा दिभावात् अप्सु शैत्यातिशयादौष्ण्यं गम्यत इत्यपरे /
1610 SK [०५३|१३-०५३|१४] अव्यति भेदे ऽपि तु स्याच्छैत्यातिशयः /
1611 SK [०५३|१४] शब्दवेदनातिशयवत् /
1612 SK [०५३|१४-०५३|१५] बीजतस् तेषु तेषां भावो न स्वरूपत इत्यपरे /
1613 SK [०५३|१५] ᳚सन्त्यस्मिन् दारुस्कन्धे विविधा धातव᳚इति वचनात् /
1614 SK [०५३|१५-०५३|१६] कथं वायौ वर्णसद्भावः /
1615 SK [०५३|१६] श्रद्धानीय एषो ऽर्थो नानुमानीयः /
1616 SK [०५३|१६-०५३|१७] संस्पन्दतो गन्धग्रहणात् तस्य वर्णाव्यभिचारात् /
1617 SK [०५३|१७-०५३|१८] रूपधातौ गन्धरसयोरभाव उक्तस्तेन तत्रत्याः परमाणवः षट्सप्ताष्टद्रव्यका इत्युक्तरूपत्वात् न पुनरुच्यन्ते /
1618 SK [०५३|१९] किं पुनरत्र द्रव्यमेव द्रव्यं गृह्यते आहोस्विदायतनम् / किं चातः /
1619 SK [०५३|१९-०५३|२०] यदि द्रव्यमेव द्रव्यं गृह्यते अत्यल्पमिदमुच्यते अष्टद्रव्यको नवदशाद्रव्यक इति /
1620 SK [०५३|२०-०५३|२१] अवश्यं हि तद्द्रव्यसंस्थानेनापि भवितव्यम् /
1621 SK [०५३|२१] तस्यापि परमाणुसंचितत्वात् /
1622 SK [०५३|२१-०५३|२२] गुरुत्वलघुत्वयोश्चान्यतरेण श्लक्ष्णत्वकर्कशत्वयोश्च /
1623 SK [०५३|२२-०५३|२३] शीतेनापि क्वचित् जिघत्सया पिपासया च /
1624 SK [०५३|२३] अथाप्यायतनद्रव्यं गृह्यते अयिवह्णिदमुच्यते अष्टद्रव्यक इति /
1625 SK [०५३|२३-०५३|२४] चतुर्द्रव्यको हि वक्तव्यो यावता भूतान्यपि स्प्रष्टव्यायतनम् /
1626 SK [०५३|२४-०५३|२५] किञ्चिदत्र द्रव्यमेव द्रव्यं गृह्यते यदाश्रयभूतं किञ्चिदत्रायतनं द्रव्यं गृह्यते यदाश्रितभूतम् /
1627 SK [०५३|२५-०५३|२६] एवमपि भूयांसि भूतद्रव्याणि भवन्त्युपादायरूपाणां प्रत्येकं भूतचतुष्काश्रितत्वात् /
1628 SK [०५४|०१] अत्र पुनर्जातिद्रव्यं गृह्यते / भूतचतुष्कान्तराणां स्वजात्यनतिक्रमात् /
1629 SK [०५४|०१-०५४|०२] कः पुनर्यत्स एवं विकल्पेन वक्तुम् /
1630 SK [०५४|०२] च्छन्दतो ऽपि हि वाचां प्रवृत्तिरर्थस्तु परीक्ष्यः /
1631 SK [०५४|०३] उक्तो रूपिणां सहोत्पादनियमः / शेषाणां वक्तव्यस्तत्र तावत् /
1632 SK [०५४|०४] चित्तं चैत्ताः सहवश्यं /
1633 SK [०५४|०५] नह्येते विना ऽन्योन्यं भवितुमुत्सहन्ते /
1634 SK [०५४|०६] सर्वं संस्कृतलक्षणैः /
1635 SK [०५४|०७] सहावश्यमिति वर्त्तते /
1636 SK [०५४|०७-०५४|०८] यत्किं चिदुत्पद्यते रूपं चित्तं चैतसिका विप्रयुक्ता वा सर्वं संस्कृतलक्षणैः सार्धमुत्पद्यते /
1637 SK [०५४|०९] प्राप्त्या वा /
1638 SK [०५४|१०-०५४|४१०] प्राप्त्या सह सत्वाख्यमेवोत्पद्यते नान्यदिति विकल्पार्थो वाशब्दः /
1639 SK [०५४|११] चैत्ता इत्युच्यन्ते / क इमे चैत्ताः /
1640 SK [०५४|१२] पञ्चधा चैत्ता महाभूम्यादिभेदतः // VAक्K_२.२३ //
1641 SK [०५४|१३-०५४|१४] पञ्च प्रकाराश्चैत्ता महाभूमिकाः कुशलमहाभूमिकाः क्लेशमहाभूमिकाः अकुशलमहाभूमिकाः परीत्तक्लेशमहाभूमिकाश्च /
1642 SK [०५४|१४] भूमिर्नाम गतिविशयः /
1643 SK [०५४|१४-०५४|१५] यो हि यस्य गतिविशयः स तस्य भूमिरित्युच्यते /
1644 SK [०५४|१५-०५४|१६ तत्र महती भूमिरेशामिति महाभूमिकाः ये सर्वत्र चेतसि भवन्ति /
1645 SK [०५४|१६] के पुनः सर्वत्र चेतसि /
1646 SK [०५४|१७-०५४|१८] वेदना चेतना संज्ञा च्छन्दः स्पर्शो मतिः स्मृतिः / मनस्कारो ऽधिमोक्षश्च समाधिः सर्वचेतसि // VAक्K_२.२४ //
1647 SK [०५४|१९] इमे किल दश धर्माः सर्वत्र चित्तक्षणे समग्रा भवन्ति / तत्र वेदना त्रिविधो ऽनुभवः /
1648 SK [०५४|२०] सुखो दुःखो ऽदुःखा सुखश्च / चेतना चित्ताभिसंस्कारो मनस्कर्म /
1649 SK [०५४|२०-०५४|२१] संज्ञा संज्ञानं विषयनिमित्तोद्रूह /
1650 SK [०५४|२१] च्छन्दः कर्त्तृकामता / [०५४|२१-०५४|२२] स्पर्श इन्द्रियविषयविज्ञानसन्निपातजा स्पृष्टिः /
1651 SK [०५४|२२] मतिः प्रज्ञा धर्मप्रविचयः /
1652 SK [०५४|२२-०५४|२३] स्मृतिरालम्बनासंप्रमोषः /
1653 SK [०५४|२३] मनस्कारश्चेतस आभोगः / अधिमोक्षो ऽधिमुक्तिः /
1654 SK [०५४|२३-०५४|२४] समाधिश्चित्तस्यैकाग्रता /
1655 SK [०५४|२४] सूक्ष्मो हि चित्तचैत्तानां विशेषः /
1656 SK [०५४|२४-०५४|२५] स एव दुःपरिच्छेदः प्रवाहेष्वपि तावत् किं पुनः क्षणेषु /
1657 SK [०५४|२५-०५५|०२] रूपिणीनामपि तावदोषधीनां बहुरसानां कासंचिदिन्द्रियग्राह्या रसविशेषा दुरवधारा भवन्ति किं पुनर्ये धर्मा अरूपिणो बुद्धिग्राह्याः /
1658 SK [०५५|०२-०५५|०३] कुशला महाभूमिरेषां त इमे कुशल महाभूमिका ये सर्वदा कुशले चेतसिभवन्ति /
1659 SK [०५५|०३] के पुनस्त इति /
1660 SK [०५५|०४-०५५|०५] श्रद्धा ऽप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा / मूलद्वयमहिंसा च वीर्यं च कुशले सदा // VAक्K_२.२५ //
1661 SK [०५५|०६] इमे दश धर्मा कुशले चेतसि नित्यं भवन्ति / तत्र श्रद्धा चेतसः प्रसादः /
1662 SK [०५५|०६-०५५|०७] सत्यरत्न कर्मफलाभिसंप्रत्यय इत्यपरे /
1663 SK [०५५|०७] अप्रमादः दुशलानां धर्माणां भावनाः /
1664 SK [०५५|०७-०५५|०८] का पुनस्ते भ्यो ऽन्या भावना /
1665 SK [०५५|०८] या तेष्ववहितता /
1666 SK [०५५|०८-०५५|०९] चेतस आरक्षेति निकायान्तरीताः सूत्रे पठन्ति /
1667 SK [०५५|०९] प्रश्रब्धिश्चित्तकर्मण्यता / ननु च सूत्रे कायप्रश्रब्धिरप्युक्ता /
1668 SK [०५५|०९-०५५|१०] न खलु नोक्ता /
1669 SK [०५५|१०] सा तु यथा कायिकी वेदना तथा वेदितव्या /
1670 SK [०५५|१०-०५५|११] कथं सा बोध्यङ्गेषु योक्ष्यते /
1671 SK [०५५|११] तत्र तर्हि कायकर्मण्यतैव कायिकी प्रश्रब्धिर्वेदितव्या /
1672 SK [०५५|११-०५५|१२] कथं सा बोध्यङ्गमितयुच्यते /
1673 SK [०५५|१२] बोध्यङ्गानुकूल्यात् /
1674 SK [०५५|१२-०५५|१३] सा हि कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गमावहति /
1675 SK [०५५|१३] अस्ति पुनः स्वचित् अन्यत्राप्येवं दृश्यते / अस्तीत्याह /
1676 SK [०५५|१३-०५५|१४] तद्यथा प्रीतिः प्रीतिस्थानीयाश्च धर्माः प्रीतिसंबोध्यङ्गमुक्तं भगवता /
1677 SK [०५५|१४-०५५|१५] प्रतिघः प्रतिघनिमित्तं च व्यापादनिवरणमुक्तम् /
1678 SK [०५५|१५-०५५|१६] सम्यक्दृष्टिसंकल्पव्यायामाश्च प्रज्ञास्कन्ध उक्ताः /
1679 SK [०५५|१६-०५५|१७] नच संकल्पव्यायामौ प्रज्ञास्वभावौ तस्यास्त्वनुगुणाविति तास्यात्वनुगुणाविति ताच्छय्द्यं लभेते /
1680 SK [०५५|१७-०५५|१८] एवं कायप्रश्रब्धिरपि बोध्यङ्गानुगुण्याद्वोध्यङ्गशब्दं लभते /
1681 SK [०५५|१८] उपेक्षा चित्तसमता चित्तानाभोगता / कथमिदानीमेतद्योक्ष्यते /
1682 SK [०५५|१८-०५५|१९] ᳚तत्रैव चित्ते आभोगात्मको मनस्कारो ऽनाभोगात्मिका चोपेक्षे᳚ति /
1683 SK [०५५|१९-०५५|२०] ननु चोक्तं ᳚दुर्ज्ञान एषां विशेष᳚ इति /
1684 SK [०५५|२०] अस्ति हि नाम दुर्ज्ञानमपि ज्ञायते /
1685 SK [०५५|२०-०५५|२१] इदम् तु खल्वतिदुर्ज्ञानं यद्विरोधे ऽप्यविरोध इति /
1686 SK [०५५|२१] अन्यत्राभोगो ऽन्यत्रानाभोग इति को ऽत्र विरोधः /
1687 SK [०५५|२१-०५५|२२] न तर्हीदानीमेकालम्बनाः सर्वे संप्रयुक्ताः प्राप्नुवन्ति /
1688 SK [०५५|२२-०५५|२३] एवञ्जातीयकमत्रान्यदप्यायास्यतीति यस्तस्य नयः सो ऽस्यापि वेदितव्यः /
1689 SK [०५५|२३] ह्रीरपत्राप्यं च पश्चाद्वक्ष्यते /
1690 SK [०५५|२३-०५५|२४] मूलद्वयं द्वे कुशलमूले अलोभाद्वेषौ /
1691 SK [०५५|२४] अमोहो ऽप्यस्ति स तु प्रज्ञात्मकः /
1692 SK [०५५|२४-०५५|२५] प्रज्ञा च महाभूमिकेति नासौ कुशलमहाभूमिक एवोच्यते /
1693 SK [०५५|२५] अविहिंसा अविहेठना / वीर्यं चेतसो ऽभ्युत्साहः /
1694 SK [०५६|०१] उक्ताः कुशला महाभूमिकाः /
1695 SK [०५६|०२] महती भूमिर्महाभूमिः /
1696 SK [०५६|०२-०५६|०३] क्लेशा महाभूमिरेषां त इमे क्लेशमहाभूमिका ये धर्माः सदैव क्लिष्टे चेतसि भवन्ति /
1697 SK [०५६|०३] के पुनस्ते सदैव क्लिष्टे चेतसि भवन्ति /
1698 SK [०५६|०४] मोहः प्रमादः कौशीद्यमा श्रद्ध्यं स्त्यान्मुद्धवः /
1699 SK [०५६|०५] क्लिष्टे सदैव
1700 SK [०५६|०६] तत्र मोहो नामाविद्या ऽज्ञानमसंप्रख्यानम् /
1701 SK [०५६|०६-०५६|०७] प्रमादः कुशलानां धर्माणामभावना ऽप्रमाद विपक्षो धर्मः /
1702 SK [०५६|०७] कौशीद्यं चेतसो नाभ्युत्साह्हो वीर्यविपक्षः /
1703 SK [०५६|०७-०५६|०८] आश्रद्ध्यं चेतसो ऽप्रसादः श्रद्धाविपक्षः /
1704 SK [०५६|०८] स्त्यानं कतमत् /
1705 SK [०५६|०८-०५६|०९] या कायगुरुता चित्तगुरुता कायाकर्मण्यता चित्ताकर्मण्यता /
1706 SK [०५६|०९] कायिकं सत्यानं चैतसिकं स्त्यानमित्युक्तमभिधर्मे /
1707 SK [०५६|१०] कथं चैतसिको धर्मः कायिक इत्युच्यते / यथा कायिकी वेदना /
1708 SK [०५६|१०-०५६|११] औद्धत्यं पुनश्चेतसो ऽव्युपशमः /
1709 SK [०५६|११] इतीमे षट् क्लेशमहाभूमिकाः /
1710 SK [०५६|११-०५६|१२] ननु चाभिधर्मे दश क्लेशमहाभूमिकाः पठ्यन्ते /
1711 SK [०५६|१२-०५६|१३] ᳚आश्रद्ध्यं कौशीद्यं मुषितस्मृतिता चेतसो विक्षेपः अविद्या असंप्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्चे᳚ ति /
1712 SK [०५६|१४] प्रप्तिज्ञो देवानां प्रियो न त्विष्टिज्ञः / का पुनरत्रेष्टिः /
1713 SK [०५६|१४-०५६|१६] मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षा महाभूमिकत्वात् न क्लेशमहाभूमिका एवावधार्यन्ते /
1714 SK [०५६|१६] यथिवामोहः कुशलमहाभूमिको नावधार्यते प्रज्ञास्वभावत्वात् /
1715 SK [०५६|१७] स्मृतिरेव हि क्लिष्टा मुषितस्मृतिता / समाधिरेव क्लिष्टो विक्षेप इत्येवमादि /
1716 SK [०५६|१८-०५६|१९] अत एवोच्यते ᳚ये महाभूमिकाः क्लेशमहाभूमिका अपि त᳚ इति /
1717 SK [०५६|१९] चतुष्कोटिकः / प्रथमा कोटिर्वेदना चेतना संज्ञा च्छन्दः स्पर्शश्च /
1718 SK [०५६|१९-०५६|२०] द्वितीया ऽश्राद्ध्यं कौशीद्यमविद्या औद्धत्यं प्रमादश्च /
1719 SK [०५६|२०-०५६|२१] तृतीया मुषितस्मृत्यादयः पञ्च क्लिष्टा यठोक्ताः /
1720 SK [०५६|२१] चतुर्थ्येतानाकारान् स्थापयित्वेति /
1721 SK [०५६|२१-०५६|२२] केचित्तु मिथ्यासमाधेरन्यचेतसो विक्षेपमिच्छन्ति /
1722 SK [०५६|२२] तेषामन्यथा चतुष्कोटिकः /
1723 SK [०५६|२२-०५६|२३] स्त्यानं पुनरिष्यते सर्वक्लेशसंप्रयोगीति क्लेशमहाभूमिकेषु तस्यापाठे कस्यापराधः /
1724 SK [०५६|२३-०५६|२४] एवं त्वाहुः पठितव्यं भवेत्समाध्यनुगुणत्वात्तु न पठितम् /
1725 SK [०५६|२४-०५६|२५] क्षिप्रतरं किल स्त्यानचरितः समाधिमुत्पादयेन्नौद्धत्यचरित इति /
1726 SK [०५६|२५-०५६|२६] कः पुनः स्त्यानचरितो यो नौद्धत्यचरितः को वा औद्धत्यचरितो यो न स्त्यानचरितः /
1727 SK [०५६|२६] नह्येते जातु सहचरिष्णुतां जहीतः /
1728 SK [०५६|२६-०५६|२७] तथापि यद्यस्याधिमात्रं स तच्चरितो ज्ञातव्यः /
1729 SK [०५६|२७] अतः षडेव क्लेशमहाभूमिकाः सिद्ध्यन्ति /
1730 SK [०५६|२८] एते हि सदा क्लेष्ट एव चेतसि भवन्ति नान्यत्र //
1731 SK [०५७|०१] अकुशले त्वाह्रीक्यमनपत्रपा // VAक्K_२.२६ //
1732 SK [०५७|०२-०५७|०३] अकुशले तु चेतस्याह्रीक्यमनपत्राप्यं च नित्यं भवत इत्येतौ द्वौ धर्मावकुशलमहाभूमिकावुच्येते /
1733 SK [०५७|०३] तयोश्च पश्चाल्लक्षणं वक्ष्यते /
1734 SK [०५७|०४-०५७|०५] क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सराः / मायामद विहिंसाश्च परीत्तक्लेश्भूमिकाः // VAक्K_२.२७ //
1735 SK [०५७|०७] एषां तु निर्देक्श उपक्लेशेषु करिष्यते /
1736 SK [०५७|०८] उक्ता इमे पञ्चप्रकाराश्चैत्ताः /
1737 SK [०५७|०८-०५७|०९] अन्ये ऽपि चानियताः सन्ति वितर्कविचारकौकृत्यमिद्धादयः /
1738 SK [०५७|०९] तत्र वक्तव्यं कस्मिंश्चित्ते कति चैत्ता अवश्यं भवन्तीति /
1739 SK [०५७|१०] कामावचरं तावत् पञ्चविधं चित्तम् / कुशलमकुशलम् /
1740 SK [०५७|१०-०५७|११] तत्राकुशलं द्विविधमावेणिकमन्यक्लेशसंप्रयुक्तं च /
1741 SK [०५७|११-०५७|१२] अव्याकृतं द्विविधं निवृताव्याकृतम् अनिवृताव्याकृतं च /
1742 SK [०५७|१२] तत्र तावत् कामावचरचित्तमवश्यं सवितर्कं सविचारम् / अतो ऽत्र
1743 SK [०५७|१३] सवितर्कविचारत्वात् कुशले कामचेतसि /
1744 SK [०५७|१४] द्वाविंशतिश्चैतसिकाः
1745 SK [०५७|१५] अवश्यं भवन्ति / दश महाभूमिका दश कुशलमहाभूमिका वितर्को विचारश्च /
1746 SK [०५७|१६] कौकृत्यमधिकं क्वचित् // VAक्K_२.२८ //
1747 SK [०५७|१७] नहि सर्वत्र कुशले चेतसि कौकृत्यमस्ति /
1748 SK [०५७|१७-०५७|१८] यत्र त्वस्ति तत्र तदेवाधिकं कृत्वा त्रयोविंशतिश्चैत्ता भवन्ति /
1749 SK [०५७|१८] किमिदं कौकृत्यं नाम / कुकृतस्य भावः कौकृत्यम् /
1750 SK [०५७|१९] इह तु पुनः कौकृत्यालम्बनो धर्मः कौकृत्यमुच्यते चेतसो विप्रतिसारः /
1751 SK [०५७|१९-०५७|२१] तद्यथा शून्यतालल्म्वनं विमोक्षमुख्ं शून्यतेत्युच्यते अशुभालम्बनश्चालोभो ऽशुभ इति /
1752 SK [०५७|२१-०५७|२२] लोके ऽपि च दृष्टः स्थानेन स्थानिनामतिदेशः सर्वो ग्राम आगतः सर्वो देश आगत इति /
1753 SK [०५७|२२] स्थानभूतं च कौकृत्यं विप्रतिसारस्य /
1754 SK [०५७|२२-०५७|२३] फले वा हेतूपचारो ऽयम् /
1755 SK [०५७|२३-०५७|२४] यथोक्तं ᳚षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यमि᳚ति /
1756 SK [०५७|२४] यत्तर्हि अकृतालम्बनं तत् कथं कौकृत्यम् / अकृते ऽपि कृताख्या भवति /
1757 SK [०५८|०१] न मया साधु कृतं यन्न कृतमिति / कतमत् कौकृत्यं कुशलम् /
1758 SK [०५८|०१-०५८|०२] यत्कुशलमकृत्वातप्यते अकुशलं च कृत्वा /
1759 SK [०५८|०२] विपर्ययादकुशलं कौकृत्यम् /
1760 SK [०५८|०२-०५८|०३] तदेतदुभयमप्युभयाधिष्टानम् /
1761 SK [०५८|०४] आवेणिके त्वकुशले दृष्टियुक्ते च विंशातिः /
1762 SK [०५८|०५] यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः /
1763 SK [०५८|०५-०५८|०६] दश महाभूमिकाः षट् क्लेआशमहाभूमिका द्वावकुशलमहाभूमिकौ वितर्कोविचारश्च /
1764 SK [०५८|०६-०५८|०७] आवेणिकं नाम चित्तं यत्राविद्यैव केवला नान्यः क्लेशो ऽस्ति रागादिः /
1765 SK [०५८|०७-०५८|०८] दृष्टियुक्ते ऽप्यकुशले विंशतिर्य एवावेणिके /
1766 SK [०५८|०८] ननु च दृष्ट्यधिकत्वादेक विंशतिर्भवन्ति / न भवन्ति /
1767 SK [०५८|०८-०५८|०९] यस्मान्महाभूमिक एव कश्चित् प्रज्ञाविशेषो दृष्टिरित्युच्यते /
1768 SK [०५८|०९-०५८|१०] तत्राकुशलं दृष्टियुक्तं यत्र मिथ्यादृष्टिर्वा दृष्टिपरामर्शो वा शीलव्रतपरामर्शो वा /
1769 SK [०५८|११] क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः // VAक्K_२.२९ //
1770 SK [०५८|१२-०५८|१३] यत्र पुनश्चतुर्भिः क्लेशैः संप्रयुक्तमकुशलं चित्तं रागेण व प्रतिघेन वा मानेन वा विचिकित्सया वा तत्रैकविंशतिर्भवन्ति /
1771 SK [०५८|१३-०५८|१४] स च क्लेशः आवेणिकोक्ताश्च विंशतिः /
1772 SK [०५८|१४-०५८|१५] क्रोधादिभिरप्युपक्लेशैर्यथोक्तैः संप्रयुक्ते चित्ते एते च विंशतिः स चोपक्लेश इत्येकविंशतिर्भवन्ति /
1773 SK [०५८|१५] कौकृत्येनाप्येकविंशतिः /
1774 SK [०५८|१५-०५८|१६] तदेव कौकृत्यमेकविंशतितमं भवति /
1775 SK [०५८|१६] समासत आवेणिके चेतस्यकुशले दृष्टियुक्ते च विंशतिः /
1776 SK [०५८|१६-०५८|१७] अन्यक्लेशोपक्लेशसंप्रयुक्ते त्वेकविंशतिः /
1777 SK [०५८|१८] निवृते ऽष्टदश
1778 SK [०५८|१९-०५८|१८] सत्कायान्तग्राहदृष्टिसंप्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम् /
1779 SK [०५८|१९-०५८|२०] तत्राष्टादश चैत्ताः /
1780 SK [०५८|२०] दश महाभूमिकाः षट् क्लेशमहाभूमिकाः वितर्कविचारौ च /
1781 SK [०५८|२०-०५८|२१] दृष्टिः पूर्ववदेव नाधिका भवति /
1782 SK [०५८|२२] अय्नत्र द्वादशाव्याकृते मताः /
1783 SK [०५८|२३] निवृतादन्यदव्याकृतमनिवृताव्याकृतम् / तत्र द्वादश चैत्ता इष्टाः /
1784 SK [०५८|२३-०५८|२४] दश महाभूमिका वितर्कविचारौ च /
1785 SK [०५८|२४] बहिर्देशका अव्याकृतमपि कौकृत्यमिच्छन्ति /
1786 SK [०५८|२४-०५८|२५] तेषां तत्संप्रयुक्ते चेतसि त्रयोदश भवन्ति /
1787 SK [०५८|२६] मिद्धं सर्वाविरोधित्वाद्यत्र स्यादधिकम् हि तत् // VAक्K_२.३० //
1788 SK [०५८|२७] सर्वैरेभिर्यथोक्तै श्चैतैर्मिद्धमविरुद्धं कुशलाकुशलाव्याकृतत्वात् /
1789 SK [०५८|२७-०५९|०१] अतो तत्र तत्स्यात् तत्राधिकं तद्वेदितव्यम् /
1790 SK [०५९|०१-०५९|०२] यत्र द्वाविंशतिस्तत्र त्रयोविंशतिर्यत्र त्रयोविंशतिस्तत्र चतुर्विंशतिरित्येवमादि /
1791 SK [०५९|०२] य एव कामधातौ चैत्तानां नियम उक्तः
1792 SK [०५९|०३] कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः /
1793 SK [०५९|०४] अतो यथोक्तात् कौकृत्यं मिद्धं च सर्वथा नास्ति प्रथमे ध्याने यत् किञ्चिदकुशलम् /
1794 SK [०५९|०५] प्रतिघः शाठ्यमदमायावर्ज्याश्च क्रोधादय आह्रीक्यानपत्राप्ये च / अन्यत्सर्व तथैव /
1795 SK [०५९|०६] य एव प्रथमे ध्याने न सन्ति त एव
1796 SK [०५९|०७] ध्यानान्तरे वितर्कश्च
1797 SK [०५९|०८] नास्ति / शेषं तथैव /
1798 SK [०५९|०९] विचारश्चाप्यतः परम् // VAक्K_२.३१ //
1799 SK [०५९|१०-०५९|११] ध्यानान्तरात् परेण द्वितीयादिषु ध्यानेष्वारूप्येषु च यथाप्रतिषिद्धं नास्ति विचारश्च /
1800 SK [०५९|११] माया शाठ्यं चेत्यपिशब्दात् / शेषं तथैव /
1801 SK [०५९|११-०५९|१२] ब्रह्मणो हि यावच्छाठ्यं पठ्यते पर्षत्सम्बन्धत्वान्नोर्ध्वम् /
1802 SK [०५९|१२-०५९|१३] स हि स्वस्यां पर्षद्यश्वजिता भिक्षुणा प्रश्नं पृष्टः ᳚कुत्रेमानि ब्रह्मन् चतवारि महाभूतान्यपरिशेषं निरुध्यन्ते᳚ इति /
1803 SK [०५९|१३-०५९|१४] अप्रजानन् क्षेपमकार्षीत् /
1804 SK [०५९|१४-०५९|१५] ᳚अहमस्मिन् ब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भूतानामि᳚ति /
1805 SK [०५९|१५] उक्तमेतद्यस्यां भूमौ यत्र चित्ते यावन्तश्चैत्ताः //
1806 SK [०५९|१६] इदानीं केषाञ्चिदेव चैत्तानां तन्त्रविहितं नानाकारणं वक्ष्यते /
1807 SK [०५९|१६-०५९|१७] आह्रीक्यस्यानपत्राप्यस्य च किं नानाकारणम् /
1808 SK [०५९|१८] अह्रीरगुरुता
1809 SK [०५९|१९-०५९|२०] गुणेषु गुणवत्सु चागौरवता अप्रतीशता अभयमवशवर्तिता आह्रीक्यं गौरवप्रतिद्वन्द्वो धर्मः //
1810 SK [०५९|२१] अवद्ये भयादर्शित्वमत्रपा /
1811 SK [०५९|२२] अवद्यं नाम यद्विगर्हितं सद्भिः / तत्राभयदर्शिता ऽनपत्राप्यम् /
1812 SK [०५९|२२-०५९|२३] भयमत्रानिष्टं फलं भीयते ऽस्मादिति /
1813 SK [०५९|२३-०५९|२४] कथमिदं विज्ञातव्यम् अभयस्य दर्शनमभयदर्शिता आहोस्वित् भयस्यादर्शनम् /
1814 SK [०५९|२४] किं चातः /
1815 SK [०५९|२४-०५९|२५] अभयस्य दर्शनं चेत् प्रज्ञा विज्ञास्यते भयस्यादर्शनं चेदविद्या विज्ञास्यते /
1816 SK [०५९|२५] नैव हि दर्शनं दर्शिता नाप्यदर्शनमदर्शिता / किं तर्हि /
1817 SK [०५९|२५-०५९|२६] यस्तयोर्निमित्तमुपक्लेशस्तच्चानपत्राप्यमिति /
1818 SK [०५९|२६] अन्ये पुनराहुः /
1819 SK [०५९|२६-०६०|०१] आत्मापेक्षया दोषैरलज्जन माह्रीक्यं परापेक्षया ऽनपत्राप्यमिति /
1820 SK [०६०|०१] एवमपि द्वे अपेक्षे युगपत् कथं सेत्स्यतः /
1821 SK [०६०|०१-०६०|०३] न खलूच्यते युगपदात्मानं परं चापेक्षत इत्यपि त्वस्त्यसौ कदाचिदलज्जा या आत्मानमपेक्षमाणस्यापि प्रवर्तते सा आह्रीक्यम् /
1822 SK [०६०|०३-०६०|०४] अस्ति या परमपेक्षमाणस्य प्रवर्त्तते सा ऽनपत्राप्यम् /
1823 SK [०६०|०४] विपर्ययेण ह्रीरपत्राप्यं च वेदितव्यम् /
1824 SK [०६०|०४-०६०|०५] प्रतहमेन तावत् कल्पेन सगौरवता सप्रतीशता न भयवशव्र्तिता ह्रीः /
1825 SK [०६०|०५] अवद्येष्वभयदर्शिअता ऽपत्राप्यम् /
1826 SK [०६०|०६] द्वितीयेन कल्पेनात्मपरापेक्षाभ्यां लज्जने /
1827 SK [०६०|०७] प्रेम्णो गौरवस्य च किं नानाकारणम् /
1828 SK [०६०|०८] प्रेम श्रद्धा /
1829 SK [०६०|०९] द्विविधं हि प्रेम क्लिषाटमक्लिष्टं च / तत्र क्लिष्टं तृष्णा यथा पुत्रदारादिषु /
1830 SK [०६०|०९-०६०|१०] अक्लिष्टं श्रद्धा शास्तृगुरुगुणान्वितेषु /
1831 SK [०६०|१०] स्याच्छ्रद्धा नप्रेम /
1832 SK [०६०|१०-०६०|११] दुःधसमुदयालम्बना श्रद्धा /
1833 SK [०६०|११] स्यात् प्रेम न श्रद्धा / क्लिष्टं प्रेम /
1834 SK [०६०|११-०६०|१२] उभयं निरोधमार्गालम्बना श्रद्धा /
1835 SK [०६०|१२] नोभयमेतानाकारान् स्थापयित्वा /
1836 SK [०६०|१२-०६०|१३] पुद्गलेषु तु प्रेम न गौरवं पुत्रदारसार्धं विहार्यन्तेवासिषु /
1837 SK [०६०|१३] गौरवं न प्रेम अन्यगुरुषु / उभयं स्वगुरुषु /
1838 SK [०६०|१३-०६०|१४] नोभयम् एतानाकारान् स्थापयित्वा /
1839 SK [०६०|१४] श्रद्धा हि नाम गुणसंभावना / तत्पूर्विका च प्रियता प्रेम /
1840 SK [०६०|१५] तस्मान्न सैव प्रेमेत्यपरे /
1841 SK [०६०|१६] गुरुत्वं ह्रीः /
1842 SK [०६०|१७] गौरवं हि नाम सप्रतीशता / तत्पूर्विका च लज्जा ह्रीः /
1843 SK [०६०|१७-०६०|१८] अतो न गौरवमेव ह्लीरित्यपरे /
1844 SK [०६०|१९] ते पुनः कामरूपयोः // VAक्K_२.३२ //
1845 SK [०६०|२०] आरूप्यधातौ प्रेमगौरवे न स्तः /
1846 SK [०६०|२०-०६०|२१] ननु च श्रद्धा ह्रीश्च कुशलमहाभूमिकत्वात्तत्रापि विद्येते /
1847 SK [०६०|२१] द्विविधा हि श्रद्धा धर्मेषु पुद्गलेषु च / एवं सप्रतीशता ऽपि /
1848 SK [०६०|२१-०६०|२२] तत्र ये पुद्गलालम्बने श्रद्धाह्रियौ ते तत्र न स्तः /
1849 SK [०६०|२२] ते चेह प्रेमगौरवे अभिप्रेते /
1850 SK [०६०|२३] वितर्कविचारयोः किं नानाकारणम् /
1851 SK [०६०|२४] वितर्कचारा वौदार्यसूक्ष्मते /
1852 SK [०६०|२५] कस्य / चेतस इति पश्चाद्वक्ष्यति / चित्तौदारिकता वितर्कः / चित्तसूक्ष्मता विचारः /
1853 SK [०६०|२५-०६०|२६] कथं पुनः अनयोरेकत्र चित्ते योगः /
1854 SK [०६०|२६] केचिदाहुः /
1855 SK [०६०|२६-०६१|०१] यथा ऽप्यसुनिष्ठ्यूतं सर्पिः सूर्यरश्मिभिरूपरिष्टात्स्पृष्टं नातिश्यायते नातिविलीयते एवंवितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति नात्योदारिक मित्युभयोरपि तत्रास्ति व्यापारः /
1856 SK [०६१|०१-०६१|०३] एवं तर्हि निमिट्तभूतौ वितर्कविचारावौदारिक सूक्ष्मतयोः प्राप्नुतो यथा पयश्चा तपश्चसर्पिषः श्यानत्व विलीनत्वयोर्नतु पुनस्तत्स्वभावौ /
1857 SK [०६१|०३-०६१|०४] आपेक्षिकी चौदारिकसूक्ष्मता भूमिप्रकारभेदादित्याभवाग्राद्वितर्कविचारौ स्याताम् /
1858 SK [०६१|०४-०६१|०५] नचौदारिकसूक्ष्मातया जातिभेदो युकतः //
1859 SK [०६१|०५] अन्ये पुनराहुः /
1860 SK [०६१|०५-०६१|०६] वाक्संस्कारा वित्र्कविचाराः सूत्र उक्ताः /
1861 SK [०६१|०६] ᳚वितर्क्य विचार्य वाचं भाषते नावितस्र्याविचार्ये᳚ति /
1862 SK [०६१|०६-०६१|०७] तत्र ये औदारिकास्ते वितर्काः ये सूक्ष्मास्ते विचाराः /
1863 SK [०६१|०७-०६१|०८] यदि चैकत्र चित्ते ऽन्यो धर्म औदारिको ऽन्यः सूक्ष्मः को ऽत्र विरोध इति /
1864 SK [०६१|०८-०६१|०९] न स्याद्विरोधो यदि जातिभेदः स्याद्वेदनासंज्ञावत् /
1865 SK [०६१|०९] एकस्यां जातौ मृद्वधिमात्रता युगपन्न संभवति /
1866 SK [०६१|१०] जातिभेदो /प्यस्ति / स तर्हि वक्तव्यः / दुर्वचो ह्यसावतो मृद्वधिमात्रतया व्यज्यते /
1867 SK [०६१|११] नैवं व्यक्तो भवति / प्रत्येकं जातीनां मृद्वधिमात्रतवात् /
1868 SK [०६१|११-०६१|१२] नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपरे /
1869 SK [०६१|१२] कथमिदानीं प्रथमं ध्यानं पञ्चाङ्गयुक्तम् /
1870 SK [०६१|१३] भूमितस्तत् पञ्चाङ्गयुकतं न क्षणतः //
1871 SK [०६१|१४] मानमदयोः किं नानाकारणम् /
1872 SK [०६१|१५-०६१|१६] मान उन्नतिः / मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः // VAक्K_२.३३ //
1873 SK [०६१|१७] येन केनचित् परतो विशेषपरिकल्पेन चेतस उन्नतिः मानः /
1874 SK [०६१|१७-०६१|१८] मदस्तु स्वधर्मेष्वेव रक्तस्य यच्चेतसः पर्यादानम् /
1875 SK [०६१|१८] यथा मद्यज एवं रागजः /
1876 SK [०६१|१८-०६१|१९] संप्रहऋशणविशेषो मद इत्यपरे /
1877 SK [०६१|२०] उक्ताः सह चित्तेन चैत्ताः प्रकारश स्तेषां पुनरिमाः संज्ञाः परिभाष्यन्ते /
1878 SK [०६१|२१] प्रवचन एताभिः सद्व्यवहारात् /
1879 SK [०६१|२२] चित्तं मनो ऽथ विज्ञानमेकार्थं
1880 SK [०६१|२३] चिनोतीति चित्तम् / मनुत इति मनः / विजानातीति विज्ञानम् /
1881 SK [०६१|२३-०६२|०१] चित्तं शुभाशुभैर्धातुभिरिति चित्तम् /
1882 SK [०६२|०१] तदेवाश्रयभुतं मनः / आश्रितभूतं विज्ञानमित्यपरे /
1883 SK [०६२|०१-०६२|०२] यथा चित्तं मनो विज्ञानमित्येको ऽर्थः /
1885 SK [०६२|०३] चित्तचैतसाः /
1886 SK [०६२|०४] साश्रया लम्बनाकाराः संपरयुक्ताश्च /
1887 SK [०६२|०५] एको ऽर्थः / त एव हि चित्तचैत्ताः साश्रया उच्यन्ते इन्द्रियाश्रितत्वात् /
1888 SK [०६२|०५-०६२|०६] सालम्बना विषयग्रहणात् /
1889 SK [०६२|०६] साकारास्तस्यैवालम्बनस्य प्रकारश आकरणात् /
1890 SK [०६२|०६-०६२|०७] सम्प्रयुक्ताः समं प्रयुक्तत्वात् /
1891 SK [०६२|०७] केन प्रकारेण समं परयुक्ता इत्याह
1892 SK [०६२|०८] पञ्चधा // VAक्K_२.३४ //
1893 SK [०६२|०९] पञ्चभिः समताप्राकारैराश्रयालम्बनाकारकालद्रव्यसमताभिः / केयं समता /
1894 SK [०६२|०९-०६२|१०] यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैका इति /
1895 SK [०६२|१०] निर्दिष्टाश्चित्तचैत्ताः सविस्तरप्रभेदाः /
1896 SK [०६२|११-०६२|१२] विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता / आसंज्ञिकं समापत्ती जीवितं लक्षणानि च // VAक्K_२.३५ //
1897 SK [०६२|१३] नामकायादयश्चेति
1898 SK [०६२|१४] इमे संस्कारा न चित्तेन असंप्रयुक्ता नच रूपस्वभावा इति चित्तविप्रयुक्ताउच्यन्ते /
1899 SK [०६२|१५] तत्र तावत्
1900 SK [०६२|१६] प्रप्तिर्लाभः समन्वयः / [०६२|१७] द्विविधा हि प्राप्तिरप्राप्तविहीनस्य च लाभः प्रतिलब्धेन च समन्वागमः /
1901 SK [०६२|१८] विपर्ययादप्राप्तिरिति सिद्धम् / कस्य पुनरिमे प्राप्त्यप्राप्ती /
1902 SK [०६२|१९] प्राप्त्यप्राप्ती स्वसंतान पतितानां
1903 SK [०६२|२०] न परसंतानपतितानाम् / नहि परकीर्यैः कश्चित्समन्वागतः नाप्यसंततिपतितानाम् /
1904 SK [०६२|२१] न ह्यसतत्वसंख्यातैः कश्चित्समन्वागतः / एष तावत् संस्कृतेषु नियमः /
1905 SK [०६२|२१-०६२|२२] असंस्कृतेषु पुनः प्राप्त्यप्राप्ती
1906 SK [०६२|२३] निरोधयोः // VAक्K_२.३६ //
1907 SK [०६२|२४] सर्वसत्त्वा अप्रतिसंख्यानिरोधेन समन्वागताः /
1908 SK [०६२|२४-०६२|२५] अत एव हि चोत्तमभिधर्मे ᳚अनास्रवैर्धर्मः कः समन्वागतः /
1910 SK [०६२|२५-०६२|२६] सर्वसत्त्वा᳚ इति /
1911 SK [०६२|२६-०६३|०१] प्रतिसंख्यानिरोधेन सकलबन्धनादिक्षणस्थवर्ज्याः सर्व आर्याः पृथग्जनाश्च केचित्समन्वागताः /
1912 SK [०६३|०१-०६३|०२] आकाशेन तु नास्ति कश्चित्समन्वागतः /
1913 SK [०६३|०२] तस्मादस्य नासति प्राप्तिः /
1914 SK [०६३|०२-०६३|०३] यस्य च नास्ति प्राप्तिस्तस्तस्याप्राप्तिरपि नास्तीति सिद्धान्तः /
1915 SK [०६३|०३] प्राप्तिर्नामास्ति किञ्चित् भावान्तर्मिति / कुत एतत् /
1916 SK [०६३|०४] आह सूत्रात् /
1917 SK [०६३|०४-०६३|०५] सूत्रे ह्युस्तं ᳚स एषां दशानामशैक्षाणां धर्मणामुत्पादात् प्रतिलम्भात्समन्वागमादर्यो भवति पञ्चाङ्गविप्रहीण᳚ इति विस्तरः /
1918 SK [०६३|०६] तेन तर्हि असत्त्वाख्यैरपि समन्वागमः प्राप्नोति परसत्त्वैश्च / किं कारणम् /
1919 SK [०६३|०७] सूत्र वचनात् / ᳚राजा भिक्षवश्चक्रवर्ति सप्तभी रत्नैः समन्वागत᳚ इति विस्तरः /
1920 SK [०६३|०८] वशित्वमत्र समन्वागमशब्देनोक्तम् / तस्य तेषु रत्नेषु वशित्वं कामचार इति /
1921 SK [०६३|०९] अत्र वशित्वं समन्वागमो ऽन्यत्र पुनर्द्रव्यान्तरमिति / कुत एतत् कः पुनरेवमयोगः /
1922 SK [०६३|१०-०६३|११] अयम् अयोगः यद् अस्या नैव स्वभावः प्रज्ञायते रूपशब्दादिवद् रागद्वेषादिवद् वा न चापि कृत्यं चक्षुःश्रोत्रादिवत् /
1923 SK [०६३|११] तस्मात् द्रव्यधर्मासंभवादयोगः /
1924 SK [०६३|११-०६३|१२] उत्पत्तिहेतुर्धर्माणां प्राप्तिरिति चेत् /
1925 SK [०६३|१२] असंस्कृतस्य न स्यात् /
1926 SK [०६३|१२-०६३|१३] ये च धर्मा अप्राप्ता ये च त्यक्ता भूमिसंचारवैअराग्यतस्तेषां कथमुत्पत्तिः स्यात् /
1927 SK [०६३|१३] सहजप्राप्तिहेतुका चेत् /
1928 SK [०६३|१३-०६३|१४] जातिरिदानीं किङ्करी जातिजातिर्वा /
1929 SK [०६३|१४-०६३|१५] सकलबन्धनानां खल्वपि मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदो न स्यात् प्राप्त्यभेदात् /
1930 SK [०६३|१५] यतो वा स भेदस्तत एवास्तु तदुत्पत्तिः /
1931 SK [०६३|१५-०६३|१६] तस्मान्नोत्पत्तिहेतुः प्राप्तिः /
1932 SK [०६३|१६] कश्चैवमाहोत्पत्तिहेतुः प्राप्तिरिति / किं तर्हि /
1933 SK [०६३|१६-०६३|१७] व्यवस्था हेतुः /
1934 SK [०६३|१७-०६३|१८] असत्यां हि प्राप्तौ लौकिकमानसानामार्यपृथग्जनानामार्या इमे पृथग्जना इम इति न स्याद् व्यवस्थानम् /
1935 SK [०६३|१८-०६३|१९] प्रहीणाप्रहीण क्लेशताविशेषादेतत् भवितुमर्हति /
1936 SK [०६३|१९-०६३|२०] एतच्चैव कथं भविष्यत्येषां प्रहीणः क्लेश एषामप्रहीण इति /
1937 SK [०६३|२०] प्रप्तौ सत्यामेतत्सिध्यति तद्विगमाविगमात् / आश्रयविशेषादेतत्सिध्यति /
1938 SK [०६३|२१-०६३|२२] आश्रयो हि स आर्याणां दर्शनभावनामार्गसामर्थ्यात्तथा परावृत्तो भवति यथा न पुनस्तत्प्रहेयाणां क्लेशानां प्ररोहसमर्थो भवति /
1939 SK [०६३|२२-०६३|२३] अतो ऽग्निदग्धव्रीहिवदवीजीभूते आश्रये क्लेशानां प्रहीणक्लेश इत्युच्यते /
1940 SK [०६३|२३] उपहतवीजभावे वा लौकिकेन मार्गेण /
1941 SK [०६३|२४] विपर्ययादप्रहीणक्लेशः /
1942 SK [०६३|२४-०६३|२५] यश्चाप्रहीणस्तेन समन्वागतो यः प्रहीणस्तेना समन्वागत इति प्रज्ञप्यते /
1943 SK [०६३|२५-०६३|२६] कुशला अपि धर्मा द्विप्रकारा अयत्नभाविनो यत्नभाविनश्च ये त उच्यन्ते उत्पत्तिप्रतिलम्भिकाः प्रायोगिकाश्चेति /
1944 SK [०६३|२६-०६३|२७] तत्रायत्नभाविभिराश्रयस्य तद्वीजभावानुपघातात् समन्वागत उपघातादसमन्वागत उच्यते समुच्छिन्नकुआशलमूलः /
1945 SK [०६३|२७-०६४|०१] तस्य तूपघातो मिथ्यादृष्ट्या वेदितव्यः /
1946 SK [०६४|०१-०६४|०२] न तु खलु कुशलानां धर्माणां वीजभावस्यात्यन्तं सन्ततौ समुद्घातः /
1947 SK [०६४|०२-०६४|०३] येपुनर्यत्नभाविनस्तैरुत्पन्नैस्तदुत्पत्तिर्वशित्वा विघातात्सन्ततेः समन्वागत उच्यते /
1948 SK [०६४|०३-०६४|०५] तस्माद्वीजमेवात्रानपोद्धृतमनुपहतम् परिपृष्टं च वाशिअत्वकाले समन्वागमाख्यां तभते नान्यद् द्रव्यम् /
1949 SK [०६४|०५] किं पुनरिदं बीजं नाम /
1950 SK [०६४|०५-०६४|०६] यन्नामरूपं फलोत्पत्तौ समर्थ साक्षात् पारंपर्येण वा /
1951 SK [०६४|०६] सन्ततिपरिणामविशेषात् / को ऽयं परिणामो नाम /
1952 SK [०६४|०६-०६४|०७] सन्ततेरन्यथात्वम् / का चेयं सन्ततिः/
1953 SK [०६४|०७] हेतुफलभूतस्त्रैयध्विकाः संस्काराः /
1954 SK [०६४|०७-०६४|०८] यत् तूक्त ᳚लोभेन समन्वागतो ऽभव्यश्चत्वारि स्मृत्युपस्थानानि भावयितुमि᳚ति /
1955 SK [०६४|०८-०६४|०९] तत्राधिवासनं लोभस्याविनोदनं वा समन्वागमः /
1956 SK [०६४|०९-०६४|१०] यावद्धि तस्याधिवासको ऽविनोदको भवति तावत् भव्यस्तानि भावयितुम् /
1957 SK [०६४|१०-०६४|११] एवमयं समन्वागमः सर्वाथा प्रज्ञप्तिधर्मो न तु द्रव्यधर्मः /
1958 SK [०६४|११] तस्य च प्रतिषेधो ऽसमन्वागम इति /
1959 SK [०६४|११-०६४|१२] द्रव्यमेव तु वैभाषिकाः उभयं वर्णयन्ति /
1960 SK [०६४|१२] किं कारणम् / एष हि नः सिद्धान्त इति / सा किलैषा प्रप्तिः
1961 SK [०६४|१३] त्रैयध्विकानां त्रिविधा
1962 SK [०६४|१४] अतीतानां धर्माणामतीता ऽपि प्राप्तिरस्त्यनागत्या ऽपि प्रत्युत्पन्ना ऽपि /
1963 SK [०६४|१४-०६४|१५] एवमनागतपरत्युत्पन्नानां प्रत्येकं त्रिविधा /
1964 SK [०६४|१६] षुभादीनां षुभादिका /
1965 SK [०६४|१७] कुशलाकुशलाव्याकृतानां कुआशलाकुशलाव्याकृतैव यथाक्रमं प्राप्तिः /
1966 SK [०६४|१८] स्वधातुका तदाप्तानां
1967 SK [०६४|१९] ये धर्मास्तद्धात्वाप्तास्तेषां स्वधातुका प्राप्तिः /
1968 SK [०६४|१९-०६४|२०] कामरूपारूप्यावचराणां कामरूपारूप्यावचरी यथाक्रमम् /
1969 SK [०६४|२१] अनाप्ता नां चतुर्विधा // VAक्K_२.३७ //
1970 SK [०६४|२२] अनास्रवाणां धर्माणां चतुर्विधा प्रप्तिः / समासेन त्रैधातुकी चानास्रवा च /
1971 SK [०६४|२३-०६४|२४] तत्राप्रप्तिंसंङ्ख्यानिरोधस्य त्रैधातुकी प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी चानास्रवा च /
1972 SK [०६४|२४] मार्गसत्यस्यानास्रवैव / सेयं समस्य चतुर्विधा भवति /
1973 SK [०६४|२५] शैक्षाणां धर्माणां शैक्षैव प्राप्तिः अक्षैक्षाणामशैक्षानाशैक्षाणान्तुभेदः /
1974 SK [०६५|०१] स निर्दिश्यते
1975 SK [०६५|०२] त्रिधा नशैक्षा ऽशैक्षाणां
1976 SK [०६५|०३] नैवशैक्षानाशैक्षा धर्मा उच्यन्ते सास्रवा धर्मा असंस्काऋतं च /
1977 SK [०६५|०३-०६५|०४] तेषां शैक्षादिभेदेन त्रिविधा प्राप्तिः /
1978 SK [०६५|०४] सास्रवाणां तावत् नैवशैक्षानाशैक्षी प्राप्तिः /
1979 SK [०६५|०४-०६५|०५] अप्रतिसंख्यानिरोधस्य च प्रतिसंख्यानिरोधस्य चानार्येण प्रप्तस्य /
1980 SK [०६५|०५-०६५|०६] तस्यैव शैक्षेण मार्गेण प्रप्तस्य शैक्षी अशैक्षेणाशैक्षी /
1981 SK [०६५|०६-०६५|०७] दर्शनभावनाहेयानां यथाक्रमं दराशनभावनाहेयैव पराप्तिः /
1982 SK [०६५|०७] अहेयानां तु भेदः / स निर्दिश्यते
1983 SK [०६५|०८] अहेयानां द्विधा मता /
1984 SK [०६५|०९-०६५|१०] अप्रहेयाधर्मा अनास्रवाः / तेषामप्रतिसंख्यानिरोधस्य भावनाहेया प्राप्तिः अनार्यप्राप्तस्य च प्रतिसंख्यानिरोधस्य /
1985 SK [०६५|१०-०६५|११] तस्यैवार्यमार्गप्राप्तस्यानास्रवा ऽहेया मार्गसत्यस्य च /
1986 SK [०६५|१२] यदुक्तं ᳚त्रैयध्विकानां त्रिविधे᳚ ति तस्योत्सर्गस्यायमपवादः
1987 SK [०६५|१३] अव्याकृताप्तिः सहजा
1988 SK [०६५|१४] अनिवृताव्याकृतानां सहजैव प्राप्तिर्नाग्रजा न पश्चात्कालजा / दुर्बलत्वात् /
1989 SK [०६५|१४-०६५|१५] तेनतेषामतीतानामतीतैव यावत् प्रत्युत्पन्नानां प्रत्युत्पन्नैव /
1990 SK [०६५|१५-०६५|१६] किं सर्वस्यैवानिवृताव्याकृतस्य /
1991 SK [०६५|१६] न सर्वस्य /
1992 SK [०६५|१७] अभिज्ञानैर्माणिकादृते // VAक्K_२.३८ //
1993 SK [०६५|१८] द्वे अभिज्ञे अव्याकृते निर्माणचित्तं च वर्जयित्वा /
1994 SK [०६५|१८-०६५|१९] तेषां हि बलवत्त्वात् प्रयोगविशेषनिष्पत्तेः पूर्व पश्चात् सहजा प्राप्तिः /
1995 SK [०६५|१९-०६५|२०] शैल्पस्थानिकस्यापि कस्यचिदीर्यापथिकस्या त्यर्थमभ्यस्तस्येच्छन्ति /
1996 SK [०६५|२१] किमनिवृताव्याकृतस्यैव सहजा प्रप्तिरित्याह
1997 SK [०६५|२२] निवृतस्य च रूपस्य
1998 SK [०६५|२३-०६५|२४] निवृताव्याकृतस्यापि विज्ञप्तिरूपस्य सहर्जैव प्राप्तिरधिमात्रेणाप्यविज्ञप्त्यनुत्थापनादौर्बल्यसिद्धेः /
1999 SK [०६५|२५-०६५|२६] यथा ऽव्याकृतानां धर्माणामयं प्रप्तिभेदः किमेवं कुशलाकुशलानामपिकश्चित् प्राप्तिभेदो ऽस्ति /
2000 SK [०६५|२६] अस्तीत्याह /
2001 SK [०६५|२७] कामे रूपस्य नाग्रजा /
2002 SK [०६५|२८] कामावचरस्य विज्ञप्त्यविज्ञप्तिरूपस्याग्रजा प्रप्तिः सर्वथा नास्ति /
2003 SK [०६५|२८-०६५|२९] सहजा चास्ति पश्चात्कालजा च /
2004 SK [०६५|३०] किमप्राप्तेरपि प्राप्तिवत्प्रकारभेदः / नेत्याह / किं तर्हि /
2005 SK [०६६|०१] अक्लिष्टाव्याकृता ऽप्राप्तिः
2006 SK [०६६|०२] अप्राप्तिरनिवृताव्याकृतैव सर्वा / अध्वभेदेन पुनः
2007 SK [०६६|०३] सा ऽतीताजातयोस्त्रिधा // VAक्K_२.३९ //
2008 SK [०६६|०४] प्रत्युत्पन्नस्य नारत्यप्राप्तिः प्रत्युत्पन्ना /
2009 SK [०६६|०४-०६६|०५] अतीतानागतयोस्तु त्रैयध्विकी /
2010 SK [०६६|०६] कामाद्याप्तामलानां च
2011 SK [०६६|०७] त्रिविधेति वर्त्तते / कामाप्तानां कामरूपारूप्यावचरी /
2012 SK [०६६|०७-०६६|०८] एवं रूपारूप्याप्तानामनास्रवाणां च नास्त्यनास्रवा काचिदप्राप्तिः /
2014 SK [०६६|०९] मार्गस्याप्राप्तिरिष्यते /
2015 SK [०६६|१०] पृथग्जनत्वम्
2016 SK [०६६|११] ᳚पृथग्जनत्वं कतमत् / आर्यधर्माणामलाभ᳚ इति शास्त्रपाठः /
2017 SK [०६६|११-०६६|१२] अलाभश्च नामाप्राप्तिः /
2018 SK [०६६|१२] नच पृथग्जनत्वमनास्रवं भवितुमर्हति /
2019 SK [०६६|१२-०६६|१३] कतमेषामार्यधर्माणामलाभः /
2020 SK [०६६|१३] सर्वेषामविशेषवचनात् / स तु यो विना लाभेनालाभः /
2021 SK [०६६|१३-०६६|१४] अन्यथा हि चुद्धो ऽपि श्रावकप्रत्येकबुद्धगोत्रकै रसमन्वागमादनार्यः स्यात् /
2022 SK [०६६|१४-०६६|१५] एवशब्दस्तर्हि पठितव्यः /
2023 SK [०६६|१५] न पठितव्यः / एकपदान्यपि ह्यवधारणानि भवन्ति /
2024 SK [०६६|१५-०६६|१६] तद्यथा अब्भक्षो वायुभक्ष इति /
2025 SK [०६६|१६] दुःखे धर्मज्ञानक्षान्तितत्सहभुवामलाभ इत्यपरे /
2026 SK [०६६|१६-०६६|१७] न च तद्योगा दनार्यत्वप्रसङ्गः /
2027 SK [०६६|१७] तदलाभस्यात्यन्तं हतत्वात् /
2028 SK [०६६|१७-०६६|१८] ते तर्हि त्रिगोत्रा इति कतमेषामलाभः /
2029 SK [०६६|१८] सर्वेषाम् / एवं तर्हि स एव दोषः / पुनः स एव परिहारः /
2030 SK [०६६|१८-०६६|१९] यत्नस्तर्हि व्यर्थः /
2031 SK [०६६|१९] एवं तु साधु यथा सौत्रान्तिकानाम् / कथं च सौत्रान्तिकानाम् /
2032 SK [०६६|२०] ᳚अनुत्पन्नार्यधर्मसन्ततिः पृथग्जनत्वमि᳚ति /
2033 SK [०६६|२१] अथेयमप्राप्तिः कथं विहीयते / यस्य या धर्मस्य प्राप्तिरसौ
2034 SK [०६६|२२] तत्प्राप्तिभुसंचाराद् विहीयते // VAक्K_२.४० //
2035 SK [०६६|२३-०६६|२४] यथा तावदार्यमार्गस्यालाभः पृथग्जनत्वं तस्य लाभात्तद्विहीयते भूमिसंचाराच्च /
2036 SK [०६६|२४] एवमन्येषामपि योज्यम् /
2037 SK [०६६|२४-०६६|२५] विहीयत इति तस्या अप्राप्तेरप्राप्तिरुत्पद्यते प्राप्तिश्छिद्यते /
2038 SK [०६६|२५-०६६|२६] किं पुनरप्राप्तिप्राप्त्योरपि प्राप्त्यप्राप्ती भवतः /
2039 SK [०६६|२६] उभयोरप्युभयं भव्तीत्याहुः /
2040 SK [०६६|२६-०६६|२७] ननु चैवमनवस्था प्रसङ्गः प्रप्तीनाम् /
2041 SK [०६६|२७] नानवस्थाप्रसङ्गः / परस्परसमन्वागमात् /
2042 SK [०६६|२७-०६७|०१] आत्मना तृतीयो हि धर्म उत्पद्यते /
2043 SK [०६७|०१] स च धर्मस्तस्य प्राप्तिः प्राप्तिप्राप्तिश्च /
2044 SK [०६७|०१-०६७|०२] तत्र प्राप्त्युत्पादात्तेन धर्मेण समन्वागतो भवति प्राप्तिप्राप्त्या च /
2045 SK [०६७|०२-०६७|०३] प्राप्तिप्राप्त्युत्पादात् पुनः प्राप्त्यैव समन्वागतो भवत्यतो नानव्स्था /
2046 SK [०६७|०३-०६७|०४] एवं च कृत्व आत्मना तृतीयस्य धर्मस्य कुशलस्य क्लिष्टस्य क्लिष्टस्य वा द्वितीये क्षणे तिस्रः प्राप्तयो जायन्ते /
2047 SK [०६७|०४-०६७|०५] तासां च पुनस्तिस्रो ऽनुप्राप्तय इति षड् भवन्ति /
2048 SK [०६७|०५-०६७|०६] तृतीये क्षणे प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणां नव प्राप्तयः सार्धमनुप्राप्तिभिरित्यष्टादाश भवन्ति /
2049 SK [०६७|०६-०६७|१०] एवमुत्तरोत्तरवाऋद्धिप्रसण्ङ्गेनैताः प्रप्तयो विसर्पन्त्यः सर्वेषामतीतानागतानां क्लेशोपक्लेशक्षणानामुपपत्तिलाभिकानां च कुशलक्षणानां संप्रयोग सहभुवामनाद्यन्तसंसारपर्यापन्नानामनन्ता एकस्य प्राणिनः क्षणे क्षणे उपजायन्ते इत्यनन्तद्रव्याः प्रतिसन्तानमात्मभावक्षणाः सत्त्वानां भवन्ति /
2050 SK [०६७|१०] अत्युत्सवो वतायं प्राप्तीनां वर्त्तते /
2051 SK [०६७|११] केवलं तु अप्रतिघातिन्यो यतो ऽवकाशमाकाशे लभन्ते /
2052 SK [०६७|११-०६७|१२] इतरथा ह्याकाशे ऽप्यव काशो न स्यात् द्वितीयस्य प्राणिनः //
2053 SK [०६७|१३] अथ केयं सभागता /
2054 SK [०६७|१४] सभागता सत्त्वसाम्यं
2055 SK [०६७|१५] सभागता नाम द्रव्यम् / सत्त्वानां साकृश्यं निकायस भाग इत्यस्याः शास्त्रे संज्ञा /
2056 SK [०६७|१६] सा पुनरभिन्ना भिन्ना च / अभिन्ना सर्वसत्त्वानां सत्त्वसभागता /
2057 SK [०६७|१६-०६७|१७] प्रतिसत्त्वं सर्वेषु भावात् /
2058 SK [०६७|१७-०६७|१८] भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रीपुरुषोपासकभिक्षुशैक्षा शैक्ष्यादिभेदेन प्रतिनियता धर्मसभागता /
2059 SK [०६७|१८-०६७|२०] पुनः स्क्न्धायतनधातुतः यदि सत्वसभागता द्रव्यमविशिष्तं न स्यात् अन्योन्यविशेषभिन्नेषु सत्त्वेषु सत्त्वस्त्त्व इत्यभेदेन बुद्धिर्न स्यात् प्रज्ञप्तिश्च /
2060 SK [०६७|२०-०६७|२१] एवं स्कन्धादि बुद्धिप्रज्ञप्तय्यो ऽपि योज्याः /
2061 SK [०६७|२१] स्याच्च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान्न च प्रतिलभेतेति /
2062 SK [०६७|२२] चतुष्कोटिकः / प्रथमा कोटिः यतश्च्यवते तत्रैवोपपद्यमानः /
2063 SK [०६७|२२-०६७|२३] द्वितीया नियाममव्क्रामन् /
2064 SK [०६७|२३] स हि पृथग्जनसभागतां विजह्यादार्यसभागतां प्रतिलभते /
2065 SK [०६७|२४] तृतीया गतिसंचारात् / चतुर्थ्येतानाकारान् स्थापयित्वा / [०६७|२५] यदि पृथग्जनसभागता नाम द्रव्यमस्ति किं पुनः पृथग्जनत्वेन /
2066 SK [०६७|२६] नहि मनुष्यसभागताया अन्यन्मनुष्यत्वं कल्प्येते /
2067 SK [०६७|२६-०६८|०२] नैव च लोकः सभागतां पश्यत्यरूपिणीत्वात् नचैनां प्रज्ञया परिच्छिनत्ति प्रतिपद्यते च सत्वानां जात्यभेदमिति सत्या अपि तस्याः कथं तत्र व्यापारः /
2068 SK [०६८|०२] अपिचासत्त्वसभागता ऽपि किं नेष्यते /
2069 SK [०६८|०३-०६८|०४] शालियवमुद्गमासाम्रपनसलोहकाञ्चनादीनां स्वजातिसादृश्यात् तासां च सभागतानामन्योन्यभिन्नानां कथमभेदेन सभागता प्रज्ञप्तिः क्रियते /
2070 SK [०६८|०४-०६८|०५] वैशेषिकाश्चैवं द्योतिता भवन्ति /
2071 SK [०६८|०५] तेषामपि ह्येष सिद्धान्तः /
2072 SK [०६८|०५-०६८|०६] सामान्यपदार्थो नामास्ति यतः समानप्रत्ययोत्पत्तिरतुल्यप्रकारेष्वपीति /
2073 SK [०६८|०६] अयं तु तेषां विशेषः /
2074 SK [०६८|०६-०६८|०७] स एको ऽप्यनेकस्मिन् वर्त्तते यदि द्योतिता यदि न द्योतिता /
2075 SK [०६८|०७-०६८|०८] अस्त्येषा तु सभागता सूत्रे वचनादिति वैभाषिकाः /
2076 SK [०६८|०८-०६८|०९] उस्तं हि भगवता ᳚स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतामि᳚ति /
2077 SK [०६८|०९] उक्तमेतन्नतूक्तं द्रव्यान्तरमिति / का तर्हि सा /
2078 SK [०६८|०९-०६८|१०] त एव हि तथाभूताः संस्कारा येषु मनुष्यादिप्रज्ञप्तिः शाल्यादिषु सभागतावत् /
2079 SK [०६८|१०-०६८|११] तत्त्वेतन्न वर्णयन्ति /
2080 SK [०६८|१२] अथ किमिदमासंज्ञिकं नाम /
2081 SK [०६८|१३] आसंज्ञिकमसंज्ञिषु /
2082 SK [०६८|१४] निरोधश्चित्तचैत्तानां
2083 SK [०६८|१५-०६८|१७] असंज्ञिसत्त्वेषु देवेपूपपन्नानां यश्चित्तचैत्तानां निरोधस्तदासंज्ञिकंनाम द्रव्यं येन चित्तचैत्ता अनागते ऽध्वनि कालान्तरं संनिरुध्यन्ते नोत्पत्तुं लभन्ते /
2084 SK [६८१|७-०६८१७] नदीतोयसंनिरोधवत् /
2085 SK [०६८|१७] तत् पुनरेकान्तेन
2087 SK [०६८|१९] कस्य विपाकः / असंज्ञिसमापत्तेः / कतमे ते सत्त्वा येष्वसंज्ञिसत्त्वाः /
2088 SK [०६८|२०] ते बृहत्फलाः // VAक्K_२.४१ //
2089 SK [०६८|२१] बृहत्फला नाम देवा येषां केचिदसंज्ञिसत्त्वाः प्रदेशे भवन्ति ध्यानान्तरिकावत् /
2090 SK [०६८|२२] किं पुनस्तेनैव कदाचिअत् संशिनो भवन्ति / भवन्त्युपपत्तिकाले च्युतिकाले च /
2091 SK [०६८|२३-०६८|२४] ᳚प्रकृष्टमपि कालं स्थित्वा सह संज्ञोत्पादात्तेषां सत्त्वानां तत्स्थानात् च्युतिर्भवती᳚ति सूत्रे पाथः /
2092 SK [०६८|२४-०६८|२५] ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते नान्यत्र /
2093 SK [०६८|२५-०६८|२६] पूर्वसमापत्तिसंस्कारपरिक्षयात् अपूर्वानुपचयाच्च क्षिप्ता इव क्षीणवेगा इषवः पृथिवीं पतन्ति /
2094 SK [०६८|२६-०६८|२७] येन च तत्रोपपत्तव्यं तस्यावश्यं कामावचरं कर्मापरपर्यायवेदनीयंभवति /
2095 SK [०६८|२७] यथोत्तरकौरवाणां देवोपपात्तिवेदनीयम् /
2096 SK [०६८|२८] अथ समापत्ती इति यदुक्तं कतमे ते समापत्ती /
2097 SK [०६८|२८-०६८|२९] असंज्ञिसमापत्तिर्निरोधसमापत्तिश्च /
2098 SK [०६८|२९] केयमसंज्ञिसमापत्तिः /
2099 SK [०६८|२९-०६८|३०] यथैवासंज्ञिकमुक्तं ᳚निअरोधश्चित्तचैत्तानामि᳚ति /
2100 SK [०६९|०१] तथा ऽसंज्ञिसमापत्तिः
2101 SK [०६९|०२] असंज्ञिनां समापत्तिरसंज्ञा वे त्यसंज्ञिसमापत्तिः /
2102 SK [०६९|०२-०६९|०३] सा ऽपि चित्तचैत्तानां निरोधः /
2103 SK [०६९|०३] एतावत्तथाशब्देनान्वाकृष्यते / सा तु समापत्तिः /
2104 SK [०६९|०४] ध्याने ऽन्त्ये
2105 SK [०६९|०५] अन्त्यध्यानं चतुर्थं तत्पर्यापन्ना ऽसौ नान्यभुमिका / किमर्थमेनां समापद्यन्ते /
2106 SK [०६९|०६] निःसृतीच्छया /
2107 SK [०६९|०७] निःसरणमेषां मन्यन्ते / अतो मोक्षकामतया समापद्यन्ते /
2108 SK [०६९|०७-०६९|०८] आसंज्ञिकं विपाकत्वात् अव्याकृतमिति सिद्धम् /
2111 SK [०६९|१०] कुशलैवासंज्ञिसमापत्तिः / तस्या असंज्ञिसत्त्वेषु पञ्चस्कन्धको विपाकः / कुशला सती
2112 SK [०६९|११] उपपद्यवेद्यैव
2113 SK [०६९|१२] उपपद्यवेदनीयैव / न दृष्टधर्मपर्यायवेदनीया नापि अनियता /
2114 SK [०६९|१२-०६९|१३] यो ऽप्येनामुत्पाद्य परिहीयते सो ऽपि किलावश्यं पुनरुत्पाद्यासंज्ञिसत्त्वेषूपपद्यत इति /
2115 SK [०६९|१३-०६९|१४] अत एव तल्लाभी नियामं नावक्रामति /
2116 SK [०६९|१४] सेयं पृथग्जनस्यैवेष्यते /
2118 SK [०६९|१६] नह्यार्यां असंज्ञिसमापत्तिं समापद्यन्ते विनिपातस्थानमिवैतां पश्यन्तः/
2119 SK [०६९|१६-०६९|१७] निःसरणसंज्ञिनो हि तां समापद्यन्ते /
2120 SK [०६९|१७-०६९|१८] अथ किमेनामार्याश्चतुर्थध्यानलाभादतीतानागतां प्रतिलभन्ते ध्यानवत् /
2121 SK [०६९|१८] अन्ये ऽपि अतावन्न प्रतिलभन्ते / किं कारणम् /
2122 SK [०६९|१८-०६९|१९] एषा ह्युचिता ऽपि सती महाभिसंस्कारसाध्यत्वादचित्तकत्वाच्च /
2123 SK [०६९|२०] एकाध्विकाप्यते // VAक्K_२.४२ //
2124 SK [०६९|२१] एककालिकेत्यर्थः / वर्त्तमानकालिकैव लभ्यते
2125 SK [०६९|२१-०६९|२२] यथा प्रातिमोक्षसंवरः /
2126 SK [०६९|२२-०६९|२३] लब्धया तु द्वितईयादिषु क्षणेष्वतीतया ऽपि समन्वागतो भवति यावन्न त्यजति /
2127 SK [०६९|२३] अचित्तक त्वान्नानागता भाव्यते /
2128 SK [०६९|२४] निरोधसमापत्तिरिदानिं कतमा /
2129 SK [०७०|०१] निरोधाख्या तथैवेयं
2130 SK [०७०|०२] यथैवासंज्ञिमापत्थिः / तथाशब्देन कः प्रकारो गृह्यते / ᳚निरोधश्चित्तचैत्तानामि᳚ति /
2131 SK [०७०|०३] अयं त्वस्या विशेषः / इयं
2132 SK [०७०|०४] विहारार्थं
2133 SK [०७०|०५] शान्तविहारसंज्ञापूअर्वकेण मनसिकारेण एनां समापद्यन्ते /
2134 SK [०७०|०५-०७०|०६] तां तु निःसरणसंज्ञा पूर्वकेण /
2135 SK [०७०|०६] सा खल्वपि चतुर्थध्यानभूमिका / इयं तु
2136 SK [०७०|०७] भवाग्रजा /
2137 SK [०७०|०८] नैवसंज्ञानासंज्ञायतनभूमिकैव / सा चेयं
2139 SK [०७०|१०] कुशलैव न क्लिल्ष्टा नाव्याकाऋता / कुशला सती
2140 SK [०७०|११] द्विवेद्या ऽनियता च /
2141 SK [०७०|१२] द्वयोः कालयोर्वेद्या उपपद्यवेदनीया चापरपर्यायवेदनीया च /
2142 SK [०७०|१२-०७०|१३] अनियता च विपाकं प्रति कदाचिन्न विपच्यते /
2143 SK [०७०|१३-०७०|१४] यदीह परिनिअर्वायात् तस्या हि भवाग्रे चतुःस्कन्धको विपाकः /
2144 SK [०७०|१४] सा चेयमेकान्तेन
2146 SK [०७०|१६-०७०|१७] नहि पृथग्जना निरोधसमापत्तिमुत्पादयितुं शक्नुवन्त्युच्छेदभीरुत्वादार्यमार्गबलेन चोत्पादनाद्दृष्टधर्मनिर्वाणस्य तदधिमुक्तितः /
2147 SK [०७०|१७] आर्यस्यापि चेयं न वैराग्यलभ्या / [०७०|१८] किं तर्हि /
2148 SK [०७०|१९] आप्या प्रयोगतः // VAक्K_२.४३ //
2149 SK [०७०|२०] प्रयोगलभ्यैवेयम् / न चातीता लभ्यते नाप्यनागत भाव्यते /
2150 SK [०७०|२०-०७०|२१] चित्तबलेन तद्भावनात् /
2151 SK [०७०|२१] किं भगवतो ऽपि परायोगिकी / नेत्याह /
2152 SK [०७०|२२] बोधिलभ्या मुनेः
2153 SK [०७०|२३-०७०|२४] क्षयज्ञानसमनं कालं बुद्धा भगवन्त एनां लभन्ते नास्ति किञ्चिद्बुद्धानां प्रायोगिकं नाम /
2154 SK [०७०|२४] इच्छामात्रप्रतिबद्धो हि तेषां सर्वगुणसंपात्संमुखीभावः /
2155 SK [०७०|२५] तस्मादेषां सर्ववैराग्यलाभिकम् /
2156 SK [०७०|२५-०७०|२६] कथं खल्वि दानीमनुत्पादितायां निरोधसमापत्तौ क्षयज्ञानकाले भगवानुभयोतोभागविमुक्तः सिध्यति /
2157 SK [०७०|२७-०७१|०१] सिध्यत्युत्पादितायामिव तस्यां वशित्वात् प्रागेव तां बोधिसत्त्वः शैक्ष्यावस्थायामुत्पादयतीति पाश्चत्त्याः /
2158 SK [०७१|०१] अथ कस्मादेवं नेष्यते /
2159 SK [०७१|०१-०७१|०२] एवं च स्थविरोपगुप्तस्यापीदं नेत्रीपदं प्रामाणिकं भविष्यति /
2160 SK [०७१|०२-०७१|०३] ᳚निरोधसमापत्तिमुत्पाद्य क्षयज्ञानमुत्पादयतीति वक्तव्यं तथागत᳚इति /
2162 SK [०७१|०५] नहि पूर्वं तस्या उतपादनं युज्यत इति काश्मीरकाः / किं कारणम् /
2163 SK [०७१|०६] चतुस्त्रिंशत्क्षणाप्तितः /
2164 SK [०७१|०७] चतुस्रिंशता किल चित्तक्षणैर्बोधिसत्त्वो बोधिमनुप्राप्तः /
2165 SK [०७१|०७-०७१|०९] सत्याभिसमये षोडशभिर्भवाग्रवैराग्ये चाष्टादशभिर्नवप्रकाराणां क्लेशानां प्रहाणाय नवानन्तर्यविमुक्तिमार्गोत्पादनात् /
2166 SK [०७१|०९] त एते चतुस्त्रिंशत् भवन्ति /
2167 SK [०७१|०९-०७१|१०] आकिञ्चन्यायतनवीतरागस्यास्यनियामावक्रमणादधोभूमिका न पुनःः प्रहेया भवन्ति /
2168 SK [०७१|१०-०७१|११] अत एतस्मिन्नन्तरे विसभागचित्तासंभवान्निरोधसमापत्तेरयोग इति /
2169 SK [०७१|११-०७१|१२] किं पुनः स्याद्यदि विसभागचित्तमन्तरा संमुखीक्कुर्यात् /
2170 SK [०७१|१२-०७१|१३] व्युत्थानाशयः स्यादव्युत्थानाशयाश्च बोधिसत्त्वाः /
2171 SK [०७१|१३] सत्यमव्युत्थानाशया नतु आस्रव मार्गाव्युत्थानात् /
2172 SK [०७१|१३-०७१|१४] कथं तर्हि ᳚न तावत् भेत्स्यामि पर्यङ्कमप्राप्ते आस्रवक्षय᳚ इति /
2173 SK [०७१|१४-०७१|१५] अस्याशयस्याव्युत्थाना देकायन एव सर्वार्थपरिसमाप्तेरिति बहिर्देशकाः /
2174 SK [०७१|१५-०७१|१६] पूर्वमेव तु वर्णयन्ति काश्मीराः /
2175 SK [०७१|१६] यद्यप्यनयोः समापत्त्योर्बहुप्रकारो विशेषः /
2176 SK [०७१|१७] कामरूपाश्रये भूते
2177 SK [०७१|१८] उभे अपि त्वेते असंज्ञिनिरोधसमापत्ती कामधातौ रूपधातौ चोत्पत्स्येते /
2178 SK [०७१|१८-०७१|१९] ये त्वसंज्ञिसमापत्तिं रूपधातौ नेच्छन्ति तेषामयं ग्रन्थो विरुध्यते /
2179 SK [०७१|१९-०७१|२०] स्याद्रूपभवो न चासौ भवः पञ्चव्यवचारः /
2180 SK [०७१|२०-०७१|२२] स्याद्रूपावचराणां सत्त्वानां संज्ञिनां देवानां विसभागे चित्ते स्थितानामसंज्ञिसमापत्तिं निरोधसमापर्त्तिं च समापन्नानामसंज्ञिनां च देवानामासंज्ञिके प्रतिलब्धे यो भव᳚ इति /
2181 SK [०७१|२२] अत उभे अप्येते कामरूपाश्रये /
2182 SK [०७१|२२-०७१|२३] तत्रापि त्वयं विशेषः /
2183 SK [०७१|२४] निरोधाख्यादितो नृषु // VAक्K_२.४४ //
2184 SK [०७१|२५] निरोधसमापत्तिः प्रथमतो मनुष्येपूत्पाद्यते पश्चाद्रूपधातौ परिहीणपूर्वैः /
2185 SK [०७१|२६] किमतो ऽप्यस्ति परिहाणिः / अस्तीत्याह /
2186 SK [०७१|२६-०७२|०१] अन्यथा हि न्दायि सूत्रं विरुध्येत /
2187 SK [०७२|०१-०७२|०२] ᳚इहायुष्मन्तो भिक्षुः शीलसंपन्नश्च भवति समाधिसंपन्नश्च प्रज्ञासंपन्नश्च /
2188 SK [०७२|०२-०७२|०५] सो ऽभीक्ष्णं संज्ञावेदयित निरोधं समापद्यते च व्युत्तिष्ठते चास्ति चैतत् स्थानमिति यथाभूतं प्रजानाति स न हैव दृष्ट एव धर्मे प्रतिपत्त्ये वाज्ञामारागयति नापि मरणकालसमये भेदाच्च कायस्यातिक्रम्य देवान् कवडीकाराहार भक्षानन्यतरस्मिन् दिव्ये मनोमये काय उपपद्यते /
2189 SK [०७२|०५-०७२|०६] स तत्रोपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्टहते चास्ति चैतत् स्थानमिति यथाभूतं प्रजानाती᳚ति /
2190 SK [०७२|०६-०७२|०७] अत्र हि दिव्यो मनोमयः कायो रूपावचर उक्तो भगवता /
2191 SK [०७२|०७] इयं च समापत्तिर्भावाग्रिकी /
2192 SK [०७२|०८] तत्कथमपरिहीणस्य तल्लाभिनो रूपधातौ स्यादुपपत्तिः /
2193 SK [०७२|०८-०७२|०९] चतुर्थध्यानभूमिकामपि निरोधसभापतिं निकायान्तरीया इच्छन्ति /
2194 SK [०७२|०९] तेषां विनापि परिहाण्या सिध्यत्येतत् /
2195 SK [०७२|१०] एतदेव तु न सिध्यति / चतुर्थध्यानभूमिका ऽप्यसावस्तीति / किं कारणम् /
2196 SK [०७२|११] ᳚नवानुपूर्वसमापत्तय᳚ इति सूत्रे वचनात् /
2197 SK [०७२|११-०७२|१२] यद्येष नियमः कथं व्युत्क्रान्तसमापत्तयो भवन्ति /
2198 SK [०७२|१२] प्राथमकल्पिकं प्रत्येष नियमः /
2199 SK [०७२|१२-०७२|१३] प्रप्तप्रकामवाशित्वास्तु सन्तो विलङ्घ्यापि समापद्यन्ते /
2200 SK [०७२|१३] एवमनयोः समापत्त्योर्भूमितो ऽपि विशेषः /
2201 SK [०७२|१४] चतुर्थध्यानतया ऽग्राभूमिकत्वात् /
2202 SK [०७२|१४-०७२|१५] प्रयोगतो ऽपि निःसरणविहारसंज्ञापूर्वकमनसिकारप्रयोगात् /
2203 SK [०७२|१५] संतानतो ऽपि पृथग्जनार्यसंतानत्वात् /
2204 SK [०७२|१५-०७२|१६] फलतो ऽप्यासंज्ञिकभवाग्रफलत्वात् /
2205 SK [०७२|१६-०७२|१७] वेदनीयतो ऽपि नियतानियतोपपद्योभयथावेदनीयत्वात् /
2206 SK [०७२|१७] प्रथमोत्पादनतो ऽपि द्विधातुमनुष्योत्पादनात् /
2207 SK [०७२|१७-०७२|१८] कस्मात् पुनरेते चित्ततचैत्तनिरोधस्वभावे सत्यावसंज्ञिसमापत्तिः संज्ञावेदितनिरोधसमापत्तिश्चोच्यते /
2208 SK [०७२|१८-०७२|१९] तत्प्रातिकूल्येन तत्समापत्तिप्रयोगात् /
2209 SK [०७२|१९] वेदनादिज्ञाने ऽपि परचित्तज्ञानवचनवत् /
2210 SK [०७२|१९-०७२|२०] कथमिदानीं बहुकालं निरुद्धाच्चित्तात् पुनरपि चित्तं जायते /
2211 SK [०७२|२०-०७२|२१] अतीतस्याप्यस्तित्वात् इष्यते वैभाषिकैः समनन्तरप्रत्ययत्वम् /
2212 SK [०७२|२१] अपरे पुनराहुः /
2213 SK [०७२|२१-०७२|२२] कथं तावद् रूपोपपन्नानां चिरनिरुद्धे ऽपि रूपे पुनरपि रूपं जायते /
2214 SK [०७२|२२] चित्ताद् एव हि तज् जायते न रूपात् /
2215 SK [०७२|२२-०७२|२३] एवं चित्तम् अप्य् अस्माद् एव सेन्द्रियात् कायाज् जायते न चित्तात् /
2216 SK [०७२|२३-०७२|२४] अन्योन्यबीजकं ह्य् एतदुभयं यदुत चित्तं च सेन्द्रियश्च काय इति पूर्वाचार्याः /
2217 SK [०७२|२४-०७२|२५] भदन्तवसुमित्रस्त्वाह परिपृच्छायां ᳚यस्याचित्तिका निरोधसमापत्तिस्तस्यैष दोषो मम तु सचित्तिका समापत्तिरि᳚ति /
2218 SK [०७२|२६] ति / भदन्तघोषक आह तदिदं नोपपद्यते /
2219 SK [०७२|२६-०७२|२७] ᳚सति हि विज्ञाने त्रयाणां संनिपातः स्पर्शः /
2220 SK [०७२|२७-०७२|२८] स्पर्शप्रत्यया च वेदना संज्ञा चेतन्ऽऽएत्युक्तं भगवता /
2221 SK [०७२|२८] अतः संज्ञावेदनयोरप्यत्र निरोधो न स्यात् / अथापि स्यात् /
2222 SK [०७३|०१] यथा वेदनाप्रत्यया तृष्णे᳚त्युक्तम् /
2223 SK [०७३|०१-०७३|०२] सत्यामपि तु वेदनायामर्हतो न तृष्णोत्पत्तिरेवं सत्यपि स्पर्शे वेदन्नादयो न स्युरिति /
2224 SK [०७३|०२] तस्याविशेषितत्वात् /
2225 SK [०७३|०२-०७३|०३] अविद्यासंस्पर्शजं हि वेदितं प्रतीत्योत्पन्ना तृष्णेत्युक्तं नतु वेदनोत्पत्तौ स्पर्शो विशेषित इत्यसमानमेतत् /
2226 SK [०७३|०४] तस्मादचित्तिका निरोधसमापत्तिरिति वैभाषिकाः /
2227 SK [०७३|०४-०७३|०५] कथमचित्तिकायाः समापत्तित्वम् /
2228 SK [०७३|०५] महाभूतसमतापादनात् /
2229 SK [०७३|०५-०७३|०६] समापत्तिचित्तेन च तां समापद्यन्ते समागच्छन्तीति समापत्तिः /
2230 SK [०७३|०६] किं पुनरेते समापत्ती द्रव्यतः स्त उताहो प्रज्ञप्तितः /
2231 SK [०७३|०७] द्रव्यत इत्याह / चित्तोत्पत्तिप्रतिबन्धनात् / न / समापत्तिचित्तेनैव तत्प्रतिबन्धनात् /
2232 SK [०७३|०८-०७३|०९] समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते येन कालान्तरं चित्तस्या प्रवृत्तिमात्रं भवति /
2233 SK [०७३|०९] तद्विरुद्धाश्रयापादनात् /
2234 SK [०७३|०९-०७३|११] या ऽसौ समापत्तिरिति प्रज्ञप्यते तच्चाप्रवृत्तिमात्रं न पूर्वमासीन्न पश्चात् भवति व्युत्थितस्येति संस्कृता ऽसौ समापत्तिः प्रज्ञप्यते /
2235 SK [०७३|११] अथवा आश्रयस्यैव तथा समापादनं समापत्तिः /
2236 SK [०७३|११-०७३|१२] एवमासंज्ञिकमपि द्रष्टव्यम् /
2237 SK [०७३|१२-०७३|१३] चित्तमेवासौ तत्र चित्तप्रवृत्तिविरुद्धं लभते तच्चाप्रवृत्तिमात्रमासंज्ञिकं प्रज्ञप्यत इति तदेतन्न वर्णयन्ति /
2238 SK [०७३|१३] व्याख्याते समापत्ती //
2239 SK [०७३|१४] जीवितं कतमत् /
2240 SK [०७३|१५] आयुर्जीवितम्
2241 SK [०७३|१६] एवं ह्युक्तमभिधर्मे ऽजीवितेन्रियं कतमत् / त्रैधातुकमायुरि᳚ति /
2242 SK [०७३|१६-०७३|१७] एतच्चैव न ज्ञायते आयुर्नाम क एष धर्म इति /
2243 SK [०७३|१८] आधार ऊष्मविज्ञानयोर्हि यः /
2244 SK [०७३|१९] इदमुक्तं भगवता
2245 SK [०७३|२०-०७३|२१] ᳚आयुरूष्माथ विज्ञानं यदा कायं जहत्यमी / अपविद्धस्तदा शेते यथा काष्ठमचेतन᳚ इति //
2246 SK [०७३|२२] तद् य ऊष्मणो विज्ञानस्य चाधारभूतो धर्मः स्थितिहेतुस्तदायुः /
2247 SK [०७३|२२-०७३|२३] तस्येदानीमायुषः क आधारभूतः /
2248 SK [०७३|२३-०७३|२४] एवं तर्हि परस्परापेक्ष्यवृत्तित्वादेषां कः पूर्वं निवर्तिष्यते /
2249 SK [०७३|२४] यद्वशादिभवौ विवर्त्तिष्येते इति नित्यानिवृत्तिप्रसङ्गः /
2250 SK [०७३|२५] आयुषस्तर्हि कर्माधारभूतं यावदाक्षिप्तं कर्मणा तावदनुवर्त्तनात् /
2251 SK [०७३|२५-०७३|२६] ऊष्मविज्ञानयोरपि किमर्थं कर्मैवाधारभूतं नेष्यते /
2252 SK [०७३|२६] मा भूत् सर्वं विज्ञानमामरणाद्विपाक इति /
2253 SK [०७३|२७] ऊष्मणस्तर्हि कर्माधार्भूतं भविष्यति ऊष्मा च विज्ञानस्य /
2254 SK [०७३|२७-०७३|२८] एवमप्यारूप्येष्वनाधारं विज्ञानं स्यादूष्माभावात् /
2255 SK [०७३|२८] तस्य पुनः कर्माधारो भविष्यति /
2256 SK [०७३|२८-०७४|०१ न वै लभ्यते कामचारो यत् क्वचिदेवोष्मा विज्ञानस्याधारो भविष्यति क्वचिदेव कर्मेति /
2257 SK [०७४|०२] उक्तं चात्र / किमुक्तम् /
2258 SK [०७४|०२-०७४|०३] ᳚मा भूत्सर्वं विज्ञानमामरणाद्विपाक᳚ इति /
2259 SK [०७४|०३] तस्मादस्त्येव तयोराधारभूतमायुः /
2260 SK [०७४|०३-०७४|०४] नहि नास्तीति ब्रूमो नतु द्रव्यान्तरम् /
2261 SK [०७४|०४] किं तर्हि / त्रैधातुकेन कर्मणा निकायसभागस्य स्थितिकालावेधः /
2262 SK [०७४|०५-०७४|०६] यावद्धि कर्मणा निकायसभागस्यावेधः कृतो भवत्येतावन्तं कालमवस्थातव्यमिति तावत् सो ऽवतिष्ठते तदायुरित्युच्यते /
2263 SK [०७४|०६-०७४|०७] सस्यानां पाककालावेधवत् क्षिप्तेषुस्थितिकालावेधवच्च /
2264 SK [०७४|०७-०७४|०८] यस्तु मन्यते संस्कारो नाम कश्चिन् गुणविशेष इषौ जायते यद्वशाद्गमनमापतनाद् भवतीति /
2265 SK [०७४|०८-०७४|०९] तस्य तदेकत्वात् प्रतिपन्नाभावाच्च देशान्तरैः शीघ्र तरतमप्राप्तिकालभेदा नुपपत्तिः पतनानुपपत्तिश्च /
2266 SK [०७४|०९-०७४|१०] वायुना तत्प्रतिबन्ध इति चेत् /
2267 SK [०७४|१०] अर्वाक्पतनप्रसङ्गो न वा कदाचिद्वायोरविशेषात् /
2268 SK [०७४|१०-०७४|११] एवं तु वर्णयन्ति द्रव्यान्तरमेवायुरस्तीति /
2269 SK [०७४|१२] अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथापि /
2270 SK [०७४|१२-०७४|१३] प्रज्ञप्तावुक्तम् ᳚आयुःक्षयान्मरणं न पुण्यक्षयादि᳚ति /
2271 SK [०७४|१३] चतुष्कोटिः /
2272 SK [०७४|१३-०७४|१४] प्रथमा कोटिरायुर्विपाकस्य कर्मणः पर्यादानात् /
2273 SK [०७४|१४] द्वितीया भोगविपाकस्य / तृतीयोभयोः /
2274 SK [०७४|१४-०७४|१५] चतुर्थी विषमापरिहारेण /
2275 SK [०७४|१५] आयुरुत्सर्गाच्चेति वक्तव्यक्म् / न वक्तव्यम् / आयुःक्षयादेव तन्मरणम् /
2276 SK [०७४|१६] प्रथमकोट्यन्तर्गमात् /
2277 SK [०७४|१६-०७४|१७] क्षीणे त्वायुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम् /
2278 SK [०७४|१७] तस्मादुभयक्षये सति मरणमायुःक्षयादित्युक्तम् /
2279 SK [०७४|१७-०७४|१८] ज्ञानप्रस्थाने ऽप्युक्तम् ᳚आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् /
2280 SK [०७४|१८] सकृदुत्पन्नं तिष्ठनीति वक्तव्यम् /
2282 SK [०७४|१९-०७४|२०] कामावचराणां सत्त्वानामसंज्ञिसमापर्त्तिं निरोधसमापर्त्तिं च समापन्नानां सन्तत्युपनिबद्धं वर्त्तत इति वक्तव्यम् /
2283 SK [०७४|२०-०७४|२१] समापन्नानां रूपारूप्यावचराणां च सत्त्वानां सक्र्दुत्पन्नं तिष्ठतीति वक्तव्यम्᳚ /
2284 SK [०७४|२१] को ऽस्य भाषितस्यार्थः /
2285 SK [०७४|२१-०७४|२२] यस्याश्रयोपघातादुपाघतस्तत्सन्तत्यधीनत्वात् प्रथमम् /
2286 SK [०७४|२२-०७४|२३] यस्य त्वाश्रयोपघात एव नास्ति तद्यथो त्पन्नावस्थानात् द्वितीयम् /
2287 SK [०७४|२३-०७४|२४] सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः /
2288 SK [०७४|२४] तस्मादस्त्यकालमृत्युः /
2289 SK [०७४|२४-०७४|२५] सूत्र उक्तम् ᳚चत्वार आत्मभावप्रतिलम्भाः /
2290 SK [०७४|२५] अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना क्रमते न परसंचेतने᳚ति /
2291 SK [०७४|२६] चतुष्कोटिकः /
2292 SK [०७४|२६-०७४|२७] आत्मसंचेतनैव क्रमते कामधातौ क्रीडाप्रमोष्काणां देवानां मनःप्रदूषकाणां च /
2293 SK [०७४|२७-०७४|२८] तेषां हि प्रहर्षमनःओप्रदोषाभ्यां तस्मात् स्थानाच्च्युतिर्भवति नान्यथा/
2294 SK [०७४|२८] दुद्धानां चेति वक्तव्यम् /
2295 SK [०७५|०१] स्वयंमृत्युत्वात् / परसंचेतनैव क्रमते गर्भाण्डगतानाम् /
2296 SK [०७५|०१-०७५|०२] उभयमप्येषां कामावचराणां प्रायेण /
2297 SK [०७५|०२-०७५|०६] नोभयं सर्वेषा मन्तराभविकाणां रूपारूप्यावचराणामनेकजातीयानां कामावचराणां तद्यथा नारकाणा मुत्तरकौरवाणां दर्शनमार्गमैत्रीनिरोधासंज्ञि समापत्तिसमापन्नानां राजर्षिजिनदूतजिनादिष्ट धर्मिलो त्तरगङ्गिल श्रेष्ठिपुत्रयशः दुमारजीवकादीनां सर्वेषा चरमभविकानांवोधिसत्त्व मातुस्तद्गर्भायाः चक्रवर्त्तिनश्चक्रवर्त्तिमातुश्च तद्गर्भायाः/
2298 SK [०७५|०६-०७५|०७] अथ कस्मात्सूत्र उक्तं कतमे ते भदन्त सत्त्वा येषां नात्मसंचेतना क्रमते न परसंअचेतना /
2299 SK [०७५|०७-०७५|०८] नैवसंज्ञानासंज्ञायतनोपगाः शारिपुत्रे᳚ति /
2300 SK [०७५|०८-०७५|०९] अन्येषु किल ध्यानरूप्येध्वात्मसंचेतनास्वभूमिक आर्यमार्गः परसंचेतना उत्तरभूमिसामन्तकस्तत्र चोभयं नास्तीति /
2301 SK [०७५|०९-०७५|१०] ननु चैवं तत्रापि परभूमिक आर्यमार्गः परसंचेतना प्राप्नोति /
2302 SK [०७५|१०] पर्यन्तग्रहणात्तर्हि तदादिसंप्रत्ययः /
2303 SK [०७५|११] क्वचिदादिसंप्रत्ययः क्वचिदादिना पर्यन्तो ऽपि प्रतीयते / यदाह /
2304 SK [०७५|११-०७५|१२] ᳚तद्यथा देवा ब्रह्मकायिकाः /
2305 SK [०७५|१२] इयं प्रथमा सुखोपपत्तिरिति / क्वचित् पर्यन्तेनादिरपि प्रतीयते /
2306 SK [०७५|१३] यदाह / तद्यथा देवा आभास्वराः / इयं द्वितीया सुखोपपत्तिरि᳚ति
2307 SK [०७५|१३-०७५|१४] अयमत्र तद्यथाशब्दो दृष्टान्तवाचक इति युक्त एतस्माच्छेषसं प्रत्ययः /
2308 SK [०७५|१४-०७४|१५] एष हि दृष्टान्तधर्मो यदेकमपि तज्जातीयकं दृश्यते /
2309 SK [०७५|१५-०७५|१६] स चेह तद्यथाशब्दो नास्तीत्यनुपसंहार एषः /
2310 SK [०७५|१६] यद्ययं तद्यथाशब्दो दृष्टान्तवाचकः स्यादिह न प्राप्नुयात् /
2311 SK [०७५|१६-०७५|१७] सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथा मनुष्यस्तदेकत्याश्चदेवा इति /
2312 SK [०७५|१७-०७५|१८] तस्मादुपदर्शनार्थ एवायं द्रष्टव्य इत्यलमतिप्रसङ्गेन /
2313 SK [०७५|१८] उक्तं जीवितम् //
2314 SK [०७५|१९] लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता // VAक्K_२.४५ //
2315 SK [०७५|२०] एतानि हि संस्कृतस्य चत्वारि लक्षणानि /
2316 SK [०७५|२०-०७५|२१] यत्रैतानि भवन्ति स धर्मः संस्कृतो लक्ष्यते / [०७५|२१] विपर्ययादसंस्कृतः /
2317 SK [०७५|२१-०७५|२२] तत्र जातिस्तं धर्मं जनयति स्थितिः स्थपयति जरा जरयति अनित्यता विनाशयति /
2318 SK [०७५|२२-०७५|२३] ननु ᳚त्रीणिमानि संस्कृत लक्षणानी᳚ति सूत्र उक्तम् /
2319 SK [०७५|२३] चतुर्थमप्यत्र वक्तव्यं स्यात् / किं चात्र नोक्तम् / आह /
2320 SK [०७५|२४] स्थितिः / यत्तर्हि ᳚इदं स्थित्यन्यथात्वमि᳚ति /
2321 SK [०७५|२४-०७५|२५] जराया एष पर्यायस्तद्यथा जातेरुत्पाद इत्यनित्यतायाश्च व्यय इति /
2322 SK [०७५|२५-०७६|०१] ये हि धर्माः संस्काराणामध्वसंचाराय प्रवृत्तास्त एव सूत्रे लक्षणान्युक्तान्युद्वेजनार्थम् /
2323 SK [०७६|०१-०७६|०२] जातिर्हि या संस्काराननागतादध्वनः प्रत्युत्पन्नमध्वानं संचारयति /
2324 SK [०७६|०२-०७६|०३] जरा ऽनित्यते पुनः प्रत्युत्पन्नादतीतं दुर्बलीकृत्य प्रतिघातात् /
2325 SK [०७६|०३] तद्यथा किल गहनप्रविष्टस्य पुरुषस्य त्रयः शत्रवः /
2326 SK [०७६|०३-०७६|०४] तत एक एनं गहनादाकर्षेत् द्वौ पुनर्जीविताद्वच्यपरोपयेतां तद्वदिति /
2327 SK [०७६|०४-०७६|०५] स्थितिस्तु तान् संस्कारानुपगुह्य तिष्ठत्यवियोगमिवेच्छन्ती /
2328 SK [०७६|०५-०७६|०६] अतो ऽसौ संस्कृतलक्षणं न व्यवस्थापिता /
2329 SK [०७६|०६] असंस्कृतस्यापि च स्वलक्षणे स्थितिभावात् /
2330 SK [०७६|०६-०७६|०७] अन्ये पुनः कल्पयन्ति स्थितिं जरां चाभिसमस्य स्थित्यन्यथात्वमित्येकं लक्षणमुक्तं सूत्रे /
2331 SK [०७६|०७] किं प्रयोजनम् /
2332 SK [०७६|०८-०७६|०९] एषा ह्येषु सङ्गास्पदमतः श्रियमिवैनां कालकर्णीसहितां दर्शयामास तस्यामनासङ्गार्थमिति /
2333 SK [०७६|०९] अतश्चत्वार्येव संस्कृत लक्षणानि /
2334 SK [०७६|०९-०७६|१०] तेषामपि नाम जात्यादीनां संस्कृतत्वादन्यैर्जात्यादिभिर्भवितव्यम् /
2335 SK [०७६|१०] भवन्त्येव /
2336 SK [०७६|११] जातिजात्यादयस्तेषां
2337 SK [०७६|१२] तेषामपि चत्वार्यनुलक्षणानि भवन्ति /
2338 SK [०७६|१२-०७६|१३] जातिजातिः स्थितिस्थितिः जराजरा अनित्यता ऽनित्यता इति /
2339 SK [०७६|१३] ननु चैकस्यैकस्य चतुर्लक्षणी प्राप्नोति अपर्यवसानदोषश्च /
2340 SK [०७६|१४] तेषां पुनरन्यजात्यादिप्रसङ्गात् / न प्राप्नोति / यस्मात् /
2341 SK [०७६|१५] ते ऽष्टधर्मैकवृत्तयः /
2342 SK [०७६|१६] तेषां जात्यादीनामष्टासु धर्मेषु वृत्तिः / किमिदं वृत्तिरिति / कारित्रं पुरुषकारः /
2343 SK [०७६|१७] जातिजात्यादीनां चैकत्र धर्मे कथं कृत्वा आत्मना नवमो हि धर्म उत्पद्यते /
2344 SK [०७६|१८] सार्धं लक्षणानुलक्षणैरष्टाभिः /
2345 SK [०७६|१८-०७६|१९] तत्र जातिरात्मानं विरहय्यान्यानष्टौ धर्मान् जनयति /
2346 SK [०७६|१९] जातिजातिः पुन स्तामेव जातिम् /
2347 SK [०७६|१९-०७६|२०] तद्यथा किल काचित् कुक्कुटी बहून्य पत्यानि प्रजायते काचिदल्पानि /
2348 SK [०७६|२०-०७६|२१] तद्वत् स्थितिरप्यात्मानं वर्जयित्वा ऽन्यानष्टौ धर्मान् स्थापयति स्थितिस्थितिस्तु तामेव स्थितिम् /
2349 SK [०७६|२१-०७६|२२] एवं जरा ऽनित्यते अपि यथायोग्यं यज्ये /
2350 SK [०७६|२२] तस्माना भवत्यनवस्थाप्रसङ्गः /
2351 SK [०७६|२२-०७६|२३] तदेतदाकाशं पाट्यत इति सौत्रान्तिकाः /
2352 SK [०७६|२३-०७६|२४] नह्येते जात्यादयो धर्मा द्रव्यतः संविद्यन्ते यथा ऽभिव्यज्यन्ते /
2353 SK [०७६|२४] किं कारणम् / प्रमाणाभावात् /
2354 SK [०७६|२४-०७६|२५] नह्येषां द्रव्यतो ऽस्तित्वे किञ्चिदपि प्रमाणमस्ति प्रत्यक्षमनुमानमाप्तागमो वा यथा रूपादीनां धर्माणामिति /
2355 SK [०७६|२६-०७६|२७] यत्तर्हि सूत्र उक्तं ᳚संस्कृतस्योत्पादो ऽपि प्रज्ञायते व्ययो ऽपि स्थित्यन्यथात्वमपी᳚ ति /
2356 SK [०७६|२७] ग्रन्थज्ञो देवानां प्रियो नत्वर्थज्ञः / अर्थश्च प्रतिशरण मुक्तं भगवता /
2357 SK [०७६|२८] कः पुनरस्यार्थः /
2358 SK [०७६|२८-०७६|२९] अविद्यान्धा हि बालाः संस्कारप्रवाहमात्मात आत्मीयतश्चाधिमुक्ता अभिष्वजन्ते /
2359 SK [०७६|२९-०७७|०२] तस्य मिथ्याधिमोक्षस्य व्यावर्त्तनार्थं भगवांस्तस्य संस्कारप्रवाहस्यसंस्कृतत्वं प्रतीत्यसमुत्पन्नतां द्योतयितुकाम इदमाह ᳚त्रिणीमानि संस्कृतस्य संस्कृतलक्षणानि᳚ /
2360 SK [०७७|०२] न तु क्षणस्य / नहि क्षणस्योत्पादादयः प्रज्ञायन्ते /
2361 SK [०७७|०३] नचाप्रज्ञायमाना एते लक्षणं भवितुमर्हन्ति /
2362 SK [०७७|०३-०७७|०४] अथ एवात्र सूत्रे ᳚संस्कृतस्योत्पादो ऽपि प्रज्ञायत᳚ इत्युक्तम् /
2363 SK [०७७|०४-०७७|०५] पुनः संस्कृतग्रहणं संस्कृतत्वे लक्षणानीति यथा विज्ञाये त /
2364 SK [०७७|०५-०७७|०६] मैवं विज्ञायि संस्कृतस्य वस्तुनो ऽस्तित्वे लक्षणानि जलवलाकावत् साध्वसादुत्वे वा कन्यालक्षणवदिति /
2365 SK [०७७|०६-०७७|०७] तत्र प्रवाहस्यादिरुत्पादो निवृत्तिर्व्ययः /
2366 SK [०७७|०७] स एव प्रवाहो ऽनुवर्त्तमानः स्थितिः /
2367 SK [०७७|०७-०७७|०८] तस्य पूर्वापरविशेषः स्थित्यन्यथात्वम् /
2368 SK [०७७|०८-०७७|०९] एवं च कृत्वोक्तं ᳚विदिता एव नन्दस्य कुलपुत्रस्य वेदना उत्पद्यन्ते विदिता अव तिष्ठन्ते विदिता अस्तं परिक्षयं पर्यादानं गच्छन्ती᳚ति /
2370 SK [०७७|११-०७७|१२] ᳚जातिरादिः प्रवाहस्य व्ययश्छेदः स्थितिस्तु सः / स्थित्यन्यथात्वं तस्यैव पूर्वापरविशिष्टता //᳚
2371 SK [०७७|१३-०७७|१४] ᳚जातिरपूर्वो भावं स्थितिः प्रबन्धो व्ययस्तदुच्छेदः / स्थित्यन्यथात्वमिष्टं प्रबन्धपूर्वापरविशेष᳚ इति //
2372 SK [०७७|१५-०७७|१६] ᳚क्षणिकस्य हि धर्मस्य विना स्थित्या व्ययो भवेत् / न च व्येत्येव तेनास्य वृथा तत्परिकल्पना //᳚
2373 SK [०७७|१७] तस्मात् प्रवाह एव स्थितिः / एवं च कृत्वा ऽयमप्यभिधर्मनिर्देश उपपन्न्नो भवति /
2374 SK [०७७|१८] ᳚स्थितिः कतमा / उत्पन्नानां संस्काराणामविनाश᳚ इति /
2375 SK [०७७|१८-०७७|१९] नहि क्षणस्योत्पन्नस्याविनाशो ऽस्तीति /
2376 SK [०७७|१९] यदपि च ज्ञानप्रस्थान उक्तम् ᳚एकस्मिंश्चित्ते क उत्पादः /
2377 SK [०७७|२०] आह / जातिः / को व्ययो मरणम् / किं स्थित्यन्यथात्वं जरे᳚ति /
2378 SK [०७७|२०-०७७|२१] तत्रापि निकायसभागचित्तं युज्यते /
2379 SK [०७७|२१-०७७|२२] प्रतिक्षणं चापि संस्कृतस्यैतानि लक्षणानि युज्यन्ते विना ऽपि द्रव्यान्तरकल्पनया /
2381 SK [०७७|२३] प्रतिक्षणमभूत्वाभाव उत्पादः / भूत्वा ऽभावो व्ययः /
2382 SK [०७७|२३-०७७|२४] पूर्वस्य पूर्वस्योत्तरक्षणानुवन्धः स्थितिः /
2383 SK [०७७|२४] तस्याविस्दृशत्वं स्थित्यन्यथात्वमिति / यदा तर्हि सदृशा उत्पद्यन्ते /
2384 SK [०७७|२४-०७७|२५] न ते निर्विशेषा भवन्ति /
2385 SK [०७७|२५] कथमिदं ज्ञायते /
2386 SK [०७७|२५-०७७|२६] क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्य वज्रादेश्चिराशुतरपातकालभेदात्तन्महाभूतानां परिणामविशेषसिद्धेः /
2387 SK [०७७|२६-०७७|२७] नातिवहुविशेषभिन्नास्तु संस्काराः सत्यप्यन्यथात्वे सदृशा एव दृश्यन्ते /
2388 SK [०७७|२७-०७७|२९] अन्तिमस्य तर्हि शब्दार्चिःक्षणस्य परिनिर्वाणकाले च षडायतनस्योत्तरक्षणाभावात् स्थित्यह्न्यन्यथात्वं नास्तीत्यव्यापिनी लक्षणव्यवस्था प्राप्नोति /
2389 SK [०७७|२९] न वै संस्कृतस्य स्थितिरेवोच्यते /
2390 SK [०७८|०१] लक्षणमपि तु स्थित्यन्यथात्वम् /
2391 SK [०७८|०१-०७८|०२] अतो यस्यास्ति स्थितिस्तस्यावश्यमन्यथात्वं भवतीति नास्ति लक्षणव्यवस्थाभेदः /
2392 SK [०७८|०२-०७८|०४] समासतस्त्वत्र सूत्रे संस्कृतस्येदं लक्षणमिति द्योतितं भगवता ᳚संस्कृतं नाम यद्भूतवा भवति भूत्वा च पुनर्न भवति यश्चास्य स्थितिसंज्ञकः प्रबन्धः सो ऽन्यथा चान्यथा च भवती᳚ति /
2393 SK [०७८|०४-०७८|०५] किम् अत्र द्रव्यान्तरैर् जात्यादिभिः कथम् इदानीं स एव धर्मो लक्ष्यस् तस्यैव लक्षणं योक्ष्यते /
2394 SK [०७८|०५-०७८|०८] कथं तावन् महापुरुषलक्षणानि महापुरुषान् नान्यानि सास्ना-लाङ्गूल-ककुद-शफ-विषाणादीनि च गोत्वलक्षणानि गोर् नान्यानि काठिन्यादीनि च पृथिवीधात्वादीनां लक्षणानि तेभ्यो नान्यानि /
2395 SK [०७८|०८-०७८|०९] यथा चोध्र्वगमनेन दूराद्धूमस्य धूमत्वं लक्ष्यते नच तत्तस्मादन्यत् /
2396 SK [०७८|०९] स एवात्र न्यायः स्यात् /
2397 SK [०७८|०९-०७८|१०] नच संस्कृतानां रूपादीनां तावत् संस्कृतत्वं लक्ष्यते /
2398 SK [०७८|१०-०७८|११] गृह्णतापि स्वभावं यावत् प्रागभावो न ज्ञायते पश्चाच्च सन्ततेश्च विशेषः /
2399 SK [०७८|११-०७८|१२] तस्मान्न तेनैव तल्लक्षितं भवति नच तेभ्यो द्रव्यान्तराण्येव जात्यादीनि विद्यन्ते /
2400 SK [०७८|१२] अथापि नाम द्रव्यान्तराण्येव जात्यादीनि भवेयुः /
2401 SK [०७८|१२-०७८|१३] किमयुक्तं स्यात् /
2402 SK [०७८|१३-०७८|१४] एको धर्मः एकस्मिन्नेव काले जातः स्थितो जीर्णो नष्टः स्यादेषां सहभूत्वात् /
2403 SK [०७८|१४] कारित्रकालभेदात् / अनागता हि जातिः कारित्रं हि करोति /
2404 SK [०७८|१४-०७८|१६] यस्मान्न जातं जन्यते जनिते तु धर्मे वर्त्तमानाः क्षित्यादयः कारित्रं कुर्वन्तीति न यदा जायते तदा तिष्टति जीर्यति विनश्यति वा /
2405 SK [०७८|१६] इदं तावदिह संप्रधार्यं भवेत् /
2406 SK [०७८|१६-०७८|१७] किमनागतं द्रव्यतो ऽस्ति नास्तीति पश्चाज्जनयति वा नवेति सिध्येत् /
2407 SK [०७८|१७-०७८|१८] सत्यपि तु तस्मिन् जातिः कारितरं कुर्वती कथमनागता सिध्यतीत्यनागत लक्षणं वक्तव्यम् /
2408 SK [०७८|१८-०७८|२०] उपरतकारित्रा चोत्पन्ना कथं वर्त्तमाना सिध्यतीति वर्त्तमानलक्षाणं वक्तव्यम् /
2409 SK [०७८|२०-०७८|२१] स्थित्यादयो ऽपि च युगपत् कारित्रे वर्त्तमाना एकक्षण एव धर्मस्य स्थितजीर्णविनष्टतां प्रसञ्जेयुः /
2410 SK [०७८|२१-०७८|२२] यदैव ह्येनं स्थितिः स्थापयति तदैव ज्रा जरयति अनित्यता विनाशयतीति /
2411 SK [०७८|२२-०७८|२४] किमयं तत्र काले तिष्टत्वाहोस्विज्जीर्यतु विनश्यतु वा यो ऽपि हि ब्रूयात् स्थित्यादीनामपि कारित्रं क्रमेणेति तस्य क्षणिकत्वं बाध्यते /
2412 SK [०७८|२४] अथाप्येवं ब्रूयात् एष एव हि नः क्षणो यावतैतत् सर्वं समाप्यत इति /
2413 SK [०७८|२५-०७८|२६] एवमपोइ ताभ्यां सहोत्पन्ना स्थितिस्तावत् स्थापयति न ज्रा जरयति अनित्यता वा विनाश्यतीति /
2414 SK [०७८|२६] कुत एतत् / स्थितेर्बलीयस्त्वात् / पुनः केनावलीयस्त्वम् /
2415 SK [०७८|२६-०७८|२७] यदैनां सह धर्मेणानित्यता हन्ति /
2416 SK [०७८|२७] कृतकृत्या पुनः कर्त्तुं नोत्सहते जातिवत् /
2417 SK [०७८|२८] स्थतुर्युक्तमनुत्सोढुम् /
2418 SK [०७८|२८-०७८|२९] नहि शक्यं जात्यादिजन्यं वर्तमानतामानीतं पुनरानेतुम् /
2419 SK [०७८|२९] शक्यं तु खलु स्थित्या स्थाप्यमत्यन्तमपि स्थापयितुम् /
2420 SK [०७८|२९-०७९|०१] अतो न युक्तं यन्नोत्सहते /
2421 SK [०७९|०१] को वा ऽत्र प्रतिबन्धः / ते एव जरा ऽनित्यते /
2422 SK [०७९|०१-०७९|०२] यदि हि ते बलीयस्यौ स्यातां पूर्वमेव स्याताम् /
2423 SK [०७९|०२-०७८|०४] निवृत्तकारित्रायां खल्वपि स्थितौ त चापि न तिष्टतः स चापि धर्म इति कथं कुत्र वा कारित्रं कर्त्तुमुत्सहिष्येते किं वा पुनस्ताभ्यां कर्त्तव्यम् /
2424 SK [०७९|०४-०७९|०५] स्थितिपरिग्रहाद्धि स धर्म उत्पन्नमात्रो न व्यनश्यत् /
2425 SK [०७९|०५-०७९|०६] स तु तया व्युपेक्ष्यमाणो नियतं न स्थास्यत्ययमेवास्य विनाशः /
2426 SK [०७९|०६] स्याच्च तावदेकस्य धर्मस्योत्पन्नस्याविनाशः स्थितिः विनाशो ऽनित्यता /
2427 SK [०७९|०७] जरा तु खलु सर्वथात्वेन न तथा / पूर्वापरविशेषात् विपरिणामाच्च /
2428 SK [०७९|०७-०७९|०८] अतस्तदन्यथात्वे ऽन्य एव /
2430 SK [०७९|०९-०७९|१०] ᳚तथात्वेन जरा ऽसिद्धिरन्यथात्वे ऽन्य एव सः / तस्मानैकस्य भावस्य जरा नामोपपद्यते᳚//
2431 SK [०७९|११-०७९|१२] यो ऽप्याह निकायान्तरीयो ᳚विनाश कारणं प्राप्यानित्यता विनाशायती᳚ति तस्य हरीतकीं प्राप्य देवता विरेचयतीत्यापन्नं भवति किं पुनस्तां कल्पयित्वा /
2432 SK [०७९|१२-०७९|१५] तत् एवास्तु विनाशकारणाद्विनाशः चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात्तदनित्यताया विनाशकारणानपेक्षत्वात् स्थित्यनित्यते कारित्रमभिन्नकालं कुर्यातामित्येकस्यैकत्र काले स्थित विनष्टता संप्रसज्येत /
2433 SK [०७९|१५-०७०|१६] तस्मात् प्रवाहं प्रत्येतानि संस्कृतलक्षणान्युक्तानीत्येवमेतत्सूत्रं सूनीतं भवति /
2434 SK [०७९|१७] अपिच यद्यनागता जातिर्जन्यस्य जनिका किमर्थं सर्वमनागतं युगपन्नोत्पद्यते / यस्मात्
2435 SK [०७९|१८] जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्वेना // VAक्K_२.४६ //
2436 SK [०७९|१९] नहि विना हेतुप्रत्ययसामग्रया जातिर्जनिका भवति /
2437 SK [०७९|१९-०७९|२०] हेतुप्रत्ययानामेव तर्हि सामर्थ्यं पश्यामः /
2438 SK [०७९|२०-०७९|२१] सति सामर्ग्य भावादसति चाभावान्न जातेरिति हेतुप्रत्यया एव जन काःसन्तः /
2439 SK [०७९|२१] किं च भोः सर्वं विद्यमानमुपलभ्यते /
2440 SK [०७९|२२] सूक्ष्मा अपि धर्मप्रकृतयः संविद्यन्ते /
2441 SK [०७९|२२-०७९|२३] जातमित्येव तु न स्यादसत्यां जातौ षष्ठिवचनं च रूपस्योत्पादः इति यथा रूपस्य रूपमिति /
2442 SK [०७९|२३-०७९|२४] एवं यावदनित्यता यथायोगं वक्तव्या /
2443 SK [०७९|२४] तेन तर्ह्य् अनात्मत्वम् अप्य् एष्टव्यम् अनात्मबुद्धि-सिद्ध्यर्थम् /
2444 SK [०७९|२४-०७९|२६] संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-सत्तादयो ऽपि तीर्थकर-परिकल्पिता अभ्युपगन्तव्या एक-द्वि-महदणु-पृथक्-संयुक्त-वियुक्त-परापर-सदादि-बुद्धि-सिद्ध्यर्थम् /
2445 SK [०७९|२६-०७९|२७] षष्टीविधानार्थं च रूपस्य संयोग इति /
2446 SK [०७९|२७] एषा च षष्टो कथं कल्प्यते /
2447 SK [०७९|२७-०७९|२८] रूपस्य स्वभाव इति /
2448 SK [०७९|२८] तस्मात् प्रज्ञप्तिमात्रमेवैतदभूत्वाभावज्ञापनार्थं क्रियते जातमिति /
2449 SK [०७९|२८-०८०|०१] स चाभूत्वाभावलक्षाण उत्पादो बहुविकल्पः /
2450 SK [०८०|०१-०८०|०२] तस्य विशेषणार्थं रूपस्योत्पाद इति षष्टीं कुर्वन्ति यथा रुपसंज्ञक एवोत्पादः प्रतीयेत मा ऽन्यः प्रत्यायीति /
2451 SK [०८०|०२-०८०|०३] तद्यथा चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरमिति /
2452 SK [०८०|०३-०८०|०४] एवं स्थित्यादयो ऽपि यथायोगं वेदितव्याः /
2453 SK [०८०|०४] यदि जात्या विना जायते कस्मादसंस्कृतमप्याकाशादिकं न जायते /
2454 SK [०८०|०५] जायत् इत्यभूत्वा भवति / असंस्कृतं च नित्यमस्तीति न जायते /
2455 SK [०८०|०५-०८०|०६] यथा च धर्मतया न सर्वं जातिमदिष्यते तथा न सर्वं जायत इत्येष्टव्यम् /
2456 SK [०८०|०६-०८०|०८] यथा च तुल्ये जातिमत्त्वे तदन्ये प्रत्ययास्तदन्यस्योत्पादने न समर्था भवन्त्येवमेवासंस्कृतस्योत्पादने सर्वे ऽप्यसमर्थाः स्युः /
2457 SK [०८०|०८] सिद्धा एव तु द्रव्यभावेन जात्यादय इति वैभाषिकाः /
2458 SK [०८०|०९-०८०|१०] नहि दूषकाः सन्तीत्यागमा अपास्यन्ते नहि मृगाः सन्तीति यवा नोष्यन्ते नहि मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते /
2459 SK [०८०|१०-०८०|११] तस्माद्दोषेषु प्रतिविधातव्यं सिद्धान्तश्चानुवर्त्तितव्यः /
2460 SK [०८०|११] उक्तानि लक्षणानि //
2461 SK [०८०|१२] नामकायादयः कतमे /
2462 SK [०८०|१३] नामकायादयः संज्ञावाक्याक्षरसमुक्तयः /
2463 SK [०८०|१४] आदिग्रहणेन पदव्यञ्जनकायग्रहणम् / तत्र संज्ञाकरणं नाम /
2464 SK [०८०|१४-०८०|१५] तद्यथा रूपं शब्द इत्येवमादिः /
2465 SK [०८०|१५-०८०|१६] वाक्यं पदं यावता ऽर्थपरिसमाप्तिस्तद्यथा ᳚अनित्या वत संस्कारा᳚ इत्येवमादि येन क्रियागुणकालसंबन्धविशेषा गम्यन्ते /
2466 SK [०८०|१६-०८०|१७] व्यञ्जनमक्षरं तद्यथा अ आ इत्येवमादि /
2467 SK [०८०|१७] ननु चाक्षराण्यपि लिप्यवयवानां नामानि /
2468 SK [०८०|१७-०८०|१८] न वै लिप्यवयवानां प्रत्यायनार्थमक्षाराणि प्रणीतान्यक्षराणामेव तु प्रत्यायनार्थं लिप्यवयवाः प्रणीताः /
2469 SK [०८०|१९] कथमश्रूयमाणानि लेख्येन प्रतीयेरन्निति नाक्षराण्येषां नामानि /
2470 SK [०८०|१९-०८०|२०] एषां च संज्ञादीनां समुक्तयो नामादिकायाः /
2471 SK [०८०|२०] उच समवाये पठन्ति / तस्य समुक्तिरित्येतद् रूपं भवति /
2472 SK [०८०|२१] यो ऽर्थः समवाय इति सो ऽर्थः समुक्तिरिति /
2473 SK [०८०|२१-०८०|२२] तत्र नामकायस्तद्यथा रूपशब्दगन्धरसस्प्रष्टव्यानीत्येवमादि /
2474 SK [०८०|२२-०८०|२३] पदकायः तद्यथा ᳚सर्वसंस्कारा अनित्याः सर्वधर्म अनात्मानः शान्तं निर्वाणमि᳚ त्येवमादि /
2475 SK [०८०|२३-०८०|२४] व्यञ्जनकायस्तद्यथा क ख ग घ ञेत्येवमादि /
2476 SK [०८०|२४-०८०|२५] ननु चैते वाक्स्वभावत्वाच्छब्दात्मका इति रूपस्वभावा भवन्ति /
2477 SK [०८०|२५] कस्माच्चित्तविप्रयुक्ता इत्युच्यन्ते / नैते वाक्स्वभावाः /
2478 SK [०८०|२५-०८०|२६] घोषो हि वाक् नच घोषामात्रेनार्थाः प्रतीयन्ते /
2479 SK [०८०|२६] किं तर्हि /
2480 SK [०८०|२६-०८०|२८] वाङ्नाम्नि प्रव्र्त्तते नामार्थं द्योतयति नैव घोषमात्रं वाग् येन तु घोषेणार्थः प्रतीयते स घोषो वाक् /
2481 SK [०८०|२८] केन पुनर्घोषेणार्थः प्रतीयते /
2482 SK [०८०|२८-०८१|०१] यो ऽर्थेषु कृतावधिर्वक्तृभिस्तद्यथागौरित्येष शब्दो नवस्वर्थेषु कृतावधिः /
2483 SK [०८१|०२-०८१|०३] ᳚वाग्दिग्भूरश्मिवज्रेषु पश्वक्षिस्वर्गवारिषु / नवस्वर्थेषु मेधावी गोशब्दमुपधारयेदि᳚ति //
2484 SK [०८१|०४-०८१|०५] यो ऽपि हि मन्यते नामार्थं द्योतयतीति तेनाप्येतदवश्यमभ्युपगन्तव्यं यदि प्रतीपदार्थकं भवतीति /
2485 SK [०८१|०५-०८१|०६] तच्चैत च्छब्दमात्रादेव प्रतीतपदार्थकात् सिध्यतीति किमर्थरं नाम कल्पयित्वा /
2486 SK [०८१|०६] इदं चापि न ज्ञायते कथं वाङ्नाम्नि प्रवर्त्तत इति /
2487 SK [०८१|०६-०८१|०७] किं तावदुत्पादयत्याहोस्वित् प्रकाशयति /
2488 SK [०८१|०७] यद्युत्पाद यति /
2489 SK [०८१|०७-०८१|०९] घोषस्ववत्वाद्वाचः सर्वं घोषमात्रं नामोत्पादयिष्यति यादृशो वा घोषविआशेष इष्यते नाम्न उत्पादकः स एवार्थस्य द्योतको भविष्यति /
2490 SK [०८१|०९] अथ प्रकाशयति /
2491 SK [०८१|०९-०८१|११] घोषस्वभावत्वाद्वाचः सर्वं घोषमात्रं नाम प्रकशयिष्यति यादृशो वा घोषविशेष इष्यते नाम्नः परकाशकः स एवार्थस्य द्योतको भविष्यति /
2492 SK [०८१|११] न खल्वपि शब्दानां सामर्ग्यमस्ति क्षणैकमिलनम् /
2493 SK [०८१|१२] न चैकस्य भागश उत्पादो युक्त इति कथमुत्पादयन्ती वाङ्नामोत्पादयेत् /
2494 SK [०८१|१२-०८१|१३] कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिम् /
2495 SK [०८१|१३-०८१|१४] एवं तर्हि पश्चिम एव दे नाम्न उत्पादाद्यो ऽपि तमेवैकम् शृणोति सो ऽप्यर्थं प्रतिपद्येत /
2496 SK [०८१|१४-०८१|१५] अथाप्येवं कल्प्येत वाग्व्यञ्जनं जनयति व्यञ्जनं तु नामेति /
2497 SK [०८१|१५-०८१|१६] अत्रापि स एव प्रसङ्गो व्यञ्जनां सामर्ग्याभावात् /
2498 SK [०८१|१६] एष एव च प्रसङ्गो नाम्नः प्रकाशकत्वे वाचः /
2499 SK [०८१|१६-०८१|१८] व्यञ्जनां पि वाग्विशिष्टप्रज्ञा अप्यवहितचेतस्का लक्षणतः परिच्छेत्तुम् नोत्सहन्त इति व्यञ्जयापि वाक् नैवोत्पादिका न प्रकाशिका युज्यते /
2500 SK [०८१|१८-०८१|१९] अथाप्यर्थसहजं नाम जात्यादिवदिष्यते /
2501 SK [०८१|१९] एवं सत्यतीतानागतस्यार्थस्य वर्त्तमानं नाम न स्याद् /
2502 SK [०८१|१९-०८१|२१] अपत्यानां पितृभिर्यथेष्टं नामानि कल्प्यन्त इति कतमन्नाम तत्सहजं स्यात् असंस्कृतानां च धर्माणां केन सहजं नाम स्यादित्यनिष्टिरेवेयम् /
2503 SK [०८१|२१-०८१|२२] यदप्युक्तं भगवता
2504 SK [०८१|२३] ᳚नामसंनिशारिता गाथा गाथानां कविराश्रयः᳚ इति
2505 SK [०८१|२४-०८१|२५] अत्रार्थेषु कृतावधिः शब्दो नाम नाम्ना च रचनाविशेषो गाथेति नामसंनिताभवति रचनाविशेषाश्च द्रव्यान्तरं नोपपद्यते /
2506 SK [०८१|२५] पङ्क्तिवच्चित्तानुपूर्व्यवच्च /
2507 SK [०८१|२६] अस्तु वा व्यञ्जनमात्रस्य द्रव्यान्तरभावपरिकल्पना /
2508 SK [०८१|२६-०८१|२७] तत्समूहा एव नामकायादयो भविष्यन्तीत्यपार्थिका तत्प्रज्ञप्तिः /
2509 SK [०८१|२७-०८१|२८] सन्त्येव तु विप्रयुक्तसंस्कारभावना नामकाया द्रव्यत इति वैभाषिकाः /
2510 SK [०८१|२८] नहि सर्व धर्मास्तर्कगम्या भवन्तीति /
2511 SK [०८२|०१-०८२|०२] अथ किंप्रतिसंयुक्ता एते नामकायादयः सत्त्वाख्या असत्त्वाख्या विपाकजा औपचयिका नैःष्यन्दिकाः कुशला अकुशला अव्याकृता इति वक्तव्यम् /
2513 SK [०८२|०३] कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः /
2514 SK [०८२|०४] कामाप्ता रूपाप्ताश्चेति / आरुप्याप्ता अपि सन्ति ते त्वनभिलाप्या इत्यपरे /
2515 SK [०८२|०५] सत्त्वाख्या एते / यश्च द्योतयति स तैः समन्वागतो न यो द्योत्यते /
2516 SK [०८२|०५-०८२|०६] नैःष्यन्दिका अनिवृताव्याकृताश्च /
2517 SK [०८२|०६-०८२|०७] यथा चैते नामकायादयः सत्त्वाख्या नैःष्यन्दिका अनिवृताव्याकृताश्च /
2518 SK [०८२|०८] तथा // VAक्K_२.४७ //
2519 SK [०८२|०९] सभागता सा तु पुनर्विपाको ऽपि
2520 SK [०८२|१०] न केवलं नैःष्यन्दिकी कामरूपारूप्यावचरी /
2521 SK [०८२|११] आप्तयो द्विधा /
2522 SK [०८२|१२] प्राप्तयो नैःष्यन्दिक्यो विपाकजाश्च /
2523 SK [०८१|१३] लक्षणानि च /
2524 SK [०८१|१४] द्विधेति वर्त्तते प्राप्तिवत् /
2525 SK [०८२|१५] निःष्यन्दाः समापत्त्य समन्वयाः // VAक्K_२.४८ //
2526 SK [०८२|१६] द्वे अचित्तसमापत्ती असमन्वागमश्च नैःष्यन्दिका एव / शेषमेषां वक्तव्यमुक्तम् /
2527 SK [०८२|१७] शेषयोश्चासंज्ञिकजीवितयोरतो न पुनर्ब्रुमः / कथं प्राप्त्यादीनां सत्त्वाख्यतोक्ता समन्वागमवचनात् /
2528 SK [०८२|१८] कथं लक्षणानां सत्त्वासत्त्वाख्यतोक्ता / सर्वसंस्कृटसहभूत्वात् //
2529 SK उक्ता विप्रयुक्ताः //
2530 SK [०८२|१९-०८२|२०] यक्तूक्तं ᳚जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना᳚ इति क इमे हेतवः केच प्रत्ययाः /
2531 SK [०८२|२१-०८२|२२] कारणं सहभूश्चैव सभागः संप्रयुक्तकः / सर्वत्रगो विपाकाख्यः षड्विधो हेतुरिष्यते // VAक्K_२.४९ //
2532 SK [०८२|२३] षडिमे हेतवः /
2533 SK [०८२|२३-०८२|२४] कारणहेतुः सहभूहेतुः सभागहेतुः संप्रयुक्तकहेतुः सर्वत्रगहेतुः विपाकहेतुरिति /
2535 SK [०८२|२५] स्वतो ऽन्ये कारणं हेतुः
2536 SK [०८२|२६] संस्कृतस्य हि धर्मस्य स्वभावव्र्ज्याः सर्वधर्माः कारणहेतुरुत्पादयति /
2537 SK [०८२|२७] अविघ्नभावावस्थानात् /
2538 SK [०८२|२७-०८३|०२] ननु च ये ऽस्याजानत उदपत्स्यन्तास्रवा जानतो ऽस्य ते नोत्पद्यन्त इति ज्ञानमेषां विघ्नमुअत्पत्तौ करोति सूर्यप्रभावज्ज्योतिषां दर्शनस्येति कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्ति /
2539 SK [०८३|०२] उत्पद्यमानस्याविध्नभावेनावस्थानादिति ज्ञातव्यम् /
2540 SK [०८३|०३] भवेत्तावदुत्पत्तौ विध्नकारणे समर्थानामविघ्नकारणाद्धेतुत्वम् /
2541 SK [०८३|०३-०८३|०४] तद्यथा अनुपद्रोतारं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः स्वामिना स्मः सुखिता इति /
2542 SK [०८३|०४-०८३|०६] यस्य पुनर्नास्त्येव शक्तिर्विघ्नयितुं तस्य कथं हेतुभावस्तद्यथा निर्वाणस्यानुत्पत्तिधर्मकाणां च सर्वोत्पत्तौ नारकादीनां चरूप्यसत्त्व स्कन्धोत्पत्तौ /
2543 SK [०८३|०६-०८३|०७] असन्तो ऽपि ह्येते तथैव विध्नं कर्त्तुमसमर्थः स्युः /
2544 SK [०८३|०७-०८३|०८] असमर्थे ऽपि हि भोजके तथा वक्तारो भवन्तीति स एवात्र दृष्टान्तः सामान्येनैव निर्देशः /
2545 SK [०८३|०८-०८३|०९] यस्तु प्रधानः कारणहेतुः स उत्पादने ऽपि समर्थो यथा चक्षूरूपे चक्षुर्विज्ञानस्य आहारः शरीरस्य वीजादयो ऽङ्कुरादीनामिति /
2546 SK [०८३|१०-०८३|११] यस्त्वेवं चोदयति अनावरणभावेन चेत्सर्व धर्महेतवो भवन्ति कस्माना सर्वस्योत्पादो युगपद्भवति प्राणातिपातेन च घातकवत् सर्वे तद्भाजो भवन्तीति /
2547 SK [०८३|११-०८३|१२] तस्येदमचोद्यम् /
2548 SK [०८३|१२] यस्मादनावरणभावेन सर्वधर्माः हेतुः प्रतिज्ञायन्ते न कारकभावेनेति /
2549 SK [०८३|१३] सर्वस्यैव कारणहेतोः सर्वोत्पत्तौ सामर्थ्यमित्यपरे /
2550 SK [०८३|१३-०८३|१४] तद्यथा निर्वाणस्यापि चक्षुर्विज्ञानम् /
2551 SK [०८३|१४] कथं कृत्वा /
2552 SK [०८३|१४-०८३|१६] तेन ह्यालम्बनात् मनोविज्ञानमुत्पद्यते कुशलाकुशालं यतः क्रमेण पश्चाच्चक्षुर्विज्ञानमिति कारणपरपरया तस्यापि प्रत्ययीभावादस्ति सामर्थ्यम् /
2553 SK [०८३|१६] एवमन्यस्यापि प्रतिपत्तव्यम् / एषा हि दिक् /
2554 SK [०८३|१६-०८३|१७] उक्तः कारणहेतुः /
2555 SK [०८३|१८] सहभूर्ये मिथःफलाः /
2556 SK [०८३|१९] मिथः पारंपर्येण ये धर्माः परस्परफलास्ते परस्परः सहभूहेतुर्यथा / कथम् /
2557 SK [०८३|२०] भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत् // VAक्K_२.५० //
2558 SK [०८३|२१] चत्वारि महाभूतान्यन्योन्यं सहभूहेतुः / चित्तं चित्तानुवर्त्तिनां धर्माणां ते ऽपि तस्य /
2559 SK [०८३|२२] संस्कृतलक्षणानि लक्ष्यस्य सो ऽपि तषाम् /
2560 SK [०८३|२२-०८३|२३] एवं च कृत्वा सर्वमेव संस्कृतं सहभूहेतुर्यथायोगम् /
2561 SK [०८३|२३-०८३|२४] विनापि चान्योन्यफलत्वेन धर्मो ऽनुलक्षणानां सहभूहेतुर्न तानि तस्येत्युपसंख्यातव्यम् //
2562 SK [०८३|२५] के पुनरेते चित्तानुवर्त्तिनो धर्माः /
2563 SK [०८३|२६] चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च /
2564 SK [०८३|२७] चित्तानुवर्त्तिनः
2565 SK [०८३|२८] सर्वेचित्तसंप्रयुक्ताः / ध्यानसंवरो ऽनास्रवसंवरस्तेषां च ये जात्यादयश्चित्तस्य च /
2566 SK [०८३|२८-०८४|०१] एते धर्माश्चित्तानुवर्त्तिन उच्यन्ते /
2567 SK [०८४|०१] कथमेते चित्तमनुपरिवर्त्तन्ते / समासतः
2568 SK [०८४|०२] कालफलादिशुभतादिभिः // VAक्K_२.५१ //
2569 SK [०८४|०३] कालस्तावच्चितेनैकोत्पादस्थितिनिरोधतया एकाध्वपतितत्वेन च /
2570 SK [०८४|०३-०८४|०४] फलादिभिरेकफलविपाकनिःष्यन्दतया /
2571 SK [०८४|०४] पूर्वकस्त्वेकशब्दः सहार्थे वेदितव्यः /
2572 SK [०८४|०५] शुभतादिभिः कुशलाकुशलाव्याकृतचित्ते कुशलाकुशलाव्याकृततया /
2573 SK [०८४|०५-०८४|०६] एवं दशभिः कारणैश्चित्तानुपरिवर्त्तिन उच्यन्ते /
2574 SK [०८४|०६-०८४|०७] तत्र सर्वाल्प चित्तमष्टपञ्चाशतो धर्माणां सहभूहेतुः /
2575 SK [०८४|०७-०८४|०८] दशानां महाभूमिकानां चत्त्वारिंशतस्तल्लक्षणानामष्टानां च स्वलक्षणानुलक्षाणानाम् /
2576 SK [०८४|०८] तस्य पुनश्चतुःपञ्चाशद्धर्माः सहभूहेतुः /
2577 SK [०८४|०८-०८४|०९] स्वान्यनुलक्षणानि स्थापयित्वा /
2578 SK [०८४|०९] चतुर्दशेत्यपरे / दश महभूमिकाः स्वान्येव च लक्षणानीति /
2579 SK [०८४|०९-०८४|१०] तदेतन्न वर्णयन्ति /
2580 SK [०८४|१०] प्रकरणग्रन्थो ह्येवं विरुध्येत /
2581 SK [०८४|१०-०८४|११] ᳚स्याद्दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः /
2582 SK [०८४|११-०८४|१३] सत्कायदृष्टेस्तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत् क्लिष्टं दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः /
2583 SK [०८४|१३] सत्कायदृष्टेक्श्च हेतुर्यदेतत् स्थापितमि᳚ ति /
2584 SK [०८४|१३-०८४|१५] ये तर्हि ᳚तत्संप्रयुक्तानां च धर्माणा मि᳚ त्येतन्न पथन्ति तैरप्येतत् पथितव्यम् अर्थतो वैवं बोद्धव्यमिति काश्मीराः /
2585 SK [०८४|१५] यक्तावत् सहभूहेतुना हेतुः सहभ्वपि तत् /
2586 SK [०८४|१५-०८४|१६] स्यात्तु सहाभूर्न सहभूहेतुना हेतुः /
2587 SK [०८४|१६] धर्मस्यानुलक्षणानि / तानि चान्योन्यम् /
2588 SK [०८४|१६-०८४|१९] अनुपरिवर्त्त्यनुलक्षनानि चैवं चित्तस्य तानि चान्योन्यं सप्रतिघं चोपादायरूपमन्योन्यमप्रतिघं च किञ्चित् सर्वं च भूतैः प्राप्तयश्च सहजाः प्राप्तिमतः सहभुवो न सहभूहेतुरनेकफलविपाक निष्यन्दत्वात् /
2589 SK [०८४|१९-०८४|२०] न चैताः सहचरिष्णवः पूर्वमप्युत्पत्तेः पश्चादपीति /
2590 SK [०८४|२०] सर्वमप्येतत् स्यात् /
2591 SK [०८४|२०-०८४|२१] किं तु प्रसिद्धहेतुफलभावानां बीजादीनामेष न्यायो न दृष्ट इति वक्तव्यमेतत् कथं सहोत्पन्नानां धर्माणां हेतुफलभाव इति /
2592 SK [०८४|२२] तद्यथा प्रदीपप्रभयोरङ्कुरच्छाययोश्च /
2593 SK [०८४|२२-०८४|२४] संप्रधार्यं तावदेतत्किं प्रभायाः प्रदीपो हेतुराहोस्वित् पूर्वोत्पन्नैव सामग्री सप्रभस्य प्रदीपस्य सच्छायस्याङ्दुरस्योत्पत्तौ हेतुरिति /
2594 SK [०८४|२४] इतस्तर्हि भावाभावयोस्तद्वत्त्वात् /
2595 SK [०८४|२४-०८४|२५] एतद्धि हेतुहेतुमतो लक्षणमाचक्षतेर् हेतुकाः /
2596 SK [०८४|२५-०८४|२६ यस्य भावाभावयोः यस्य भावाभावौ नियमतः स हेतुरितरो हेतुमानिति /
2597 SK [०८४|२६-०८५|०१] सहभुवाम् च धर्माणामेकस्य भावे सर्वेषां भाव एकस्याभावे सर्वेषामभाव इति युक्तो हेतुफलभावः /
2598 SK [०८५|०१] स्यात्तावत्सहोत्पन्नानां परस्परं तु कथम् /
2599 SK [०८५|०२-०८५|०३] अथ एवाह एवं तर्ह्यविनिर्भाविणो ऽप्युपादायरूपस्यान्योन्यमेष प्रसङ्गः भूतैश्च सार्धं चित्तानुलक्षणादीनां चे चित्तादिभिः /
2600 SK [०८५|०३-०८५|०४] त्रिदण्डान्योन्यबलावस्थानवत्तर्हि सहभुवां हेतुफलभावः सिध्यति /
2601 SK [०८५|०४] मीमांस्यं तावदेतत् /
2602 SK [०८५|०४-०८५|०६] किमेषां सहोत्पन्नबलेनावस्थानमाहोस्वित् पूर्वसामग्रीवशात्तथैवोत्पाद इति अन्न्यदपि च तत्र किञ्चिद्भवति सूत्रकं शङ्कुको वा पृथिवी वा धारिका /
2603 SK [०८५|०६-०८५|०७] एषामपि नामान्ये ऽपि सभागहेतुत्वादयो भवन्तीति सिद्धः सहभूहेतुः /
2604 SK [०८५|०८] सभागहेतुः कतमः /
2605 SK [०८५|०९] सभागहेतुः सदृशाः
2606 SK [०८५|१०-०८५|११] सदृशा धर्माः सदृशानां धर्माणां सभागहेतुस्तद्यथा कुशलाः पञ्च स्कन्धाः कुशलानामन्योय्यं क्लिष्टाः क्लिष्टानामव्याकृता अव्याकृतानां रूपमव्याकृतं पञ्चानाम् /
2607 SK [०८५|१२] चत्वारस्तु न रूपस्येत्यपरे / न्यूनत्वात् /
2608 SK [०८५|१२-०८५|१३] कललं कललादीनां दशानामवस्थानाम् अर्वुदायो ऽर्वुदादीनामेकैकापर्हासेनैकस्मिन्निकायसभागे /
2609 SK [०८५|१३-०८५|१४] अन्येषु तु समानजातीयेषु दशाप्यवस्था दशानाम् /
2610 SK [०८५|१४-०८५|१५] बाह्येष्वपि यवो यवस्य शालिः शालेरिति विस्तरेण योज्यम् /
2611 SK [०८५|१५-०८५|१६] ये तु रूपं रूपस्य नेच्छन्ति सभागहेतुं तेषामेष ग्रन्थः इच्छाविघातायसंप्रवर्त्तते ᳚अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपति᳚ रिति /
2612 SK [०८५|१७] किं पुनः सर्वे सदृशानां सभागहेतः / नेत्याह / किं तर्हि /
2613 SK [०८५|१८] स्वनिकायभुवः /
2614 SK [०८५|१९] स्वो निकायो भूश्चैषां त इमे स्वनिकायभुवः /
2615 SK [०८५|१९-०८५|२०] पञ्च निकायाः दुःखदर्शनप्रहातव्यो यावत् भावनाप्रहातव्यः /
2616 SK [०८५|२०] नव भूमयः /
2617 SK [०८५|२०-०८५|२१] कामधातुरष्टौ च ध्यानारूप्याः /
2618 SK [०८५|२१] तत्र दुःखदर्शनहेयाः दुःखदर्शनहेयानां सभागहेतुर्नान्येषाम् /
2619 SK [०८५|२१-०८५|२२] एवं यावत् भावनाहेया भावनाहेयानाम् /
2620 SK [०८५|२२-०८५|२४] ते ऽपि कामावचराः कामावचराणां प्रथमध्यानभूमिकाः प्रथमध्यानभूमिकानां यावत् भवाग्रभूमिकास्तद्भूमिकानामेवणान्यषाम् /
2621 SK [०८५|२४] ते ऽपि न सर्वे / किं तर्हि /
2623 SK [०८५|२६] पूर्वोत्पन्नाः पश्चिमानामुत्पन्नानुत्पन्नानां सभागहेतुः / अनागता नैव सभागहेतुः /
2624 SK [०८५|२७] एवमतीते कुत एतत् आह / शास्त्रात् / ᳚सभागहेतुः कतमः /
2625 SK [०८५|२७-०८६|०२] पूर्वोत्पन्नानि कुशलमूलानिपश्चादुत्पन्नानां कुशलमूलानां तत्संप्रयुक्तानां च धर्माणां स्वधातौ सभागहेतुना हेतुः /
2626 SK [०८६|०२] एवमतीतान्यतीतप्रत्युत्पन्नानाम् /
2627 SK [०८६|०२-०८६|०३] अतीतप्रत्युत्पन्नान्यनागतानामिति वक्तव्यम्᳚ /
2628 SK [०८६|०३-०८६|०४] इदपि शास्त्रं ᳚यो धर्मो यस्य धर्मस्य हेतुः कदाचित्स धर्मस्तस्य न हेतुः /
2630 SK [०८६|०४-०८६|०५] न कदाचिदिति सहभूसंप्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोषः एषः /
2631 SK [०८६|०५-०८६|०६] यस्तु मन्यते अनागतो ऽपि स धर्म उत्पद्यमानावस्थायां सभागहेतुत्वे नियतीभूतो भवत्यतस्तां चरमावस्थामभिसंधायोक्तं ᳚न कदाचिन्न हेतुरि᳚ति /
2632 SK [०८६|०६-०८६|०८] तस्या यमपरिहारो यस्मात्स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुरभूत्वा पश्चात् भवति /
2633 SK [०८६|०८-०८६|१०] इहपि च प्रश्ने यो धर्मो यस्य धर्मस्य समनन्तरः कदाचित् स धर्मस्तस्य धर्मस्य न समनन्तर इति शक्यमनया कल्पनया वक्तुं स्यान्न कदाचिदिति /
2634 SK [०८६|१०] कस्मादेवमाह /
2635 SK [०८६|१०-०८६|११] यदि स धर्मो नोत्पन्नो भवतीति द्विमुखसंदर्शनार्थं यथा तत्र तथेहापि कर्त्तव्यम् /
2636 SK [०८६|११] यथा चेह तथा तत्रेति /
2637 SK [०८६|११-०८६|१२] एवं सति को गुणो लभ्यत इत्यकौशल मेवात्र शास्त्रकारस्यैव संभाव्येत /
2638 SK [०८६|१२-०८६|१३] तस्मात् पूर्वक एवात्र परिहारः साधुः /
2639 SK [०८६|१३-०८६|१५] यत्तर्हीदमुक्तम् ᳚अनागतानां सत्कायदृष्टिं तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा यत्तदन्यत् क्लिष्टं दुःखसत्यं तत्सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुर्यत्तु स्थापितं तत्सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुरि᳚ति /
2640 SK [०८६|१५-०८६|१६] अनागतसत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वेत्येवमेतत् कर्त्तव्यमर्थतो ऽपि चैवं बोद्धव्यमिति /
2641 SK [०८६|१६-०८६|१८] इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते ᳚सर्वधर्माश्चतुष्के नियता हेतौफले आश्रये आलम्वने नियता᳚ इति /
2642 SK [०८६|१८] हेतुरत्र संप्रयुक्तकहेतुः सहभूहेतुश्च /
2643 SK [०८६|१८-०८६|१९] फलं पुरुषकारफलमधिपतिफलं च /
2644 SK [०८६|१९] आश्रयश्चक्षुरादिरालम्बनं रूपादिकमिति द्रष्टव्यम् /
2645 SK [०८६|१९-०८६|२०] ननु चैवं सति सभाग हेतुरभूत्वा हेतुर्भवतीति प्राप्तम् /
2646 SK [०८६|२०-०८६|२१] इष्यत एवावस्थां प्रति न द्रव्यम् /
2647 SK [०८६|२१] अवस्थाफलल्ं हि सामर्ग्यं न द्रव्यफलम् /
2648 SK [०८६|२१-०८६|२२] किं पुनः स्याद्यदि विपाकहेतुवदनागतो ऽपि सभागहेतुः स्यात् /
2649 SK [०८६|२२] शास्त्रे तस्य ग्रहणं स्यात् /
2650 SK [०८६|२२-०८६|२३] स एव हि फलदानग्रहणक्रियासमर्थस्तस्यैव ग्रहणाददोषः /
2651 SK [०८६|२३] नैतदस्ति /
2652 SK [०८६|२३-०८६|२४] निःष्यन्दफलेन हि सफलः सभागहेतुः /
2653 SK [०८६|२४] तच्चानागतस्यायुक्तं पूर्वपश्चिमता ऽभावात् /
2654 SK [०८६|२४-०८६|२५] न चोत्पन्नमनागतस्य निष्यन्दो युज्यते /
2655 SK [०८६|२५] यथा ऽतीतं वर्त्तमानस्य / मा भूद्धेतोः पूर्वं फलमिति /
2656 SK [०८६|२६] नास्त्यनागतः सभागहेतुः / विपाकहेतुरपि एवमनागतो न प्रप्नोति /
2657 SK [०८६|२६-०८६|२७] वीपाकफलस्य पूर्वं सह चायोगादनागते चाध्वति पूर्वपश्चिमता ऽभावात् /
2658 SK [०८६|२७] नैतदस्ति /
2659 SK [०८६|२८-०८६|२९] सभागहेतोर्विना पौर्वापर्येण सदृशः सदृशस्य सभागहेतुरित्यन्योन्यहेतुत्वादन्योन्यनिःष्यन्दता संप्रसज्येत /
2660 SK [०८६|२९] नचान्योन्यनिःष्यन्दता युक्तिमतीति /
2661 SK [०८७|०१] नत्वेव विपाकहेतोर्विना पौर्वापर्येणान्योन्यहेतुफलता संप्रसज्यते /
2662 SK [०८७|०१-०८७|०२] भिन्नलक्षणात्वाद्धेतुफलयोः /
2663 SK [०८७|०२-०८७|०३] तस्मादवस्थाव्यव्स्थितं एव सभागहेतुर्लक्षणव्यवस्थितस्तुपाकहेतुरित्यनागतो ऽपि न वार्यते /
2664 SK [०८७|०४] यदुक्तं स्वभूमिकः सभागहेतुर्भवतीति किमेष नियमः सर्वस्य सास्रवस्यैष नियमः /
2665 SK [०८७|०५] अन्यो ऽन्यं नवभूमिस्तु मार्गः
2666 SK [०८७|०६] सभागहेतुरित्यधिकारः /
2667 SK [०८७|०६-०८७|०७] अनागम्ये ध्यानान्तरिकायां चतुर्षुरनेषु त्रिषु चारूप्येषु मार्गसत्यमन्यो ऽन्यं सभागहेतुः /
2668 SK [०८७|०७] किं कारणम् /
2669 SK [०८७|०७-०८७|०८] आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितस्तद्भमि काभिस्तृष्णाभिरस्वीकृतत्वात् /
2670 SK [०८७|०८-०८७|०९] अतः मानजातीयस्यान्यभूमिकस्यापि सभागहेतुर्भवति /
2672 SK [०८७|१०] समविशिष्टयोः // VAक्K_२.५२ //
2673 SK [०८७|११] न्यूनस्य हेतुर्भवति /
2674 SK [०८७|११-०८७|१२] तद्यथा दुःखे धर्मज्ञानक्षान्तिस्तस्या एवानागतायाः सभागहेतुविशिष्टस्यच यावदनुत्पादज्ञानस्य /
2675 SK [०८७|१२-०८७|१३] अनुत्पादज्ञानमनुत्पादज्ञानस्यैवान्यविशिष्टभावात् /
2676 SK [०८७|१३] दर्शनभावना ऽशैक्ष्यमार्गास्त्रिध्येकेषाम् /
2677 SK [०८७|१३-०८७|१४] तत्रापि मृद्विन्द्रियमार्गो मृदुतीक्ष्णेन्द्रियमार्गस्य हेतुः /
2678 SK [०८७|१४] तीक्ष्णेन्द्रियमार्गस्तीक्ष्णेन्द्रियमार्गस्यैव /
2679 SK [०८७|१४-०८७|१५] तद्यथा श्रद्धानुसारिश्रद्धाधिमुक्तसमयविमुक्त्तमार्गाः षण्णां चतुर्णां द्वयोश्च /
2680 SK [०८७|१५-०८७|१६] धर्मानुसारिष्टप्राप्तासमयविमुक्तमार्गाः त्रयाणां द्वयोरेकस्य /
2681 SK [०८७|१६-०८७|१७] कथं पुनरूर्ध्वंभूमिकस्याधोभूम्मिकोमार्गः समो वा भवति विशिष्टो वा /
2682 SK [०८७|१७] इन्द्रियतो हेतूपचयतश्च /
2683 SK [०८७|१७-०८७|१८] तत्र दर्शनादिमार्गाणां मृदुमृद्वादीनां चोत्तरोत्तर हेतूपचिततराः /
2684 SK [०८७|१८-०८७|१९] यद्यप्येकसन्ताने श्रद्धार्नुसारिमार्गयोरसंभवः उत्पन्नस्त्वनागतस्य हेतुः /
2685 SK [०८७|२०] किं पुनः मार्ग एव समविशिष्टयोः सभागहेतुर्भवति / नेत्याह /
2686 SK [०८७|२०-०८७|२१] लौकिका अपि हि
2687 SK [०८७|२२] प्रयोगजास्तयोरेव
2688 SK [०८७|२३] समविशिष्टयोः सभागहेतुर्भवन्ति न न्यूनस्य / यथा कतमे इत्याह
2689 SK [०८७|२४] श्रुतचिन्तामयादिकाः /
2690 SK [०८७|२५-०८७|२६] एते हि प्रायोगिकाः श्रुतचिन्ताभावनामया गुणाः समविशिष्टयोरेव हेतुर्नन्यूनानाम् /
2691 SK [०८७|२६-०८७|२७] तद्यथा कामावचराः श्रुतमयाः श्रुतचिन्तामयानां चिन्तामयाचिन्तामयानाम् /
2692 SK [०८७|२७] भावनामयाभावात् /
2693 SK [०८७|२७-०८७|२८] रूपावचराः श्रुतमयाः श्रुतभावनामयानां चिन्तामयाभावात् /
2694 SK [०८७|२८] भावनामया भावनामयानामेव /
2695 SK [०८७|२८-०८७|२९] आरूप्यावचराभावनामया भावनामयानामेव /
2696 SK [०८७|२९-०८८|०१] तेषामपि नवप्रकारभेदात् मृदुमृदवः सर्वेषां मृदुमध्या अष्टानामित्येषानीतिः /
2697 SK [०८८|०१-०८८|०२] उपपत्तिप्रतिलम्भिकास्तु कुशला धर्माः सर्वे नवप्रकाराः परस्पर सभागहेतुः /
2698 SK [०८८|०२] क्लिष्टा अप्येवम् /
2699 SK [०८८|०२-०८८|०३] अनिवृताव्याकृतास्तु चतुर्विधाः /
2700 SK [०८८|०३] विपाकजा ऐर्यपथिकाः शैल्पस्थानिकाः निर्माणचित्तसहजाश्च /
2701 SK [०८८|०३-०८८|०४] ते यथाक्रमं चतुस्त्रीद्वेकेषां सभागहेतुः निर्माणचित्तमपोइ कामावचर चतुर्ध्यनफलम् /
2702 SK [०८८|०५] तत्र नोत्तरध्यानफलमधरध्यानफलस्य /
2703 SK [०८८|०५-०८८|०६] नह्याभिसंस्कारिकस्य सभागहेतोर्हीयमानं फलं भवति /
2704 SK [०८८|०६-०८८|०७] तद्यथा शालिर्यवादीनां मा भून्निष्फलः प्रयत्न इति /
2705 SK [०८८|०७-०८८|०८] अत एव चाहुः स्यादुत्पन्नो ऽनास्रवो ऽनुत्पन्नस्यास्रवस्य न हेतुः स्यात्तद्यथा दुःखे धर्मज्ञानमुत्पनामनुत्पन्नानां दुःखे धर्मज्ञानक्षान्तीनाम्/
2706 SK [०८८|०८-०८८|०९] सर्वं च विशिष्टं न्यूनस्य न हेतुः /
2707 SK [०८८|०९-०८८|१०] स्यादेकसन्ताननियतः पूर्वप्रतिलब्धो ऽनास्रवो धर्मः पश्चादुत्पन्नस्य नहेतुः /
2708 SK [०८८|१०-०८८|११] स्यादनागताः दुःखे धर्मज्ञानक्षान्तयो दुःखे धर्मज्ञानस्ययस्मान्न पूर्वतरं फलमस्त्यनागतो वा सभागहेतुः /
2709 SK [०८८|११-०८८|१२] स्यात् पूर्वोत्पन्नो ऽनास्रवो धर्मः पश्चादुत्पन्नस्यानास्रवस्य न हेतुः /
2710 SK [०८८|१२] स्यादविमात्रो न्यूनस्य /
2711 SK [०८८|१२-०८८|१४] तद्यथोत्तरफलपरिहीणस्यावर फलसंमुखीभावे दुःखे धर्मज्ञानप्राप्तिश्चोत्तरोत्तर क्षण सहोत्पन्नानां दुःखे धर्मज्ञानक्षान्तिप्राप्तीनां न्यूनत्वादिति /
2712 SK [०८८|१४] उक्तः सभागहेतुः /
2713 SK [०८८|१५] संप्रयुक्तकहेतुस्तु चित्तचैत्ताः /
2714 SK [०८८|१६] एवं सति भिन्नकालसन्तानजानाम प्यन्योन्यसंप्रयुक्तकहेतुत्वप्रसङ्गः /
2715 SK [०८८|१६-०८८|१७] एकाकारा लम्बनास्तर्हि /
2716 SK [०८८|१७] एवमपि स एव प्रसङ्गः / एककालास्तर्हि /
2717 SK [०८८|१७-०८८|१८] एवं तर्हि सति भिन्नसन्तानजानामपि प्रसङ्गो नवचन्द्रादीनि पश्यताम् /
2718 SK [०८८|१८] तस्मात्तर्हि
2719 SK [०८८|१९] समाश्रयाः // VAक्K_२.५३ //
2720 SK [०८८|२०] समान आश्रयो येषां ते चित्तचैत्ताः अन्योन्यं संप्रयुक्तकहेतुः /
2721 SK [०८८|२०-०८८|२२] समान इत्यभिन्नस्ततद्यथा य एव चक्षुरिन्द्रियक्षणश्चक्षुर्विज्ञानस्याश्रयः स एव तत्संप्रयुक्तानां वेदनादीनामेव यावन्मनः /
2722 SK [०८८|२२] इन्द्रियक्षणो मनोविज्ञानत्संप्रयुक्टानां वेदितव्यः /
2723 SK [०८८|२२-०८८|२३] यः संप्रयुक्तकहेतुः सहभूहेतुरपि सः /
2724 SK [०८८|२३] अथ केनार्थेन सहभूहेतुः केन संप्रयुक्तकहेतुः /
2725 SK [०८८|२४] अन्योन्यफलार्थेन सहभूहेतुः / सहसार्थिकान्योन्यबलमार्गप्रयाणवत् /
2726 SK [०८८|२४-०८८|२५] पञ्चभिः समताभिः संप्रयोगार्थेन संप्रयुक्तकहेतुः /
2727 SK [०८८|२५-०८८|२६] तेषामेव सार्थिकानां समानान्नपानादिपरिभोगक्रियाप्रयोगवत् /
2728 SK [०८८|२६-०८८|२७] एकेनापि हि विना सर्वेण न संप्रयुज्यन्त इत्ययमेषां हेतुभावः /
2729 SK [०८८|२७] उक्तः संप्रयुक्तकहेतुः /
2730 SK [०८९|०१] सर्वत्रगहेतुः कतमः /
2731 SK [०८९|०२] सर्वत्रगाख्यः क्लिल्ष्टानां स्वभूमौ पूर्वसर्वगाः /
2732 SK [०८९|०३] स्वभूमिकाः पूर्वोत्पन्नाः सर्वत्रगा धर्माः पश्चिमानां क्लिष्टानां धर्माणां सर्वत्रगहेतुः /
2733 SK [०८९|०४] तान् पुनः पश्चादनुशयनिर्देशकोशस्थान एव व्याख्यास्यामः /
2734 SK [०८९|०४-०८९|०५] क्लिष्टधर्मसामान्यकारणत्वेनायं सभागहेतोः पृथक् व्यवस्थाप्यते /
2735 SK [०८९|०५-०८९|०६] निकायान्तरीयाणामपि हेतुत्वादेषां हि प्रभावेणान्यनैकायिका अपि क्लेशा उपजायन्ते /
2736 SK [०८९|०६-०८९|०७] किमार्यपुद्गलस्यापि क्लिष्टा धर्माः सर्वत्रगहेतुकाः /
2737 SK [०८९|०७-०८९|०८] सर्व एव क्लिष्टा धर्मा दर्शनप्रहातव्यहेतुका इति काश्मीराः /
2738 SK [०८९|०८-०८९|०९] तथा प्रकारणेषूक्तं ᳚दर्शनप्रहातव्यहेतुकाः धर्माः कतमे /
2739 SK [०८९|०९] क्लिष्टा धर्माः यश्च दर्शनप्रहातव्यानां धर्माणां विपाक इति /
2740 SK [०८९|०९-०८९|१०] अव्याकृतहेतुका धर्माः कतमे / [०८९|१०] अव्याकृताः संस्कृता धर्मा अकुशलाश्चेति /
2741 SK [०८९|१०-०८९|१३] दुःखसत्यं स्यात् सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुरिति विस्तरो यावन्न सत्कायदृष्टेः तेषां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत् क्लिष्टम् दुःखसत्य᳚मिति /
2742 SK [०८९|१३] इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते ᳚स्याद्धर्मो ऽकुशलो ऽकुशलहेतुक एव /
2743 SK [०८९|१४-०८९|१५] स्यादार्यपुद्गलः कामवैराग्यात् परिहीयमाणो यां तत्प्रथमतः क्लिल्ष्टाञ्चेतनां संमुखीकरोती᳚ति /
2744 SK [०८९|१५] अप्रहीणहेतुमेतत् संधायोक्तम् /
2745 SK [०८९|१५-०८९|१६] दर्शनप्रहातव्यो हि तस्या हेतुः प्रहीणत्वान्नोक्तः /
2746 SK [०८९|१६] उक्तः सर्वदगहेतुः /
2747 SK [०८९|१७] विपाकहेतुः कतमः /
2748 SK [०८९|१८] विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः // VAक्K_२.५४ //
2749 SK [०८९|१९] अकुशलाः कुशलसास्रवाश्च धर्मा विपाकहेतुः / विपाकधर्मत्वात् /
2750 SK [०८९|१९-०८९|२०] कस्मादव्याकृता धर्माः विपाकं न निर्वर्त्तयन्ति /
2751 SK [०८९|२०] दुर्बलत्वात् / पूति बीजवत् /
2752 SK [०८९|२१] कस्मान्नानास्रवाः / तृष्णानभिष्यन्दितत्वात् / अनभिष्यन्दितसारबीजवत् /
2753 SK [०८९|२१-०८९|२२] अप्रतिसंयुक्ता हि किंप्रतिसंयुक्तं विपाकमभिनिर्वर्त्तयेयुः /
2754 SK [०८९|२२] शेषास्तूभयविधत्वान्निर्वर्त्तयन्ति /
2755 SK [०८९|२३] साराभिष्यन्दितबीजवत् /
2756 SK [०८९|२३-०८९|२४] कथमिदं विज्ञातव्यं विपाकस्य हेतुर्विपाकहेतुराहोस्विद्विपाक एव हेतुर्विपाकहेतुः /
2757 SK [०८९|२४] किं चातः /
2758 SK [०८९|२४-०८९|२५] यदि विपाकस्य हेतुर्विपाकहेतुः ᳚वीपाकजं चक्षुरि᳚ति एतन्न प्राप्नोति /
2759 SK [०८९|२५-०८९|२६] अथ विपाक एव हेतुर्विपाकहेतुः ᳚कर्मणो विपाक᳚ इत्येतन्न प्राप्नोति /
2760 SK [०८९|२६] नैष दोषः / ᳚उभयथापि योग᳚ इत्युक्तं प्राक् //
2761 SK [०८९|२६-०८९|२७] अथ विपाक इति को ऽर्थः /
2762 SK [०८९|२७] विसदृशः पाको विपाकः / अन्येषां तु हेतूनां सदृशः पाकः /
2763 SK [०८९|२७-०९०|०१] एकस्योभयथेति वैभाषिकाः /
2764 SK [०९०|०१] नैव तु तेषां पाको युक्तः /
2765 SK [०९०|०१-०९०|०२] पाको हि नाम सन्ततिपरिणामविशेषजः फलपर्यन्तः /
2766 SK [०९०|०२-०९०|०३] न च सहाभूसंप्रयुक्तहेत्वोः सन्ततिपरिणामविशेषजं फलमस्ति /
2767 SK [०९०|०३] न चापि सभागहेत्वादीनां फलपर्यन्तो ऽस्ति /
2768 SK [०९०|०३-०९०|०४] पुनः पुनः कुशलाद्यासंसारफलत्वात् /
2769 SK [०९०|०४] कामधातावेकस्कन्धको विपाकहेतुरेकफलः प्रत्ययस्तज्जात्यादयश्च /
2770 SK [०९०|०५] द्विस्कन्धक एकफलः कायवाक्कर्म तज्जात्यादयश्च /
2771 SK [०९०|०५-०९०|०६] चतुस्कन्धक एकफलः कुशलाकुशलाश्चित्तचैत्ताः सह जात्यादिभिः //
2772 SK [०९०|०६-०९०|०७] रूपधातावेकस्कन्धको वीपाकहेतुरेकफलः प्राप्तिरसंज्ञिसमापत्तिश्च सह जात्यादिभिः /
2773 SK [०९०|०७-०९०|०८] द्विस्कन्धक एकफलः प्रथमे ध्याने विज्ञप्तिः सह जात्यादिभिः /
2774 SK [०९०|०८-०९०|०९] चतुस्कन्धक एकफलः कुशले चेतस्यसमाहिते /
2775 SK [०९०|०९] पञ्चस्कन्धक एकफलः समाहिते //
2776 SK [०९०|०९-०९०|१०] आरूप्यधातावेकस्कन्धको विपाकहेतुरेकफलः प्राप्तिर्निरोधसमापतिश्च सह जात्यादिभिः /
2777 SK [०९०|१०-०९०|११] चतुस्कन्धकः कुशलाश्चित्तचैत्ताः तज्जात्यादयश्च /
2778 SK [०९०|११-०९०|१२] अस्ति कर्म यस्यैकमेव धर्मायतनं वीपाको विपच्यते जीवितेन्द्रियम् /
2779 SK [०९०|१२] यस्य मन आयतनं तस्य द्वे मनोधर्मायतने /
2780 SK [०९०|१२-०९०|१३] एवं यस्य स्प्रष्टव्यायतनं यस्य कायायतनं तस्य त्रीणि कायस्प्रष्टव्यधर्मायतनानि /
2781 SK [०९०|१३-०९०|१४] एवं यस्य रूपगन्धरसायतनानि /
2782 SK [०९०|१४] यस्य चक्षुरायतनं तस्य चत्वारि चक्षुःकायस्प्रष्टव्यधर्मायतनानि /
2783 SK [०९०|१५] एवं यस्य श्रोत्रग्राणजिह्वायतनानि /
2784 SK [०९०|१५-०९०|१६] अस्ति तत् कर्म यस्य पञ्च षट् सप्ताष्टौ नव दशैकादशायतनानि विपाको विपच्यते /
2785 SK [०९०|१६-०९०|१७] विचित्राविचित्रफलत्वात् कर्मणो बाह्यबीजवत् /
2786 SK [०९०|१७] तद्यथा बाह्यानि वीजानि कानिचिद्विचित्रफलानि भवन्ति /
2787 SK [०९०|१७-०९०|१८] तद्यथा पद्मदाडिमन्यग्रोधादीनाम् /
2788 SK [०९०|१८] कानिचिदविचित्रफालानि तद्यथा यवगोदूमादीनाम् /
2789 SK [०९०|१९] एकाध्विकस्य कर्मणस्त्रैयध्विको विपाको विपच्यते /
2790 SK [०९०|१९-०९०|२०] न तु द्वैयध्विकस्याप्येकाध्विको मा भूदतिन्यूनं हेतोः फलमिति /
2791 SK [०९०|२०-०९०|२१] एकमेकक्षनिकस्य बहुक्षाणिको ननु विपर्ययात् /
2792 SK [०९०|२१-०९०|२२] न च कर्मणा सह विपाको विपच्यते नाप्यनन्तरं समनन्तरप्रत्ययाकृष्टत्वात् समनन्तरक्षणस्य /
2793 SK [०९०|२२] प्रवाहापेक्षो हि विपाकहेतुः /
2794 SK [०९०|२३] अथ क एषां हेतूनामध्वनियमः /
2795 SK [०९०|२३-०९०|२४] उक्त एषामर्थतो ऽध्वनियमः नतु सूत्रित इत्यतः सूत्र्यते /
2796 SK [०९०|२५] सर्वत्रगः सभागश्च द्वयध्वगौ
2797 SK [०९०|२६] अतीतप्रत्युत्पन्नावेव अनागतौ न स्तः / उक्तं चात्र कारणम् /
2798 SK [०९०|२७] त्र्यध्वगा स्त्रयः /
2799 SK [०९०|२८] सहभूसंप्रयुक्तकविपाकहेतव स्त्रिकालाः / कारणहेतुस्तु कालनियमानुपदर्शनात् /
2800 SK [०९०|२९] सर्वाध्वक श्चाध्वविप्रयुक्तश्च वेदितव्यः / उक्ता हेतवः /
2801 SK [०९०|३०] किं पुनस्तत्फलं यस्यैते हेतवः /
2802 SK [०९१|०१] संस्कृतं सविसंयोग फलं
2803 SK [०९१|०२] फलं धर्माः / कतमे / ᳚संस्कृता धर्माः प्रतिसंख्यानिरोधश्चे᳚ति शास्त्रम् /
2804 SK [०९१|०२-०९१|०४] एवं तर्हि फलत्वादसंस्कृतस्य हेतुना भवितव्यं यस्य तत् फलं हेतुत्वाच्च फलेन भवितव्यं यस्य तद्धेतुः /
2805 SK [०९१|०४] संस्कृतस्यैव धर्मस्य हेतुफले भवतः /
2806 SK [०९१|०५] नासंस्कृतस्य ते // VAक्K_२.५५ //
2807 SK [०९१|०६] किं कारणम् / षड्विधहेत्वसंभवात् पञ्चविधफलासंभवाच्च /
2808 SK [०९१|०६-०९१|०७] कस्मात् मार्गो विसंयोगस्य कारणहेतुर्नेष्यते /
2809 SK [०९१|०७-०९१|०८] यास्मात् स उत्पादाविघ्नभावेन व्यवस्थापितो न चासंस्कृतमुत्पत्तिमत् /
2810 SK [०९१|०८] कस्येदानीं तत्फलं कथं वा मार्गस्य फलम् /
2811 SK [०९१|०९] तद्बलेन प्राप्तेः / प्राप्तिरेव तर्हि मार्गस्य फलं प्राप्नोति /
2812 SK [०९१|०९-०९१|१०] तस्यामेव तस्य सामर्थ्यान्न विसंयोगः /
2813 SK [०९१|१०] अन्यथा ह्य्स्य प्राप्तौ सामर्थ्यमन्यथा विसंयोगे /
2814 SK [०९१|१०-०९१|११] कथमस्य प्राप्तौ सामर्थ्यम् /
2815 SK [०९१|११] उत्पादनात् / कथं विसंयोगे / प्रपणात् /
2816 SK [०९१|११-०९१|१२] तस्मान्न तावदस्य मार्गः कथञ्चिदपि हेतुः /
2817 SK [०९१|१२] फलं चास्य विसंयोगः /
2818 SK [०९१|१२-०९१|१३] अथासत्यधिपतिफले कथमसंस्कृतं कारणहेतुः /
2819 SK [०९१|१३] उत्पत्त्यनावरणभावेन कारणहेतुः /
2820 SK [०९१|१३-०९१|१४] न चास्य फलमस्त्यध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वात् /
2821 SK [०९१|१४] नैव हि क्वचिदसंस्कृतं भगवता हेतुरित्युक्तम् /
2822 SK [०९१|१५] उक्तं तु पर्यायेण हेतुरिति सौत्रान्तिकाः / कथमुक्तम् /
2823 SK [०९१|१६] ᳚ये हेतवो ये प्रत्यया रूपस्योत्पादाय ते ऽप्यनित्याः /
2824 SK [०९१|१७] अनित्यान् खलु हेतुप्रत्ययान् प्रतीत्योत्पन्नं रूपं कुतो नित्यम् भविष्यति᳚
2825 SK [०९१|१८] एवं यावद्धि विज्ञानमिति /
2826 SK [०९१|१८-०९१|१९] एवं तर्हि विज्ञानस्यालमबनप्रत्ययो ऽप्यसंस्कृतं न प्राप्नोति /
2827 SK [०९१|१९] उत्पादायेत्यवधारणात् / प्राप्नोति /
2828 SK [०९१|२०] ᳚ये हेतवो ये प्रत्यया विज्ञानस्योत्पादाय ते ऽप्यनित्या᳚
2829 SK [०९१|२१] इत्युक्तं नतूक्तं ये विज्ञानस्य प्रत्ययाः तेप्यनित्या इति /
2830 SK [०९१|२१-०९१|२३] ननु च हेतवो ऽपि य उत्पादाय त एवानित्या इति वचनादसंस्कृतस्यानावरणभावमात्रेण कारणहेतुत्वाप्रतिषेधः /
2831 SK [०९१|२३-०९१|२४] उक्त आलम्बनप्रत्ययः सूत्रे न त्वनावरणहेतुरिति न सूत्रे सिध्यत्यसंस्कृतस्य हेतुभावः /
2832 SK [०९१|२४] यद्यपि नोक्तो नतु प्रतिषिद्धः /
2833 SK [०९१|२४-०९१|२५] सूत्राणि च बहून्यन्तर्हितानीति कथमेतन्निर्धार्यते नोक्त इति /
2834 SK [०९१|२६] अथ को ऽयं विसंयोगो नाम / ननु चोक्तं प्राक् ᳚प्रतिसंख्यानिरोध᳚ इति /
2835 SK [०९१|२७-०९२|०१] तदानीं ᳚प्रतिसंख्यानिरोधः कतमो यो विसंयोग᳚ इत्युक्तमिदानीं इसंयोगःकथमः /
2836 SK [०९२|०१] यः प्रतिसंख्यानिरोध इत्युच्यते /
2837 SK [०९२|०१-०९२|०२] तदिदमितरेतराश्रयं व्याख्यानमसमर्थं तत्स्वभावद्योतने /
2838 SK [०९२|०२] तस्मादन्यथा तत्स्वभावो यक्तव्यः /
2839 SK [०९२|०२-०९२|०३] आर्यैरेव तत्स्वभावः प्रत्यात्मवेद्यः /
2840 SK [०९२|०३] एतावक्तु शक्यते वक्तुम् नित्यं कुशलं चास्ति द्रव्यान्तरम् /
2841 SK [०९२|०३-०९२|०४] तद्विसंयोगश्चोच्यते प्रतिसंख्यानिरोधश्चेति /
2842 SK [०९२|०४] सर्वमेवासंस्कृतमद्रव्यमिति सौत्रान्तिकाः /
2843 SK [०९२|०५] नहि तद्रूपवेदनादियत् भावान्तरमस्ति / किं तर्हि / स्प्रष्टव्याभावमात्रमाकाशम् /
2844 SK [०९२|०६] तद्यथा ह्यन्धकारे प्रतिधातमविन्दन्त आकाशमित्याहुः /
2845 SK [०९२|०६-०९२|०७] उत्पन्नानुशयजन्मनिरोधः प्रतिसंख्यावलेनान्यस्यानुत्पादः प्रतिसंख्यानिरोधः /
2846 SK [०९२|०७-०९२|०८] विनैव प्रतिसंख्यया प्रत्ययवैकलयादनुत्पादो यः सो /प्रतिसंख्यानिरोधः /
2847 SK [०९२|०८-०९२|०९] तद्यथा निकायसभागशेषस्यान्तरामरणे /
2848 SK [०९२|०९] निकायान्तरीयाः पुनराहुः /
2849 SK [०९२|०९-०९२|१०] अनुशयानामुत्पत्तौ प्रज्ञायाः सामर्थ्यमतो ऽसौ प्रतिसंख्यानिरोधः /
2850 SK [०९२|१०-०९२|११] यस्तु पुनः दुःखस्यानुत्पादः सः उत्पादकारणानुशयवैकल्यादेवेति न तस्मिन्प्रज्ञायाः सामर्थ्यमस्त्यतो ऽसावप्रतिसंख्यानिरोध इति /
2851 SK [०९२|१२] सो ऽपि तु नान्तरेण प्रतिसंख्यां सिध्यतीति प्रतिसम्ख्यानिरोध एवासौ /
2852 SK [०९२|१२-०९२|१३] य एवोत्पन्नस्य पश्चादभावः स एव स्वरस निरोधादप्रतिसंख्यानिरोध इत्यपरे /
2853 SK [०९२|१३-०९२|१४] अस्यां तु कल्पनायामनित्यो ऽप्रतिसंख्यानिरोधः प्राप्नोत्यविनष्टे तदभावात् /
2854 SK [०९२|१४-०९२|१५] ननु च प्रतिसंख्यानिरोधो ऽप्यनित्यः प्राप्नोति /
2855 SK [०९२|१५] प्रतिसंख्यापूर्वकत्वात् /
2856 SK [०९२|१५-०९२|१६] न वै स प्रतिसंख्यापूर्वको नहि पोऊर्वं प्रतिसंख्या पश्चादनुत्पन्नानामनुत्पादः /
2857 SK [०९२|१६] किं तर्हि /
2858 SK [०९२|१६-०९२|१७] पूर्वमेव स तेषामनुत्पादो ऽस्ति /
2859 SK [०९२|१७-०९२|१८] विना तु प्रतिसंख्यया ये धर्मा उत्पत्स्यन्ते तदुत्पन्नायां प्रतिसंख्यायां पुनर्नोपपद्यन्त इति /
2860 SK [०९२|१८-०९२|१९] एतदत्र प्रतिसंख्याया समर्थ्यं यदुताकृतोत्पत्तिप्रतिबन्धानामुत्पत्तिप्रतिबन्धभावः /
2861 SK [०९२|१९-०९२|२१] यदि नर्हि अनुत्पाद एव निर्वाणमिदं सूत्रपदं कथं नीयते ᳚पञ्चेमानीन्द्रियाणि आसेवितानि भावितानि बहुलीकृतान्यतीतानागतप्रत्यूत्पन्नस्य दुःखस्य प्रहाणाय संवर्त्तन्त᳚ इति /
2862 SK [०९२|२१-०९२|२२] प्रहाणं हि निर्वाणमनागतस्यैव चानुत्पादो नातीतप्रत्युत्पन्नस्येते /
2863 SK [०९२|२२] अस्त्येतदेवम् /
2864 SK [०९२|२२-०९२|२४] किं तु तदालम्बनक्लेशप्रहाणात् दुःखस्य प्रहाणमुक्तं भगवता ᳚यो रूपे च्छन्दरागस्तं प्रजहीत /
2865 SK [०९२|२४-०९२|२५] च्छन्दरागे प्रहीणे एवं वस्तद्रूपं प्रहीणं भविष्यति पारिज्ञातं विस्तरेण यावद् विज्ञानमि᳚ति /
2866 SK [०९२|२५] एवं त्रैयध्विकस्यापि दुःखस्य प्रहाणं युज्यते /
2867 SK [०९२|२६] अथाप्यतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेत्युच्येत / अत्राप्येष नयः /
2868 SK [०९२|२७-०९२|२९] अथवा ऽयमभिप्रायो भवेदतीतः क्लेशः पौर्वजन्मिकः प्रत्युत्पन्नः क्लेश ऐहजन्मिको यथा तृष्णा विचरितेष्वष्टादश तृष्णाविचरितान्यतीतमध्वानमुपादायेत्यतीतं जन्माधिकृत्योक्तमेवं यावत् प्रत्युत्पन्नम् /
2869 SK [०९२|२९-०९३|०१] तेना च क्लेशद्वयेनास्यां सन्ततौ बीजभाव आहितो ऽनागतस्योत्पत्तये /
2870 SK [०९३|०१] तस्य प्रहाणात्तदपि प्रहीणं भवति /
2871 SK [०९३|०१-०९३|०२] यथा विपाकक्षयात्कर्मं क्षीणं भवति /
2872 SK [०९३|०२-०९३|०३] अनागतस्य पुनर्दुःखस्य क्लेशस्य वा बीजाभावात् अत्यन्तमनुत्पादः प्रहाणम् /
2873 SK [०९३|०३-०९३|०४] अन्यथा ह्यतीतप्रत्युत्पन्नस्य किं प्रहातव्यम् /
2874 SK [०९३|०४] नहि निरुद्धे निरोधाभिमुखे च यत्नः सार्थको भवतीति /
2875 SK [०९३|०४-०९३|०६] यद्यसंस्कृटं नास्त्येव, यदुक्तं भगवता ᳚ये केचिद्धर्माः संस्कृता वा ऽसंस्कृता वा विरागस्तेषामग्र आख्यायते᳚ इति कथमसतामसन्नग्रो भवितुमर्हति /
2876 SK [०९३|०६-०९३|०७] न वै नास्त्येवासंस्कृतमिति ब्रूमः /
2877 SK [०९३|०७] एतत्तु तदीदृशं यथा ऽस्माभिरुक्तम् /
2878 SK [०९३|०७-०९३|०८] तद्यथा अस्ति शब्दस्य प्रागभावो ऽस्ति पश्चादभाव इत्युच्यते /
2879 SK [०९३|०८] अथ च पुनर्नाभावो भावः सिध्यति /
2880 SK [०९३|०८-०९३|०९] एवमसंस्कृतमपि द्रष्टव्यम् /
2881 SK [०९३|०९-०९३|१०] अभावो ऽपि च कश्चित् प्रशस्यतमो भवति यः सकलस्योपद्रवस्यात्यन्तमभाव इत्यन्येषां सो ऽग्र इति प्रशंसां लब्धुमर्हति /
2882 SK [०९३|१०] विनेयानां तस्मिन्नुपच्छन्दनार्थम् /
2883 SK [०९३|११] यद्यप्यसंस्कृतमभावमात्रं स्यान्निरोध आर्यसत्यं न स्यात् / नहि ततु किञ्चिदस्तीति /
2884 SK [०९३|१२] कस्तावदयं सत्यार्थः / ननु चाविपरीतार्थः /
2885 SK [०९३|१२-०९३|१४] उभयमपि चैतदविपरीतं दृष्टमार्यैर्यदुत दुःखं च दुःखमेवेति दुःखाभावश्चाभाव एवेति को ऽस्यार्यसत्यत्वे विरोधः कथमभावश्च नाम तृतीयं चार्यसत्यं स्यात् /
2886 SK [०९३|१४-०९३|१५] उस्तं यथार्यसत्यं द्वितीयस्यानन्तरं दृष्टमुद्दृष्टं चेति तृतीयं भवति /
2887 SK [०९३|१५-०९३|१६] यद्यसंस्कृतमभावमात्रं स्यादाकाशनिर्वाणालम्बनविज्ञानमसदालम्बनं स्यात् /
2888 SK [०९३|१६-०९३|१७] एतदतीतानागतस्यास्तित्वचिन्तायां चिन्तयिष्यामः /
2889 SK [०९३|१७] यदि पुनर्द्रव्यमेवासंस्कृतमिष्येत किं स्यात् /
2890 SK [०९३|१७-०९३|१८] किं च पुनः स्यात् /
2891 SK [०९३|१८] वैभाषिकपक्षः पालितः स्यात् /
2892 SK [०९३|१८-०९३|१९] देवता एनं पालयिष्यन्ति पालनीयं चेत् मंस्यते /
2893 SK [०९३|१९] अभूतं तु परिकल्पितं स्यात् / किं कारणम् /
2894 SK [०९३|१९-०९३|२०] नहि तस्य रूपवेदनादिवत् स्वभाव उपलभ्यते नचापि चक्षुरादिवत्कर्म /
2895 SK [०९३|२०-०९३|२१] अमुष्य च वस्तुनो ऽयं निरोघ इति षष्ठीव्यवस्था कथं प्रकल्प्यते /
2896 SK [०९३|२१-०९३|२२] नहि तस्य तेन सार्धं कश्चित्संबन्धो हेतुफलादिभावासंभवात् /
2897 SK [०९३|२२] प्रतिषेधमात्रं तु युज्यते अमुष्याभाव इति /
2898 SK [०९३|२२-०९३|२३] भावान्तरत्वे ऽपि यस्य क्लेशस्य प्राप्तिविच्छेदाय्द्यो निरोधः प्राप्यते स तस्येति व्यवदिश्यते /
2899 SK [०९३|२४] तस्य तर्हि प्राप्तिनियमे को हेतुः /
2900 SK [०९३|२४-०९३|२५] ᳚दृष्टधर्मनिर्वाणप्राप्तो भिक्षुरि᳚त्युक्तं सूत्रे /
2901 SK [०९३|२५] तत्र कथमभावस्य प्राप्तिः स्यात् /
2902 SK [०९३|२५-०९३|२६] प्रतिपक्षलाभेन क्लेशपुनर्भवोत्पादात्यन्तविरुद्धाश्रय लाभात् प्राप्तं निर्वाणमित्युच्यते /
2903 SK [०९३|२६-०९३|२७] आगमश्चाप्यभावमात्रं द्योतयति /
2904 SK [०९३|२७] एवं ह्याह /
2905 SK [०९३|२७-०९४|०१] ᳚यत् स्वल्पस्य दुःखस्याशेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपक्षमो ऽस्तङ्गमः अन्यस्य च दुःखस्याप्रति सन्धिरनुत्पादो ऽप्रादुर्भावः /
2906 SK [०९४|०१-०९४|०२] एतत्कान्तमेतत्प्रणीतं यदुत स्र्वोपाधिप्रनिनिः सर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाण᳚ मिति /
2907 SK [०९४|०२-०९४|०३] किमेवं नेष्यते नास्मिन् प्रादुर्भव्बतीत्यतो ऽप्रादुर्भाव इति /
2908 SK [०९४|०३] असमर्थामेतां सप्तमीं पश्यामः / किमुक्तं भवति /
2909 SK [०९४|०४-०९४|०५] नास्मिन्प्रादुर्भवतीति यदि सतीत्यभिसंबध्यते नित्यमेवाप्रादुर्भावप्रसङ्गो निर्वाणस्य नित्यत्वात् /
2910 SK [०९४|०५-०९४|०६] अथ प्राप्त इत्यभिसंबध्यते यत एव तत्प्राप्तिः परिकल्प्यते तस्मिन्नेव संमुखीभूते प्राप्ते वा दुःखस्येष्यतामप्रादुर्भावः /
2911 SK [०९४|०६-०९४|०७] अयं च दृष्टान्त एवं सूपनीतो भवति /
2912 SK [०९४|०८] ᳚प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतस᳚ इति /
2913 SK [०९४|०९] यथा प्रद्योतस्य निर्वाणमभाव एवं भगवतो ऽपि चेतसो विमोक्ष इति /
2914 SK [०९४|०९-०९४|१०] अभिधर्मे ऽपि चोक्तम् ᳚अवस्तुका धर्माः कतमे /
2915 SK [०९४|१०] असंस्कृता धर्मा᳚ इति /
2916 SK [०९४|१०-०९४|११] अवस्तुका अशरीरा अस्वभावा इत्युक्तं भवति /
2917 SK [०९४|११] नास्यायमर्थः /
2918 SK [०८९|४११-०९४११] कस्तर्हि /
2919 SK [०९४|११] पञ्चविधवस्तु /
2920 SK [०९४|११-०९४|१२] स्वभाववस्तु यथोक्तं ᳚यद्वस्तु प्रतिलब्धं समन्वागतः स तेन वस्तुने᳚ति /
2921 SK [०९४|१२] आलम्बनवस्तु /
2922 SK [०९४|१२-०९४|१३] यथोक्तं ᳚सर्वधर्मज्ञेया ज्ञानेन यथावस्त्वे᳚ति /
2923 SK [०९४|१३] संयोगवस्तु /
2924 SK [०९४|१३-०९४|१४] यथोक्तं ᳚यस्मिन् वस्तुनि अनुनयः संयोजनेन संप्रयुक्तः प्रतिघसंयोजनेनापि तस्मिन्नि᳚ति /
2925 SK [०९४|१४-०९४|१५] हेतुवस्तु यथोक्तं ᳚सवस्तुका धर्माः कतमे /
2926 SK [०९४|१५] संस्कृता धर्मा᳚ इति //
2928 SK [०९४|१५-०९४|१६] यथोक्तं ᳚क्षत्रवस्तु गृहवस्त्वि᳚ति /
2929 SK [०९४|१६-०९४|१७] तदत्र हेतुर्वस्तुशब्देनोक्तस्तस्मादस्त्येवासंस्कृतं द्रव्यत इति वैभाषिकाः /
2930 SK [०९४|१७] तस्य तु हेतुफले न विद्येते इति / गतं तावदेतत् /
2931 SK [०९४|१८] अथैषां फलानां कतमत् फलं कस्य हेतोः /
2932 SK [०९४|१९] विपाकफलमन्त्यस्य
2933 SK [०९४|२०] विपाकहेतुरन्त्ये ऽभिहितत्वात् अन्त्यः / तस्य विपाकफलम् /
2934 SK [०९४|२१] पूर्वस्याधिपतं फलम् /
2935 SK [०९४|२२] कारणहेतुः पूर्वमुक्तत्वात् पूर्वः / तस्याधिपजं फलम् /
2936 SK [०९४|२२-०९४|२३] अनावरणभावमात्रेणावस्थितस्य किमाधिपत्यम् /
2937 SK [०९४|२३-०९४|२४] एतदेव अङ्गीभावो ऽपि चास्ति कारणहेतोस्तद्यथा ᳚पञ्चसु विज्ञानकायेषुदशानामायतनानां भाजनलोके च कर्मणाम् /
2938 SK [०९४|२४-०९४|२५] श्रोत्रादीनामप्यस्ति चक्षुर्विज्ञानोत्पत्तौ पारंपर्येणाधिपत्यम् /
2939 SK [०९४|२५-०९४|२६] श्रुत्वा द्रष्टुकामतोत्पत्ते᳚ रित्येवमादि योज्यम् /
2940 SK [०९४|२७] सभाग सर्वत्रगयोर्निष्यन्दः
2941 SK [०९४|२८] सदृशफलत्वादनयोर्निःष्यन्दफलम् /
2942 SK [०९५|०१] पौरुषं द्वयोः // VAक्K_२.५६ //
2943 SK [०९५|०२] सहभूसंप्रयुक्तकहेत्वोः पुरुषकारफलम् / पुरुषभावव्यतिरेकात् पुरुषकारः पुरुषं एव /
2944 SK [०९५|०३] तस्य फलं पौरुषम् / को ऽयं पुरुषकारो नाम / यस्य धर्मस्य यत् कारित्रम् /
2945 SK [०९५|०४] पुरुषकार इव हि पुरुषकारः / तद्यथा काकजङ्घा ओषधिर्मत्तहस्ती मनुष्य इति /
2946 SK [०९५|०५] किमन्येषामप्यस्ति पुरुषकारफामुताहो द्वयोरेव /
2947 SK [०९५|०५-०९५|०६] अन्येषामप्यस्त्यन्यत्र विपाकहेतोः /
2948 SK [०९५|०६-०९५|०७] यस्मात्सहोत्पन्नं वा समनन्तरोत्पन्नं वा पुरुषकारफलं भवति /
2949 SK [०९५|०७] न चैवं विपाकः / तस्याप्यस्ति विप्रकृष्टपुरुषकारफलम् /
2950 SK [०९५|०७-०९५|०८] यथा कर्षकाणां सस्यमित्यपरे /
2951 SK [०९५|०९] किं पुनरिदं विपाकफलं नाम किं यावदधिपतिफलम् /
2952 SK [०९५|१०] विपाको ऽव्याकृतो धर्मः /
2953 SK [०९५|११] अनिवृताव्याकृतो हि धर्मः विपाकः / असत्त्वाख्यो ऽपि स्यादत आह /
2954 SK [०९५|१२] सत्त्वाख्यः
2955 SK [०९५|१३] औपचयिको ऽपि स्यात् नैःष्यन्दिको ऽप्यत् आह /
2956 SK [०९५|१४] व्याकृतोद्भवः /
2957 SK [०९५|१५] कुशलाकुशलं हि विपाकं प्रति व्याकरणाद्व्याकृतम् /
2958 SK [०९५|१५-०९५|१६] तस्माद्य उतरकालं भवति न सह नान्तरं स विपाकः /
2959 SK [०९५|१६] एतद्विपाकस्य लक्षणम् /
2960 SK [०९५|१६-०९५|१७] कस्मादसत्त्वाख्यो ऽर्थः कर्मजो न विपाकः /
2961 SK [०९५|१७] साधारणत्वात् / अन्यो ऽपि हि तत्तथैव परिभोक्तुं समर्थः /
2962 SK [०९५|१८] असाधारणस्तु विपाकः / नह्यन्यकृतस्य कर्मणो ऽन्यो विपाकं प्रतिसंवेदयते /
2963 SK [०९५|१८-०९५|१९] अधिपतिफलं कस्मात् प्रतिसंवेदयते /
2964 SK [०९५|१९] साधारणकर्मसंभूतत्वात् /
2965 SK [०९५|२०] निःष्यन्दो हेतुसदृशः /
2966 SK [०९५|२१] हेतोर्यः सदृशो धर्मः स निष्यन्दफलम् / तद्यथा सभागसर्वत्रगहेत्वोः /
2967 SK [०९५|२१-०९५|२२] यदि सर्वत्रगहेतोरपि समानं फलं कस्मान्न सभागहेतोरेवेष्यते /
2968 SK [०९५|२२-०९५|२३] यस्मात् भूमितः क्लिष्टतया चास्य सादृश्यं नतु प्रकारतः /
2969 SK [०९५|२३-०९५|२४] यस्य तु प्रकारतो ऽपि सादृश्यं सो ऽभ्युपगम्यत एव सभागहेतुः /
2970 SK [०९५|२४-०९५|२५] अथ एव यो यस्य सभागहेतुः सर्वत्रगहेतुरपि स तस्येति चतुष्कोटिकः क्रियते /
2971 SK [०९५|२५] प्रथमा कोटिरसर्वत्रगः सभागहेतुः /
2972 SK [०९५|२५-०९५|२६] द्वितीया ऽन्यनैकायिकः सर्वत्रगहेतुः /
2973 SK [०९५|२६] तृतीयैकनैकायिकः सर्वत्रगहेतुः /
2974 SK [०९५|२६-०९५|२७] चतुर्थ्यतानाकारान्स्थापयित्वेति /
2975 SK [०९६|०१] विसंयोगः क्षयो धिया // VAक्K_२.५७ //
2976 SK [०९६|०२] क्षयो निरोधः / धीः प्रज्ञा / तेना प्रतिसंख्या निरोधो विसंयोगफलमित्युक्तं भवति /
2977 SK [०९६|०३] यद्वलाज्जायते यत्तत्फलं पुरुषकारजम् /
2978 SK [०९६|०४-०९६|०५] तद्यथा अधरभूमिकस्य प्रयोगचित्तस्योपरिभूमिकः समाधिः सास्रवस्यानास्रवो ध्यानचित्तस्य निर्माणचित्तमित्येवमादि /
2979 SK [०९६|०५-०९६|०६] प्रतिसंख्यानिरोधस्तु यद्वलात् प्राप्यत इति वक्तव्यम् /
2980 SK [०९६|०७-०९५|६०७] अपूर्वः संस्कृतस्यैव संस्कृतो ऽधिपतेः फलम् // VAक्K_२.५८ //
2981 SK [०९६|०८] पूर्वोत्पन्नादन्यः संस्कृतो धर्मः संस्कृतस्यैव सर्वस्याधिपतिफलम् /
2982 SK [०९६|०८-०९६|०९] पुरुषाधिपतिफलयोः किं नाना कारणम् /
2983 SK [०९६|०९] कर्तुः पुरुषकारफलम् / अकर्तुरप्यधिपतिफलम् /
2984 SK [०९६|१०] तद्यथा शिल्पिनि शिल्पं पुरुषकारफलमधिपतिफलं च / अन्येषामधिपतिफलमेव /
2985 SK [०९६|११] अथैषां हेतूनां कतम्मो हेतुः कस्मिन्काले फलं प्रतिगृह्णाति ददाति वा /
2986 SK [०९६|१२] वर्तमानाः फलं पञ्च गृह्णन्ति
2987 SK [०९६|१३] नातीताःः प्रतिगृहीतत्वान्नाप्यनागता निष्पुरुषकारत्वात् / कारणहेतुरप्येवम् /
2988 SK [०९६|१३-०९६|१४] स तु नावश्यं सफल इति नोच्यते /
2989 SK [०९६|१५] द्वौ प्रयच्छतः /
2990 SK [०९६|१६] सहभूसंप्रयुक्तकहेतू वर्त्तमानौ फलं प्रयच्छतः /
2991 SK [०९६|१६-०९६|१७] समानकालमेव ह्यनयेः फलदानग्रहणम् /
2992 SK [०९६|१८] वर्त्तमानाभ्यतीतौ द्वौ [०९६|१९] फलं प्रयच्छतः सभागसर्वत्रगहेतू / युक्तं तावद्यदतीताविति /
2993 SK [०९६|१९-०९६|२०] अथ कथं वर्त्तमानौ निष्यन्दफलं प्रयच्छतः /
2994 SK [०९६|२०] समनन्तरनिवर्त्तनात् /
2995 SK [०९६|२०-०९६|२१] निवृत्ते तु फले तौ चाभ्यतीतौ भवतः /
2996 SK [०९६|२१] फलं चापि दत्तं न पुनस्तदेव दत्तः /
2997 SK [०९६|२१-०९६|२२] अस्ति कुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति चतुष्कोटिकः /
2998 SK [०९६|२२-०९६|२३] प्रथमा कोटिः कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहाति /
2999 SK [०९६|२३-०९६|२४] द्वितीया कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते /
3000 SK [०९६|२४] एवं तु वक्तव्यम् /
3001 SK [०९६|२४-०९६|२५] स्यात्ता एव प्रतिसंदधानस्य तृतीया असमुच्छिन्नकुशलमूलस्य शेषास्ववस्थासु /
3002 SK [०९६|२५] चतुर्थ्यतानाकारान् स्थापयित्वा /
3003 SK [०९६|२६] अकुशलस्य तु प्रथमा कोटिः /
3004 SK [०९६|२६-०९६|२८] कामवैराग्यमनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्विजहाति द्वितीया कामवैराग्यात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते /
3005 SK [०९६|२८] एवं तु वक्तव्यम् /
3006 SK [०९६|२८-०९६|२९] स्यात्ता एव परिहीयमाणस्य /
3007 SK [०९६|२९] तृतीया कामावीतरागस्य शेषास्ववस्थासु /
3008 SK [०९६|२९-०९७|०१] चतुर्थ्यतानाकारान् स्थापयित्वा /
3009 SK [०९७|०१-०९७|०२] एवं निवृताव्याकृतस्याप्यर्हत्त्वप्राप्तिपरिहाणितो यथायोगं योज्यम् /
3010 SK [०९७|०२] अनिवृताव्याकृतस्य पश्चात्पादकः /
3011 SK [०९७|०२-०९७|०३] यास्तावत् ददाति प्रतिगृह्णात्यपि सः /
3012 SK [०९७|०३] स्यात् प्रतिगृह्णाति न ददात्यर्हतश्चरमाः स्क्न्धाः /
3013 SK [०९७|०३-०९७|०४] सालम्बननियमेन तु क्षणशः /
3014 SK [०९७|०४] कुशलः सभागहेतुः फलं प्रतिगृह्लाति न ददातीति / चतुष्कोक्टिकः /
3015 SK [०९७|०५] प्रथमा कोटिः कुशलचित्तानन्तरं क्लिष्टमव्याकृतं वा चित्तं संमुखीकरोतीति /
3016 SK [०९७|०६] द्वितीया विपर्ययात् / तृतीया कुशलचित्तानन्तरं कुशलमेव /
3017 SK [०९७|०६-०९७|०७] चतुर्थ्यतानाकारान् स्थापयित्वा /
3018 SK [०९७|०७] एवमकुशलादयो ऽपि योज्याः / कथं पुनः फलं प्रतिगृहीतं भवति /
3019 SK [०९७|०८] तस्य बीजभावोपगमात् /
3020 SK [०९७|०९] एको ऽतीतः प्रयच्छति // VAक्K_२.५९ //
3021 SK [०९७|१०] विपाकहेतुरतीत एव फलं प्रयच्छति / यस्मान्न सह वा समनन्तरो वा ऽस्ति विपाकः /
3022 SK [०९७|११] पुनरन्ये चतुर्विधं फलमाहुः / प्रतिष्ठाफलम् /
3023 SK [०९७|११-०९७|१२] यथा जलमण्डलं वायुमण्डलस्य यावत्तृणादयः पृथिव्याः /
3024 SK [०९७|१२] प्रयोगफलम् / यथा ऽशुभाया यावदनुत्पादज्ञानम् /
3025 SK [०९७|१३] सामग्रीफलम् / यथा चक्षुरादीनां चक्षुर्विज्ञानादीनि / भावनाफलम् /
3026 SK [०९७|१३-०९७|१४] यथा रूपावचरस्य चित्तस्य निर्माणम् /
3027 SK [०९७|१४-०९७|१५] एतत्तु पुरुषकाराधिपतिफलयोरन्तर्भूतम् /
3028 SK [०९७|१५] उक्ता हेतवः फलानि च //
3029 SK [०९७|१६-०९७|१७] तत्र कतमे धर्माः कतिभिः हेतुभिरुत्पद्यन्त इत्याह समासत इमे चतुर्विधा धर्मास्तद्यथा क्लिष्टा धर्मा विपाकजाः प्रथमानास्रवास्तेभ्यश्च शेषाः /
3030 SK [०९७|१७-०९७|१८] के पुनः शेषाः /
3031 SK [०९७|१८] विपाकवर्ज्याः अव्याकृताः प्रथमानास्रवक्षणवर्ज्याश्च कुशला इति /
3032 SK [०९७|१८-०९७|१९] एते चतुर्विधा धर्माः /
3033 SK [०९७|२०-०९७|२१] क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम् / विपाकं सर्वगं हित्वा तौ सभागं च शेषजाः // VAक्K_२.६० //
3034 SK [०९७|२२] क्लिष्टा धर्मा विपाकहेतुं हित्वा शेषेभ्यः पञ्चभ्यो जायन्ते /
3035 SK [०९७|२२-०९७|२३] विपाकजा सर्वत्रगहेतुं हेत्वा शेषेभ्यः पञ्चभ्य एव /
3036 SK [०९७|२३-०९७|२४] शेषा धर्मास्तौ विपाकसर्वत्रगहेतू हित्वा शेषेभ्यश्चतुर्भ्र्यो जायन्ते /
3037 SK [०९७|२४-०९७|२५] प्रथमानास्रवास्तौ च विपाकसर्वत्रगहेतू सभागहेतुं च हित्वा शेषेभ्यः त्रिभ्यो जायन्ते /
3038 SK [०९७|२६] कतमे इमे धर्माश्चतुर्विधा निर्दिष्टा इत्याह
3039 SK [०९७|२७] चित्तचैत्ताः
3040 SK [०९७|२८] अथ ये चित्तविप्रयुक्ता रूपिणश्च धर्मास्ते कथमित्याह /
3041 SK [०९७|२९] तथा ऽन्ये ऽपि संप्रयुक्तकवर्जिताः /
3042 SK [०९७|३०-०९८|०१] प्रयुक्तकहेतुनैकेन वर्जिताः अन्ये ऽपि क्लिष्टादयो धर्मास्तथैवोत्पद्यन्ते यथा चित्तचईत्ताः /
3043 SK [०९८|०१] तत्र क्लिष्टाश्चतुभ्र्यो विपाकजाश्च /
3044 SK [०९८|०१-०९८|०२] शेषास्त्रिभ्यः प्रथमानास्रवा द्वाभ्याम् /
3045 SK [०९८|०२] एकहेतुसंभूतो नास्ति धर्मः //
3046 SK समाप्तो हेतुविस्तरः //
3047 SK [०९८|०३] प्रत्ययाः कतमे /
3048 SK [०९८|०४] चत्वारः प्रत्यया उक्ताः
3049 SK [०९८|०५] क्ववोक्ताः / सूत्रे / ᳚चतस्रः प्रत्ययताः /
3050 SK [०९८|०५-०९८|०६] हेतुप्रत्ययता समनन्तरप्रत्ययता आलम्बनप्रत्ययता अधिपतिप्रत्ययता चे᳚ति /
3051 SK [०९८|०६] प्रत्ययजातिः प्रत्ययता / तत्र
3052 SK [०९८|०७] हेत्वाख्यः पञ्च हेतवः // VAक्K_२.६१ //
3053 SK [०९८|०८] कारणहेतुवर्ज्याः पण्य्च हेतवो हेतुप्रत्ययः /
3054 SK [०९८|०९] चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः /
3055 SK [०९८|१०] अर्हतः पश्चिमानपास्योत्पन्नाश्चित्तचैत्ताः समनन्तरप्रत्ययः /
3056 SK [०९८|१०-०९८|११] समश्चायमनन्तरश्च प्रत्यय इति समनन्तरप्रत्ययः /
3057 SK [०९८|११] अत एव रूपं न समनन्तरप्रत्ययो विषमोत्पत्तेः /
3058 SK [०९८|१२-०९८|१३] तथाहि कामावचरस्य रूपस्यानन्तरं कदाचित् कामावचरं रूपावचरं चाविज्ञप्तिरूपमुत्पद्यते कदाचित्कामावचरं चानास्रवं चेति व्याकुलो रूपसंमुखीभावः /
3059 SK [०९८|१४-०९८|१५] अव्याकुलस्तु समनन्तरप्रत्ययः अनिरुद्ध एवैकस्मिन्नौप चयिकरूपसन्ताने द्वितीयोत्पत्तेरिति भदन्तवसुमित्रः /
3060 SK [०९८|१५] अल्पबहुतरोत्पत्तेरिति भदन्तः /
3061 SK [०९८|१५-०९८|१६] कदाचिद्धि महतो रूपादल्पमुत्पद्यते /
3062 SK [०९८|१६] तद्यथा पलालराशेर्भस्म / कदाचिदल्पाद्वहूत्पद्यते /
3063 SK [०९८|१६-०९८|१७] तद्यथा वटनिकायाः क्रमेण यावदनेकशाखावरोहो न्यग्रोध इति /
3064 SK [०९८|१७-०९८|१८] ननु चास्ति चैत्ताना मप्यल्पबहुतरोत्पत्तिः /
3065 SK [०९८|१८-०९८|१९] कुशलाकुशलाव्याकृतेषु चित्तेसु सवितर्कसविचारादौ च समाधित्रये /
3066 SK [०९८|१९] अस्ति जात्यन्तरं प्रति न स्वजातिम् /
3067 SK [०९८|१९-०९८|२०] नहि कदाचिद्वहुतरा वेदनोत्पद्यते संज्ञादयो वा /
3068 SK [०९८|२०-०९८|२१] किं पुनः स्वजातेरेव समनन्तरप्रत्ययो भवति /
3069 SK [०९८|२१] नैतदस्ति /
3070 SK [०९८|२१-०९८|२२] सकल एव कलापः सकलस्य कलापान्तरस्य समनन्तरप्रत्ययो नत्वल्पकाद्वेदनादिद्रव्यात् प्रभूतं वेदनादि द्रव्यमुत्पद्यत इत्येतावदेवात्रोत्तम् /
3071 SK [०९८|२३] सन्तानसभागिकास्तु मन्यन्ते ᳚स्वजातेरेव समनन्तरप्रत्ययः /
3072 SK [०९८|२३-०९८|२४] तद्यथा चित्तं चित्तस्यैव वेदना वेदनाया एवे᳚ति विस्तरः /
3073 SK [०९८|२४-०९८|२६] यदा त्वक्लिष्टान्तरं क्लिष्टमुत्पद्यते तस्य क्लेशस्य पूर्वनिरुद्धः क्लेशः समनन्तरप्रत्ययस्तद्यथा निरोधसमापत्तिचित्तं व्युत्थानचित्तस्येति /
3074 SK [०९८|२६] तदेतन्न वत्स्र्यते /
3075 SK [०९८|२६-०९८|२७] प्रथमानास्रवचित्तानुत्पत्तिप्रसङ्गत् चित्तविप्रयुक्ता अपि संस्काराः /
3076 SK [०९८|२७-०९८|२९] अत एव व्याकुलसंमुखीभावान्न समनन्तरप्रत्ययस्त्रैवातुकाप्रतिसंयुक्तानां युगपत् संमुखीभावात् / [०९८|२९] कस्मादनागतो नेष्यते समनन्तरप्रत्ययः /
3077 SK [०९८|२९-०९९|०१] व्याकुलत्वादनागतस्याध्वनः पूर्वोत्तरता ऽभावात् /
3078 SK [०९९|०१-०९९|०२] कथं तर्हि भगवान् जानाति अमुष्यानागतत्त्यानन्तरमिदमनागतं भावीति /
3079 SK [०९९|०२] अतीतसांप्रतानुमानात् /
3080 SK [०९९|०२-०९९|०३] अतीतं किलाध्वानं पश्यति भगवानेवञ्जातीयकात्कर्मणः एवञ्जातीयको वीपाकः उत्पन्नो धर्माद्वा धर्मः /
3081 SK [०९९|०४] इदं चापि संप्रत्येवञ्जातीयकं कर्म /
3082 SK [०९९|०४-०९९|०५] तस्मादतो ऽप्येवञ्जातीयको विपाक उत्पत्स्यते धर्माद्वा धर्म इति जानाति /
3083 SK [०९९|०५] नचान्यत् ज्ञानमानुमानिकं भवति /
3084 SK [०९९|०५-०९९|०७] यस्मादतीतसांप्रतानुमानेन भगवान् विकीर्णान्यनागतानि द्रव्याणि प्रत्यक्षमीक्षित्वा जानात्यनेन पुद्गलेनैवंविधं कर्म कुर्वतेदमनागतं फलं परिगृहीतमिति /
3085 SK [०९९|०७-०९९|०८] एवं तर्हि भगवान् पूर्वान्तमदृष्ट्वा ऽपरान्तं न जानीयात् /
3086 SK [०९९|०८] अन्ये पुनराहुः /
3087 SK [०९९|०८-०९९|१०] फलचिह्नभूतः सत्त्वानां सन्ततौ चित्तविप्रयुक्तः संस्कारविशेषो ऽस्ति यं व्यवलोक्य भगवाननागतं जानात्यसंमुखीकृत्वापि ध्यानमभिज्ञां चेति /
3088 SK [०९९|१०-०९९|११] नैमिक्तिको हि नाम भगवान् स्यादेवं सति न पुनः साक्षात्कारी /
3089 SK [०९९|११] तस्मात्सर्वमिच्छामात्रेण भगवान् जानातीति सौत्रान्तिकाः /
3090 SK [०९९|१२] ᳚अचिन्त्यो हि बुद्धानां बुद्धिविषय᳚ इत्युक्तं भगवता /
3091 SK [०९९|१२-०९९|१३] अथ असत्यनागतस्य क्रमनियमावस्थाने कस्मादग्रधर्मानन्तरं दुःखे धर्मज्ञानक्षान्तिरेवोत्पद्यते नान्यो धर्मः /
3092 SK [०९९|१४] एवं यावद्वर्जो पमानन्तरं क्षयज्ञानमेवोत्पद्यते नान्यो धर्म इति /
3093 SK [०९९|१५] यस्य यत्प्रतिबद्ध उत्पादः स तस्यानन्तरमुत्पद्यते /
3094 SK [०९९|१५-०९९|१६] तद्यथा वीजादीनामङ्कुरादयो विनापि समनन्तरप्रत्ययेनेति /
3095 SK [०९९|१६] कस्मादर्हतश्चरमाश्चित्तचैत्ता न समनन्तरप्रत्ययः /
3096 SK [०९९|१७] अन्यचित्तासंबन्धनात् /
3097 SK [०९९|१७-०९९|१८] ननु चैवं समनन्तरनिरुद्धं चित्तं मनो भवतीत्यनन्तर विज्ञानाभावात् मनो ऽपि चरमं चित्तं न प्राप्नोति /
3098 SK [०९९|१८-०९९|१९] आश्रयभावप्रतिभावितं मनो न कारित्रप्रभावितमित्यस्त्येवाश्रयभावः /
3099 SK [०९९|१९-०९९|२०] कारणान्तरवैकल्यात्तु विज्ञानान्तरं नोत्पद्यत इति /
3100 SK [०९९|२०-०९९|२१] कारित्रप्रभावितस्तु समनन्तरप्रत्ययस्तेन यो धर्मः फलं क्प्रतिगृहीतः स सर्वैरपि धर्मईः सर्वप्राणिभिर्वा न शक्यं प्रतिब्न्द्धुं यथा नोत्पद्यते /
3101 SK [०९९|२१-०९९|२२] ये धर्माश्चित्तसमनन्तराश्चित्तनिरन्तरा अपि ते /
3102 SK [०९९|२२] चतुष्कोटिकः /
3103 SK [०९९|२२-०९९|२३] प्रथमा कोटिरचित्तकायाः समापत्तेर्व्युत्थान चित्तं द्वितीयादयश्च समापत्तिक्षणाः /
3104 SK [०९९|२३-०९९|२४] द्वितीया कोटिः प्रथमस्य समापत्तिक्षणस्य सचित्तकायाश्चावस्थाया जात्यादयः /
3105 SK [०९९|२४-०९९|२५] तृतीया कोटिः प्रथमः समापत्तिक्षणः सचित्तिका चावस्था /
3106 SK [०९९|२५-०९९|२६] चतुर्थी कोटि द्वीर्तीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च /
3107 SK [०९९|२६-०९९|२७] ये धर्माश्चित्तसमनन्तराः समापत्तिनिरन्तरा अपि ते /
3108 SK [०९९|२७] चतुष्कोटिकः /
3109 SK [०९९|२७-१००|०१] ये तृतीयावतुर्थ्यौ ते प्रथमाद्वितीये ये प्रथमाद्वितीये ते तृतीयाचतुर्थ्यौ कर्त्तव्ये /
3110 SK [१००|०१-१००|०२] कथमिदानीं दूरान्तरविच्छिन्नं व्युत्थानचित्तं समापत्तिचित्तस्य समनन्तरमित्युच्यते /
3111 SK [१००|०२] चित्तान्तराव्यवहितत्वात् //
3112 SK उक्तःः समनन्तरप्रत्ययः //
3113 SK [१००|०३] आलम्बनं सर्वधर्माः /
3114 SK [१००|०४] यथायोगं चक्षुर्विज्ञानस्य ससंप्रयोगस्य रूपम् / श्रोत्रविज्ञानस्य शब्दः /
3115 SK [१००|०४-१००|०५] ग्राणविज्ञानस्य गन्धः /
3116 SK [१००|०५] जिह्वाविज्ञानस्य रसः / कायविज्ञानस्य स्प्रष्टव्यम् /
3117 SK [१००|०५-१००|०६] मन्नोविज्ञानस्य सर्वधर्माः /
3118 SK [१००|०६] यो धर्मो यस्य धर्मस्यालम्बनं न कदाचित्स धर्मस्तद्धर्मस्य नालम्बनम्/
3119 SK [१००|०७] अनालम्ब्यमानो ऽपि तथालक्षणत्वाद् /
3120 SK [१००|०७-१००|०८] यथा ऽनिध्यमानमपीन्धनमुच्यते काष्ठादिकं तथालक्षाणत्वादिति /
3121 SK [१००|०८-१००|०९] त एते चित्तचैता धर्मा आयतनद्रव्यलक्षणनियमेनालम्बने यथास्वं नियताः /
3122 SK [१००|०९] किमाश्रयनियमेनापि नियताः / ओमित्याह /
3123 SK [१००|०९-१००|१०] उत्पन्नास्त्वाश्रयसहिता अनुत्पन्ना ह्यतीता आश्रयविश्लिष्टाः /
3124 SK [१००|१०] अतीता अप्याश्रयसहिता इत्यपरे //
3125 SK [१००|११] उक्त आलम्बनप्रत्ययः //
3126 SK [१००|१२] कारणाख्यो ऽधिपः स्मृतः // VAक्K_२.६२ //
3127 SK [१००|१३] य एव कारणहेतुः स एवा धिपतिप्रत्ययः /
3128 SK [१००|१३-१००|१४] अधिको ऽयं प्रत्यय इत्यधिपतिप्रत्ययः /
3129 SK [१००|१४-१००|१५] आलम्बनप्रत्ययो ऽपि सवन्धर्माः अधिपतिप्रत्ययो ऽपीति किमस्त्याधिक्यम् /
3130 SK [१००|१५] न जातु सहभुवो धर्मा आलम्बनं भवन्ति /
3131 SK [१००|१५-१००|१६] भवन्ति त्वधिपति प्रत्यय इत्यस्यैवाधिक्यम् /
3132 SK [१००|१६] अधिकस्य वा प्रत्ययः /
3133 SK [१००|१६-१००|१७] सर्वः सर्वस्य संस्कृतस्य स्वभाववर्ज्यस्य /
3134 SK [१००|१७] स्याद्धर्मो धर्मस्य चतुर्भिरपि प्रत्ययैर्न प्रत्ययः /
3135 SK [१००|१७-१००|१८] स्यात्स्वभावः स्वभावस्य परभावो ऽपि /
3136 SK [१००|१८] स्यात्संस्कृतमसंस्कृतस्यासंस्कृतं चासंस्कृतस्य /
3137 SK [१००|१९-१००|१८] अथैते प्रत्ययाः कारित्रं कुर्वन्तः किमवस्थे धर्मे कुर्वन्ति /
3138 SK [१००|१९-१००|२०] हेतुप्रत्ययस्तावत् पञ्चविध उक्तः /
3140 SK [१००|२१] निरुध्यमाने कारित्रं द्वी हेतू कुरुतः /
3141 SK [१००|२२] निरुध्यमानं नाम वर्क्तमानम् / निरोधाभिमुखत्वात् /
3142 SK [१००|२२-१००|२३] तत्र सहभूसंप्रयुक्तकहेतु कारित्रं कुरुतः /
3143 SK [१००|२३] सहोत्पन्ने ऽपि फले तयोर्व्यापारः /
3146 SK [१००|२६] जायमानं नामानागतमुत्पादाभिमुखम् /
3147 SK [१००|२६-१००|२७] तत्र सभागसर्वत्रगविपाकहेतवः कारित्रं कुर्वन्ति /
3148 SK [१००|२७] एवं तावद्धेतुप्रत्ययः /
3149 SK [१०१|०१] ततो ऽन्यौ तु प्रत्ययौ तद्विपर्ययात् // VAक्K_२.६३ //
3150 SK [१०१|०२-१०१|०३] येन कारित्रन्यायेन हेतुप्रत्ययौ द्विधा कृत्वोक्तस्तद्विपर्ययात्समनतरप्रत्ययालम्बनप्रत्ययौ वेदितव्यौ /
3151 SK [१०१|०३-१०१|०४] समन्तरप्रत्ययो जायमाने कारित्रं करोत्यवकाशदानात् /
3152 SK [१०१|०४] आलम्बनप्रत्ययो निरुध्यमाने / वर्त्तमानैश्चित्तचैतैर्ग्रहणात् /
3153 SK [१०१|०४-१०१|०५] अधिपतिप्रत्ययस्तु सर्वस्यामवस्थायामनावरणभावेनावस्थित इत्येतदेवास्य कारित्रम् //
3154 SK [१०१|०६] उक्ताः सकारित्राः प्रत्ययाः //
3155 SK [१०१|०७] अथ कतमो धर्मः कतिभिः प्रत्ययैरुत्पद्यते /
3156 SK [१०१|०८] चतुर्भिश्चत्तचैत्ता हि
3157 SK [१०१|०९] तत्र हेतुप्रत्यय एषां सर्वे पञ्च हेतवः /
3158 SK [१०१|०९-१०१|१०] समन्तरप्रत्ययः पूर्वकाश्चित्तचैत्ता अन्यैरव्यवहिताः /
3159 SK [१०१|१०] आलम्बनप्रत्ययो यथायोगं पञ्च विषयाः सर्वे धर्माश्च /
3160 SK [१०१|१०-१०१|११] अधिपतिप्रत्ययः स्वभावर्ज्याः सर्वधर्माः /
3161 SK [१०१|१२] समापत्तिद्वयं त्रिभिः /
3162 SK [१०१|१३] निरोधासंज्ञिसमापत्त्यो रालम्बनप्रत्ययो नास्ति / नहि ते आलम्बिके /
3163 SK [१०१|१३-१०१|१४] हेतुप्रत्ययस्तुतयोर्द्विविधो हेतुः /
3164 SK [१०१|१४-१०१|१५] सहभूहेतुश्च जात्यादयः सभागहेतुश्च पूर्वोत्पन्ना समानभूमिकाः कुशला धर्माः /
3165 SK [१०१|१५] समनन्तरप्रत्ययः ससंप्रयोगं समापत्तिचित्तम् /
3166 SK [१०१|१५-१०१|१६] अधिपतिप्रत्ययः पूर्ववत् /
3167 SK [१०१|१६] चित्ताभिसंस्कारजत्वादेते समापत्ती चित्तसमनन्तरे /
3168 SK [१०१|१६-१०१|१७] चित्तोत्पत्तिविबन्धकत्वात् न समनन्तरप्रत्ययः /
3169 SK [१०१|१८] द्वाभ्यामन्ये तु जायन्ते
3170 SK [१०१|१९-१०१|२०] अन्ये तु विप्रयुक्ता रूपिणश्च धर्मा हेत्वधिपतिप्रत्ययाभ्यां जायन्ते यथाविहितमेव /
3171 SK [१०१|२०-१०१|२१] आह तु ᳚प्रत्ययेभ्यो भावा उपजायन्ते न पुनः सर्वस्यैव जगतः ईश्वरपुरुषप्रधानादिकं कारणमिति /
3172 SK [१०१|२१] को ऽत्र हेतुः / यदि खलु हेतुकृतां सिद्धिं मन्यसे /
3173 SK [१०१|२२] ननु च अथ एवास्य वादस्य व्युदासः प्राप्नोत्येकं कारणमीश्वरादिकं सर्वस्येति /
3175 SK [१०१|२४] नेश्वरादेः क्रमादिभिः // VAक्K_२.६४ //
3176 SK [१०१|२५] यदि ह्येकमेव कारणमीश्वरः स्यादन्यद्वा युगपत्सर्वेण जगता भवितव्यंस्यात् /
3177 SK [१०१|२६] दृश्यते च भावानां क्रमसंभवः /
3178 SK [१०१|२६-१०१|२७] स तर्हि च्छन्दवशा दीश्वरस्य स्यादयमिदानीमुत्पद्यतामयं निरुध्यतामयं पश्चादिति /
3179 SK [१०१|२७] च्छन्दभेदात्तर्हि सिद्धमनेकं कारणं स्यात् /
3180 SK [१०१|२७-१०२|०१] स चापि च्छन्दर्भेदो युगपत्स्यात्तद्धेतोरीश्वरस्याभिन्नत्वात् /
3181 SK [१०२|०१-१०२|०२] कारणान्तरभेदापेक्षणे वा नेश्वर एव कारणं स्यात् /
3182 SK [१०२|०२-१०२|०४] तेषामपि च क्रमोत्पत्तौ कारणान्तरभेदापेक्षणादनवस्थाप्रसङ्ग स्यादित्यनन्तरभेदायाः कारणपरंपराया अनादित्वाभ्युपगमादयमीश्वरकारणाधिमुक्तः शाक्ययूर्वीयमेव न्यायं नातिवृत्तः स्यात् /
3183 SK [१०२|०४-१०२|०५] योगपद्ये ऽपीश्वरच्छन्दानां जगतो न यौगपद्यम् /
3184 SK [१०२|०५] यथाच्छन्दमुत्पादनादि ति चेत् / न /
3185 SK [१०२|०५-१०२|०६] तेषां पश्चाद्विशेषाभावात् /
3186 SK [१०२|०६] कश्च तावदीश्वरस्येयता सर्गप्रयासेनार्थः /
3187 SK [१०२|०६-१०२|०८] यदि प्रीतिस्तां तर्हि नान्तरेणोपाये शक्तः कर्तुमिति न तस्यामीश्वरः स्यात्तथैव चान्यस्मिन् /
3188 SK [१०२|०८-१०२|०९] यदि चेश्वरो नरकादिषु प्रजां बहुभिश्चेतिभिरूपसृष्टां सृष्ट्वा तेन प्रीयते नमो ऽस्तु तस्मै तादृशायेश्व्राय /
3189 SK [१०२|०९] सुगीतश्चायं तमारभ्य श्लोको भवति /
3190 SK [१०२|१०] ᳚यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् /
3191 SK [१०२|११] मांसशोणितमज्जादो यत्ततो रुद्र उच्यत᳚ इति /
3192 SK [१०२|१२-१०२|१३] एकं खल्वपि जगतः कारणं परिगृह्णता ऽन्येषामर्थानां प्रत्यक्षः पुरुषकारो निह्गृह्ण्तः स्यात् /
3193 SK [१०२|१३] सहापि च कारणैः कारक मीश्वरं कल्पयता केवलो भक्तिवादः स्यत् /
3194 SK [१०२|१४] कारणेभ्यो ऽन्यस्य तदुत्पत्तौ व्यापारादर्शनात् /
3195 SK [१०२|१४-१०२|१५] सहकारिषु चान्येषु कारणेष्वीश्वरो नेश्वरः स्यात् /
3196 SK [१०२|१५] अथादिसर्ग ईश्वरहेतुकः /
3197 SK [१०२|१५-१०२|१६] तस्याप्यन्यानपेक्षत्वादीश्वरवदनादित्वप्रसङ्ग /
3198 SK [१०२|१६] एवं प्रधाने ऽपि यथायोगं वाच्यम् /
3199 SK [१०२|१६-१०२|१७] तस्मान्न लोकस्यैकं कारणमस्ति /
3200 SK [१०२|१७] स्वान्येवैषां कर्माणि तस्यां तस्यां जातौ जनयन्ति /
3201 SK [१०२|१७-१०२|१८] अकृतबुद्धयस्तु वराकाः स्वं स्वं विपाकफलं चानुभवन्त ईश्वरमपरं मिथ्या परिकल्पयन्ति /
3202 SK [१०२|१९] गतमेतद्यत्तु खलु तदुक्तं ᳚द्वाभ्यामन्ये तु जायन्त᳚ इति /
3203 SK [१०२|२०] अथ कथं भूतानि भूतानां हेतुप्रत्ययः /
3204 SK [१०२|२१] द्विधा भूतानि तद्धेतुः
3205 SK [१०२|२२] भूतहेतुरित्यर्थः / सभागसहभूहेतुभ्यां
3206 SK [१०२|२३] भौतिकस्य तु पञ्चधा /
3207 SK [१०२|२४] भौतिकस्य तु भूतानि पञ्चप्रकारो हेतुः / कथम् /
3208 SK [१०२|२५] ᳚जननान्निःश्रयात् स्थानादुपस्तम्भोगवृंहणात्᳚
3209 SK [१०२|२६] सो ऽयं कारणहेतुरेव पुनः पण्य्चधा भिन्नः /
3210 SK [१०२|२६-१०२|२७] जननहेतुस्तेभ्य उत्पत्तेः /
3211 SK [१०२|२७-१०२|२८] निश्रयहेतुर्जातस्य भूतानुविधायित्वात् पुरुषकारफलादाचार्यादिनिःश्रयवत् /
3212 SK [१०२|२८] प्रतिष्ठाहेतुराधारभावात् / चित्रकृत्यवत् /
3213 SK [१०३|०१] उपस्तम्भहेतुरनुच्छेदहेतुत्वात् /
3214 SK [१०३|०१-१०३|०२] एवमेषां जन्मविकाराधारस्थितिवृद्धिहेतुत्वमाख्यातं भवति /
3215 SK [१०३|०३] त्रिधा भौतिकमन्योन्यं /
3216 SK [१०३|०४] हेतुसहभूसभागविपाकहेतुभिः कारणहेतुरविशेषयत्तित्वात् न सर्वदा गण्यते /
3217 SK [१०३|०४-१०३|०५] तत्र सहभूहेतुरन्योन्यं चित्तानुपरिवर्त्ति कायवाक्कर्म /
3218 SK [१०३|०५] नान्यदुपादायरूपम् /
3219 SK [१०३|०५-१०३|०६] सभागहेतुः सर्वं पूर्वोत्पन्नं सभागस्य /
3220 SK [१०३|०६] विपाकहेतुर्यस्य वाक्कर्मणश्चक्षुरादयो विपाकः /
3221 SK [१०३|०७] भूतानामेकधैव तत् // VAक्K_२.६५ //
3222 SK [१०३|०८] भूतानां तु तद्भूतिकं रूपं विपाकहेतुरेव यस्य कायवाक्कर्मणो भूतानि विपाकाः /
3223 SK [१०३|०९-१०३|१०] अभेदेन चित्तचैत्ताः समनन्तरप्रत्यय उक्ता नियमस्तु नोक्तः कस्य चित्तस्यानन्तरं कस्योत्पक्तिरिति /
3224 SK [१०३|१०] स इदानीं वक्तव्यः /
3225 SK [१०३|१०-१०३|११] तत्र तावत् समासेन द्वादश चित्तानि /
3226 SK [१०३|११] किमर्थमित्याह
3227 SK [१०३|१२] कुशलाकुशलं कामे निवृतानिवृतं मनः /
3228 SK [१०३|१३] कामधातौ चत्वारि चित्तानि /
3229 SK [१०१|१३] कुशलमकुशलं निवृताव्याकृतमनिवृताव्याकृतं च /
3230 SK [१०३|१४] रूपारूप्येष्वकुशलादन्यत्र
3231 SK [१०३|१५] रूपधातावकुशलं नास्ति / त्रीणि सन्ति / एवमारूप्यधातौ /
3232 SK [१०३|१५-१०३|१६] इत्येतानि सानुस्रवाणि दश चित्तानि भवन्ति /
3233 SK [१०३|१७] अनास्रवं द्विधा // VAक्K_२.६६ //
3234 SK [१०३|१८] शैक्षमशैक्षं च / एवमेतानि द्वादश चित्तानि भवन्ति / तत्र
3235 SK [१०३|१९] कामे नव शुभाच्चित्ताच्चित्तानि
3236 SK [१०३|२०] अनन्तरमिति पश्चाद्वक्ष्यति /
3237 SK [१०३|२०-१०३|२१] कामधातौ यत्कुशलं चित्तं तस्मादनन्तरं नव चित्तान्युत्पद्यन्ते /
3238 SK [१०३|२१] स्वभूमिकानि चत्वारि / रूपावचरे द्वे /
3239 SK [१०३|२१-१०३|२२] समापत्तिकाले कुशलं प्रतिसन्धिकाले निवृतम् /
3240 SK [१०३|२२] आरूप्यावचरं निवृतमेव प्रतिसन्धिकाले /
3241 SK [१०३|२२-१०३|२३] अतिविप्रकृष्टत्वात् न कुशलम् /
3242 SK [१०३|२३] आरूप्या हि कामधातोश्चतसृभिर्दूरताभिर्दूरे /
3243 SK [१०३|२३-१०३|२४] आश्रयाकारालम्बनप्रतिपक्षदूरताभिः /
3244 SK [१०३|२४] शैक्षमशैक्षं चेति /
3245 SK [१०३|२५] अष्टाभ्य एव तत् /
3246 SK [१०३|२६] तत्र पुनः कामावचरं कुशलं चित्तमष्टाभ्यः समनन्तरमुत्पद्यते /
3247 SK [१०३|२६-१०३|२७] स्वभूमिकेभ्यश्चतुर्भ्यो रूपावचराभ्यां द्वाभ्याम् /
3248 SK [१०३|२७] कुशलाच्च व्युत्थानकाले / [१०३|२७-१०३|२८] निवृताच्च क्लिष्टसमापत्त्युत्पीडितस्याधारकुशलभूमिसंश्रयणात् /
3249 SK [१०३|२८] शैक्षाशैक्षाभ्यां च व्युत्थानकाले /
3250 SK [१०४|०१] दशभ्यो ऽकुशलं
3251 SK [१०४|०२-१०४|०३] शैक्षाशैक्षे हित्वा कामधातौ हि प्रतिसन्धिमुखतः सर्वेभ्यो रूपारूप्यचित्तेभ्यः समनन्तरमकुशलं चित्तमुत्पद्यते /
3252 SK [१०४|०४] तस्माच्चत्वारि /
3253 SK [१०४|०५] अकुशलाच्चित्तात् समनन्तरं चित्तान्युत्पद्यन्ते स्वभूमिकान्येव /
3254 SK [१०४|०५-१०४|०६] यथा ऽकुशलमुक्तं कामधातौ
3255 SK [१०४|०७] निवृतं तथा // VAक्K_२.६७ //
3256 SK [१०४|०८] दशभ्य एव समनन्तरम् / तस्माच्च पुनश्चत्वार्येव /
3257 SK [१०४|०९] पञ्चभ्यो ऽनिवृतं
3258 SK [१०४|१०] काम इति वर्त्तते / अनिवृताव्याकृतं चित्तं पञ्चभ्यः समनन्तरमुत्पद्यते /
3259 SK [१०४|१०-१०४|११] स्वभूमिकेभ्य श्चतुर्भ्यो रूपावचराच्च कुशलान्निर्माणचित्तम् /
3260 SK [१०४|१२] तस्मात्सप्त चित्तान्यनन्तरम् /
3261 SK [१०४|१३] अनिवृताव्याकृटात्कामावचरात्स्वभूमिकानि चत्वारि / रूपावचरे द्वे /
3262 SK [१०४|१३-१०४|१४] कुशलं निर्माणचित्तादनन्तरम् /
3263 SK [१०४|१४] क्लिष्टम् प्रतिसन्धिकाले /
3264 SK [१०४|१४-१०४|१५] आरूप्यावचरं च क्लिष्टम् प्रतिसन्धिकाल एव /
3265 SK [१०४|१६] रूपे दशैकं च शुभात्
3266 SK [१०४|१७] रूपे धातौ यत्कुक्शलं चित्तं तस्मादनन्तरमेकादश चित्तान्युत्पद्यन्ते /
3267 SK [१०४|१७-१०४|१८] आरुप्यावचरमनिवृताव्याकृतं वर्जयित्वा /
3268 SK [१०४|१९] नवभ्यस्तदनन्तरम् // VAक्K_२.६८ //
3269 SK [१०४|२०] रूपावचरं तु कुशलं चित्तं नवभ्यः समनन्तरमुत्पद्यते /
3270 SK [१०४|२०-१०४|२१] कामावचरं क्लिष्टद्वयमारुप्यावचरं चानिवृताव्याकृतं हित्वा /
3271 SK [१०४|२२] अष्टाभ्यो निवृतं
3272 SK [१०४|२३] निवृताव्याकृतं रूपावचरं चित्तमष्टभ्य उत्पद्यते /
3273 SK [१०४|२३-१०४|२४] कामावचरं क्लिष्टद्वयं शैक्षाशैक्षे च स्थापयित्वा /
3274 SK [१०४|२५] तस्मात् षट्
3275 SK [१०४|२६] रूपावचरान्निवृताव्याकृतादनन्तरं षट् /
3276 SK [१०४|२६-१०४|२७] स्वभूमिकानि त्रीणि कामावचराणि चानिवृताव्याकृतं मुक्त्वा /
3277 SK [१०४|२८] त्रिभ्यो ऽनिवृतं पुनः /
3278 SK [१०४|२९] रूपावचरमनिवृताव्याकृतं त्रिभ्यः स्वभूमिकेभ्य एव /
3279 SK [१०५|०१] तस्मात् षट्
3280 SK [१०५|०२] स्वभूमिकानि त्रीणि / कामावचरे च क्लिष्टे / आरूप्यावचरं च /
3281 SK [१०५|०२-१०५|०३] यथा रूपधातावनिवृताव्याकृतमुक्तम् /
3282 SK [१०५|०४] एवमारूप्ये तस्य नीतिः /
3283 SK [१०५|०५] ततस्तदप्यनिवृताव्याकृतं त्रिभ्य एवोत्पद्यते स्वभूमिकेभ्यः /
3284 SK [१०५|०५-१०५|०६] तस्मादपि च षडेवोत्पद्यन्ते /
3285 SK [१०५|०६] स्वभूमिकानि त्रीणि अधरधातुकानि च क्लिष्टानि /
3286 SK [१०५|०७] शुभात्पुनः // VAक्K_२.६९ //
3287 SK [१०५|०८] नव चित्तानि
3288 SK [१०५|०९] आरूप्यावचरातृ कुक्शलान्नव चित्तान्युत्पद्यन्ते /
3289 SK [१०५|०९-१०५|१०] कामावचरं कुक्शलं कामरूपावचरे चानिवृताव्याकृते हित्वा /
3290 SK [१०५|११] तत् षण्णां
3291 SK [१०५|१२] आरूप्यावचरं कुक्शलं स्वेभ्यस्त्रिभ्यो रूपावचरात् कुक्शलाच्छैक्षाशैक्षाभ्यां च /
3292 SK [१०५|१३] निवृतात्सप्त
3293 SK [१०५|१४-१०५|१५] आरूप्यावचरान्निवृतात्स्वभूमिकानि त्रीणि रूपावचरं कुशलं निवृतं च कामावचरं क्लिष्टद्वयम् /
3295 SK [१०५|१७] तदपि सप्तभ्य एवोत्पद्यते / कामरूपावचराणि क्लिष्टानि शैक्षाशैक्षे च हित्वा /
3296 SK [१०५|१८] चतुर्भ्यः शैक्षम् /
3297 SK [१०५|१९] त्रैधातुकेभ्यः कुशलेभ्यः शैक्षाच्च /
3298 SK [१०५|२०] अस्मात्तु पञ्च
3299 SK [१०५|२१] तान्येव चत्वार्यशैक्षं च /
3300 SK [१०५|२२] अशैक्षं तु पञ्चकात् // VAक्K_२.७० //
3301 SK [१०५|२३] अत एवानन्तरोक्तात् /
3302 SK [१०५|२४] तस्माच्चत्वारि चित्तानि
3303 SK [१०५|२५] तस्मात्पुनरशैक्षाच्चित्तात्समनन्तरं चत्वारि चित्तान्युत्पद्यन्ते /
3304 SK [१०५|२५-१०५|२६] त्रैधातुकानि कुशलान्यशैक्षं च //
3305 SK [१०५|२६] समाप्तानि द्वादश चित्तानि //
3306 SK [१०५|२७] पुनः क्रियन्ते
3307 SK [१०६|०१] द्वादशैतानि विंशतिः /
3308 SK [१०६|०२] कथं कृत्वा /
3309 SK [१०६|०३] प्रायोगिकोपपत्त्याप्तं शुभं भित्त्वा त्रिषु द्विधा // VAक्K_२.७१ //
3310 SK [१०६|०४] त्रिषु धातुषु कुशलं चित्तं द्विधा भिद्यते / प्रायोगिकं चोपपत्तिलाभिकं च
3311 SK [१०६|०५] विपाकजैयपिथिकशैल्पस्थानिकनैर्मितम् /
3312 SK [१०६|०६] चतुर्धा ऽव्याकृतं कामे
3313 SK [१०६|०७] भित्त्वेति वर्त्तते / कामावचरमनिवृताव्याकृतं चतुर्धा भिद्यते /
3314 SK [१०६|०७-१०६|०८] विपाकजमैर्यापथिकं शेल्पस्थानिकं निर्माणचित्तं च /
3315 SK [१०६|०९] रूपे शिल्पविवर्जितम् // VAक्K_२.७२ //
3316 SK [१०६|१०] रूपधातौ त्रिधा भिद्यते शैल्पस्थानिकं वर्जयित्वा / तत्र शिल्पाभावात् /
3317 SK [१०६|१०-१०६|११] एवमेतानि द्वादश चित्तानि पुनर्विशर्तिर्भर्वन्ति /
3318 SK [१०६|११-१०६|१२] षोढा कुशलमनिवृताव्याकृतं च सप्तधा भिद्यते /
3319 SK [१०६|१२] ऐर्यापथिकादीनि चित्तानीर्यापथाद्यभावादारूप्यधातौ न सन्ति /
3320 SK [१०६|१३] रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनम् / शैल्पस्थानिकस्य तु शब्दो ऽपि /
3321 SK [१०६|१३-१०६|१४] एतानि मनोविज्ञानान्येव /
3322 SK [१०६|१४] पञ्च तु विज्ञानकाया ऐर्यापथिकशैल्पस्थानिकयोः प्रायोगिकाः /
3323 SK [१०६|१५-१०६|१६] ऐर्यापथिकाभिनिर्हृतं मनोविज्ञानमस्ति द्वादशायतनालम्बननित्यपरे /
3324 SK [१०६|१७] एषां पुनर्विशतेक्श्चित्तानां कस्य कतमत्समनन्तरम् /
3325 SK [१०६|१७-१०६|१८] कामावचराणां तावदष्टानां प्रायोगिकानन्तरं दश चित्तान्युत्पद्यन्ते /
3326 SK [१०६|१८-१०६|१९] स्वभूमिकानि सप्ता ऽन्यत्राभिज्ञाफलात् /
3327 SK [१०६|१९] रूपावचरं प्रायोगिकं शैक्षल्मशैक्षं च / तत् पुनरष्टचित्तानन्तरम् /
3328 SK [१०६|१९-१०६|२०] स्वेभ्यः कुशलक्लिष्टेभ्यः रूपावचराभ्यां प्रायोगिक क्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च /
3329 SK [१०६|२०-१०६|२१] उपपत्तिप्रतिलम्भिकानन्तरं नव /
3330 SK [१०६|२१-१०६|२२] स्वभूमिकानि सप्त ऽन्यत्राभिज्ञाफलाद्रूपा रूपावचरे च क्लिष्टे /
3331 SK [१०६|२२] तत् पुनरेकादशानन्तरम् /
3332 SK [१०६|२२-१०६|२३] स्वेभ्यः सप्तभ्यः पूर्ववत् रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च /
3333 SK [१०६|२३] अकुशल निवृत्ताव्याकृतानन्तरं सप्त /
3334 SK [१०६|२४] स्वान्येव पूर्ववत् / ते पुनश्चतुर्दशचित्तानन्तरम् /
3335 SK [१०६|२४-१०६|२५] स्वेभ्यः सप्तभ्यः रूपावचरेभ्यश्चतुर्भ्यो ऽन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् /
3336 SK [१०६|२५-१०६|२६] आरुप्यावचरेभ्यस्त्रिभ्यो ऽन्यत्र प्रायोगिकात् /
3337 SK [१०६|२६] ऐर्यापथिकविपाकजानन्तरमष्टौ /
3338 SK [१०६|२६-१०६|२७] स्वभूमिकानि षडन्यत्र प्रायोगिकाभिज्ञाफलाभ्यां रूपारुप्यावचारे च क्लिष्टे /
3339 SK [१०६|२७-१०६|२८] ते पुनः सप्तचित्तानन्तरं स्वेभ्य एव पूर्ववत् /
3340 SK [१०६|२८] शैल्पस्थानिकानन्तरं षट् / स्वान्येवान्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् /
3341 SK [१०६|२९] तत् पुनः सप्तानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् /
3342 SK [१०७|०१] अभिज्ञाफलानन्तरं द्वे / स्वं चाभिज्ञाफलमेव / रूपावचरं च प्रायोगिकम् /
3343 SK [१०७|०१-१०७|०२] तदप्यस्मादेव द्वयात् /
3344 SK [१०७|०३] रूपावचराणामिदानीं षण्णां वक्षामः / प्रायोगिकानन्तरं द्वादश /
3345 SK [१०७|०३-१०७|०५] कामावचरे कुशले अभिज्ञाफलं च स्वानि षट् आरुप्यावचरं च प्रायोगिकंशैक्षमशैक्षं च /
3346 SK [१०७|०५] तत् पुनर्दशचित्तानन्तरम् /
3347 SK [१०७|०५-१०७|०७] कामावचराभ्यां प्रायोगिकाभिज्ञाफलाभ्यां स्वेभ्यश्चतुर्भ्यो ऽन्यत्रेर्यापथिकविपाकजाभ्यामारूप्यावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च /
3348 SK [१०७|०७] उपपत्तिप्रतिलम्भिकानन्तरमष्टौ /
3349 SK [१०७|०७-१०७|०८] कामावचरे क्लिष्टे स्वानि पञ्चान्यत्राभिज्ञाफलात् आरुप्यावचरं क्लिष्टम्/
3350 SK [१०७|०८-१०७|०९] तत् पुनः पञ्चभ्यः स्वेभ्यः एवान्यत्राभिज्ञाफलात् /
3351 SK [१०७|०९] क्लिष्टानन्तरं नव /
3352 SK [१०७|०९-१०७|१०] कामावचराणि चत्वारि कुशलक्लिष्टानि स्वानि पञ्चान्यत्राभिज्ञाफलात् /
3353 SK [१०७|१०] तत् पुनरेकादशचित्तानन्तरम् /
3354 SK [१०७|११-१०७|१२] कामावचरेभ्य उत्पत्तिप्रतिलम्भिकैर्यापथिक विपाकजेभ्यः स्वेभ्यः पञ्चभ्यो ऽन्यत्राभिज्ञाफलात् आरूप्यावचरेभ्यस्त्रिभ्यो ऽन्यत्र प्रायोगिकात् /
3355 SK [१०७|१२-१०७|१३] ऐर्यापथिकानन्तरं सप्त /
3356 SK [१०७|१३-१०७|१४] कामावचरे क्लिष्टे स्वानि चत्वार्यन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामारूप्यावचरं च क्लिष्टम् /
3357 SK [१०७|१४-१०७|१५] तत् पुनः पण्य्चानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् /
3358 SK [१०७|१५] एवं विपाकजं वक्तव्यम् / अभिज्ञाफलानन्तरं द्वे /
3359 SK [१०७|१५-१०७|१६] स्वे एव प्रायोगिकाभिज्ञाफले /
3360 SK [१०७|१६] तदप्याभ्यामेव /
3361 SK [१०७|१७] आरूप्यावचराणामिदानीं चतुर्णां वक्ष्यामः / प्रायोगिकानन्तरं सप्त /
3362 SK [१०७|१७-१०७|१८] रूपावचरं प्रायोगिकं स्वानि चत्वारि शैक्षमशैक्षं च /
3363 SK [१०७|१८] तत् पुनः षट्चित्तानन्तरम् /
3364 SK [१०७|१८-१०७|१९] रूपावचरात् प्रायोगिकात्स्वेभ्यस्त्रिभ्यो ऽन्यत्र वीपाकजात् शैक्षाशैक्षाभ्यां च /
3365 SK [१०७|१९-१०७|२०] उपपत्तिप्रातिलम्भिकानन्तरं सप्त /
3366 SK [१०७|२०] स्वानि चत्वार्यधरभूमिकानि च क्लिष्टानि /
3367 SK [१०७|२०-१०७|२१] तत् पुनश्चतुर्भ्यः स्वेभ्य एव /
3368 SK [१०७|२१] क्लिष्टानन्तरम्ष्टौ /
3369 SK [१०७|२१-१०७|२२] स्वानि चत्वारि रूपावचरे प्रायोगिकक्लिष्टे कामावचारे क्लिष्टे /
3370 SK [१०७|२२] तत् पुनर्दशानन्तरम् /
3371 SK [१०७|२२-१०७|२३] स्वेभ्यश्चतुर्भ्यः कामावचररूपावचरेभ्यश्चोपपत्तिप्रातिंलम्भिकैर्यापथिकविपाकजेभ्यः /
3372 SK [१०७|२३] विपाकजानन्तरं षट् /
3373 SK [१०७|२४] स्वानि त्रीण्यन्यत्र प्रायोगिकादधराणि त्रीणि क्लिष्टानि /
3374 SK [१०७|२४-१०७|२५] तत् पुनश्चतुर्भ्यः स्वेभ्य एव /
3375 SK [१०७|२५] शैक्षानन्तरं षट् /
3376 SK [१०७|२५-१०७|२६] त्रैधातुकानि प्रायोगिकाणि कामावचरमुपपत्तिप्रतिलम्भिकं शैक्षमशैक्षं च /
3377 SK [१०७|२६] तत् पुनश्चतुर्भ्यः /
3378 SK [१०७|२६-१०७|२७] प्रायोगिकेभ्यः त्रिभ्यः शैक्षाच्च /
3379 SK [१०७|२७] अशैक्षानन्तरं पञ्च / यथा शैक्षानन्तरं शैक्षमेकं हित्वा /
3380 SK [१०७|२७-१०७|२८] तत् पुनः पञ्चभ्यः /
3381 SK [१०७|२८] त्रिभ्यः प्रायोगिकेभ्यः शैक्षाशैक्षाभ्यां चेति /
3382 SK [१०८|०१-१०८|०२] किं पुनः कारणं प्रायोगिकचित्तानन्तरं वीपाकजैयापथिकशैल्पस्थानिकानिचित्तान्युत्पद्यन्ते न पुन्रेभ्यः प्रायोगिकम् /
3383 SK [१०८|०२-१०८|०३] ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात् दुर्बलानभिसंस्कारवाहित्वाच्चैत्तानि न प्रायोगिकानुकूलानि /
3384 SK [१०८|०३-१०८|०४] निष्क्रमणचित्तं त्वनभिस्कारवाहीति युक्तो ऽस्य प्रायोगिकचित्तानन्तरमुत्पादः /
3385 SK [१०८|०४-१०८|०५] एवं तर्हि क्लिष्टेभ्यो ऽपि प्रायोगिकं नोत्पद्यते /
3386 SK [१०८|०५] विगुणत्वात् /
3387 SK [१०८|०५-१०८|०६] तथापि क्लेशसमुदाचारपरिखिन्नस्य तत्परिज्ञानद्युक्तः प्रायोगिकसंमुखीभावः /
3388 SK [१०८|०६-१०८|०७] कामावचरमुपपत्तिप्रतिलम्भिकं पटुत्वात् शैक्षाशैक्षाभ्यां रूपावचरप्रायोगिकाच्चानन्तरमुत्पद्यते /
3389 SK [१०८|०७-१०८|०८] अनभिसंस्कारवाहित्वात्तस्मादेतानि नोत्पद्यन्ते /
3390 SK [१०८|०८-१०८|०९] रूपावचरकिलष्टानन्तरं कामावचरमुपपत्तिप्रतिलम्भिकमुत्पद्यते /
3391 SK [१०८|०९] पटुत्वात् /
3392 SK [१०८|०९-१०८|१०] आरूप्यावचरक्लिष्टानन्तरं तु रूपावचरमुपपत्तिप्रतिलम्भिकं नोत्पद्यते ऽपटुत्वादिति //
3393 SK [१०८|११] त्रयो मनस्काराः //
3395 SK [१०८|११-१०८|१२] तद्यथा ᳚रूपणालक्षणं रूप᳚मित्येवमादि /
3396 SK [१०८|१२] सामान्यलक्षणमनस्कारः / षोडशाकारसंप्रयुक्तः /
3397 SK [१०८|१२-१०८|१३] अधिमुक्तिमनस्कारः /
3398 SK [१०८|१३-१०८|१४] अशुभाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनादिषु /
3399 SK [१०८|१४-१०८|१६] त्रिविधमनस्कारानन्तरमार्यमार्गं संमुखीकरोति तस्मादपि त्रिविधं मास्कारम् एवं सति युतमिदं भवति ᳚अशुभासहगतं स्मृतिसंबोध्यङ्ग भावयती᳚ति /
3400 SK [१०८|१६] सामान्यमनस्कारानन्तरमेवार्यमार्ग संमुखीकरोति / तस्मात्तु त्रिविधमित्यपरे /
3401 SK [१०८|१७] अशुभया तु चित्तं दमयित्वा सामान्यमनस्कारानन्तरं मार्गं संमुखीकरोति /
3402 SK [१०८|१८] अतः पारंपर्यमभिसंधायोक्तम् ᳚अशुभासहगतं स्मृतिसंवोध्यङ्गं भावयती᳚ति /
3403 SK [१०८|१९] आर्यमार्गानन्तरमपि सामान्यमनस्कारमेवेत्यपरे /
3404 SK [१०८|१९-१०८|२१] स्यात्तावदनागम्यादित्रिभूमिसंनिःश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं कामावचरं सामान्यमनस्कारं संमुखीकुर्याद् /
3405 SK [१०८|२१] अथ द्वितीयादिध्यानसंनिःश्रयेण नियामा वक्रान्तौ कथम् /
3406 SK [१०८|२१-१०८|२२] नहि कामावचरः शक्यो ऽतिविप्रकृष्टत्वात् /
3407 SK [१०८|२२-१०८|२३] नच तद्भूमिकः प्रतिलब्धो ऽन्यत्र निर्वेधभागीयात् /
3408 SK [१०८|२३] नचार्यो निर्वेधभागीयं पुनः संमुखीकरोति /
3409 SK [१०८|२३-१०८|२४] नहि प्राप्तफलस्य तत्प्रयोगसंमुखीभावो युक्त इति अन्यो ऽप्यस्य तज्जातीयः सामान्यमनस्कारो भावनां गच्छति /
3410 SK [१०८|२५-१०८|२६] तद्यथा ᳚सर्वसंकारा अनित्याः सर्वधर्मा अनात्मानः शान्तं निर्वाण᳚मिति तत्संमुखी करिष्यति /
3411 SK [१०८|२६] तदेतन्न वर्णयन्ति /
3412 SK [१०८|२६-१०८|२७] अनागम्यं निश्रित्यार्हत्त्वं प्राप्नुवतः तद्भूमिकं कामावचरं वा व्युत्थानं चित्तम् /
3413 SK [१०८|२७-१०८|२८] आकिञ्चन्यायतनं निश्रित्य तद्भूमिकं भावाग्रिकं वा /
3414 SK [१०८|२८] शेषासु स्वभूमिकमेव /
3415 SK [१०८|२८-१०८|२९] कामधातौ त्रयो मनस्काराः श्रुतचिन्तामयोपपत्तिप्रतिलम्भिकाः /
3416 SK [१०८|२९] भावनामयो नास्ति /
3417 SK [१०८|३०] रूपधातौ त्रयः श्रुतभावनामयोपपत्तिप्रतिलम्भिकाः / चिन्तामयो नास्ति /
3418 SK [१०८|३०-१०८|३१] यदा चिन्तमितुमारभन्ते तदैषां समाधिरेवोपतिष्ठते / [१०८|३१-१०९|०१] आरूप्यधातौ भावनामयोपपत्तिप्रतिलम्भिकौ /
3419 SK [१०९|०१-१०९|०२] तत्र पञ्चविधमनस्कारानन्तरमार्यमार्गसंमुखीभावो ऽन्यत्रोपपत्तिप्रतिलभ्भिकेभ्यः /
3420 SK [१०९|०२] प्रयोगप्रतिबद्धत्वात् /
3421 SK [१०९|०२-१०९|०३] मार्गानन्तरं तूपपत्तिप्रतिलम्भिकस्यापि कामावचरस्य संमुखीभावः /
3422 SK [१०९|०३] पटुत्वादिति //
3423 SK [१०९|०४] यानि द्वादश चित्तानि उक्तान्येषां कतमस्मिंश्चित्ते कतीनां लाभः /
3424 SK [१०९|०५] क्लिष्टे त्रैधातुके लाभः षण्णां षण्णां द्वयोः
3425 SK [१०९|०६] कामावचरे क्लिष्टे चित्ते संमुखीभूते षण्णां चित्तानां लाभः /
3426 SK [१०९|०६-१०९|०७] तैर्समन्वागतस्य कामावचरस्य कुशलस्य विचिकित्सया कुशलमूलप्रतिसंधानाद्धातुप्रत्यागमनाच्च /
3427 SK [१०९|०८-१०९|०९] अकुशलनिवृताव्याकृतयोः रूपावचरस्य च क्लिष्टस्य धातुप्रत्यागमनात् परिहाणितश्च /
3428 SK [१०९|०९] आरूप्यावचरस्य क्लिष्टस्य परिहाणितः शेक्षस्य च /
3430 SK रूपावचरे ऽपि क्लिल्ष्टे षण्णां लाभः /
3431 SK [१०९|१०-१०९|११] रूपावचराणां त्रयाणां कामावचरस्य चानिवृताव्याकृतस्य धातुप्रत्यागमनात् /
3432 SK [१०९|११-१०९|१२] आरूप्यावचरस्य क्लिष्टस्य शैक्षस्य च परिहाणितः /
3433 SK [१०९|१२] आरूप्यावचरे तु क्लिष्टे द्वयोर्लाभः /
3434 SK [१०९|१२-१०९|१३] परिहाणितस्तस्यैव क्लिष्टस्य शैक्षस्य च /
3436 SK [१०९|१५] त्रयाणां रूपजे
3437 SK [१०९|१६-१०९|१७] रूपावचरे कुशले त्रयाणां चित्तानां लाभस्तस्यैव कुशलस्य कामरूपावचरयोश्चानिवृताव्याकृतयोः /
3438 SK [१०९|१८] शैक्षे चतुर्णां
3439 SK [१०९|१९] तस्यैव शैक्षस्य कामरूपावचरयोश्चानिवृताव्याकृतयोरारूप्यावचारस्य च कुशलस्य /
3440 SK [१०९|२०] आर्यमार्गेण कामरूपधातुवैराग्ये /
3441 SK [१०९|२१] तस्य शेषिते // VAक्K_२.७३ //
3442 SK [१०९|२२] शेषं कृतं शेषितम् /
3443 SK [१०९|२२-१०९|२३] यत्र चित्ते लाभ्हो न व्याख्यातस्तत्र तस्यैव लाभो द्रष्टव्यो नान्यस्य /
3444 SK [१०९|२३] अन्ये पुनरभेदेनाहुः /
3445 SK [१०९|२४-१०९|२५] ᳚क्लिष्टे चित्ते नवानां हि लाभः इत्युच्यते बुधैः / षण्णां तु कुशले चित्ते तस्यैवा व्याकृटे खलु //᳚
3446 SK [१०९|२६] तत्र सप्तानां कुशले चित्त इति वक्तव्यम् /
3447 SK [१०९|२६-११०|०२] कामावचरस्य कुशलस्य सम्यग्दृष्ट्या कुशलमूलप्रतिसंधानात् कामरूपावचरयोरनिवृताव्याकृतयोर्वैराग्यतः रूपारूप्यावचरयोः कुशलयोस्ततस्त्यसमाधिलाभतः शैक्षाशैक्षस्य च नियामावक्रान्त्यर्हत्त्वयोः शेषमत एवव्याख्यानादवधार्यम् /
3448 SK [११०|०२] संग्रहश्लोकः /
3449 SK [११०|०३-११०|०४] ᳚उपपत्तिसमापत्तिवैराग्यपरिहाणिषु / कुशलप्रतिसंधौ च चित्तलाभो ह्यतद्वतः᳚ //
3451 SK [११०|०५] //समाप्तः प्रत्ययप्रसङ्गः //
3452 SK =====================================================================
3453 SK [११०|०६] अभिधर्मकोशभाष्ये इन्द्रियनिर्द्देशो नाम
3454 SK [११०|०७] द्वितीयं कोशस्थानं
3455 SK [११०|०८] समाप्तमिति /
3456 SK =====================================================================
3457 SK [११०|०९] श्रीलामावाकस्य
3458 SK =====================================================================
3460 SK =====================================================================
3461 SK [१११|०२] ॐ नमो दुद्धाय /
3462 SK [१११|०३] इदमिदानीं वक्तव्यम् / कामरूपारूप्यनैयम्येन चित्तादीनां कृतो निर्देशः /
3463 SK [१११|०३-१११|०४] तत्र कतमे ते कामरूपारूप्यधातव इत्युच्यते
3464 SK [१११|०५] नरकप्रेततिर्यञ्चो मनुष्याः षड् दिवौकसः /
3466 SK [१११|०७] चतस्रो गतयः /
3467 SK [१११|०७-१११|०९] षट् च देवनिकायास्तद्यथा चातुर्महाराजकायिका स्त्रायस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्त्तिनश्चेत्येष कामधातुः सह भाजनलोकेन /
3468 SK [१११|०९] स एष कति स्थानानीत्याह
3469 SK [१११|१०] स नरकद्वीपभेदेन विंशतिः // VAक्K_३.१ //
3470 SK [१११|११] स्थानानीति वाक्यशेषः संबध्यते / अष्टौ महानरकाः /
3471 SK [१११|११-१११|१२] संजीवः कालसूत्रः संघातो रौरवो महारौरवस्तपनः प्रतापनो ऽवीचिश्चेति /
3472 SK [१११|१२] चत्वारो द्वीपाः /
3473 SK [१११|१२-१११|१३] जम्बूद्वीपः पूर्वविदेहो ऽवरगोदानीयः उत्तरकुरुश्च /
3474 SK [१११|१३-१११|१४] षट् चानन्तरोक्ता देवनिकायाः तिर्यश्चः प्रेताश्च विंशतिः स्थानानि /
3475 SK [१११|१४-१११|१५] कामधातुः परनिर्मितवशवर्तिभ्यो यावदवीचिः सभाजनग्रहणेन तु यावद्वायुमण्डलम् /
3476 SK [१११|१५] एतस्माच्च कामधातोः
3477 SK [१११|१६] ऊर्ध्वं सप्तदशस्थानो रूपधातुः
3479 SK [१११|१८] पृथक् पृथक्
3480 SK [१११|१९] ध्यानं त्रिभूमिकं तत्र
3481 SK [१११|२०] प्रथमद्वितीयतृतीयध्यानानि प्रत्येकं त्रिभूमिकानि /
3482 SK [१११|२१] चतुर्थं त्वष्टभूमिकम् // VAक्K_३.२ //
3483 SK [१११|२२] तत्र प्रथमध्यानं ब्रह्मकायिका ब्रह्मपुरोहिताः महाब्रह्माणः /
3484 SK [१११|२२-१११|२३] द्वितीयं परीत्ताभा अप्रमाणाभा आभास्वराः /
3485 SK [१११|२३-१११|२४] तृतीयं परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्नाः /
3486 SK [१११|२४-१११|२५] चतुर्थमनभ्रकाः पुण्यप्रसवाः बृहत्फला अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा इत्येतानि सप्तदश स्थानानि रूपधातुः /
3487 SK [१११|२५-१११|२६] सह तन्निवासिभिः सत्त्वैः षोडशेति काश्मीराः /
3488 SK [१११|२६-१११|२७] ब्रह्मपुरोहितेष्वेव किल स्थानमुत्कृष्टतरं महाब्रह्मणः परिगण इवाभिनिर्वृत्तमेकनायकं नतु भूम्यन्तरमिति /
3489 SK [११२|०१] आरूप्यधातुरस्थानः
3490 SK [११२|०२] नह्यरूपिणां धर्मानां स्थानमस्ति /
3491 SK [११२|०२-११२|०३] अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा आदेशस्था इति नियमः /
3493 SK [११२|०४] उपपत्त्या चतुर्विधः /
3494 SK [११२|०५] उपपत्तिभेदेन चतुर्विध आरूप्यधातुः /
3495 SK [११२|०५-११२|०६] यदुत आकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चन्यायतनं नैवराञ्ज्ञानासंज्ञायतनमिति /
3496 SK [११२|०६] नत्वेषां देशकृतमौत्तराधर्य भिद्यते /
3497 SK [११२|०७] यत्रैव हि देशे तत्स्मापत्तिलाभिनश्च्यवन्ते तत्रैवोपपद्यन्ते इति /
3498 SK [११२|०७-११२|०८] पुनश्च तस्माच्च्यवमानानां तत्रैवान्तराभवो ऽभिनिर्वर्त्तते /
3499 SK [११२|०९-११२|१०] यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते चित्तसंततिरेवमारूप्येषु किं निश्रित्य प्रव्र्त्तते /
3500 SK [११२|११] निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः // VAक्K_३.३ //
3501 SK [११२|१२] निकायसभागं जीवितेन्द्रियं च निश्रित्येत्याभिधार्मिकाः /
3502 SK [११२|१३] रुपिणामपि तर्हि सत्त्वानां किमर्थ न तदेव द्वयं निश्रित्य प्रवर्त्तते चित्तसन्ततिः /
3503 SK [११२|१४] दुर्बलत्वात् / तस्याः केन बलवत्त्वम् / समापत्तिविशेषजत्वात् /
3504 SK [११२|१४-११२|१५] सा हि समापत्तिर्विभूतरूपसंज्ञा /
3505 SK [११२|१५] तत एव तर्हि बलवत्त्वात् प्रवर्त्तिष्यते किम् पुनर्निश्रयेण /
3506 SK [११२|१५-११२|१६] इदं चापि वक्तव्यम् /
3507 SK [११२|१६-११२|१७] यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते निकायसभागो जीवितेन्द्रियं च एवमरूपिणां सत्त्वानां किं निश्रित्य प्रवर्त्तते /
3508 SK [११२|१७] तदेव द्वयमन्यो ऽन्यम् /
3509 SK [११२|१८] रूपिणामपि तर्हि किमर्थं न तदेव द्वयमन्योन्यम् / दुर्बलत्वात्तयोः /
3510 SK [११२|१८-११२|१९] तत्रेदानीं केन बलवत्त्वाम् /
3511 SK [११२|१९] समापत्तिविशेषजत्वात् /
3512 SK [११२|१९-११२|२०] तदेतच्चित्तसन्ततौ समानं चित्तचैत्तेषु वा /
3513 SK [११२|२०-११२|२१] तस्मान्नास्त्यरूपिणां सत्त्वानां चित्तसन्ततेरन्योन्यम् निश्रय इति सौत्रान्तिकाः /
3514 SK [११२|२१-११२|२३] अपि तु यस्याश्चित्तसन्ततेराक्षेपहेतुरवीततृष्णो रूपे तस्याः सह रूपेण संभवाद्रूपं निश्रित्य प्रवृत्तिर्यस्यास्तु हेतुर्वीततृष्णो रूपे तस्या अनपेक्ष्य रूपं प्रवृत्तिः /
3515 SK [११२|२३] हेतोस्तद्विमुखत्वादिति /
3516 SK [११२|२४] अथ कस्मादेते कामरूपारूप्यधातव इत्युच्यन्ते / स्वलक्षणधारणाद्धातुः /
3517 SK [११२|२५-११२|२६] कामप्रतिसंयुक्तोधातुः कामधातुः रूपप्रतिसंयुक्तो धातू रूपधातुर्मध्यपदलोपाद्वज्रबालकवत् मरिचपानकवच्च /
3518 SK [११२|२६] नात्र रूपमस्तित्यरूपः /
3519 SK [११२|२७] अरूपस्य भाव आरुप्यम् / रूपणीयो वा रूप्यः /
3520 SK [११२|२७-११२|२८] न रूप्यो ऽरूप्यस्तद्भाव आरूप्यम् /
3521 SK [११२|२८] तत्प्रतिसंयुक्तो धातुरारूप्यधातुः /
3522 SK [११२|२८-११३|०१] कामानां धातुः कामधातुः कामान् यो दधाति /
3523 SK [११३|०१] एवं रूपारूप्यधातू वेदितव्यौ / को ऽयं कामो नाम /
3524 SK [११३|०१-११३|०२] समासातः कवडीकाराहार मैथुनोपसंहितो रागः /
3525 SK [११३|०३-११३|०४] ᳚न ते कामा यानि चित्राणि लोके संकल्परागः पुरुषस्य कामः / तिष्ठन्ति चित्राणि तथैव लोके अठात्र धीरा विनयन्ति कामम्᳚ //
3527 SK [११३|०५] गाथाभिधानान् / अजीवक आर्यशारिपुत्रं प्रत्याह
3528 SK [११३|०६-११३|०७] ᳚न ते कामा यानि चित्राणि लोके संकल्परागं वदसीह कामम् / भिक्षुर्भविष्यत्यपि कामभोगी संकल्पयन् सो ऽकुशलान् वितर्कान्᳚ /
3529 SK [११३|०८] आर्यशारिपुत्र आह
3530 SK [११३|०९-११३|१०] ते चेत्कामा यानि चित्राणि लोके संकल्परागो यदि ते न कामः / शास्ता ऽपि ते भविता कामभोगी दृष्ट्वैव रूपाणि मनोरमाणि᳚//
3531 SK [११३|११-११३|१२] किं पुनर्ये केचन धर्माः कामरूपारुप्यधातुषु समुदाचरन्ति सर्वे ते कामरूपारूप्यप्रतिसंयुक्ताः /
3532 SK [११३|१२] नेत्याह / किं तर्हि / येषु कामरूपारुप्यरागा अनुशेरते /
3533 SK [११३|१३] के पुनरमी कामरूपारूप्यरागाः /
3534 SK [११३|१३-११३|१४] ये कामरूपारूप्यधातुष्वनुशेरते /
3535 SK [११३|१४] इदमिदानीं तदश्ववन्धीयम् / कस्यायमश्वबन्धो यस्यायमश्वः /
3536 SK [११३|१४-११३|१५] कस्यायमश्वः /
3537 SK [११३|१५] यस्यायमश्वबन्धः / इत्युभयमपि न ज्ञायते / नेदमश्वबन्धीयम् /
3538 SK [११३|१५-११३|१६] कृतनिर्देशानि हि स्थानानि कामधातौ /
3539 SK [११३|१६] तेष्ववीतरागस्य यो रागः स कामरागः /
3540 SK [११३|१७] यत्रानुशेते सो ऽपि धर्मः कामप्रतिसंयुक्तः /
3541 SK [११३|१७-११३|१८] एवं रूपारूप्यरागावधोवीतरागस्य यथायोगं वेदितव्यौ /
3542 SK [११३|१८] असमाहितभूमिको वा रागः कामरागः /
3543 SK [११३|१८-११३|१९] ध्यानारूप्येषु रागो रूपारूप्यरागः /
3544 SK [११३|१९] निर्माणचित्ते कथं कामरागः /
3545 SK [११३|१९-११३|२०] श्रुत्वा परिहाय च तदास्वादनात् /
3546 SK [११३|२०] निर्माणवशेन वा निर्मायक चित्तो ऽपि रागः / गन्धरसनिर्माणाद्वा /
3547 SK [११३|२१] तस्य कामवचरत्वम् / रूपावचरेण तयोरनिर्माणात् / किं पुनरेकमेव त्रैधातुकम् /
3548 SK [११३|२२] त्रैधातुकानामन्तो नास्ति / यावदाकाशं तावन्तो धातवः /
3549 SK [११३|२२-११३|२३] अथ एव च नास्त्यपूर्वसत्त्वप्रादुर्भावः /
3550 SK [११३|२३-११३|२४] प्रतिबुद्धोत्पादं चासंख्येयसत्त्वपरिनिर्वाणे ऽपि नास्ति सत्त्वानां परिक्षय आकाशवत् /
3551 SK [११३|२५] कथमवस्थानं लोकधतूनां /
3552 SK [११३|२५-११३|२७] तिर्यक्सूत्र उक्तं तद्यथा ᳚ईषाधारे देवे वर्षति नास्ति वीचिर्वा अन्तरिका व अन्तरीक्षाद्वारिधाराणां प्रपतन्तीनाम् /
3553 SK [११३|२७-११३|२८] एवं पूर्वस्यां दिशि नास्ति वीचिर्वा अन्तरिका वा लोकधातूनां संवर्त्तमानानां विवर्त्तमानां च /
3554 SK [११३|२८-११३|२९] यथा पूर्वस्यां दिशि एवं दक्षिणास्यां पश्चिमायामुत्तरस्यामि᳚ति /
3555 SK [११३|२९] नतूक्तमूर्ध्वमधश्चेति /
3556 SK [११४|०१] ऊर्ध्वमप्यध्हो ऽपीत्यपरे / निकायान्तरपाठाद् / अकनिष्ठादूर्ध्वं पुनः कामधातुः /
3557 SK [११४|०२] कामधातोश्चाधः पुनरकनिष्ठाः / यश्चैकस्मात् कामधातोर्वीतरागः स सर्वेभ्यः /
3558 SK [११४|०३] एवं रूपारूप्येभ्यः /
3559 SK [११४|०३-११४|०४] यश्च प्रथमध्यानसंनिश्रयाद्धि उत्पादयति स यत्र लोकधातौ जात उत्पादयति तत्रत्यमेव ब्रह्मलोकमुपागच्छति नान्यम् /
3560 SK [११४|०४-११४|०५] य एते त्रयो धातव उक्ताः /
3561 SK [११४|०६] नरकादिस्वनामोक्ता गतयः पञ्च तेषु
3562 SK [११४|०७] नरकास्तिर्यञ्चः प्रेता देवा मनुष्या इति /
3563 SK [११४|०७-११४|०८] स्वैरेव नामभिस्तेषु पञ्च गतयः प्रोक्ताः /
3564 SK [११४|०८] कामधातो चतस्रो गतयः पञ्चम्याश्च प्रदेशः /
3565 SK [११४|०८-११४|०९] रूपारूप्यधात्वोरेकस्या देवगतेः प्रदेशः /
3566 SK [११४|०९] किं पुनर्गतिनिर्मुक्ताः सन्ति धातवो यत धातुष्वित्युच्यन्ते /
3567 SK [११४|१०] सन्ति कुशलक्लिष्टभाजनान्तराभवस्वभावा अपि धातवः / यास्तु पञ्च गतयः /
3569 SK [११४|१२] अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः // VAक्K_३.४ //
3570 SK [११४|१३] अनिवृताव्याकृता एव गतयः / अन्यथा हि गतिसंभेदः स्यात् /
3571 SK [११४|१३-११४|१४] सत्त्वाख्या एव च नचान्तराभवस्वभावाः /
3572 SK [११४|१४-११४|१५] प्रज्ञ्यप्तिपूक्तम् ᳚चतसृभिर्योनिभिः पञ्च गतयः संगृहीता नतु पञ्चभिर्गतिभिश्चतस्रो योनयः /
3573 SK [११४|१५] किमसंबृहीतम् /
3574 SK [११४|१६] अन्तराभव᳚ इति / धर्मस्कन्धे ऽपि चोक्तम् ᳚चक्षुर्धातुः कतमः /
3575 SK [११४|१६-११४|१८] चत्वारि महाभूतान्युपादाय यो रूपप्रसादश्चक्षुश्चक्षुरिन्द्रियं चक्षुरायतनं चक्षुर्धातुनरिकस्तैर्यग्योनिकं पैतृविषयिको देव्यो मानुष्यको भावनामयो ऽन्तराभविकश्चे᳚ति /
3576 SK [११४|१८-११४|१९] सूत्रे ऽपि च बहिष्कृतो ऽन्तराभवो गतिभ्यः /
3577 SK [११४|१९] कस्मिन् सूत्रे /
3578 SK [११४|१९-११४|२०] ᳚सप्त भवा नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवो ऽन्तराभव᳚ इति /
3579 SK [११४|२०-११४|२१] अत्र हि पञ्च गतयः सहेतुकाः सहागमनाश्चोक्ताः /
3580 SK [११४|२१] अथ एव चानिवृताव्याकृताः सिध्यन्ति /
3581 SK [११४|२२] तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात् / काश्मीराश्च सूत्रं पठन्ति /
3582 SK [११४|२२-११४|२४] स्थविरशारिपुत्रेणोक्तं ᳚नारकाणामायुष्मन्नास्रवाणां संमुखीभावान्नरकवेदनीयानि कर्माणि करोत्युपचिनोति /
3583 SK [११४|२४-११४|२५] तेषामायुष्मन् कायवाङ्मनोवङ्कानां कायवाङ्मनोदोषकषायाणा नरकेषु रूपं संज्ञा वेदना संस्कारो विज्ञानं विपाको विपच्यते /
3584 SK [११४|२६-२२४|२६] निर्वृत्ते विपाके नारक इति संख्यां गच्छति /
3585 SK [११४|२६-११४|२७] तत्रायुष्मन्नारको नोपलभ्यते ऽन्यत्र तेभ्यो धर्मेभ्य᳚ इति /
3586 SK [११४|२७] अतो ऽप्यनिवृताव्याकृता एव गतयः /
3587 SK [११४|२७-११५|०१] प्रकरणाग्रन्थस्तर्हि परिहार्यो ᳚गतिषु सर्वे ऽनुशया अनुशेरत᳚ इति /
3588 SK [११५|०१-११५|०२] प्रतिसंधिचित्तानि हि गतीनां पञ्चप्रकाराणि सन्त्यतः सप्रवेशगतिग्रहणाददोष एव /
3589 SK [११५|०२-११५|०३] ग्रामग्रहणे ग्रामोपचार ग्रहणवत् /
3590 SK [११५|०३] कुशलक्लिष्टा अपीत्यपरे /
3591 SK [११५|०३-११५|०४] यक्तूक्तम् ᳚कर्मभवस्य ताभ्यो बहिष्करणा᳚दिति /
3592 SK [११५|०४] नावश्यं पृथग्वचनाद्बहिष्कृतो भवति /
3593 SK [११५|०४-११५|०५] तद्यथा पञ्चसु कषायेषु क्लेशदृष्टिकषायौ पृथगुक्तौ /
3594 SK [११५|०५] न च दृष्टयो न क्लेशाः /
3595 SK [११५|०५-११५|०६] एवं कर्मभवो ऽपि गतिश्च स्यात् /
3596 SK [११५|०६] पृथक् चास्य वचनं स्यात् गतिहेतुज्ञापनाऋथम् /
3597 SK [११५|०७] अन्तराभवे ऽप्येष प्रसङ्गः / नायोगात् / गच्छन्ति तामिति गतिः /
3598 SK [११५|०७-११५|०८] नचान्तराभवो गन्तव्यश्च्युतिदेश एवोत्पादनात् /
3599 SK [११५|०८] आरूप्या अपि गतिर्न भविष्यन्ति /
3600 SK [११५|०९-०१५|०९] च्युतिदेश एवोत्पादात् /
3601 SK [११५|०९-११५|१०] एवं तर्ह्यन्तराभवत्वादेवान्तराभवो न गतिर्गत्यन्तरालत्वात् /
3602 SK [११५|१०] यदि हि गतिः स्यादन्तराभव इत्येव न स्यात् /
3603 SK [११५|१०-११५|११] यतर्हि स्थविरशारिपुत्रेणोक्तं ᳚निर्वृत्ते विपाके नारक इति संख्यां गच्छती᳚ति /
3604 SK [११५|११-११५|१२] निर्वृत्ते वीपाक इत्युक्तः नतु विपाक एवेति /
3605 SK [११५|१२-११५|१३] यत्तर्ह्यक्तं ᳚तत्रायुष्मन्नारको नोपलभ्यते ऽन्यत्र तेभ्यो धर्मेभ्य᳚ इति /
3606 SK [११५|१३-११५|१४] गतिगामिनः पुद्गलद्रव्यस्य प्रतिषेधं करोति नान्यत्र स्कन्धेभ्य उपलभ्यते नारक इति न तु स्कन्धान्तरप्रतिषेधम् /
3607 SK [११५|१४-११५|१५] अव्याकृता एव तु गतयो वर्ण्यन्ते वैभाषिकैः /
3608 SK [११५|१५] ताश्च विपाकस्वभावा एवेत्येके /
3609 SK [११५|१५-११५|१६] औपचयिकस्वभावा अपीत्यपरे /
3610 SK [११५|१७] अत्रैव पञ्चगतिके धातुत्रये यथाक्रमं वेदितव्याः
3611 SK [११५|१८] नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिनः /
3612 SK [११५|१९] विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्रयः // VAक्K_३.५ //
3613 SK [११५|२०] विज्ञानस्थितयः सप्त
3614 SK [११५|२१-११५|२२] सूत्रे उक्तः ᳚रुपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथामनुष्यास्तदेकत्याश्च देवाः /
3615 SK [११५|२२] इयं प्रथमा विज्ञानस्थितिः / कतमे पुनस्ते तदेकत्या देवाः /
3616 SK [११५|२३] कामावचराः प्रथमघ्यानभूमिकाश्च प्रथमाभिनिर्वृत्तवर्ज्याः᳚ /
3617 SK [११५|२३-११५|२४] नानात्वेन काय एषामिति नानात्वकायाः /
3618 SK [११५|२४] अनेकवर्णलिङ्गसंस्थानत्वात् /
3619 SK [११५|२४-११५|२५] नानात्वेन संज्ञा नानात्वसंज्ञा /
3620 SK [११५|२५-११५|२४] सैषामस्तीति नानात्वसंज्ञिनः /
3621 SK [११५|२५] सुखदुःखादुःखासुखसंज्ञित्वात् /
3622 SK [११५|२५-११५|२७] रूपिणः सन्ति नानात्वकाया एकत्वसंज्ञिनस्तद्यथा देवा ब्रह्मकायिका ये तत्प्रथमाभिनिर्वृत्ताः /
3623 SK [११५|२७] इयं द्वितीया विज्ञानस्थितिः /
3624 SK [११५|२७-११५|२८] ते हि प्रथमाभिनिर्वृत्ताः सर्व एकैकसंज्ञिनो भवन्ति अनेन वयं ब्रह्मणा सृष्टा इति /
3625 SK [११५|२८-११५|२९] ब्रह्मणो ऽप्येवं भवति मयैते सृष्टा इत्यभिन्नकारसंज्ञानादेकत्वसंज्ञिनः /
3626 SK [११५|२९-११५|३१] अन्यथैव तु महाब्रह्मण आरोहपरिणाह आकृतिविग्रहो वाग्भाषा चीवरधारणं च अन्यथा तत्पर्षद इति नानात्वकायाः /
3627 SK [११५|३१-११६|०२] यदिदमुक्तं सूत्रे ᳚तेषामेवं भवति इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तं यावदहो वतान्ये ऽपि सत्त्वा इहोपपद्येरन्मम सभामतायामि᳚ति /
3628 SK [११६|०२] अस्य च सत्त्वस्यैवञ्चेतसः प्रणिधिर्वयं चेहोपपन्ना इति /
3629 SK [११६|०२-११६|०३] कथं तमद्राक्षुः /
3630 SK [११६|०३] आभास्वरस्था इत्येके /
3631 SK [११६|०३-११६|०५] ततो हि ते प्रच्युताः कथमिदानीमलब्धायां द्वितीयध्यानसमापत्तौ तद्भूमिकं पूर्वेनिवासमस्मार्षुः लब्धायां वा कथं महाब्रह्मालम्बनां शीलव्रतपरामर्शदृष्टिं निविष्टाः /
3632 SK [११६|०५] अन्तराभवस्था अद्राक्षुरित्यपरे /
3633 SK [११६|०६] तत्रापि न दीर्घमध्वानमवस्थातुं संभवः प्रतिबन्धाभावादिति /
3634 SK [११६|०६-११६|०७] कथं तेषामेवं भवति स्म ᳚इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तमि᳚ति /
3635 SK [११६|०८-११६|०९] तस्मात्तत्रस्था एव ते तस्य पूर्ववृत्तान्तं समनुस्मरन्त एव दीर्घमध्वानं तिष्ठन्तं दृष्टवन्तो दृष्ट्वा च पश्चादद्राक्ष्मेत्येषां बभूव /
3636 SK [११६|०९-११६|१०] रुपिणः सन्ति सत्त्वा एकत्वकाया नानात्वसंज्ञिनस्तद्यथा देवा आभास्वराः /
3637 SK [११६|१०] इयं तृतीया विज्ञानस्थितिः /
3638 SK [११६|१०-११६|११] अत्र पुनः पर्यन्तग्रहणात्सकलद्वितीयध्यानग्रहणं वेदितव्यम् /
3639 SK [११६|११-११६|१२] अन्यथा हि परीत्ताभा अप्रमाणाभाश्च कस्यां विज्ञानस्थितौ व्यवस्थाप्येरन् /
3640 SK [११६|१२-११६|१३] तत्राभिन्नवर्णलिङ्गसंस्थानत्वादेकत्वकायाः /
3641 SK [११६|१३] सुखसंज्ञित्वाददुःखासुखसंज्ञित्वाच्च नानात्वसंज्ञिनः /
3642 SK [११६|१४-११६|१५] ते किल मौल्यां भूमौ सौमनस्येन्द्रियपरिखिन्नाः सामन्तकादुपेक्षेन्द्रियं संमुखीभवन्ति /
3643 SK [११६|१५-११६|१६] सामन्तके चोपेक्षेन्द्रियपरिखिन्नाः पुनमौल्या भुमेः सौमनस्येन्द्रियं संमुखीकुर्वन्ति /
3644 SK [११६|१६-११६|१७] यथा कामरतिपरिखिन्ना ईश्वरा धर्मरतिं प्रत्यनुभवन्ति धर्मरतिपरिखिन्नाः कामरतिमिति /
3645 SK [११६|१७] ननु च शुभकृत्स्नेष्वप्येष प्रस्ङ्गः /
3646 SK [११६|१७-११६|१८] न तेषां तेन सुखेनास्ति परिखेदः /
3647 SK [११६|१८] किं कारणम् /
3648 SK [११६|१८-११६|१९] शान्तं हि तत्सुखमशान्तं च सौमनस्यं चेतस उत्प्लावकत्वादिति सौत्रान्तिका व्याचक्षते /
3649 SK [११६|१९-११६|२०] सूत्र उक्तं ᳚यथा ते नानात्वसंज्ञिनः /
3650 SK [११६|२०-११६|२२] तत्र ये सत्त्वा आभास्वरे देवनिकाये ऽचिरोपपन्ना भवन्ति नैव संवर्त्तनीकुशला न विवर्त्तनीकुशला अस्य लोकस्य ते तामर्चिषं दृष्ट्वा भीताः सन्त उद्विजन्ते संवेगमापद्यन्ते /
3651 SK [११६|२२] सहैवैषा ऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वा ऽर्वागागमिष्यतीति /
3652 SK [११६|२३-११६|२४] तत्र ये सत्त्वा आभास्वरे देवनिकाये चिरोपपन्नाः संवर्त्तनीकुशला विवर्त्तनीकुशलाश्चास्य लोकस्य ते तान् सत्त्वान् भीतानाश्वासयन्ति /
3653 SK [११६|२४-११६|२५] मा भैष्ट माऋषाः मा भैष्ट मार्षाः /
3654 SK [११६|२५] पूर्वमप्येषा ऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वा ऽत्रैवान्तर्हिते᳚ति /
3655 SK [११६|२६-११६|२७] अतो ऽर्चिष आगमव्यपगमसंज्ञित्वात् भीता भीतसंज्ञित्वाच्च ते नानात्वसंज्ञिनो न सुखादुःखासुखसंज्ञित्वादिति /
3656 SK [११६|२७-११६|२८] रूपिणः सन्ति सत्त्वा एकत्वकाया एकत्वसंज्ञिनस्तद्यथा देवाः शुभकृत्स्नाः /
3657 SK [११६|२८] इयं चतुर्थी विज्ञानस्थितिः /
3658 SK [११६|२८-११७|०१] तत्राभिन्नवर्णसंस्थानलिङ्गत्वादेकत्वकायाः /
3659 SK [११७|०१] एकत्वसंज्ञिनः सुखसंज्ञित्वात् /
3660 SK [११७|०१-११७|०२] तत्र प्रथमे ध्याने क्लिष्टया संज्ञया एकत्वसंज्ञिनः /
3661 SK [११७|०२-११७|०३] द्वितीये कुशलया संज्ञया नानात्वसंज्ञिनस्तृतीये विपाकजया संज्ञयाएकत्वसंज्ञिनः /
3662 SK [११७|०३-११७|०४] आरुप्यास्त्रयो यथासूत्रमित्येताः सप्त विज्ञानस्थितयः /
3663 SK [११७|०४] का ऽत्र विज्ञानस्थितिः /
3664 SK [११७|०४-११७|०५] तत्प्रतिसंयुक्ताः पञ्च स्कन्धाश्चत्वारश्च यथायोगम् /
3665 SK [११७|०५] शेषं कस्मान्ना विज्ञानस्थितिः /
3667 SK [११७|०६] शेषं तत्परिभेदवत् /
3668 SK [११७|०७] किं पुनः शेषम् / दुर्गतयश्चतुर्थ ध्यानं भवग्रं च /
3669 SK [११७|०७-११७|०८] अत्र हि विज्ञानपरिभेदाः सन्त्यत एव न विज्ञानस्थितिः /
3670 SK [११७|०८] कः पुनः परिभेदः येन विज्ञानं परिभिद्यते
3671 SK [११७|०८-११७|०९] तत्रापायेषु दुःखा वेदना परिभेद उपधातिदत्वात् /
3672 SK [११७|०९] चतुतें ध्याने आसंज्ञिकमसंज्ञिसमापत्तिश्च /
3673 SK [११७|१०] भवाग्रे निरोधसमापत्तिश्चित्तसन्ततिच्छेदात् / पुनराह /
3674 SK [११७|१०-११७|११] यत्रेहस्थानां गन्तुकामता तत्रस्थानां चाव्युच्चलितुकामता ऽसौ विज्ञानस्थितिरुक्ता /
3675 SK [११७|११-११७|१२] अपायेषु चोभयं नास्हि /
3676 SK [११७|१२-११७|१३] चतुर्थे ध्याने सत्त्वा उच्चलितमानसाः पृथग्जना आसंज्ञिकं प्रवेष्टुकामा आर्याः शुद्धावासान् भवाग्रानपटुप्रचारत्वान्न विज्ञानस्थितिरिति /
3677 SK [११७|१४] एताश्च सप्त विज्ञानस्थितयो यथोक्ताः /
3678 SK [११७|१५] भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः // VAक्K_३.६ //
3679 SK [११७|१६] एषु हि सत्त्वा आवसन्ति स्वेच्छया /
3680 SK [११७|१७] अनिच्छावसनान्नान्ये
3681 SK [११७|१८] के पुनरन्ये / अपायाः / तेषु हि सत्त्वा अकामकाः कर्मराक्षसैरावास्यन्ते /
3682 SK [११७|१९] नत्विच्छया वसन्ति / अतस्तेन सत्त्वावासा बन्धनस्थानवत् /
3683 SK [११७|१९-११७|२०] अन्यत्र सूत्रे सप्त विज्ञानस्थितय उक्ताः अन्यत्र
3684 SK [११७|२१] चतस्रः स्थितयः पुनः /
3685 SK [११७|२२] कतमाश्चतस्रः / रूपोपगा विज्ञान स्थितिर्वेदनोपगा संज्ञोपगा संस्कारोपगा इति /
3686 SK [११७|२३] तासां कः स्वभावः / ता हि यथाक्रमं /
3687 SK [११७|२४] चत्वारः सास्रवाः स्कन्धाः
3689 SK [११७|२६] स्वभूमावेव
3690 SK [११७|२७] नान्यत्र भूमौ / किं कारणम् / प्रतिष्टा हि स्थितिः /
3691 SK [११७|२७-११७|२८] न च विसभागभूमिकेषु स्कन्हेषु विज्ञानं तृष्णावशात् प्रतितिष्ठतीति /
3692 SK [११७|२८-११७|२९] कस्मान्न विज्ञानं विज्ञानस्थितिरुच्यते यथा सप्तसु विज्ञानस्थितिषु पञ्च स्कन्धा इति /
3693 SK [११७|२९] स्थातुः परिहारेण स्थितिविधानात् /
3694 SK [११८|०१] नहि स्थातैव स्थितिरुच्यते /
3695 SK [११८|०१-१२८|०१] यथा न राजैव राजासनमिति /
3696 SK [११८|०१-११८|०२] यांश्च धर्मानभिरुह्य विज्ञानं वाहयति नौनाविकन्यायेन ते धर्मा विज्ञानस्थितय उक्ताः /
3697 SK [११८|०३] नतु विज्ञानं विज्ञानमेवारुह्य वाहयत्यतो नोक्तमिति वैभाषिकाः /
3698 SK [११८|०३-११८|०४] यत्तर्हि सूत्र उक्तं ᳚विज्ञाने आहारे अस्ति नन्दी अस्ति राग इति /
3699 SK [११८|०४-११८|०५] यत्रास्ति नन्दी अस्ति रागः प्रतिष्ठितं तत्र विज्ञानमधिरूढमि᳚ति /
3701 SK [११८|०५-११८|०६] ᳚सप्त च विज्ञानस्थितयः पञ्चस्कन्धसंगृहीता᳚ इति तत्कथम् /
3702 SK [११८|०६-११८|०७] एवं तर्ह्यभेदेनोपपत्त्यायतनसंगृहीतेषु स्कन्धेषु साभिरामायां विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः /
3703 SK [११८|०७-११८|०८] प्रत्येकं तु यथा रूपादयो विज्ञानस्य संक्लेशाय भवन्ति /
3704 SK [११८|०८] तस्माच्चतसृषु विज्ञानस्थितिषु
3705 SK [११८|०९] केवलम् // VAक्K_३.७ //
3706 SK [११८|१०] विज्ञानं न स्थितिः प्रोक्तं
3707 SK [११८|११] अपि च क्षेत्रभावेन भगवता चतस्रो विज्ञानस्थितयो देशिताः /
3708 SK [११८|११-११८|१३] वीजभावेन च सोपादानं विज्ञानं कृत्स्नमेवेति न पुनर्बीजं बीजस्य क्षेत्रभावेन व्यवस्थापयांबभूवेत्यभिप्रायं परिकलपयामास /
3709 SK [११८|१३-११८|१४] ये धर्माः सहवर्त्तिनो विज्ञानस्य ते ऽस्य क्षेत्रभावेन साधीयांसो भवन्तीति त एवास्य स्थितय उक्ताः /
3710 SK [११८|१५-११८|१६] अथ कथं सप्तभिर्विज्ञानस्थितिभिश्चतस्रो विज्ञानस्थितयः संगृहीताश्चातसृभिर्वा सप्त /
3711 SK [११८|१६] नैव हि सप्तभिश्चतस्रो नापि चतसृभिः सप्त /
3712 SK [११८|१७] चतुष्कोटि तु संग्रहे /
3713 SK [११८|१८] संग्रहे विचार्यमाणे चतुष्कोटिकं वेदितव्यम् /
3714 SK [११८|१८-११८|१९] स्यात्सप्तभिः संगृहीतं न चतसृभिरित्येवमादि /
3715 SK [११८|१९] प्रथमाः कोटिः सप्तसु यद्धिज्ञानम् /
3716 SK [११८|१९-११८|२०] द्वितीया अपायेषु चतुर्थे ध्याने भवाग्रे च विज्ञानवर्ज्याः स्कन्धाः /
3717 SK [११८|२०-११८|२१] तृतीया सप्तसु चत्वारः स्कन्धाश्चतुर्थ्येतानाकारान् स्थापयित्वा /
3718 SK [११८|२२] यच्चैतत् गत्यादिभेदभिन्नं त्रैधातुकमुक्तं वेदितव्याः /
3719 SK [११८|२३] चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः // VAक्K_३.८ //
3720 SK [११८|२४] अण्डजा योनिर्जरायुजा संस्वेदजा उपपादुका योनिः / योनिर्नाम जातिः /
3721 SK [११८|२५] युवान्त्यस्यां सत्त्वा मिश्रीभवन्ति प्रसवसाम्यादिति योनिः / अण्डजा योनिः कतमा /
3722 SK [११८|२६] ये सत्त्वा अण्डेभ्यो जायन्ते / तद्यथा हंसक्रोञ्चचक्रवाकमयूरशूकशारिकादयः /
3723 SK [११८|२७] जरायुजा योइः कतमा / ये सत्त्वा जरायोर्जायन्ते /
3724 SK [११८|२७-११८|२८] तद्यथा हस्त्यश्वगोमहिषखरवराहादयः /
3725 SK [११८|२८] संस्वेदजा योनिः कतमा /
3726 SK [११८|२८-११८|२९] ये सत्त्वा भूसंस्वेदाज्जायन्ते /
3727 SK [११८|२९] तद्यथा कृमिकीटपतङ्गमशकादयः / उपपादुका योनिः कतमा /
3728 SK [११९|०१] ये सत्त्वा अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः सकृदुपजायन्ते /
3729 SK [११९|०१-११९|०२] अत एव उपपदने (रेअद्: उपपादने) साधुकारित्वादुपपादुका इत्युच्यन्ते /
3730 SK [११९|०२] तद्यथा देवनारकान्तराभविकादयः /
3731 SK [११९|०३] अथ कस्यां गतौ कति योनयः संविद्यन्त इत्याह
3732 SK [११९|०४] चतुर्धा नर तिर्यञ्चः
3733 SK [११९|०५] मनुष्याश्चतुर्विधाः /
3734 SK [११९|०५-११९|०७] अण्डजास्तावद्यथा क्रोञ्चीनिर्यातौ शैलोपशैलौ स्थविरौ मृगारमातुश्च द्वात्रिंशत् पुत्राः पञ्चालराजस्य च पञ्च पुत्रशतानि /
3735 SK [११९|०७] जरायुजा यथेदानीम् /
3736 SK [११९|०७-११९|०८] संस्वेदजास्तद्यथा मान्धातुचारुश्पचारूपचारुकपोतमालिन्याम्रपाल्यादयः /
3737 SK [११९|०८] उपपादुकाः पुनः प्राथमकल्पिकाः /
3738 SK [११९|०८-११९|०९] एवं तिर्यञ्चो ऽपि चतुर्विधाः /
3739 SK [११९|०९] त्रिविधा दृश्यन्त एव / उपपादुकास्तु नागसुपर्णि प्रभृतयः /
3740 SK [११९|१०] नारका उपपादुकाः /
3741 SK [११९|११] अन्तराभवदेवाश्च
3742 SK [११९|१२] सर्वे नारका अन्तराभविकाः देवाश्चोपपादुका एव /
3743 SK [११९|१३] प्रेता अपि जरायुजाः // VAक्K_३.९ //
3744 SK [११९|१४] अपिशब्दादप्युपपादुका इति / आयुष्मते महामौद्गल्यायनाय प्रेती निवेदयते
3745 SK [११९|१५] ᳚पञ्च पुत्रानहं रात्रौ दिवा पञ तथा परान् /
3746 SK [११९|१६] भक्षयामि जनित्वा तान् नास्ति तृप्तिस्तथापि मे //᳚
3747 SK [११९|१७] कतमा योनिः सर्वसाध्वी / उपपादुका /
3748 SK [११९|१७-११९|१८] अथ किमर्थं चरमभविको बोधिसत्त्वः प्राप्तोपपत्तिवशित्वे ऽपि जरायुर्जां योर्नि भजते /
3749 SK [११९|१८-११९|१९] एवं हि क्रियमाणे महान्तमर्थं पश्यति /
3750 SK [११९|१९-११९|२१] ज्ञातिसंबन्धेन महतः शाक्यवंशस्य धर्मे ऽवतरणार्थं चक्रवर्त्तिवंश्यो ऽयमिति चान्येषां बहुमानादरावर्जनार्थं मनुष्यभूता अपि चैनां सिद्धिं गच्छन्तीति विनेयाना मुत्साहार्थम् /
3751 SK [११९|२१-११९|२३] इतरथा ह्यप्रज्ञायमानकुलगोत्रः को ऽप्ययं मायापुरुष इत्येवं परिकल्पयेयुर्देवः पिशाच इति वा यथा ऽन्यतीर्थ्या अपभाषन्ते कल्पशतस्यात्ययादेवंविधो मायावी लोके प्रादुर्भूय मायया लोकं भक्षयतीति /
3752 SK [११९|२४] अपरे त्वाहुः /
3753 SK [११९|२४-११९|२६] शरीरधातूनामवस्थापनार्थं येषुमनुष्या अन्ये च प्रजां विज्ञाय सहस्रशः स्वर्गं च प्राप्ता अपवर्गं चेति उपपादुकानां हि सत्त्वानां बाह्यबीजाभावान् मृतानां कायो नावतिष्ठते निशान्त इव तैलप्रद्योतो ऽन्तर्धीयते /
3754 SK [११९|२६-११९|२७] आधिष्ठानिकीमृद्धिं भगवत इच्छतां न युक्त एक्ष परिहारः /
3755 SK [११९|२७] प्रश्नात्प्रश्नान्तरमुपजायते /
3756 SK [११९|२७-१२०|०२] यद्यप्युपपादुकानां कायनिधनं न प्रज्ञयते कथमुक्तं सूत्रे ᳚उपपादुकः सुपर्णी उपपादुकं नागमुद्धरति भक्षार्थमि᳚ति /
3757 SK [१२०|०२] नोक्तं भक्षयतीत्यपि तूद्धरति भक्षार्थमज्ञत्वादित्यदोषः /
3758 SK [१२०|०२-१२०|०३] भक्षयति वा यावन्न मृतो भवति न पोउन्र्मृतस्यास्य तृष्यतीति /
3759 SK [१२०|०४] कतमा योनिः सर्ववह्वी / उपपादुकैव /
3760 SK [१२०|०४-१२०|०५] सा हि द्विगती तिसृणां च प्रदेशः सर्वे चान्तराभाविका इति /
3761 SK [१२०|०६] को ऽयमस्तराभावो नाम /
3762 SK [१२०|०७] मृत्यूपपत्तिभवयोरन्तरा भवतीह वः /
3763 SK [१२०|०८-१२०|०९] मरणभवस्योपपत्तिभवस्य चान्तरा य आत्मभावो ऽभिनिर्वर्त्तते देशान्तरोपपत्तिसम्प्राप्तये सो ऽन्तराभव इत्युच्यते /
3764 SK [१२०|०९] गत्यन्तरालत्वात् /
3765 SK [१२०|०९-१२०|१०] कथमयं जातश्च नाम नचोपपन्नो भवति /
3766 SK [१२०|११] गम्यदेशानुपेतत्वान्नोपपन्नो ऽन्तराभवः // VAक्K_३.१० //
3767 SK [१२०|१२] उपपत्तिगतो ह्युपपन्न इत्युच्यते / पदेर्गत्यर्थत्वात् /
3768 SK [१२०|१२-१२०|१३] नचायं गम्यदेशमुपगतोन्तराभवस्तस्मान्नोपपन्नः /
3769 SK [१२०|१३] कः पुनरसौ देशो गन्तव्यः /
3770 SK [१२०|१३-१२०|१४] यत्राक्षिप्तस्य वीपाकस्याभिव्यक्तिः समाप्तिश्च /
3771 SK [१२०|१४-१२०|१५] विच्छिन्न एवोपपत्तिभवो मरणभवात्संभवतीति निकायान्तरीयाः /
3772 SK [१२०|१५] तदेतन्नेष्यते / किं कारणम् / युक्तितश्च आगमतश्च /
3773 SK [१२०|१५-१२०|१६] तत्र तावत् युक्तिं निश्रित्योच्यते /
3774 SK [१२०|१७] व्रीहिसन्तानसाधर्म्वादविच्छिन्नभवोद्भवः /
3775 SK [१२०|१८-१२०|१९] सन्तानवर्त्तिनां हि धर्माणामविच्छेदेन देशान्तरेषु प्रादुर्भावो दृष्टस्तद्यथा व्रीहिसन्तानस्य /
3776 SK [१२०|१९-१२०|९२०] तस्मादस्यापि सत्त्वसन्तानस्याविच्छेदेन देशान्तरेषु प्रादुर्भावो भविष्णुः /
3777 SK [१२०|२०-१२०|२१] विच्छिन्नो ऽपि दृष्टः प्रादुर्भावस्तद्यथा आदर्शादिषु बिम्बात् प्रतिबिम्बस्य /
3778 SK [१२०|२१] एवं मरणभवादुपपत्तिभवस्य स्यात् /
3779 SK [१२०|२२] प्रतिबिम्बमसिद्धत्वादसाम्याच्छानिदर्शनम् // VAक्K_३.११ //
3780 SK [१२०|२३] प्रतिबिम्बं नामान्यदेवोत्पद्यते धर्माह्न्तरमित्यसिद्धमेतत् /
3782 SK सिद्धावपि च सत्यामसाम्यादनिदर्शनं भवति /
3783 SK [१२०|२४] कथं तावदसिद्धम् /
3784 SK [१२०|२५] सहैकत्र द्वयाभावात्
3785 SK [१२०|२६] तत्रैव हि देशे आदर्शरूपं दृश्यते प्रतिबिम्बं च /
3786 SK [१२०|२६-१२०|२७] न चैकत्र देशे रूपद्वयस्यास्ति सहभाव आश्रयभूतभेदात् /
3787 SK [१२०|२७-१२०|३०] तथा दिग्भेदव्यवस्थितेरेकस्मिन्वाप्यम्बुदेशे स्वाभिमुखदेशस्थानां रूपाणामन्यो ऽन्यं प्रतिबिम्बकमुपलभ्यते नत्वेकत्र रूपे द्वयोः पश्यतोः सहदर्शनं न भवतीति न तत्र रूपान्तरोपपत्तिर्युक्ता /
3788 SK [१२०|३०-१२१|०१] छायातपयोश्च द्वयोः सहैकत्रभावो न दृष्टः /
3789 SK [१२१|०१-१२१|०२] उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिविम्बकमिति न युक्तो ऽस्य तत्र प्रादुर्भावः /
3790 SK [१२१|०२] अथवा ᳚सहैकत्र द्वयाभावादि᳚ति कतमस्य द्वयस्य /
3791 SK [१२१|०२-१२१|०३] आदर्शतलस्येन्दुप्रतिबिम्बकस्य च /
3792 SK [१२१|०३-१२१|०४] अन्यत्रैव हि देशे आदर्शतलं भवत्यन्यत्रैवान्तर्गतं चन्द्रप्रतिबिम्बकं दृश्यते कूप इवोदकम् /
3793 SK [१२१|०४-१२१|०५] तच्च तत्रोपपद्यमानं नान्यत्रोपलभ्यते /
3794 SK [१२१|०५] अतो नास्त्येव तत् किञ्चित् /
3795 SK [१२१|०५-१२१|०६] सामग्र्यास्तु स तस्यास्तादृशः प्रभावो यत्तथा दर्शनं भवति //
3796 SK [१२१|०६] अचिन्त्यो हि धर्माणां हि धर्माणां शक्तिभेदः /
3797 SK [१२१|०६-१२१|०७] एवं तावन्दसिद्धत्वात् /
3798 SK [१२१|०७] कथमसाम्यादनिदर्शनं भवति /
3799 SK [१२१|०८] असन्तानाद्
3800 SK [१२१|०९] नहि विम्वस्य प्रतिबिम्बकं सन्तानभूतमादर्शसन्तानसंवद्धत्वात् सहभावाच्च /
3801 SK [१२१|१०] यथा मरणस्योपपत्तिभवः /
3802 SK [१२१|१०-१२१|११] सन्तानं च प्रत्यविच्छेदेन देशान्तरेषु प्रादुर्भाव उदाहृअतो नासन्तानमित्यसाम्यं दृष्टान्तस्य प्रतिबिम्बस्य च /
3803 SK [१२१|१२] द्वयोदयात् /
3804 SK [१२१|१३] द्वाभ्यां हि कारणाभ्यां प्रतिबिम्बस्योदयो भवति /
3805 SK [१२१|१३-१२१|१४] बिम्बाच्चादर्शा च्चेति यत् प्राधानं कारणं तदाश्रित्योत्पद्यते /
3806 SK [१२१|१४-१२१|१६] नचैवमुपपत्तिभवस्यापि द्वाभ्यां कारणाभ्यां संभवो मरणभवाच्चान्यतश्च प्रधानभूतादित्यतो ऽप्ययमसमानो दृष्टान्तः /
3807 SK [१२१|१६] न च युक्तमुक्तं बाह्यमेव चेतनं शुक्रशोणितं प्रधानकारणमिति /
3808 SK [१२१|१६-१२१|१७] यत्र चान्धकाण एव प्रादुर्भाव उपपादुकानां तत्र किं परिकल्प्यते /
3809 SK [१२१|१७-१२१|१८] एवं तावद्युक्तितो नेष्यते /
3810 SK [१२१|१८] न मराणभवाद्विच्छिन्न उपपत्तिभवप्रादुर्भावः / तस्मादस्त्येवान्तराभवः /
3811 SK [१२१|१९] कण्ठोक्तेश्चास्ति
3812 SK [१२१|२०] सूत्र उक्तं ᳚सप्त भवाः /
3813 SK [१२१|२०-१२१|२१] नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवो ऽन्तराभव इति /
3814 SK [१२१|२१] नैतत्सूत्रं तैराम्नायते / इतस्तर्हि
3815 SK [१२१|२२] गन्धर्वात्
3816 SK [१२१|२३] ᳚त्रयाणां स्थानानां संमुखीभावात् मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति /
3817 SK [१२१|२३-१२१|२४] माता कल्या स्पि भवति ऋतुमती च /
3818 SK [१२१|२४] मातापितरौ रक्तौ भवतः सनिपतितौ च /
3819 SK [१२१|२५] गन्धर्वश्च प्रत्युपस्थितो भाती᳚ति / अन्तराभवं हित्वा को ऽन्यो गन्धर्वः /
3820 SK [१२१|२६] एतदपि नैव तैराम्नायते / कथं तर्हि / ᳚स्क्न्धभेदश्च प्रत्युपस्थितो भवती᳚ति /
3821 SK [१२१|२७] यद्येवमाश्वलायनसूत्रं कथं नीयते /
3822 SK [१२१|२७-१२१|२८] ᳚जानन्त भवन्तो यो ऽसौ गन्धर्वः प्रत्युपस्थितः /
3823 SK [१२१|२८] क्षत्रियो वा ऽसौ ब्राह्मणो वा वैश्यो वा शूद्रो वा /
3824 SK [१२१|२८-१२२|०१] यदि वा पूर्वस्या दिश आगतो यदि वा दक्षिणस्या पश्चिमाया उत्त्रस्या᳚ इति /
3825 SK [१२२|०२] नहि स्कन्धभेदस्यागमनं युज्यते / अथैतदपि न पठच्यते / इतस्तर्हि /
3826 SK [१२२|०३] पञ्चोक्तेः /
3827 SK [१२२|०४] ᳚पञ्चानागामिन᳚ इत्युक्तं भगवता /
3828 SK [१२२|०४-१२२|०५] अन्तरापरिनिर्वायी उपपद्यपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी साभिसंस्कारपरिनिर्वायी ऊर्ध्वस्त्रोताश्चेति /
3829 SK [१२२|०५-१२२|०६] असत्यन्तराभवे कथमन्तरापरिनिर्वायी नाम स्यात् /
3830 SK [१२२|०६] अन्तरा नाम देवाः सन्तीत्येके /
3831 SK [१२२|०७] उपपद्यादयो ऽपि हि नाम देवा एवं सति प्रसज्यते / तस्मान्येयं कल्पना साध्वी /
3833 SK [१२२|०९] गतिसूत्रतः // VAक्K_३.१२ //
3834 SK [१२२|१०] ᳚सप्त सत्पुरुषगतयः᳚ इत्यत्र सूत्रे / अन्तरापरिनिर्वायिणस्त्रय उक्ताः /
3835 SK [१२२|१०-१२२|११] कालदेशप्रकर्षभेदेन /
3836 SK [१२२|११-१२२|१२] तद्यथा परीत्तः सकलिकाग्निरभिनिवर्त्तमान एव परिनिर्वायादेवं प्रथमः /
3837 SK [१२२|१२] तद्यथा ऽयः प्रपाटिका उत्पतन्त्येव निर्वायादेवं द्वितीयः /
3838 SK [१२२|१२-१२२|१३] तद्यथा ऽयःप्रपातिका उत्प्लुत्य पृथिव्यामपतितैव निर्वायादेवं तृतीयः /
3839 SK [१२२|१३-१२२|१४] नचैवमन्तरा नाम देवास्त्रिप्रकाराः कालदेशप्रकर्षभिन्नाः सन्तीति कल्पनैवेयं केवला //
3840 SK [१२२|१४] अन्ये पुनराहुः /
3841 SK [१२२|१५-१२२|१६] आयुप्रमाणान्तरे वा देवसमीपान्तरे वा यः क्लेशान् प्रजहाति सो ऽन्तरापरिनिर्वायी /
3842 SK [१२२|१६-१२२|१७] स पुनर्धातुगतो वा परिनिर्वाति संज्ञागतो वा वितर्कगतो वा /
3843 SK [१२२|१७] तेन त्रिविधो भवतीति /
3844 SK [१२२|१७-१२२|१८] प्रथमो वा रूपधातौ निकायसभागपरिग्रहं कृत्वा परिनिर्वाति /
3845 SK [१२२|१८] द्वितीयो देवसमृद्धिं चानुभूय /
3846 SK [१२२|१८-१२२|१९] तृतीयो देवानां धर्मसंगीतिमनुप्रविश्य /
3847 SK [१२२|१९-१२२|२१] उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां संगीतिमनुप्रविश्य परिनिर्वाति भूयसा वा आयुरूपहत्य नोपपन्नमात्र एवेति त एते सर्वे ऽपि शकलिकादिदृष्टान्तैर्न संवध्यन्ते /
3848 SK [१२२|२१] देशगतिविशेषाभावात् /
3849 SK [१२२|२१-१२२|२२] आरुप्येष्वपि चान्तरापरिनिर्वायी पठ्येतायुःप्रमाणान्तरे परिनिर्वाणात् /
3850 SK [१२२|२२] न च पठ्यते /
3851 SK [१२२|२३-१२२|२४] ᳚ध्यानैश्चतस्रो दशिका आरुप्यैः सप्तिकात्रयम् / संज्ञया षट्टिकां कृत्वा वर्गो भवति समुदितः //
3852 SK [१२२|२५] इत्येतस्यायुर्दानगाथायाम् / तस्मादेतदपि सर्वं कल्पनामात्रम् /
3853 SK [१२२|२६] अथैतान्यपि सूत्राणि तैर्नाम्नायन्ते /
3854 SK [१२२|२६-१२३|०१] किमिदानीं कुर्मो यच्छास्ता च परिनिर्वृतः शासनं चेदमनायकं बहुधा भिन्नं भिद्यते चाद्यापि यथेच्छं ग्रन्थतश्चार्थतश्च /
3855 SK [१२३|०१-१२३|०२] येषां तु तावदयमागमः प्रमाणं तेषामागमतो ऽपि सिद्धो ऽन्तराभवः /
3856 SK [१२३|०२-१२३|०३] यत्तर्हि सूत्र उत्तम् ᳚अथ च पुनर्दूषी मारः स्वशरीरेणाविचौ महानरके प्रपतित᳚ इति /
3857 SK [१२३|०३] तत् कथमिति /
3858 SK [१२३|०४] स हि जीवन्नेव नारकीभिर्ज्वालाभिरालिङ्गितः /
3859 SK [१२३|०४-१२३|०५] कालल्ं कृत्वा ऽन्तराभवेनावीचिं प्राप्त इत्ययं तत्राभिप्रयः /
3860 SK [१२३|०५-१२३|०६] अत्युदीर्णपरिपूर्णानि हि कर्माणि कायस्य निक्षेपं न प्रतीक्षन्ते /
3861 SK [१२३|०६] अतो ऽस्य दृष्टधर्मवेदनीयं कर्म पूर्वं वीपक्वं पश्चादुपपद्यवेदनीयमिति /
3862 SK [१२३|०७-१२३|०८] इदमिदानीं कथं नीयते ᳚पञ्चानन्तर्याणि कर्माणि यानि कृत्वोपचित्य समनन्तरं नरकेषूपपद्यत᳚ इति /
3863 SK [१२३|०८] अन्यां गतिमगत्वेत्यभिप्रायः /
3864 SK [१२३|०८-१२३|०९] उपपद्यवेदनीयत्वं तत्र कर्मणो द्योतितम् /
3865 SK [१२३|०९] अथ यथारुतं कल्प्यते / पञ्चैव कृत्वा नैकमिति प्राप्नोति /
3866 SK [१२३|०९-१२३|१०] क्रियानन्तरं च /
3867 SK [१२३|१०] न कालान्तरं जीवित्वा को वा ऽन्तराभवस्योपपद्यमानत्वं नेच्छति /
3868 SK [१२३|१०-१२३|११] अन्तरा भवेनैव ह्यसौ मरणान्तरं नरकेषूपपद्यते /
3869 SK [१२३|११] अभिमुखत्वात् /
3870 SK [१२३|११-१२३|१२] न च ब्रूम उपपन्नो भवतीति /
3871 SK [१२३|१२] इयं तर्हि गाथा कथं नीयते
3872 SK [१२३|१३-१२३|१४] ᳚उपनीततया जरातुरः संप्राप्तो हि ममान्तिकं द्विज / वासो ऽपि हि नास्ति ते ऽन्तरा पाथेयं च न विद्यते तवे᳚ ति //
3873 SK [१२३|१५] अत्रापि मनुष्येष्वन्तरावासो नास्तीत्यभिप्रायः /
3874 SK [१२३|१५-१२३|१६] अथवा ऽन्तराभवे ऽप्यस्य वासो नास्त्युपपत्तिदेशसंप्राप्तिप्रति गमनाधिष्ठानादिति /
3875 SK [१२३|१६-१२३|१७] अयमत्राभिप्रायो नायमभिप्राय इति दुत एवैतत् /
3876 SK [१२३|१७] तुल्य एष भवतो ऽप्यनुयोगः /
3877 SK [१२३|१७-१२३|१८] तस्मादुभयस्मिन्नपि पक्षे यथ्होत्तसूत्राविरोधान्न भवत्येतदन्तराभवस्याभावे ज्ञापकम् /
3878 SK [१२३|१८-१२३|१९] ज्ञापकं हि नामागतिका गतिरिति /
3879 SK [१२३|२०] अथ कां गतिं गमिष्यतः किमाकृतिरन्तराभवो ऽभिनिवर्त्तते /
3880 SK [१२३|२१] एकाक्षेपादसावैष्यत्पूर्वकालभवाकृतिः /
3881 SK [१२३|२२] येनैव कर्मणा गतिराक्षिप्यते तेनैवान्तराभवस्तत्प्राप्तये /
3882 SK [१२३|२२-१२३|२३] अतो यां गतिं गन्ता भवति तस्यां गतौ य आगमिष्यत्पूर्वकालभवस्तस्यैवास्याकृतिर्भवति /
3883 SK [१२३|२३-१२३|२५] एवं तर्हि शुनीप्रबृतीनामेकस्मिन् कुक्षौ पाञ्चगतिको ऽन्तराभवो ऽभिनिर्वर्त्तते इति नारको ऽन्तराभवः कुक्षिं निर्दहेत् /
3884 SK [१२३|२५-१२३|२६] पूर्वकालभवे ऽपि तावन्नारका न नित्यं प्रज्वलिता भवन्त्युत्सदेषु भ्रमन्तः किं पुनरन्तराभविकाः /
3885 SK [१२३|२६] अस्तु वा प्रज्वलितः /
3886 SK [१२३|२६-१२३|२७] स तु यथा न द्रष्टुं शस्यते तथा न स्प्रष्टुमप्यच्छत्वादात्मभावस्येत्यचोद्यमेतत् /
3887 SK [१२३|२७-१२३|२८] अन्तराभवानामप्यन्योन्यं कुक्षावसंश्लेषात्कर्मप्रतिबन्धाच्च न दाहः /
3888 SK [१२३|२८-१२४|०१] प्रमाणं तु यथा पञ्चषड्वर्षस्य दारकस्य स तु षटिन्द्रियो भवति बोधिसत्त्वस्य पुनर्यथा संपूर्णयूनः सलक्षणानुव्यञ्जनश्च /
3889 SK [१२४|०१-१२४|०२] अत एवान्तराभवस्थेन मातुः कुक्षिं प्रविशता कोटीशतश्चातुर्द्वीपिकानामवभासितः /
3890 SK [१२४|०३] यत्तर्हि माता बोधिसत्वस्य स्वप्ने गजपोतं पाण्डरं कुक्षिं प्रविशन्तमद्राक्षीत् /
3891 SK [१२४|०३-१२४|०४] निमित्तमात्रं तत् तिर्यग्योनेश्चिरव्यावृत्तत्वात् /
3892 SK [१२४|०४] तद्यथा कृकी राजा दश स्वप्नानद्राक्षीदिति /
3893 SK [१२४|०५-१२४|०६] ᳚करिकूपसक्तु चन्दनकलभारामास्त था कपेरभिषेकः / अशुचिकपिः पटकलहाविति दश दृष्टा नृपेण कृकिणा स्वप्नाः᳚ //
3894 SK [१२४|०७] नैव चान्तराभविकः कुक्षिं भित्त्वा प्रविशत्यपि तु मातुर्योनिद्वारेण /
3895 SK [१२४|०७-१२४|०८] अत एव यमलयोर्यः पश्चात् प्रजायते स ज्यायानुच्यते यः पूर्वं स कनीयानिति /
3896 SK [१२४|०८] धर्मसूत्रविभाष्यं कथं नीयते /
3897 SK [१२४|०९-१२४|१०] ᳚वारण त्वमुपगम्य पाण्डरं षड्विषाणरुचिरं चतुष्क्रमम् / मातृगर्भशयनं विशेषसंप्रजाननृषिराश्रमं यथेति᳚ //
3898 SK [१२४|११] नैतदवश्यनेतव्यम् / नह्येतत् सूत्रं न विनयः नाभिधर्मः / काव्यमेतत् /
3899 SK [१२४|११-१२४|१२] कवीनां च काव्यं समायोजयतां केचित् भावाः समारोपिता गच्छन्ति /
3900 SK [१२४|१२] अथवा नेतव्यमेव /
3901 SK [१२४|१२-१२४|१३] यथा ऽस्य माता स्वप्ने तं प्रविशन्तमद्राक्षित्तथा सो ऽपि गाथामकार्षीदिति /
3902 SK [१२४|१३-१२४|१४] रूपावचरो ऽप्यन्तराभवः संपूर्णप्रमाणः सवस्त्रश्च प्रादुर्भवति /
3903 SK [१२४|१४] अपत्राप्योत्सदत्वात् /
3904 SK [१२४|१४-१२४|१५] बोधिसत्त्वस्य सवस्त्रः शुक्लायाश्च भिक्षुण्याः प्रणिधानवशाध्यावन्तमेव परिवेष्टिता निर्दग्धा /
3905 SK [१२४|१५] अन्यो नग्नः /
3906 SK [१२४|१५-१२४|१६] कामधातोरनपत्राप्योत्सदत्वात् /
3907 SK [१२४|१७] अथ को ऽयं पूर्वकालभवो नाम /
3908 SK [१२४|१८] स पुनर्मरणात्पूर्व उपपत्तिक्षणात्परः // VAक्K_३.१३ //
3909 SK [१२४|१९] भवो हि नामाविशेषेण पञ्चोपादानस्कन्धाः / स एव चतुर्धा भिद्यते / अन्तराभवो यथोक्तः /
3910 SK [१२४|२०] उपपत्तिभबो गतीषु प्रतिसन्धिक्षणः /
3911 SK [१२४|२०-१२४|२१] तस्मात् परेण मरणक्षणं पर्युदस्यान्यः सर्वो भवः पूर्वकालभवः /
3912 SK [१२४|२१] चरमक्षणो मरणभबो यत ऊर्ध्वमन्तराभवो भवति रूपिषु चेत्सत्त्वेषूपपद्यते /
3913 SK [१२४|२२] स चायमन्तराभवः /
3914 SK [१२४|२३] सजातिशुद्धदिव्याक्षिदृश्यः
3915 SK [१२४|२४] समानजातीयैरेवान्तराभविकैर्दृश्यते /
3916 SK [१२४|२४-१२५|०१] येषां च दिव्यं चक्षुः सुविशुद्धमभिज्ञामयं त एनं पश्यन्ति /
3917 SK [१२५|०१] उपपत्तिक्षुषा तु न दृश्यते / जात्यर्थमच्छत्वात् /
3918 SK [१२५|०१-१२५|०२] देवान्तराभविकः सर्वान् पश्यति /
3919 SK [१२५|०२] मनुष्यप्रेततिर्यग्नारकान्तराभविकाः पूर्व पूर्वमपात्येत्यपरे /
3920 SK [१२५|०३] कर्मर्द्धिवेगवान् /
3921 SK [१२५|०४] ऋद्धिराकाशगमनम् / कर्मणा ऋद्धिः कर्मर्द्धिः / तस्या वेगः कर्मर्द्धिवेगः शीग्रता /
3922 SK [१२५|०५] सो ऽस्यास्तीति कर्मर्द्धिवेगवान् / येनासौ न शक्यो बुद्धैरपि प्रतिबन्द्धुम् /
3923 SK [१२५|०५-१२५|०६] कर्मणो ऽस्य बलीयस्त्वात् /
3925 SK [१२५|०८] समग्रपञ्चेन्द्रियः /
3926 SK [१२५|०९] अप्रतिघवान्
3927 SK [१२५|१०] प्रतिघातः प्रतिघः / सो ऽस्यास्तीति प्रतिघवान् / न प्रतिघवानप्रतिघवान् /
3928 SK [१२५|१०-१२५|११] वज्रादिभिरप्यनिवार्यत्वात् /
3929 SK [१२५|११-१२५|१२] तथा हि प्रदीप्तायःपिण्दभेदे तन्मध्यसंभूतः क्रिमिरूपलब्धः श्रूयते /
3930 SK [१२५|१२] यस्यां च गतौ स उत्पत्स्यमानस्तस्याः सर्वथा /
3931 SK [१२५|१३] अनिवर्त्यः
3932 SK [१२५|१४] नहि कदाचिन्मनुष्यान्तराभवो ऽन्तर्धाय देवान्तराभवो भवत्यन्यो वा /
3933 SK [१२५|१४-१२५|१५] नियतमनेन यामेव गतिमधिकृत्याभिनिर्वृत्तस्तस्यामेवोपपत्तव्यम् नान्यस्यामिति /
3934 SK [१२५|१६] किं पुनरन्तराभवो ऽपि कामावचरः कवडीकारमाहारं भुङ्क्ते / ओमित्याह / न त्वौदारिकम् /
3935 SK [१२५|१७] किं तर्हि /
3936 SK [१२५|१८] स गन्धभुक् // VAक्K_३.१४ //
3937 SK [१२५|१९] अत एव गन्धर्व इत्युच्यते / धातूनामनेकार्थत्वात् / ह्रस्वत्वं शकन्धुकर्कन्धुवत् /
3938 SK [१२५|१९-१२५|२०] अल्पेशाख्यस्तु दुर्गन्धाहरो महेशख्यः सुगन्धाहारः /
3939 SK [१२५|२०] कियन्तं कालमवतिष्ठते / नास्ति नियम इति भदन्तः /
3940 SK [१२५|२१] यावदुपपत्तिसामग्रीं न लभते नहि तस्यायुषः पृथगेवाक्षेपः / एकनिकायसभागत्वात् /
3941 SK [१२५|२१-१२५|२२] इतरथा हि तस्यायुषः क्षयान्मरणभवः प्रसज्येत /
3942 SK [१२५|२२-१२६|०१] यद्यासुमेरोः स्थलं मांसस्य स्यात्तत्सर्व वर्षासु क्रिमीणां पूर्येत /
3943 SK [१२६|०१-१२६|०२] किमिदानीं तत्प्रतीक्षा एव तेषामन्तराभवा आसन् कुतो या तदा तेभ्यो गता इति वक्तव्यम् /
3944 SK [१२६|०२] नैतदागतं सूत्रे शास्त्रे वा /
3945 SK [१२६|०२-१२६|०३] एवं तु युज्यते /
3946 SK [१२६|०३] गन्धरसाभिगृद्धानामल्पायुषां जन्तूनामन्तो नास्ति /
3947 SK [१२६|०३-१२६|०५] ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमिभावसंवर्त्तनीयं कर्म प्रवोध्य तया तृष्णया क्रिमिषूपपद्यन्त इति /
3948 SK [१२६|०५-१२६|०७] अथवा नूनं तत्प्रत्ययप्रचूर एव काले तत्संवर्त्तनीयानि कर्माणि वीपाकाभिनिर्वृत्तौ वृत्तिं लभ्न्ते नान्यत्र /
3949 SK [१२६|०७-१२६|०८] तथाहि चक्रवर्त्तिसंवर्त्तनीयानि कर्मणि अशीतिवर्षसहस्रायुषि प्रजायां वहुतरायुषि वा चक्रवर्त्तिनो जायन्ते नान्यस्याम् /
3950 SK [१२६|०८-१२६|०९] अत एव चोक्तं भगवता ᳚अचिन्त्यः सत्त्वानां कर्मविपाक᳚ इति /
3951 SK [१२६|०९] सप्ताहं तिष्ठतीति भदन्तवसुमित्रः /
3952 SK [१२६|०९-१२६|१०] यदि तावता सामग्रीं न लभते तत्रैव पुनश्च्युत्या जायन्ते /
3953 SK [१२६|१०] सप्त सप्ताहानीत्यपरे /
3954 SK [१२६|१०-१२६|११] अल्पं कालमिति वंभाषिकाः /
3955 SK [१२६|११-१२६|१२] स हि संभवैषित्वात्सम्धावगत्वा सम्धिं बध्नातीति यथात्वसमग्राः प्रत्यया भवन्ति /
3956 SK [१२६|१२] नियतं चानेन तस्मिन् देशे तस्यां जातौ जनितव्यं भवति /
3957 SK [१२६|१२-१२६|१३] तदा कर्माण्येव प्रत्ययानां सामग्रीमावहन्ति /
3958 SK [१२६|१३-१२६|१४] अथानियातं ततो ऽन्यत्र देशे तस्यां जातौ जायते सदृश्या मित्यपरे /
3959 SK [१२६|१४-१२६|१५] तद्यथा गवामूष्मसु मैथुनस्य प्राचुर्यं शरदि शुनां ऋक्षानां हेमन्ते चाक्ष्वानाम् /
3960 SK [१२६|१५-१२६|१७] गवयशृगालखरतरक्षाणां पुनः कालो नास्तीति येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यते येन श्वस् स शृगालेषु येनाश्वेसु स गर्दभेषु येन ऋक्षेषु स तरक्षेषूपपद्यते इति /
3961 SK [१२६|१७-१२६|१८] न त्वस्य निकायसभागान्तराभवो नान्यत्र निकायसभागे शक्यमुत्पत्तुमेककामाक्षेपादिति वक्तव्यमेतत् /
3962 SK [१२६|१९] स खल्वेष गतिदेशसंप्राप्त्यर्थं प्रादुर्भूतो ऽन्तराभवः
3963 SK [१२६|२०] विपर्यस्तमतिर्याति गतिदेशम् रिरंसया /
3964 SK [१२६|२१] स हि कर्मप्रभावसंभूतेन चक्षुषा सुदूरस्थो ऽपि स्वमुपपत्तिदेशं प्रेक्षते /
3965 SK [१२६|२१-१२६|२२] तत्रास्य मातापित्रोस्तां विप्रतिपत्तिं दृष्ट्वा पुंसः सतः पौंस्नो राग उत्पद्यते मातरि स्त्र्या सत्या स्त्रैणो रागाः उद्पद्यते पितरि /
3966 SK [१२६|२२-१२६|२३] विपर्ययात् प्रतिघः /
3967 SK [१२६|२३-१२६|२४] एवं पठच्यते प्रज्ञप्तौ ᳚गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरच्चित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वेति /
3968 SK [१२६|२४-१२६|२५] स ताभ्यां विपर्यस्तो रन्तुकामतया तम् देशमाश्लिष्य तामवस्थामात्मन्यधिमुच्यते /
3969 SK [१२६|२५-१२६|२६] तस्मिंश्चाशुचौ गर्भस्थानसंप्राप्ते जातहर्षो ऽभिनिविशते /
3970 SK [१२६|२६-१२६|२७] ततो ऽस्य स्कन्धा घनीभवन्त्यन्तराभवस्कन्धाश्चान्तर्धीयन्ते इत्युपपन्नो भवति /
3971 SK [१२६|२७-१२६|२८] स चेत्पुमान् भवति मातुर्दक्षिणकुक्षिमाश्रित्य पृष्ठाभिमुख उत्केटुकः संभवत्यथ स्त्री ततो वामकुक्षिमाश्रित्योदराभिमुखी /
3972 SK [१२७|०१] अथेदानीं नपुंसकं तद्येन रागेणाश्लिष्टं तथा तिष्ठति /
3973 SK [१२७|०१-१२७|०२] न चास्त्यन्तराभवो व्यन्तरः सकलेन्द्रियत्वात्/
3974 SK [१२७|०२-१२७|०३] अथः स्त्रीभूतः पुरुषभूतो वा ऽनुप्रविश्य यथास्थानं तिष्ठति पश्चात् गर्भ आप्यायमानो नपुंसकं भवतीति᳚ /
3975 SK [१२७|०३] इदं विचार्यते /
3976 SK [१२७|०३-१२७|०५] किमस्य शुक्रक्शोणितमहाभूतान्येवेन्द्रियाश्रयभावमापद्यन्ते कर्मवशादाहोस्वित् भूतान्तराण्येव कर्मभिर्जायन्ते /
3977 SK [१२७|०५] तान्युपश्रित्येति / तान्येवेत्येके /
3978 SK [१२७|०५-१२७|०६] अनिन्द्रियं हि शुक्रशोणितमन्तराभवेन सार्धं निरुध्यते सेन्द्रियं प्रादुर्भवति /
3979 SK [१२७|०६-१२७|०७] वीजाङ्दुरनिरोधोत्पादन्यायेन यत्तत्कालमित्याख्यायते /
3980 SK [१२७|०७-१२७|०८] एवं च कृत्वेदं सूत्रपदं सूत्रे सूनीतं भवति ᳚मातापित्रशुचिकललसंभुतस्ये᳚ति /
3981 SK [१२७|०८-१२७|०९] तथा ᳚दीर्घरात्रं युष्माभिर्भिक्षिवः कतसिः संवर्द्धिता रुधिरविन्दुरूपात्त᳚ इति /
3982 SK [१२७|०९] भूतान्तराण्येवेत्यपरे / तद्यथापर्णक्रिमेः /
3983 SK [१२७|०९-१२७|१०] अशुचिसंनिश्रयोत्पत्त्यभिसंबन्धिवचनात्तु कललस्य सूत्राविरोध इति /
3984 SK [१२७|१०-१२७|११] एवं तावदण्डजां जरायुजां च योर्नि प्रतिपद्यते /
3985 SK [१२७|११] अन्यत्र तु यथायोगं वक्तव्यमित्याहुः /
3986 SK [१२७|११-१२७|१२] तत्र चायं योगो दृश्यते
3987 SK [१२७|१३] गन्धस्थानाभिकामो ऽन्यः
3988 SK [१२७|१४-१२७|१५] संस्वेदजां योनिं प्रतिपद्यमान उपपत्तिस्थानं गत्वाभिलाषात् गच्छत्यमेध्यं मेध्यं वा यथाक्रमम् /
3989 SK [१२७|१५] उपपादुकां तु योनिं प्रपद्यमानः स्थानाभिलाषात् /
3990 SK [१२७|१५-१२७|१६] कथं नरकेषु स्थानाभिलाषः /
3991 SK [१२७|१६] विपर्यस्तबुद्धित्वात् /
3992 SK [१२७|१६-१२७|१७] स हि शीतवातवर्षाभिषेकैरात्मानं बाध्यमानं पश्यति नरकेषु चाग्निं दीप्यमानम् /
3993 SK [१२७|१७-१२७|१८] तत्र उष्णाभिलाषाद्धावति /
3994 SK [१२७|१८-१२७|१९] पुनस्तप्तवातातपाग्निसंतापैरात्मानं बाध्यमानमनुपश्यन् शैत्यं च नरकेषु शीताभिलाषाद्धावति /
3995 SK [१२७|१९-१२७|२०] यद् अवस्थस् तद् उपपत्तिसंवर्त्तनीयं कर्माकार्षीत् तदवस्थात्मानं ताश्च सत्त्वान् पश्यन् धावतीति पूर्वाचार्याः /
3996 SK [१२७|२०-१२७|२१] तत्र पुनर्देवान्तराभव ऊर्ध्वं गच्छत्या सनादिवोत्तिष्ठन् मनुष्यतिर्यक्प्रेतानां मनुष्यादिवत् /
3997 SK [१२७|२२] ऊर्ध्वपादस्तु नारकः // VAक्K_३.१५ //
3998 SK [१२७|२३-१२७|२४] ᳚ते वै पतन्ति नरकादूर्ध्वपादा अवाङ्मुखाः / ऋषीणामभिवक्तारः संयतानां तपस्विनाम्᳚ इति //
3999 SK [१२७|२५] गाथाभिधानात् /
4000 SK [१२७|२६] यदुक्तं ᳚विपर्यस्तमतिर्याती᳚ति /
4001 SK [१२७|२६-१२७|२७] किमवश्यं सर्वो ऽन्तराभवस्तथा मातुः कुक्षिमवक्रामति /
4002 SK [१२७|२७] नित्याह / किं तर्हि / चतस्रो गर्भावक्रान्तयः सूत्र उक्ताः / कतमाश्चतस्रः /
4003 SK [१२८|०१] संप्रजानन् विशत्येकः
4004 SK [१२८|०२] तिष्ठति निष्क्रामति सा संप्रजानन् /
4005 SK [१२८|०३] तिष्ठत्यप्यपरः /
4006 SK [१२८|०४] संप्रजानन्निति वर्त्तते / प्रविशत्यपीत्यपिक्षब्दात् /
4008 SK [१२८|०६] निष्क्रामत्यपि
4009 SK [१२८|०७] संप्राजानन् प्रविशति तिष्ठत्यपि /
4010 SK [१२८|०८] सर्वाणि मूढो ऽन्यः
4011 SK [१२८|०९-१२८|१०] कश्चित् पुनः सर्वाण्येवासंप्रजानन् करोति प्रविशत्यसंप्रजानन् तिष्ठति निष्क्रामत्यपि / [१२८|१०] एताश्चतस्रो गर्भावक्रान्तयः प्रतिलोमं निर्दिष्टाः /
4012 SK [१२८|११] श्लोकबन्धानुगुण्यतः /
4013 SK [१२८|१२] नित्यमण्डजः // VAक्K_३.१६ //
4014 SK [१२८|१३] अण्डजः सत्त्वो नित्यं मूढ एव सर्वाणि करोति / कथमण्डाज्जातो गर्भं प्रविशति /
4015 SK [१२८|१४] यो ऽपि जनिष्यते सो ऽप्यण्दजः / अथवा भाविन्यापि संज्ञया निर्देशाः क्रियन्ते /
4016 SK [१२८|१५] तद्यथा ᳚संकृतमभिसंस्करोती᳚ति सूत्रे ओदनं पचतीति सक्तुम् पिनष्टीति लोके /
4017 SK [१२८|१६] तस्मान्नैष दोषः /
4018 SK [१२८|१७] कथं पुनरसंप्रजानन् मातुः कुक्षिं प्रविशति यावन्निष्क्रामति कथं वा संप्रजानन् /
4019 SK [१२८|१८-१२८|१९] अल्पेशाख्यस्य तावत्सत्त्वस्य मातुः कुक्षिं प्रविशतः एवं वीपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते /
4020 SK [१२८|१९] वातो वाति देवो वर्षति /
4021 SK [१२८|१९-१२८|२१] शीतं दुर्दिनं महतो वा जनकायस्य कोलाहलं ह्न्त तृणगहनं वा प्रविशामि वनगहनं वा तृणकुटीं वा पर्णकुटीं वा वृक्षमूलं वा सर्पामि कुण्डयमूलं वेति /
4022 SK [१२८|२१-१२८|२२] तिष्ठतो ऽप्येषु तिष्ठामिति निष्क्रामतो स्प्येभ्यो निर्यामीति /
4023 SK [१२८|२२-१२८|२३] महेशाख्यस्य तु सत्त्वस्यारामं वा प्रविशाम्युद्यानं वाप्रासादं वा ऽभिरोहामि कूटागारं वा पर्यङ्क वेति /
4024 SK [१२८|२३] तथा तिष्ठामि निर्यामीति /
4025 SK [१२८|२३-१२८|२४] एवं तावदसंप्रजानन् प्रविशति यावन्निष्क्रामति /
4026 SK [१२८|२४-१२८|२५] संप्रजानंस्तु सम्यक् प्रजानाति मातुः कुक्षिं प्रविशाम्यत्रैव तिष्ठामि अत एव निर्यामिति /
4027 SK [१२८|२५-१२८|२६] नास्य विपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते /
4028 SK [१२८|२६] अत्र पुनरपदिश्यते /
4029 SK [१२८|२७] गर्भावक्रान्तयस्तिस्रश्चक्रवर्त्तिस्वयंभुवाम् /
4030 SK [१२८|२८] चक्रवर्त्तिनश्च स्वयंभुवोश्च प्रत्येकबुद्धसंबुद्धयोश्च / यथाक्रममित्यन्ते वक्ष्यति /
4031 SK [१२८|२८-१२८|२९] तत्र प्रथमा चक्रवर्त्तिनः /
4032 SK [१२८|२९] स हि प्रविशत्येव संप्रजानन् न तिष्ठति नापि निष्क्रामति /
4033 SK [१२८|३०] प्रत्येकबुद्धस्तिष्ठत्यपि / बुद्धो निष्क्रामत्यपि / अत्रापि भाविन्या संज्ञया निर्देशः /
4034 SK [१२९|०१] कर्मज्ञानोभयेषां वा विशदत्वाद् यथाक्रमम् // VAक्K_३.१७ //
4035 SK [१२९|०२] विशदकर्मणाम्दारपुण्यक्रियाणां प्रथमा /
4037 SK विशदज्ञानानां बाहुश्रुत्यकृतप्रविचयानां द्वितीया /
4038 SK [१२९|०३] विशद पुण्यकर्मज्ञानानां तृतीया /
4039 SK [१२९|०३-१२९|०४] त एव त्वेते चक्रवर्त्त्यादय एवंभूता युज्यन्ते यथाक्रमम् /
4040 SK [१२९|०४] शेषाणां चतुर्थीति सिद्धं भवति /
4041 SK [१२९|०५] अत्रेदानीं बाह्यका आत्मवादं परिगृह्योत्तिष्ठन्ते /
4042 SK [१२९|०५-१२९|०६] यदि सत्त्वो लोकान्तरं संचरतीति प्रतिज्ञायते सिद्ध आत्मा भवतीति /
4043 SK [१२९|०६] स एष प्रतिषिध्यते
4044 SK [१२९|०७] नात्मास्ति
4045 SK [१२९|०८] कीदृश आत्मा य इमान् निक्षिपत्यन्याश्च स्क्न्धान् प्रतिसंदधातीति परिकल्प्यते /
4046 SK [१२९|०९] स तदृशो नास्त्यन्तर्व्यापारपुरुषः /
4047 SK [१२९|०९-१२९|११] एवं तूक्तं भगवता ᳚अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतात् /
4048 SK [१२९|११-१२९|१२] तत्रायं धर्मसंकेतो यदुतास्मिन् सतीदं भवतीति विस्तरेण प्रतीत्यसमुत्पादः ᳚/
4049 SK [१२९|१२] कीदृशस्तर्ह्यात्मा न प्रतिषिध्यते /
4050 SK [१२९|१३] स्कन्धमात्रं तु
4051 SK [१२९|१४] यदि तु स्कन्धमात्रमेवात्मेति उपचर्यते तस्याप्रतिषेधः /
4052 SK [१२९|१४-१२९|१५] एवं तर्हि स्कन्धा एव लोकान्तरं संचरन्तीति प्राप्तं स्कन्धमात्रं तु नात्र संचरतीति /
4053 SK [१२९|१६] क्लेशकर्माभिसंस्कृतम् /
4054 SK [१२९|१७] अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत् // VAक्K_३.१८ //
4055 SK [१२९|१८] क्षणिका हि स्कन्धास्तेषां संचरितुं नास्ति शक्तिः /
4056 SK [१२९|१८-१२९|१९] क्लेशैस्तु परिभावितं कर्मभिश्च क्लेशमात्रमन्तराभासंज्ञिकया संतत्या मातुः कुक्षिमायाति /
4057 SK [१२९|१९-१२९|२०] तद्यथा प्रदीपः क्षणिको ऽपि संतत्या देशान्तरमिति नास्त्येष दोषः /
4058 SK [१२९|२०-१२९|२१] तस्मात्सिद्धमेतदसत्यप्यात्मनि क्लेशकर्माभिसंस्कृटः स्कन्धानां संतानो मातुः कुक्षिमापद्यत इति /
4060 SK [१२९|२२] यथाक्षेपं क्रमाद्वृद्धः सन्तानः क्लेशकर्मभिः /
4061 SK [१२९|२३] परलोकं पुनर्याति
4062 SK [१२९|२४] नहि सर्वस्य स्कन्धसन्तानस्याक्षेपस्तुल्यो भवत्यायुप्यस्य कर्मणो भेदात् /
4063 SK [१२९|२४-१२९|२५] अतो यस्य यावानाक्ष्पस्तस्य तावती वृद्धिः क्रमेण भवति /
4064 SK [१२९|२५] केन क्रमेण /
4065 SK [१३०|०१-१३०|०२] ᳚कललं प्रथमं धवति कललाज्जायते ऽर्बुदः / अर्बुदाज्जायते पेशी पेशीतो जायते घनः //
4066 SK [१३०|०३-१३०|०४] घनात् प्रशाखा जायन्ते केशरोमनखादयः / इन्द्रियाणि च रूपीणि व्यञ्जनान्यनुपूर्वशः //
4067 SK [१३०|०५] इत्यार्याः /
4068 SK [१३०|०५-१३०|०६] एताः पञ्च गर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः /
4069 SK [१३०|०६-१३०|०८] तस्य खलु कालान्तरेण परिपाकप्राप्तस्य गर्भशत्लस्याभ्यन्तरात् मातुः कुक्षौ कर्मविपाकजा वायवो वान्ति ये तं गर्भशल्यं संपरिवर्त्त्य मातुः कायावक्षरद्वाराभिमुखमवस्थापयन्ति /
4070 SK [१३०|०८-१३०|०९] सक्रूरपुरीषपिण्ड इवातिमात्रं स्थानात् प्रच्युतो दुःखं संपरिवर्त्त्यते /
4071 SK [१३०|०९-१३०|१५] यदि पुनः कदाचिन्मातुराहारविहारक्रियापचारेण च पूर्वकर्मापराधेन गर्भ एव व्यापादं प्राप्नोति तत एनं तज्ज्ञास्त्रियः कुमारभृत्यका वा सुखोष्णेन सर्पिस्तैलेन सुपिष्टेन शाल्मलीकल्केनान्येन वा हस्तमभ्यज्य तीक्ष्णं तनुकं चात्र शस्त्रकमुपनिवध्य तस्मिन्वर्चस्कूप इवोग्रदुर्गन्धान्धकारसमलपल्वले सुवहुक्रिमिकुलसहस्रावासे नित्यस्राविणि सततप्रतिक्रिये शुक्रश्रोणितलसिकामलसंक्लिन्नविक्लिन्नक्वथितपिच्छिले परमवीभत्सदर्शने छिद्रतनुचर्मावच्छादिते पूर्वकर्मवीपाकर्जे महति कामनाडीर्वणे हस्तं प्रवेश्या ङ्गमङ्गं निकृत्याध्याहरन्ति /
4072 SK [१३०|१६] स चाप्यपरपर्यायवेदनीयेन कर्मणा पूर्वकेण कामपि गतिं नीयते /
4073 SK [१३०|१६-१३०|२०] अथ पुनः स्वस्ति प्रजायते तत एनं माता पुत्राभिलाषिणी तत्परिका वा स्त्रियः सद्योजातकं तरुणव्र्णायमानात्मानं शस्त्रक्षारा यमाणसंस्पर्शाभ्यां पाणिभ्यां परिगृह्य स्नापयन्ति स्तन्येन सर्पिपा वाप्याययन्ति औदारिकं चाहारमाहर्तुं क्रमेणाभ्यासयन्ति /
4074 SK [१३०|२०-१३०|२१] तस्य वृद्धेरन्वयादिन्द्रियाणां परिपाकान्पुनरपि क्लेशाः समुदाचरन्ति कर्मणि चोपचयं गच्छन्ति /
4075 SK [१३०|२१-१३०|२२] सः तैः कायस्य भेदादन्तराभवसंतत्या पूर्ववत् परलोकं पुनर्याति /
4076 SK [१३०|२३] इत्यनदिभवचक्रकम् // VAक्K_३.१९ //
4077 SK [१३०|२४-१३०|२५] एतेन प्रकारेण क्लेशकर्महेतुकं जन्म तद्धेतुकानि पुनः क्लेशकर्माणि तेभ्यः पुनर्जन्मेत्यनादिभवचक्रकं वेदितव्यम् /
4078 SK [१३०|२५-१३०|२६] आदौ हि परिकल्प्यमाने त्स्याहेतुकत्वमेतेषु सज्येत सति चाहेतुकत्वे सर्वमेवेदमहेतुकं प्रादुःस्यात् /
4079 SK [१३०|२७-१३०|२८] दृष्टं चाङ्कुरादीषु वीजादीनां सामर्थ्यं देशकालप्रतिनियमादग्न्यादीनां च पाकजादिष्विति नास्ति निर्हेतुकः प्रादुर्भावः /
4080 SK [१३०|२८-१३१|०१] नित्यकारणास्तित्ववादश्च प्रागेव पर्युदस्तः /
4081 SK [१३१|०१] तस्मान्नास्त्येव संसारस्यादिः / अन्तस्तु हेतुक्षयात् युक्तः /
4082 SK [१३१|०१-१३१|०२] हेत्वधीनत्वाज्जन्मनो वीजक्षयादिवङ्कुरस्येति /
4083 SK [१३१|०३] य एष स्कन्धसंतानो जन्मत्रयावस्थ ऊपदिष्टः
4084 SK [१३१|०४] स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः /
4085 SK [१३१|०५-१३१|०६] तत्र द्वादशाङ्गानि अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर्जरामरणं च /
4086 SK [१३१|०६-१३१|०७] त्रीणि काण्डानि पूर्वापरान्तमध्यान्यतीतानागतप्रत्युत्पन्नानि जन्मानि /
4087 SK [१३१|०७-१३१|०८] कथमेषु त्रिकाण्डेषु द्वादशाङ्गानि व्यवस्थाप्यन्ते /
4088 SK [१३१|०९] पूर्वापरान्तयोर्द्वे द्वे मध्ये ऽष्टौ
4089 SK [१३१|१०] अविद्या संस्काराश्च पूर्वान्ते जातिर्जरामरणं चापरान्ते /
4090 SK [१३१|१०-१३१|११] शेषाण्यष्टौ मध्ये /
4091 SK [१३१|११] किं पुनरेतान्यष्टाङ्गानि सर्वस्यां जातौ भवन्ति / नेत्याह / कस्य तर्हि /
4092 SK [१३१|१२] परिपूरिणः // VAक्K_३.२० //
4093 SK [१३१|१३-१३१|१४] परीपूरो ऽस्यास्तीति परिपूरो य एतानि सर्वाण्येवावस्थान्तराणि स्पृशति सो ऽत्र पुद्गलो ऽभिप्रेतो न तु यो ऽन्तराल एव म्रियते /
4094 SK [१३१|१४] नापि रूपारुप्यावचरः /
4095 SK [१३१|१४-१३१|१५] तथा हि महानिदानपर्याये कामावचर एव पुद्गलो निर्दिष्टः /
4096 SK [१३१|१५-१३१|१६] ᳚विज्ञानं चेदानन्द मातुः कुक्षिं नावक्रामेदि᳚ति वचनात् /
4097 SK [१३१|१६-१३१|१८] यदा तु द्विविधः प्रतीत्यसमुत्पाद उच्यते पौर्वान्तिकश्चापरान्तिकश्चेति तदा सप्ताङ्गानि पौर्वान्तिको यावद्वेदनान्तः पञ्चापरान्तिकः /
4098 SK [१३१|१८] सफलहेतुकयोः पूर्वापरान्तयोर्ग्रहणात् /
4099 SK [१३१|१९] अथ क इमे ऽविद्यादयः /
4100 SK [१३१|२०] पूर्वक्लेशा दशा ऽविद्या
4101 SK [१३१|२१] या पूर्वके जन्मनि क्लेशावस्था सेहाविद्येत्युच्यते /
4102 SK [१३१|२१-१३१|२२] साहचर्यात्तद्वशेन तेषां समुदाचाराच्च /
4103 SK [१३१|२२] राजागमनवचने तदनुयात्रिका गमनसिद्धवत् /
4104 SK [१३१|२३] संस्काराः पूर्वकर्मणः /
4105 SK [१३१|२४] दशेति वर्त्तते /
4106 SK [१३१|२४-१३१|२५] पूर्वजन्मन्येव या पुण्यादिकर्मावस्था सेह संस्कारा इत्युच्यन्ते यस्य कर्मण इह विपाकः /
4107 SK [१३१|२६] संधिस्कन्धास्तु विज्ञानं
4108 SK [१३१|२७] मातुः कुक्षी प्रतिसंधिक्षणे पञ्च स्कन्धा विज्ञानम् /
4109 SK [१३२|०१] नामरूपमतः परम् // VAक्K_३.२१ //
4110 SK [१३२|०२] प्राक् षडायतनोत्पादात्
4111 SK [१३२|०३-१३२|०४] संधिचित्तात् परेण यावत् षडायतनं नोत्पद्यते सा ऽवस्था नामरूपं तावत् षडायतनमित्युच्यते /
4112 SK [१३२|०४-१३२|०५] प्रक्चतुरायतनोत्पादादिनि वक्तव्ये षडायतनवचनं तदा तद्व्यवस्थापनात् /
4113 SK [१३२|०६] तत्पूर्वं त्रिकसंगमात् /
4114 SK [१३२|०७-१३२|०८] उत्पन्ने षडायतने सावस्था तावत् षडायतनमित्युच्यते यावदिन्द्रियविषयविज्ञानत्रिकसंनिपातः /
4115 SK [१३२|०९] स्पर्शः प्राक्सुखदुःखादिकारणज्ञानशक्तितः // VAक्K_३.२२ //
4116 SK [१३२|१०] त्रयाणां संनिपातात् स्पर्शो भवति /
4117 SK [१३२|१०-१३२|११] स यावद्वेदनात्रयकारणपरिच्छेदेन समर्थो भवति सा ऽवस्था स्पर्श इत्युच्यते /
4118 SK [१३२|११] परिच्छेदसामर्थ्ये सति
4119 SK [१३२|१२] वित्तिः प्राक् मैथुनात्
4120 SK [१३२|१३] वेदनावस्था यावन्मैथुनरागो न समुदाचरति /
4121 SK [१३२|१४] तृष्णा भोगमैथुनरागिणः /
4122 SK [१३२|१५] कामगुणमैथुनरागसमुदाचारावस्था तृष्णेत्युच्यते यावन्न तद्विषयपर्येष्टिमापद्यते /
4123 SK [१३२|१६] उपादानं तु भोगानां प्राप्तये परिधावतः // VAक्K_३.२३ //
4124 SK [१३२|१७-१३२|१८] यस्यामवस्थायां विषयप्राप्तये पर्येष्टिमापन्नः सर्वतो धावत्यसाववस्था उपादानमित्युच्यते /
4125 SK [१३२|१८] तथा च परिधावन्
4126 SK [१३२|१९] स भविष्यत् भवफलं कुरुते कर्म तत् भवः /
4127 SK [१३२|२०] स विषयाणां प्राप्तिहेतोः परिधावन् पौनर्भविकं कर्मोपचिनोति सो ऽस्य भवः /
4128 SK [१३२|२१] तेन हि कर्मणा पुनरितः प्रच्युतस्यायत्यां प्रतिसंधिर्भवति / यो ऽसौ
4129 SK [१३२|२२] प्रतिसंधिः पुनर्जातिः
4130 SK [१३२|२३] यदेवेह विज्ञानाङ्गं तदेवास्यान्यत्र जन्मनि जातिः / तत् ऊर्ध्वं
4131 SK [१३२|२४] जरामरणमा विदः // VAक्K_३.२४ //
4132 SK [१३२|२५] जातेः परेण यावदेदनावस्था जरामरणम् /
4133 SK [१३२|२५-१३२|२७] यान्येवेह चत्वार्यङ्गानि नामरूपषडायतनस्पर्शवेदनास्तान्येवान्यत्र जरामरणमित्येतानि द्वादशाङ्गानि /
4134 SK [१३२|२७] स चैष प्रतीत्यसमुत्पादश्चतुर्विध उच्यते /
4135 SK [१३३|०१] क्षणिकः प्रकर्षिकः सांबन्धिकः आवस्थिकश्च / कथं क्षणिकः /
4136 SK [१३३|०१-१३३|०२] एकस्मिन् खल्वपि क्षणे द्वादशाङ्गानि भवन्ति /
4137 SK [१३३|०२-१३३|०३] तद्यथा लोभवशेन प्राणिनं जीविताद् व्यपरोपयेत् /
4138 SK [१३३|०३] यो मोहः सा ऽविद्या / या चेतना ते संस्काराः / वस्तुप्रतिविज्ञप्तिर्विज्ञानम् /
4139 SK [१३३|०४] विज्ञानसहभुवश्चत्वारः स्कन्धा नामरूपम् /
4140 SK [१३३|०४-१३३|०५] नामरूपे व्यवस्थापितानि इन्द्रियाणि षडायतनम् /
4141 SK [१३३|०५] षड्डायतनाभिनिपातः स्पर्शः / स्पर्शानुभवनं वेदना /
4142 SK [१३३|०५-१३३|०६] यो लोभः स तृष्णा /
4143 SK [१३३|०६] तत्संप्रयुक्तानि पर्यवस्थानानि उपादानम् /
4144 SK [१३३|०६-१३३|०७] तत्समुत्थितं कायवाक्कर्म भवः /
4145 SK [१३३|०७-१३३|०८] तेषां धर्माणामुत्सर्जनं जातिः परीपाको जरा भङ्गो मरणमिति /
4146 SK [१३३|०८] पुनराहुः /
4147 SK [१३३|०८-१३३|०९] क्षणिकः सांबन्धिकश्च यथा प्रकरणेषु ᳚प्रतीत्यसमुत्पादः कतमः /
4148 SK [१३३|०९] सर्वे संस्कृता धर्मा᳚ इति /
4149 SK [१३३|०९-१३३|१०] आवस्थिको द्वादश पञ्चस्कन्धिका अवस्था निरन्तरजन्मत्रयसंबद्धाः /
4150 SK [१३३|१०] स एव प्राकर्षिकः / एषां कतमो ऽयमभिप्रेतो भगवतः /
4151 SK [१३३|११] आवस्थिकः किलेष्टो ऽयं
4152 SK [१३३|१२] यद्यङ्गमङ्गं पञ्च स्कन्धाः किं कारणमविद्यादीनेव धर्मान् कीर्त्तयति स्म /
4153 SK [१३३|१३] प्राधान्यत्त्वङ्गकीर्तनम् /
4154 SK [१३३|१४-१३३|१५] अविद्याप्रधानामवस्थामविद्यां जगाद संस्कारप्रधानां संस्कारान्यावज्जरामरणमित्यदोषः /
4155 SK [१३३|१५-१३३|१६] किं पुनः कारणं सूत्रे द्वादशाङ्ग उक्तः प्रकरणेष्वन्यथा ᳚प्रतीत्यसमुत्पादः कतमः /
4156 SK [१३३|१६] सर्वे संस्कृता धर्मा᳚ इति /
4157 SK [१३३|१६-१३३|१७] अभिप्रायिकः सूत्रे लाक्षणिको ऽभिधर्मः /
4158 SK [१३३|१७-१३३|१८] तथावस्थिकः क्षणिकः प्राकर्षिकः सांबन्धिकः सत्त्वाख्यो ऽसत्त्वाख्यश्चेति भेदः /
4159 SK [१३३|१८] किमर्थं पुनः सूत्रे सत्त्वाख्य एव /
4160 SK [१३३|१९] पूर्वापरान्तमध्येषु संमोहविनिवृत्तये // VAक्K_३.२५ //
4161 SK [१३३|२०] अत एव च त्रिकाण्डः /
4162 SK [१३३|२०-१३३|२१] तत्र पूर्वान्तसंमोहो यत इयं विचिकित्सा किं न्व हमभूवमतीते ऽध्वनि आहोस्विन्नाभूवं को न्वहमभूवं कथं न्वहमभूवमिति /
4163 SK [१३३|२२] अपरान्तसंमोहो यत इयं विचिचित्सा किं नु भविष्याम्यनागते ऽध्वनीति विस्तरः /
4164 SK [१३३|२३] मध्यसंमोहो यत इयं विचिकित्सा किम्स्विदिदं के सन्तः के भविष्याम इति /
4165 SK [१३३|२४-१३३|२६] एतस्य त्रिविधस्य संमोहस्य व्यावर्त्तनार्थं सत्त्वाख्य एव त्रिकाण्डश्च प्रतीत्यसमुत्पाद उपदिष्टः सूत्रे यथाक्रममविद्या संस्काराश्च जातिर्जरामरणं च विज्ञानं यावत् भवश्च /
4166 SK [१३३|२६-१३४|०२] तथाहि सूत्र एवोक्तं ᳚यतश्च भिक्षवो भिक्षुणा प्रतीत्यसमुत्पादश्च प्रतीत्यसमुत्पन्नाश्च धर्मा एवं यथाभूतं सम्यक् प्रज्ञया दृष्टा भवन्ति /
4167 SK [१३४|०२] स न पूर्वान्तं प्रतिसरति किं न्वहमभूवमतीते ऽध्वनी᳚ति विस्तरः /
4168 SK [१३४|०३] तृष्णोपादानभवा अप्यपरान्तसंमोहव्यावर्तनार्थमित्यपरे /
4169 SK [१३४|०३-१३४|०४] तस्यैव ह्येते हेतव इति स पुनरेष द्वादशाङ्गः प्रतीत्यसमुत्पादस्त्रिस्वभावो वेदितव्यः /
4170 SK [१३४|०५] क्लेशकर्मवस्तूनि / तत्र
4171 SK [१३४|०६] क्लेशास्त्रीणि
4172 SK [१३४|०७] त्रीण्यङ्गानि क्लेशस्वभावान्यविद्यातृष्णेपादानानि /
4173 SK [१३४|०८] द्वयं कर्म
4174 SK [१३४|०९] अङ्गद्वयं कर्मस्वभावं संस्कारा भवश्च /
4175 SK [१३४|१०] सप्त वस्तु
4176 SK [१३४|११] सप्ताङ्गानि वस्तुस्वभावानि विज्ञाननामरूपषडायतनस्पर्शवेदनाजातिजरामरणानि /
4177 SK [१३४|१२] क्लेशकर्माश्रयत्वात् / यथा च वस्तु सप्ताङ्गानि
4179 SK [१३४|१४] सप्तैवाङ्गानि फाभूतानि / शेषाणि पञ्च हेतुभूतानि /
4180 SK [१३४|१४-१३४|१५] कर्मक्लेशस्वभावभूतत्वात् /
4181 SK [१३४|१५] किं पुनः कारणं मध्ये फलहेतू विशालितौ /
4182 SK [१३४|१५-१३४|१६] वस्तुनः पञ्चधा भेदात् /
4183 SK [१३४|१६] क्लेशस्य द्विधा / अनागते ऽध्वनि फलं संक्षिप्तं द्विधा भेदात् /
4184 SK [१३४|१७] अतीते ऽध्वनि हेतुरेकमुखक्लेशोपदेशादिति /
4185 SK [१३४|१८] फलहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः // VAक्K_३.२६ //
4186 SK [१३४|१९] मध्येनैव हि पूर्वान्तापरान्तयोरपि हेतुफलविस्तरः शक्यो ऽनुमानुमिति नोक्तः /
4187 SK [१३४|२०] पुनरपरात्मकं हि यत्नं मा कार्यमिति /
4188 SK [१३४|२०-१३४|२२] यदि खलु द्वादशाङ्ग एव प्रतीत्यसमुत्पाद एवं सत्यविद्याया अनुपदिष्टहेतुकत्वादादिमान् संसारः प्राप्नोति जरामरणस्य चानुपदिष्टफलत्वादन्तवान् /
4189 SK [१३४|२२-१३४|२३] अङ्गान्तरं वा पुनरुपसंख्यातव्यं तस्याप्यन्यस्मादित्य नवस्थाप्रसङ्गः /
4190 SK [१३४|२३] नोपसंख्यातव्यम् / यस्मादुपदर्शितो ऽत्र भगवता
4191 SK [१३४|२४-१३४|२५] क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः / वस्तुक्लेशाश्च जायन्ते भवाङ्गनामयं नयः // VAक्K_३.२७ //
4192 SK [१३४|२६] क्लेशात् क्लेशो जायते तृष्णाया उपादानम् / क्लेशात् कर्म /
4193 SK [१३४|२६-१३५|०१] उपादानात् भवो ऽविद्यायाश्च संस्कारा /
4194 SK [१३५|०१] कर्मवस्तुसंस्कारेभ्यो विज्ञानं भवाच्च जातिः /
4195 SK [१३५|०१-१३५|०२] वस्तुनो वस्तुविज्ञानानामरूपं यावत् स्पर्शाद्वेदना जातेश्च जरामरणम् /
4196 SK [१३५|०२-१३५|०३] वस्तुनः क्लेशो वेदनाया स्तृष्णेति /
4197 SK [१३५|०३-१३५|०४] यस्मादेष नयो व्यवस्थितो भवाङ्गानां तस्मादविद्या ऽपि क्लेशस्वभावा वस्तुनः क्लेशाद्वेति ज्ञापितं भवति /
4198 SK [१३५|०४-१३५|०५] वेदनावशाच्च जरामरणवस्तुनः पुनः क्लेशो भावीति नात्र पुनः किञ्चिदुपसंख्येयम् /
4199 SK [१३५|०५-१३५|०६] ᳚एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवती᳚ति वचनात् /
4200 SK [१३५|०६] अन्यथा हि किमस्य सामर्थ्यं स्यात् /
4201 SK [१३५|०७] अयोनिशोमनस्कारहेतुका ऽविद्योक्ता सूत्रान्तरे / अविद्याहेतुकश्चायोनिशोमनस्कारः /
4202 SK [१३५|०८] स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति अपरे /
4203 SK [१३५|०८-१३५|०९] कथमयोनिशोमनस्कारस्योपादाने ऽन्तर्भावः /
4204 SK [१३५|०९] यदि संप्रयोगतः / तृष्णा ऽविद्ययोरपि तस्यान्तर्भावप्रसङ्गः /
4205 SK [१३५|१०] सत्यपि चान्तर्भावे कथमत्रेदं ज्ञापितं भवत्ययोनिशोमनस्कारहेतुका अविद्येति /
4206 SK [१३५|११-१३५|१२] यदि तर्ह्यन्तर्भावेनैव हेतुफलभावो विज्ञायते तृष्णा ऽविद्ययोरपि तर्हि तत्रान्तर्भावा दङ्गन्तरत्वं शक्यमकर्त्तुम् /
4207 SK [१३५|१२] अन्यः पुनराह /
4208 SK [१३५|१२-१३५|१३] अयोनिशो मनस्कारो हेतुरविद्याया उक्तः सूत्रान्तरे /
4209 SK [१३५|१३] स चापि स्पर्शकाले निर्दिष्टः /
4210 SK [१३५|१३-१३५|१४] ᳚चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज᳚ इति /
4211 SK [१३५|१४] वेदनाकाले चावश्यमविद्यया भवितव्यम् /
4212 SK [१३५|१५] ᳚अविद्यासंस्पर्शजं वेदितं प्रतीत्योत्पन्ना तृष्णे᳚ति सूत्रान्तरात् /
4213 SK [१३५|१६-१३५|१७] अतः स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्त्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति नास्त्यहेतुकत्वमविद्याया न चाङ्गान्तरमुपसंख्येयम् /
4214 SK [१३५|१७-१३५|१८] नचाप्यनवस्थाप्रसङ्गः /
4215 SK [१३५|१८-१३५|१९] तस्याप्ययोनिशोमनस्कारस्य पुनर्मोहजवचनादाविलो मनस्कारो मोहज इति /
4216 SK [१३५|१९] तत्तर्ह्येतदन्त्यत्रोक्तमिह पुनर्वक्तव्यम् / न वक्तव्यम् / कथमनुच्यमानं गम्यते /
4217 SK [१३५|२०] युक्तितः / कया युक्त्या /
4218 SK [१३५|२०-१३५|२१] नहि निरवद्या वेदना तृष्णायाः प्रत्ययीभवत्यर्हतां न चावीपरीतः स्पर्शः क्लिष्टाया वेदनायाः /
4219 SK [१३५|२१-१३५|२२] नच पुनर्निरवद्यस्यार्हतः स्पर्शो विपरीत इत्यनया युक्त्या /
4220 SK [१३५|२२] अतिप्रसङ्ग एवं प्राप्नोति /
4221 SK [१३५|२२-१३५|२३] यौवत् युक्त्या संभवति तावदनुक्तम् गम्यत इति /
4222 SK [१३५|२३-१३५|२४] तस्मान्न भवत्ययं परिहारः /
4223 SK [१३५|२४] अचोद्यमेव त्वेतद् /
4224 SK [१३५|२४-१३५|२५] अविद्याजरामरणयोः परेणाङ्गन्तरानभिधानात्संसारस्याद्यन्तवत्त्वप्रसङ्गः /
4225 SK [१३५|२५] नचापरिपूर्णो निर्देश इति / किं कारणम् /
4226 SK [१३५|२६-१३५|२७] प्रवृत्तिसंमूडेभ्यो विनेयेभ्यः कथं परलोकादिहलोक इहलोकाच्च पुनः परलोकः संबध्यत इत्येतावतो ऽत्रार्थस्य विवक्षितत्वात् /
4227 SK [१३५|२७] एतस्य च पूर्वमेवोत्तत्वात् /
4228 SK [१३६|०१] पूर्वापरान्तमध्येषु संमोह विनिवृत्तये᳚ /
4229 SK [१३६|०२-१३६|०३] उक्तं भगवता ᳚प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामि प्रतीत्यसमुत्पन्नांश्च धर्मानित्यथक एषां विशेषः /
4230 SK [१३६|०३] शास्त्रतस्तावन्न कश्चित् /
4231 SK [१३६|०३-१३६|०४] उभ्यं हि सर्वे संस्कृता धर्मा इति /
4232 SK [१३६|०४] कथमिदानीमनुत्पन्ना एवानागताः प्रतीत्यसमुत्पन्ना इत्युच्यन्ते /
4233 SK [१३६|०४-१३६|०५] कथं तावदकृता एवानागताः संस्कृता उच्यन्ते /
4234 SK [१३६|०५] आभिसम्स्कारिकया चेतनया चेतितत्वात् /
4235 SK [१३६|०५-१३६|०६] अनास्रवाः कथम् /
4236 SK [१३६|०६] ते ऽपि चेतिताः कुशलया चेतनया प्राप्तिं प्रति / निर्वाणे ऽपि प्रसङ्गः /
4237 SK [१३६|०७-१३६|०८] तज्जातीयत्वात्तत्तत्रैवातिदेशो यथा नच तावद्रूप्यते रूपं चोच्यते तज्जातीयत्वादित्यदोषः /
4238 SK [१३६|०८] सूत्राभिप्रायस्त्वयमुच्यते /
4239 SK [१३६|०९] हेतुरत्र समुत्पादः समुत्पन्नं फलं मतम् /
4240 SK [१३६|१०-१३६|११] हेतुभूतमङ्गप्रतीत्यसमुत्पादः समुत्पद्यते ऽस्मादिति दृत्वा फलभूतमङ्ग प्रतीत्यसमुत्पन्नम् /
4241 SK [१३६|११] एवं सर्वाण्यङ्गान्युभययथा सिध्यन्ति / हेतुफलभवात् /
4242 SK [१३६|११-१३६|१२] न चैवं सत्यव्यवस्था भवन्त्यपेक्षाभेदात् /
4243 SK [१३६|१२-१३६|१३] यदपक्षय प्रतीत्यसमुत्पादो न तदेवापेक्ष्य प्रतीत्यसमुत्पन्नं हेतुफलवत् पितृपुत्रवच्च /
4244 SK [१३६|१३-१३६|१४] स्थविरपूर्णाशः किलाह स्यात् प्रतीयसमुत्पादो न प्रतीत्यसमुत्पन्ना धर्मा इति /
4245 SK [१३६|१४] चतुष्कोटिकः /
4246 SK [१३६|१५] प्रथमा कोटिरनागता धर्माः / द्वितीया ऽर्हतश्चरमाः /
4247 SK [१३६|१५-१३६|१६] तृतीया तदन्ये ऽतीतप्रत्युपन्ना धर्माः /
4248 SK [१३६|१६] चतुर्थ्य संस्कृता धर्मा इति / अत्र तु सौत्रान्तिका विज्ञापयन्ति /
4249 SK [१३६|१६-१३६|१७] किं खल्वेता इष्टय उच्यन्ते या यस्येष्टिराहोस्वित्सूत्रार्थः /
4250 SK [१३६|१७] सूत्रार्थ इत्याह /
4251 SK [१३६|१७-१३६|१८] यदि सूत्रार्थो नैष सूत्रार्थः /
4252 SK [१३६|१८] कथं कृत्वा /
4253 SK [१३६|१८-१३६|१९] यत्तावदुक्तमा ᳚वस्थिक एष प्रतीत्यसमुत्पादो द्वादश पञ्चस्कन्धिका अवस्था द्वादशङ्गानी᳚ त्येतदुत्सूत्रम् /
4254 SK [१३६|१९] सूत्रे ऽन्यथा निर्देशाद् /
4255 SK [१३६|२०] ᳚अविद्या कतमा / यत्तत् पूर्वान्ते ऽज्ञानमि᳚ति विस्तरेण /
4256 SK [१३६|२०-१३६|२१] यच्च नीतार्थं न तत् पुनर्नेयं भवतीति नैष सूत्रार्थः /
4257 SK [१३६|२१] न वै सर्वं निर्देशतो नीतार्थं भवति /
4258 SK [१३६|२१-१३६|२२] यथाप्रधानं चापि निर्देशाः क्रियन्ते /
4259 SK [१३६|२२-१३६|२३] तद्यथा हस्तिपदोपमे ᳚पृथिवीधातुः कतमः᳚ इत्यधिकृत्याह ᳚केशा रोमाणी᳚ति /
4260 SK [१३६|२३] सन्ति च तत्रान्ये ऽपि रूपादयः / एवमत्रापि यथाप्रधानं निर्देशः स्यात् /
4261 SK [१३६|२४] औपसंहार एषः / नहि तत्र केशादयः पृथिवीधातुना निर्दिश्यन्ते /
4262 SK [१३६|२४-१३६|२५] यत एषामपरिपूर्णो निर्देशः स्यादपि तु केशादिभिरेव पृथिवीधातुः तत्र निर्देश्यते /
4263 SK [१३६|२५-१३६|२६] न च केशादीनभ्यतीत्याप्यस्ति पृथिवीधातुरिति संपूर्ण एवास्य निर्देशः /
4264 SK [१३६|२६-१३७|०१] एवमिहाप्यविद्यादीनां परिपूर्ण एव निर्देशो न सावशेषः /
4265 SK [१३७|०१-१३७|०२] ननु चाभ्यतीत्यापि केशादीनश्रुखेट शिङ्घाणका दिष्वस्ति पृथिवीधातुः /
4266 SK [१३७|०२] सो ऽपि निर्दिष्ट एवेति /
4267 SK [१३७|०२-१३७|०४] यद्व ᳚पुनरन्यदप्यस्मिन् काये खकूखटं खरगतमिति वचनात् भवतु वा तथैवाविद्यावशेषो यदि शक्यते दर्शयितुम् /
4268 SK [१३७|०४] जात्यन्तरस्य त्वविद्यायां किङ्कृतः प्रक्षेपः /
4269 SK [१३७|०५-१३७|०६] यद्यपि च तास्ववस्थासु पञ्च स्कन्धा विद्यन्ते यस्य तु भावाभावयोर्यस्य भावाभावनियमः तदेवाङ्गं व्यवस्थापयितुम् /
4270 SK [१३७|०६-१३७|०७] सत्यपि च पञ्चस्कन्धके ऽर्हतः संस्कारा न भवन्ति पञ्चस्कन्धहेतुकाः /
4271 SK [१३७|०७] किं तर्हि अविद्याहेतुका एव /
4272 SK [१३७|०७-१३७|०८] तथा पुण्यापुण्यानेञ्ज्योपगं च विज्ञानं तृष्णा दयश्चेति /
4273 SK [१३७|०८] यथानिर्देशमेव सूत्रार्थः /
4274 SK [१३७|०९] यदप्युक्तं ᳚हेतुरत्र समुत्पादः समुत्पन्नं फलं यावच्चतुष्कोटिक᳚ इति /
4275 SK [१३७|१०] एतदप्युत्सूत्रम् / सूत्रे ऽन्यथा निर्देशात् / ᳚प्रतीत्यसमुत्पादः कतमः /
4276 SK [१३७|१०-१३७|१२] यदुतास्मिन् सतीदं भवतीति विस्तरेणोक्त्वा इति या ऽत्र धर्मता धर्मस्थितिता यावदविपर्यस्तता अयमुच्यते प्रतीत्यसमुत्पाद᳚ इति /
4277 SK [१३७|१२] ध्र्मता च नाम धर्मजातिः धर्माणां शैलिः /
4278 SK [१३७|१३] अतो येयं धर्मता य एष नियमः / अविद्यायामेवसत्यां संस्कारा भवन्ति नोन्यथा /
4279 SK [१३७|१४] एष प्रतीत्यसमुत्पादो न हेतुरेव /
4280 SK [१३७|१४-१३७|१५] यदपि चतुष्कोटिकमुक्तं तत्र यद्यनागताः धर्मा न प्रतीत्यसमुत्पन्नाः सूत्रं विरुध्यते /
4281 SK [१३७|१५-१३७|१६] प्रतीत्यसमुत्पन्ना धर्माः कतमे /
4282 SK [१३७|१६] अविद्या यावज्जातिः जरामरणम् /᳚
4283 SK [१३७|१६-१३७|१७] तयो रनागताध्वव्यवस्थानं नैष्टव्यमिति त्रिकाण्डव्यवस्था भिद्यते /
4284 SK [१३७|१७] असंस्कृतः प्रतीत्यसमुत्पाद इति निकायान्तरीयाः /
4285 SK [१३७|१८] ᳚उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवेयं धर्मते᳚ति वचनात् /
4286 SK [१३७|१८-१३७|१९] तदेतदभिप्रायवशादेवं च न चैवम् /
4287 SK [१३७|१९] कथं तावदेवं कथं वा नैवम् /
4288 SK [१३७|१९-१३७|२१] यद्ययमभिप्राय उत्पादद्वा तथागतानामनुत्पादाद्वा नित्यमविद्यादीन् प्रतीत्य संस्कारादीनामनुत्पादो न कदाचिदप्रतीत्यान्यद्वा प्रतीत्यातो नित्य इति एवमेतदिति प्रतिग्राह्यम् /
4289 SK [१३७|२१-१३७|२२] अथायमभिप्रायः प्रतीत्यसमुत्पादो नाम किञ्चित् भावान्तरं नित्यमस्तीति /
4290 SK [१३७|२२-१३७|२३] नैतदेवमिति प्रतिषेद्धव्यम् /
4291 SK [१३७|२३] किं कारणम् / उत्पादस्य संस्कृतलक्षणत्वात् /
4292 SK [१३७|२३-१३७|२४] न च नित्यं भावान्तरमनित्यस्य लक्षणं युज्यते /
4293 SK [१३७|२४-१३७|२५] उत्पादश्च नामोत्पत्तुर्भवतीति को ऽस्याविद्यादिभिरभिसम्बन्धो यतस्तेषां प्रतीत्यसमुत्पाद इत्युच्येत /
4294 SK [१३७|२५-१३७|२६] पदार्थश्चासमर्थो भवतीति नित्यश नाम प्रतीत्यसमुत्पादश्चेति /
4295 SK [१३८|०१] अथ प्रतीत्यसमुत्पाद इति कः पदार्थः /
4296 SK [१३८|०१-१३८|०२] प्रतिः प्राप्त्यर्थ एति गत्यर्थः /
4297 SK [१३८|०२] उपसर्गवशेन धात्वर्थपरिणामात् प्राप्येति यो ऽर्थः सोऽर्थः प्रतीत्येति /
4298 SK [१३८|०३] पदिः सत्तार्थं समुत्पूर्वः प्रादुर्भावार्थः /
4299 SK [१३८|०३-१३८|०४] तेन प्रात्ययं प्राप्य समुद्भवः प्रतीत्यसमुत्पादः /
4300 SK [१३८|०४] न युक्त एष पदार्थः / किं कारणम् /
4301 SK [१३८|०४-१३८|०५] एकस्य हि कर्त्तुर्द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर्भवति /
4302 SK [१३८|०५] तद्यथा स्नात्वा भुङ्क्त इति /
4303 SK [१३८|०५-१३८|०६] नचासौ पूर्वमुत्पादात् कश्चिदस्ति यः पूर्वं प्रतीत्योत्तरकालमुत्पद्यते /
4304 SK [१३८|०६-१३८|०७] नचाप्यकर्तु कास्ति क्रियेति /
4306 SK [१३८|०८-१३८|०९] ᳚प्रत्येति पूर्वमुत्पादाद्यद्यसत्त्वान्न युज्यते / सह चेत् क्त्वा न सिद्धो ऽत्र पूर्वकालविधानत᳚ इति //
4307 SK [१३८|१०] नैष दोषः / इदं तावद्यं प्रष्टव्यः शाब्दिकः /
4308 SK [१३८|१०-१३८|११] किमवस्थो धर्मः उत्पद्यते वर्त्तमान उताहो ऽनागते इति /
4309 SK [१३८|११] किं चातः / यदि वर्त्तमान उत्पद्यते /
4310 SK [१३८|११-१३८|१२] कथं वर्त्तमानो यदि नोत्पन्नः /
4311 SK [१३८|१२] उत्पन्नस्य वा पुनरुत्पत्तावनवस्थाप्रसङ्गः /
4312 SK [१३८|१२-१३८|१३] अथानागत उत्पद्यते कथमसतः कर्तृत्वं सिद्धत्यकर्तृका वा क्रियेति /
4313 SK [१३८|१३-१३८|१४] अतो यदवस्थ उत्पद्यते तदवस्थ एव प्रत्येति /
4314 SK [१३८|१४] किमवस्थश्चोत्पद्यते / उत्पादाभिमुखो ऽनागतः /
4315 SK [१३८|१४-१३८|१५] तदवस्थ एव प्रत्ययं प्रत्येतीत्युच्यते /
4316 SK [१३८|१५-१३८|१६] अनिष्पन्नं चेदं यदुत शाब्दिकीयं कर्तृक्रियाव्यवस्थानं भवतीत्येष कर्त्ता भूतिरित्येषा क्रिया /
4317 SK [१३८|१६-१३८|१७] न चात्र भवितुरर्थात् भूतिमन्यां क्रियां पश्यामः /
4318 SK [१३८|१७] तस्मादच्छलं व्यवहारेषु / एष तु वाक्यार्थः /
4319 SK [१३८|१७-१३८|१८] अस्मिन् सत्यस्य भावः अस्योत्पादादिदमुत्पद्यत इति यो ऽर्थः सो ऽर्थः प्रतीत्यसमुत्पाद इति /
4321 SK [१३८|२०-१३८|२३] ᳚असन्नुत्पद्यते यद्वत् प्रत्येत्यपि तथा ऽथ सन् / उत्पन्न उत्पद्यत इत्यनिष्ठा ऽसन् पुरा ऽपि वा //
4322 SK सहकाले ऽपि च क्त्वा ऽस्ति दीपं प्राप्य तमो गतम् / आस्यं व्यादाय शेते च पश्चाच्चेत्किं न संवृते //᳚
4323 SK [१३८|२४] अन्ये पुनरस्य चोद्यस्य परिहारार्थमन्यथा परिकल्पयन्ति /
4324 SK [१३८|२४-१३८|२५] प्रतिर्वीप्सार्थः /
4325 SK [१३८|२५] इतौ साधव इत्या अनवस्थायिनः / उत्पूर्वः पदिः प्रादुर्भावार्थः /
4326 SK [१३८|२६-१३८|२७] तां तां कारण सामग्रीं प्रति इत्यानां समवायेनोत्पादः प्रतीत्यसमुत्पाद इति /
4327 SK [१३८|२७] एषा तु कल्पना ऽत्रैव कल्प्यते /
4328 SK [१३८|२७-१३८|२८] इह कथं भविष्यति ᳚चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमिति᳚ति /
4329 SK [१३८|२८-१३९|०१] किमर्थं पुनर्भगवान् पर्यायद्वयमाह ᳚अस्मिन् सतीदं भवति अस्योत्पादादिदमुत्पद्यते᳚ इति /
4330 SK [१३९|०१-१३९|०२] अवधारणार्थम् /
4331 SK [१३९|०२-१३९|०३] यथा ऽन्यत्राह ᳚अविद्यायां सत्यां संस्कारा भवन्ति नान्यत्राविद्यायाः संस्कारा᳚ इति /
4332 SK [१३९|०३] अङ्गपरंपरां वा दर्शयितुम् /
4333 SK [१३९|०३-१३९|०४] अस्मिन्नङ्गे सतीदं भवति अस्य पुनरङ्गस्योत्पादादिदमुत्पद्यत इति /
4334 SK [१३९|०४] जन्मपरंपरां वा /
4335 SK [१३९|०४-१३९|०५] पूर्वान्ते सति मध्यान्तो भवति मध्यान्तस्योत्पादादपरान्त उत्पद्यत इति /
4336 SK [१३९|०५-१३९|०६] साक्षात् पारंपर्येण प्रत्ययभावं दर्शयति /
4337 SK [१३९|०६] कदाचिद्धि समनन्तरमविद्यायाः संस्कारा भवन्ति कदाचित् पारंपर्येणेति /
4338 SK [१३९|०७] अहेतुनित्यहेतुवादप्रतिषेधार्थमित्यपरे /
4339 SK [१३९|०७-१३९|०८] नासति हेतो भावो भवति न चानुत्पत्तिमतो नित्यात् प्रकृतिपुरुषादिकात्किञ्चिदुत्पद्यत इति /
4340 SK [१३९|०८-१३९|०९] अस्यां तु कल्पनायां पूर्वपदस्य ग्रहणमनर्थकं प्राप्नोति /
4341 SK [१३९|०९] अस्योत्पादादिमुत्पद्यत इत्यनेनैवोभयवादप्रतिषेधसिद्धेः /
4342 SK [१३९|१०-१३९|११] सन्ति तर्हि केचिद्य आत्मनि सत्याश्रयभूते संस्कारादीनां भावं परिकल्पयन्ति अविद्यादीनां चोत्पादात्तदुत्पत्तिम् /
4343 SK [१३९|११-१३९|१२] अतस्ताम् कल्पनां पर्युदासयितुमिदं निर्धारयांवभूव यस्यैवोत्पादाद्यदुत्पद्यते तस्मिन्नेव सति तत् भवति नान्यस्मिन् /
4344 SK [१३९|१२-१३९|१३] यदुता ᳚विद्याप्रत्ययाः संस्काराः यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति᳚ति /
4345 SK [१३९|१४] अप्रहीणोत्पत्तिज्ञापनार्थमित्याचार्याः / अविद्यायामप्रहीणायां संस्कारा न प्रहीयन्ते /
4346 SK [१३९|१५] तस्या एवोत्पादादुत्पद्यन्त इति विस्तरः /
4347 SK [१३९|१५-१३९|१६] स्थित्युत्पत्तिसंदर्शनार्थमित्यपरे /
4348 SK [१३९|१६] यावत् कारणस्रोतस्तावत् कार्यस्रोतो भवति /
4349 SK [१३९|१६-१३९|१७] कारणस्यैवचोत्पादात् कार्यमुत्पद्यत इति / [१३९|१७-१३९|१८] उत्पादे त्वधिकृते कः प्रसङ्गः स्थितिवचनस्य भिन्नक्रमं च भगवान् किमर्थमाचक्षित प्राक् स्थितिं पश्चादुत्पोआदम् /
4350 SK [१३९|१८-१३९|१९] पुनराह ᳚अस्मिन् सतीदं भवती᳚ति ᳚कार्ये सति कारणस्य विनाशो भवती᳚ति /
4351 SK [१३९|१९-१३९|२०] स्यान्मत महेतुकं तर्हि कार्यमुत्पद्यत इत्यत आह नाहेतुकम् /
4352 SK [१३९|२०-१३९|२१] यस्मादस्योत्पादादिदमुत्पद्यत इति /
4353 SK [१३९|२१] एष चेत्सूत्रार्थो ऽभविष्यदस्मिन् सतीदं न भवतीत्येवाचक्षत /
4354 SK [१३९|२१-१३९|२२] पूर्वं च तावत् कार्यस्योत्पादाने वाचक्षत पश्चादस्मिन् सतीदं न भवतीति /
4355 SK [१३९|२२-१३९|२३] एवं हि साधुः क्रमो भवति /
4356 SK [१३९|२३-१३९|२४] इतरथा तु प्रतीत्यसमुत्पादः कतम इत्यादेरर्थे कः प्रक्रमो विनाशवचनस्य /
4357 SK [१३९|२४] तस्मान्नैष सूत्रार्थः /
4358 SK [१३९|२४-१३९|२५] कथं पुन ᳚र्विद्याप्रत्ययाः संस्कारा यावत् जातिप्रत्ययं जरामरणामि᳚ति /
4359 SK [१३९|२५] आभिसंबन्धमात्रं दर्शयिष्यामः /
4360 SK [१३९|२५-१४०|०२] बालो हि प्रतीत्यसमुत्पन्नं संस्कारमात्रमिदमित्यप्रजानन् आत्मदृष्ट्यस्मिमानाभिनिविष्ट आत्मनः सुखार्थमदुःखार्थं वा कायादिभिस्त्रिविधं कर्मारभते आयति सुखार्थं पुण्यं सुखादुःखासुखार्थमानैज्जमैहिकसुखार्थमपुण्यं तस्याविद्याप्रत्ययाः संस्काराः कर्माक्षेपवशाच्च विज्ञानसंअततिस्तां तां गतिं गच्छति /
4361 SK [१४०|०२-१४०|०३] ज्वालागमनयोगेनान्तराभवसंबन्धात् /
4362 SK [१४०|०३] तदन्यसंस्काराप्रत्ययं विज्ञानम् /
4363 SK [१४०|०३-१४०|०४] एवं च कृत्वा तदुपपन्नं भवति विज्ञानाङ्गनिर्देशे ᳚विज्ञानं कतमत् /
4364 SK [१४०|०४] षड्विज्ञानकाया᳚ इति /
4365 SK [१४०|०५-१४०|०६] विज्ञानपूर्वकं पुनस्तस्यां तस्यां गतौ नामरूपं जायते पञ्चस्कन्धकं कृत्स्नजन्मानुगतम् /
4366 SK [१४०|०६] विभङ्गे महानिदानपर्याये चैवं निर्देशात् /
4367 SK [१४०|०६-१४०|०७] ᳚तथा नामरूपपरिपाकात्क्रमेण षडायतनम् /
4368 SK [१४०|०७] ततो विषयसंप्राप्तौ सत्यां विज्ञानसंभव᳚ इति /
4369 SK [१४०|०७-१४०|०८] त्रयाणां संनिपातः स्पर्शः सुखादिवेदनीयः /
4370 SK [१४०|०८] ततस्त्रिविधा वेदना / तत्स्तृष्णा /
4371 SK [१४०|०८-१४०|०९] दुःखोत्पीडितस्य सुखायां वेदनायां कामतृष्णा /
4372 SK [१४०|०९] सुखायामदुःखासुखायां च रूपतृष्णा /
4373 SK [१४०|०९-१४०|१०] अदुःखासुखायामारुप्यतृष्णा /
4374 SK [१४०|१०] तत इष्टवेदनातृष्णायाः कामादीनामुत्पादनम् /
4375 SK [१४०|१०-१४०|११] तत्र कामाः पञ्च कामगुणाः /
4376 SK [१४०|११] दृष्टयो द्वाषष्टिर्यथा ब्रह्मजालसूत्रे / शीलं दौःशील्यविरतिः /
4377 SK [१४०|१२] व्रतं कुक्कुरगोव्रतादीनि / यथा च निर्ग्रन्थादीनां नग्नो घवत्यचेलक इति विस्तरः /
4378 SK [१४०|१३-१४०|१४] ब्राह्मणपाशुपतपरिब्राजकादीनां च दण्डाजिनभस्मजटात्रिदण्डमौण्ड्यादिसमादानम् /
4379 SK [१४०|१४] आत्मवादः पुनरात्मभावः /
4380 SK [१४०|१४-१४०|१५] आत्मेति वादो ऽस्मिन्नित्यात्मवादः /
4381 SK [१४०|१५] आत्मदृष्ट्यस्मिमानावित्यपरे / कथमनयोरात्मवादत्वम् /
4382 SK [१४०|१५-१४०|१६] ᳚आभ्यामात्मे᳚ति वचनात् /
4383 SK [१४०|१६] आत्मनो ह्यसत्त्वादात्मवादोपादानमित्युच्यते /
4384 SK [१४०|१६-१४०|१७] प्रज्ञप्तिमात्रकस्योपादानात् /
4385 SK [१४०|१७-१४०|१८] यथोक्त ᳚मात्मा आत्मेति भिक्षवो बालो ऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो नत्वत्रात्मा वा आत्मीयं वा᳚ इति /
4386 SK [१४०|१८-१४०|१९] तेषामुपादानं तेषु यश्छन्दरागः /
4387 SK [१४०|१९] एवं हि भगवता सर्वत्राख्यातम् ᳚उपादानं कतमत् /
4388 SK [१४०|१९-१४०|२०] यो ऽत्रच्छन्दरागं᳚ इति /
4389 SK [१४०|२०] उपादानप्रत्ययं पुनः पौनर्भविकं कर्मोपचीयते / तद्भवः /
4390 SK [१४०|२०-१४०|२१] ᳚यदप्यानन्द कर्मायत्यां पुनर्भावाभिनिवर्तम्कमिदमत्र भवस्ये᳚ति सूत्रात् /
4391 SK [१४०|२१-१४०|२२] भवप्रत्ययं पुनर्विज्ञानावक्रान्तियोगेन /
4392 SK [१४०|२२] अनागतं जन्म जातिः पञ्चस्कन्धिका /
4393 SK [१४०|२२-१४०|२३] जातौ सत्यां जरामरणं यथा निरिष्टं सूत्रे /
4394 SK [१४०|२३] ᳚एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो घवती᳚ति /
4395 SK [१४०|२४] केवलस्येत्यात्मीयरहितस्य / महतो दुःखस्कन्धस्येत्यनाद्यनन्तस्य दुःखसमूहस्य /
4396 SK [१४०|२५] समुदयो भवतीति प्रदुर्भावः / स एव तु वैभाषिकन्यायो यः पूर्वमुक्तः /
4397 SK [१४०|२६] अथाविद्येति को ऽर्थः / या न विद्या / चक्षुरादिष्वपि प्रसङ्गः /
4398 SK [१४०|२६-१४०|२७] विद्याया अभावस्तर्हि /
4399 SK [१४०|२७] एवं सति न किञ्चित् स्यात् /
4400 SK [१४०|२७-१४०|२८] न चैतत् युक्तम् /
4402 SK [१४१|०१] विद्याविपक्षो धर्मो ऽन्यो ऽविद्या ऽमित्रानृतादिवत् // VAक्K_३.२८ //
4403 SK [१४१|०२-१४१|०३] यथा मित्रविपर्ययेण तद्विपक्षभूतः कश्चिदमित्रो भवति न तु यः कश्चिदन्यो मित्रान्नापि मित्राभावः /
4404 SK [१४१|०३] ऋतं चोच्यते सत्यम् /
4405 SK [१४१|०३-१४१|०४] तद्विपक्षभूतं वाक्यमनृतं भवति /
4406 SK [१४१|०४] अधर्मानर्थाकार्यादयश्च धर्मादिप्रतिद्वन्द्वभूताः /
4407 SK [१४१|०४-१४१|०५] एवमविद्या ऽपि विद्यायाः प्रतिद्वन्द्वभूतधर्मान्तरमिति द्रष्टव्यम् /
4408 SK [१४१|०५] कुत एतत् / प्रत्ययभावेनोपदेशात् / अपि च
4409 SK [१४१|०६] संयोजनादिवचनात्
4410 SK [१४१|०७] संयोजनं बन्धनमनुशय ओघो योगश्चाविद्योच्यते सूत्रेषु /
4411 SK [१४१|०७-१४१|०८] न चाभावमात्रं तथा भवितुमर्हति /
4412 SK [१४१|०८] न चापि चक्षुरादयः / तस्माद्धर्मान्तरमेवाविद्या /
4413 SK [१४१|०८-१४१|०९] यथा तर्हि कुभार्या अभार्येत्युच्यते कुपुत्रश्चापुत्रः /
4414 SK [१४१|०९] एवमविद्या ऽप्यस्तु /
4415 SK [१४१|१०] कुप्रज्ञा चेन्न दर्शनात् /
4416 SK [१४१|११] कुत्सिता हि प्रज्ञ क्लिष्टा / सा च दृष्टिस्वभावा इति नाविद्या युज्यते /
4417 SK [१४१|११-१४१|१२] या तर्हि न दृष्टिः सा भविष्यति /
4418 SK [१४१|१२] सा ऽपि भवितुं नार्हति / किं कारणम् /
4419 SK [१४१|१३] दृष्टेस्तत्संप्रयुक्तत्वात्
4420 SK [१४१|१४] अविद्या चेत् प्रज्ञा ऽभविष्यन्न दृष्टिस्तया युज्यते संप्रायोक्ष्यत /
4421 SK [१४१|१४-१४१|१५] द्वयोः प्रज्ञाद्रव्ययोरसंप्रयोगात् /
4423 SK [१४१|१६] प्रज्ञोपक्लेशदेशनात् // VAक्K_३.२९ //
4424 SK [१४१|१७] ᳚रागोपक्लिष्टं चित्तं नावमुच्यते अविद्योपक्लिष्टा प्रज्ञा न विशुध्यती᳚त्युक्तम् सूत्रे /
4425 SK [१४१|१८] न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति /
4426 SK [१४१|१८-१४१|१९] यथा चित्तस्यान्यो भिन्नजातीय उपक्लेशो राग एवं प्रज्ञाया अविद्या /
4427 SK [१४१|१९] किं पुनरेवं नेष्यते /
4428 SK [१४१|२०] क्लिष्टया प्रज्ञया कुशला प्रज्ञा व्यव्कीर्यमाणा न विशुध्यति /
4429 SK [१४१|२०-१४१|२१] अतो ऽसौ तस्या उपक्लेश इति /
4430 SK [१४१|२१] यद्वापि रागोपक्लिष्टं चित्तं न विमुच्यते /
4431 SK [१४१|२१-१४१|२२] किं तदवश्यं रागपर्यवस्थितं भवति /
4432 SK [१४१|२२] उअपहतं तु तत्तथा रागेण भवति यन्न विमुच्यते /
4433 SK [१४१|२२-१४१|२३] तां पुन्र्भावनां व्यावर्तयतो विमुच्यते /
4434 SK [१४१|२३-१४१|२४] एवमविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीत्यविद्योपहतां परिक्ल्पयामः /
4435 SK [१४१|२४] को हि परिकल्पयन् वार्यते / जात्यन्तरमेव त्वविद्यां वर्णयन्ति /
4436 SK [१४१|२५] यो ऽपि मन्यते ᳚सर्वक्लेशा अविद्ये᳚ति तस्याप्यत एव व्युदासः /
4437 SK [१४१|२५-१४२|०१] सर्वक्लेशस्वभावा ऽपि सती संयोजनादिषु पृथग्नोच्येत दृष्ट्या च न संप्रयुज्येत /
4438 SK [१४२|०१-१४२|०२] अन्येन वा क्लेशेन दृष्ट्यादीनां परंपरासंप्रयोगात् चित्तमपि चाविद्योपक्लेष्टमेवोक्तं भवेत् /
4439 SK [१४२|०२-१४२|०३] अथ मतं विशेषणार्थं तथोक्तमिति /
4440 SK [१४२|०३] प्रज्ञायामप्यविद्याविशेषणं कर्त्तव्यं भवेत् /
4441 SK [१४२|०३-१४२|०४] भवत्वविद्या धर्मान्तरं कस्तु तस्याः स्वभावः /
4442 SK [१४२|०४] सत्यवन्न कर्मफलानामसंप्रख्यानम् /
4443 SK [१४२|०४-१४२|०५] एतच्चैव न ज्ञायते किमिदमसंप्रख्यानं नामेति /
4444 SK [१४२|०५-१४२|०६] यदि यन्न संप्रख्यानं संप्रख्यानाभावे ऽपि तथैव दोषो यथा अविद्यायाम् /
4445 SK [१४२|०६-१४२|०७] अथ संप्रख्यानविपक्षभूतं धर्मान्तरम् /
4446 SK [१४२|०७] तदिदं तथैव न ज्ञायते किं तदिति /
4447 SK [१४२|०७-१४२|०८] एवञ्जातीयको ऽपि धर्माणां निर्देशो भवति /
4448 SK [१४२|०८] तद्यथा ᳚चक्षुः कतमत् / यो रूपप्रसादश्चक्षुर्विज्ञानस्याश्रय᳚ इति /
4449 SK [१४२|०९] अस्मीति सत्त्वमयता ऽविद्येते भदन्तधर्मत्रातः / का पुनरस्मिमानादन्या मयता /
4450 SK [१४२|१०-१४२|१२] या ऽसौ सूत्र उक्ता ᳚सो ऽहमेवं ज्ञात्वा एवं दृष्ट्वा सर्वासां तृष्णानां सर्वासां दृष्टीनां सर्वासां मयतानां सर्वेषामहङ्कारममकारास्मिमानाभिनिवेशानुशयानां प्रहाणात् परिज्ञानान्निश्छायो निवृत᳚ इति /
4451 SK [१४२|१२] अस्त्येषा मयता / सा त्वियमविद्येति कुत एतत् /
4452 SK [१४२|१३] यत एषा नान्यः क्लेशः शक्यते वक्तुम् / ननु चान्यो मान एव स्यात् /
4453 SK [१४२|१३-१४२|१४] अत्र पुनर्विचार्यमाणे बहु वक्तव्यं जायते /
4454 SK [१४२|१४] तस्मात्तिष्ठत्वेतत् /
4455 SK [१४२|१५] अथ नामरूपमिति को ऽर्थः / रूपं विस्तरेण यथोक्तम् /
4456 SK [१४२|१६] नाम त्वरूपिणः स्कन्धाः
4457 SK [१४२|१७] किं कारणम् / नामेन्द्रियार्थवशेनार्थेषु नमतीति नाम / कतमस्य नाम्नो वशेन /
4458 SK [१४२|१८] यदिदं लोके प्रतीतं तेषां तेषामर्थानां प्रत्यायकं गौरश्वो रूपं रस इत्येवमादि /
4459 SK [१४२|१९] एतस्य पुनः केन नामत्वम् / तेषु तेष्व् अर्थेषु तस्य नाम्नो नमनात् /
4460 SK [१४२|१९-१४२|२०] इह निक्षिप्ते काय उपपत्त्यन्तरे नमनान्नामरुपिणः स्कन्धा इत्यपरे //
4461 SK [१४२|२१] षडायतनमुक्तम् /
4462 SK [१४२|२२] स्पर्शो वक्तव्यः /
4463 SK [१४२|२३] ष्पर्शाः षट्
4464 SK [१४२|२४] चक्षुःसंस्पर्शो यावन्मनःसंस्पर्श इति / ते पुनः
4465 SK [१४३|०१] संनिपातजाः /
4466 SK [१४३|०२] त्रयाणां संनिपाताज्जाता इन्द्रियार्थविज्ञानानाम् /
4467 SK [१४३|०२-१४३|०३] युक्तं तावत् पञ्चानामिन्द्रियाणामर्थविज्ञानाभ्यां संनिपातः /
4468 SK [१४३|०३] सहजत्वात् /
4469 SK [१४३|०३-१४३|०४] मनैन्द्रियस्य पुनर्निरुद्धस्यानागतवर्त्तमानाभ्यां धर्ममनोविज्ञानाभ्यां कथं संनिपातः /
4470 SK [१४३|०४-१४३|०५] अयमेव तेषां संनिपातो यः कार्यकारणभावः /
4471 SK [१४३|०५] एककार्यार्थो वा संनिपातार्थः /
4472 SK [१४३|०५-१४३|०६] सर्वे च ते त्रयो ऽपि स्पर्शोत्पत्तौ प्रगुणा भवन्तीति /
4473 SK [१४३|०६] अत्र पुनराचार्याणां भेदं गता बुद्धयः /
4474 SK [१४३|०६-१४३|०८] केचिद्धि सकृन्निपातमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति ᳚इति य एषां त्रयाणां धर्माणां संगतिः संनिपातः समवायः स स्पर्शः᳚ इति /
4475 SK [१४३|०८-१४३|०९] केचित्पुनश्चित्तसंप्रयुक्तं धर्मान्तरमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति ᳚षट्षट्को धर्मपर्यायः कतमः /
4476 SK [१४३|१०] षडाध्यात्मिकान्यायतनानि / षट् बाह्यान्यायतनानि / षट् विज्ञानकायाः /
4477 SK [१४३|१०-१४३|११] षट् स्पर्शकायाः /
4478 SK [१४३|११] षट् वेदनाकायाः / षट् तृष्णाकाया᳚ इति /
4479 SK [१४३|११-१४३|१२] अत्र हीन्द्रियार्थविज्ञानेभ्यः स्पर्शकायाः पृथग् देशिताः /
4480 SK [१४३|१२-१४३|१३] तत्र ये संनिपातमेव स्पर्शमाहुस्त एवं क्परिहारमाहुः /
4481 SK [१४३|१३] न वै पृथिग्निर्देशात् पृथग्भावो भवति /
4482 SK [१४३|१३-१४३|१४] मा भूद्धर्मायतनाद्वेदनातृष्णयोः पृथग्भाव इति /
4483 SK [१४३|१४-१४३|१५] नैष दोषस्तद्व्यतिरिक्तस्यापि धर्मायतनस्य भावात् //
4484 SK [१४३|१५-१४३|१६] न चैवं स्पर्शभूतात्त्रयादन्यत्त्रयमस्ति यस्य शेषस्यात्र ग्रहणं स्यात् /
4485 SK [१४३|१६-१४३|१७] यद्यपि हीन्द्रियार्थौ स्यातामविज्ञानकौ न तु पुन्र्विज्ञानमनिन्द्रियार्थकम् /
4486 SK [१४३|१७] तस्मात्त्रिषु निर्दिष्टेषु पुनः स्पर्शस्य ग्रहणमनर्थकं प्राप्नोति /
4487 SK [१४३|१८-१४३|१९] न खलु सर्वे चक्षुरूपे सर्वस्य चक्षुर्विज्ञानस्य कारणं नापि सर्वं चक्षुर्विज्ञानं सर्वयोश्चक्षुरूपयोः कार्यम् /
4488 SK [१४३|१९-१४३|२०] अतो येषां कार्यकारणाभावस्ते स्पर्शभावे व्यवस्थापिता इत्येके /
4489 SK [१४३|२०-१४३|२१] ये पुनः संनिपातादन्यं स्पर्शमाहुस्त एतत्सूत्र कथं परिहरन्ति ᳚इति य एषां त्रयाणां संगतिः संनिपातः समवायः स स्पर्श᳚ इति /
4490 SK [१४३|२१] न वा एवं पठन्ति /
4491 SK [१४३|२१-१४३|२२] किं तर्हि /
4492 SK [१४३|२२-१४३|२३] संगतेः संनिपातात् समवायादिति पठन्ति कारणे व कार्योपचारो ऽयमिति ब्रुवन्ति /
4493 SK [१४३|२३] अतिवहुविस्तरप्रसारिणी त्वेषा कथेत्यलं प्रसङ्गेन /
4494 SK [१४३|२३-१४३|२४] अन्यमेव स्पर्शं वर्णयन्त्याभिधार्मिकाः /
4495 SK [१४३|२४] तेषां प्न्नां षण्णां स्पर्शानां
4496 SK [१४३|२५] पञ्चप्रतिघसंस्पर्शः षष्ठो ऽधिवचनाह्वय // VAक्K_३.३० //
4497 SK [१४३|२६] चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शाः पञ्च प्रतिघ संस्पर्श इत्युच्यते /
4498 SK [१४३|२६-१४४|०१] सप्रतिघेन्द्रियाश्रयत्वात् /
4499 SK [१४४|०१] मनः संस्पर्शः षष्ठः सो ऽधिवचनस्पर्श इत्युच्यते /
4500 SK [१४४|०१-१४४|०२] किं कारणं अधिवचनमुच्यते नाम /
4501 SK [१४४|०२] तत्किलास्याधिकमालम्बनमतो ऽधिवचनसंस्पर्श इति /
4502 SK [१४४|०२-१४४|०४] यथोक्तं ᳚चक्षुर्विज्ञानेन नीलं विजानाति नो तु नीलं मनोविज्ञानेन नीलं विजानाति नीलमिति च विजानाती᳚ति /
4503 SK [१४४|०४] एक आश्रयिअप्रभाइतो द्वितीय आलम्बनप्रभावितः /
4504 SK [१४४|०५] अपरे पुनराहुः / वचनमधिकृत्यार्थेषु मनोविज्ञानस्य प्रवृत्ति र्न पञ्चानाम् /
4505 SK [१४४|०६] अतस्तदेवाधिवचनम् /
4506 SK [१४४|०६-१४४|०७] तेन संप्रयुक्तः स्पर्शो ऽधिवचनसंस्पर्श इत्येक आश्रयप्रभावितो द्वितीयः संप्रयोगप्रभावितः /
4507 SK [१४४|०७] पुनस्त एव षट् स्पर्शास्त्रयो भवन्ति /
4508 SK [१४४|०८] विद्याविद्येतरस्पर्शाः
4509 SK [१४४|०९] विद्यासंस्पर्शो ऽविद्यासंस्पर्शः / ताभ्यां चान्यो नैवविद्यानाविद्यासंस्पर्श इति /
4510 SK [१४४|०९-१४४|१०] एते पुनर्यथाक्रमं वेदितव्याः /
4511 SK [१४४|११] अमलक्लिष्टशेषिताः /
4512 SK [१४४|१२-१४४|१३] अनास्रवः स्पर्शो विद्यासंस्पर्शः क्लिष्टो ऽविद्यासंस्पर्शो विद्या ऽविद्याभ्यां संप्रयुक्तत्वात् /
4513 SK [१४४|१३] शेषो नैवविद्यानाविद्यासंस्पर्श उभाभ्यामसंप्रयोगात् / कः पुन शेषः /
4514 SK [१४४|१४] कुशलसास्रवो ऽनिवृताव्याकृतश्च /
4515 SK [१४४|१४-१४४|१५] पुनरविद्यासंस्पर्शस्याभीक्ष्णसमुदाचारिण एकदेशस्य ग्रहणात् द्वौ सोपर्शौ भवतः /
4516 SK [१४४|१६] व्यापादानुनयस्पर्शौ
4517 SK [१४४|१७] व्यापादानुनयाभ्यां संप्रयोगात् / पुनः सर्वसंग्रहेण
4518 SK [१४४|१८] सुखवेद्यादयस्त्रयः // VAक्K_३.३१ //
4519 SK [१४४|१९] सुखवेदनीयः स्पर्शो दुःखवेदनीयो ऽदुःखासुखवेदनीयश्च / सुखवेदनादिहितत्वात् /
4520 SK [१४४|२०] अथवा वेद्यते तद्वेदयितुं वा शक्यमिति वेदनीयम् / किं तत् / वेदितम् /
4521 SK [१४४|२०-१४४|२१] सुखं वेदनीयमस्मिन्निति सुखवेदनीयः स्पर्शो यत्र सुखं वेदितमस्ति
4522 SK [१४४|२१-१४४|२२] एवं दुःखादुःखासुखवेदनीयावपि योज्यौ /
4523 SK [१४४|२२] त एते षोडश स्पर्शा भवन्ति / उक्तः स्पर्शः //
4524 SK [१४४|२३] वेदना वक्तव्या / तत्र यः पूर्वं षड्विधः स्पर्श उक्तः
4525 SK [१४४|२४] तज्जाः षड्वेदनाः
4526 SK [१४४|२५] चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदनाः / तासां पुनः
4527 SK [१४५|०१] पञ्च कायिकी चैतसी परा /
4528 SK [१४५|०२] चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शजाः पञ्च्चवेदनाः कायिकी वेदनेत्युच्यते /
4529 SK [१४५|०२-१४५|०३] रूपीन्द्रियाश्रितत्वात् /
4530 SK [१४५|०३] मनःसंस्पर्शजा पुनर्वेदना चैतसिकीत्युच्यते / चित्तमात्राश्रितत्वात् /
4531 SK [१४५|०३-१४५|०४] अथ किं स्पर्शादुत्तरकालं वेदना भवत्याहोस्वित् समानकालम् /
4532 SK [१४५|०४-१४५|०५] समानकालमिति वैभाषिकाः /
4533 SK [१४५|०५] अन्योन्यं सहभूहेतुत्वात् /
4534 SK [१४५|०५-१४५|०६] कथं सहोत्पन्नयोर्जन्यजनकभावः सिध्यति /
4535 SK [१४५|०६] कथं च न सिध्यति / असामर्थ्यात् /
4536 SK [१४५|०६-१४५|०७] जाते धर्मे धर्मस्यनास्ति सामर्थयं प्रतिज्ञा ऽविशिष्टम् /
4537 SK [१४५|०७-१४५|०८] यदेव हीदं सहोत्पन्नयोर्जन्यजनकभावो नास्तीति तदेवेदं जाते धर्मे धर्मस्य नास्तीति /
4538 SK [१४५|०८] अन्योन्यजनकप्रसङ्गत्तर्हि / इष्टत्वाददोषः /
4539 SK [१४५|०९] इष्टमेव हि सहभूहेतोरन्योन्यफलत्वम् /
4540 SK [१४५|०९-१४५|१०] इष्टमिदं सूत्रे त्वनिष्टं स्पर्शवेदनयोरन्योन्यफलत्वम् /
4541 SK [१४५|१०-१४५|११] ᳚चक्षुःसंस्पर्श प्रतीत्य उत्पद्यते चक्षुःसंस्पर्शजा वेदना न तु चक्षुःपंस्पर्शजां वेदनां प्रतीत्योत्पद्यते चक्षुःसंस्पर्श᳚ इति वचनात् /
4542 SK [१४५|११-१४५|१२] जनकधर्मातिक्रमाव्चायुक्तम् /
4543 SK [१४५|१२-१४५|१३] यो हि धर्मो यस्य धर्मस्य जनकः प्रसिद्धः स तस्मात् भिन्नकालः प्रसिद्धः /
4544 SK [१४५|१३-१५३|१४] तद्यथा पूर्वं वीजं पश्चादङ्कुरः पूर्वं क्षीरं पश्चाद्दधि पूर्वमभिघातः पश्चाच्छन्दः पूर्वं मनः पश्चात् मनोविज्ञानमित्येवमादि /
4545 SK [१४५|१४-१४५|१५] अन्यथा परंपरापेक्षत्वात् कार्यकारणयोः सर्वं वा युगपदुत्पद्यते न वा कदाचित् पश्चाद्विशेषाभावात् /
4546 SK [१४५|१५-१४५|१६] नहि न सिद्धः कार्यकारणयोः पूर्वापराभावः /
4547 SK [१४५|१६] सहभावो ऽपि तु सिद्धः /
4548 SK [१४५|१६-१४५|१८] तद्यथा चक्षुर्वज्ञानादीनां चक्षुरूपादिभिर्भूतभौतिकानां च तत्रापि पूर्वमिन्द्रियार्थौ पश्चाद्विज्ञानम् /
4549 SK [१४५|१८-१४५|१९] पूर्वकाच्च भूतभौतिकसमुदायादुत्तर उत्पद्यत इतीष्यमाणे कः प्रतिषेधः //
4550 SK [१४५|१९] यथा तर्हि च्छायाङ्कुरयोरेवं स्पर्शवेदनयो रिति वैभाषिकाः /
4551 SK [१४५|२०] स्पर्शादुत्तरकालं वेदनेत्यपरे / इन्द्रियार्थौ हि पूर्वान्तो विज्ञानम् /
4552 SK [१४५|२०-१४५|२१] सो ऽसौ त्रयाणां संनिपातः स्पर्शः स्पर्शप्रत्ययात्पश्चाद्वेदना तृतीयक्षण इति /
4553 SK [१४५|२१-१४५|२२] एवं तर्हि न सर्वन्त्रवज्ञाने वेदना प्राप्नोति न च सर्वं विज्ञानं स्पर्शः /
4554 SK [१४५|२२] नैष दोषः /
4555 SK [१४५|२२-१४५|२३] पूर्वस्पर्शहेतुका ह्युत्तरत्र स्पर्शे वेदना सर्वे च स्पर्शाः सर्ववेदनकाः सर्वं च विज्ञानं स्पर्श इति /
4556 SK [१४५|२४] इदमयुक्तं वर्त्तते / किमत्रायुक्तम् /
4557 SK [१४५|२४-१४५|२५] यदुत भिन्नालम्बनयोरपि स्पर्शयोः पूर्वस्पर्शैतुकोत्तरस्य वेदनेति /
4558 SK [१४५|२५-१४५|२६] कथं नामान्यजातीयालम्बनस्पर्शसंभूता वेदना ऽन्यालम्बना भविष्यति येन वा चित्तेन संप्रयुक्ता ततो भिन्नालम्बनेति /
4559 SK [१४५|२६-१४६|०१] अस्तु तर्हि तस्मिन्काले स्पर्शभूतं विज्ञानमवेदनकम् /
4560 SK [१४६|०१-१४६|०२] तस्माच्च यत् पूर्वं विज्ञानं सवेदनकं तन्न स्पर्शः /
4561 SK [१४६|०२] प्रत्ययवैधुर्यादित्येवं सति को दोषः / महाभूमिकनियमो भिद्यते /
4562 SK [१४६|०३] ᳚सर्वत्र चित्ते दशमहाभूमिका᳚ इति / क्व चैष नियमः सिद्धः / शास्त्रे /
4563 SK [१४६|०३-१४६|०४] सूत्रप्रमाणका वयं न शास्त्रप्रमाणकाः /
4564 SK [१४६|०४-१४६|०५] उक्तं हि भगवता ᳚सूत्रान्तप्रतिशरणैर्भवितव्यमि᳚ ति /
4565 SK [१४६|०५-१४६|०६] न वा एष महाभूमिकार्थः सर्वत्र चित्ते दश महाभूमिकाः संभवन्तीति /
4566 SK [१४६|०६] कस्तर्हि महाभूमिकार्थः / तिस्रो भूमयः /
4567 SK [१४६|०६-१४६|०७] सवितर्का सविचारा भुमिः अवितर्का विचारमात्रा अवितर्का विचारा भूमिः पुनश्तिस्र कुसला भूमिः अकुशला ऽव्याकृता भुमिः /
4568 SK [१४६|०७-१४६|०८] पुनस्तिस्रः /
4569 SK [१४६|०८] शैक्षी भूमिरशैक्षी नैवशैक्षी भुमिः /
4570 SK [१४६|०८-१४६|०९] तद्य एतस्यां सर्वस्यां भूमौ भवन्ति ते महाभूमिकाः /
4571 SK [१४६|०९-१४६|१०] ये कुक्शलायामेव ते कुक्शलमहाभूमिकाः /
4572 SK [१४६|१०] ये क्लिष्टायामेव ते क्लेशमहाभूमिकाः /
4573 SK [१४६|१०-१४६|११] ते पुनर्यथासंभवं पर्यायेणनतु सर्वे युगपदित्यपरे /
4574 SK [१४६|११] अकुशलमहाभूमिकास्तु पाठप्रसङ्गे नासञ्जिताः /
4575 SK [१४६|११-१४६|१२] इदानीं पूर्वं न पठ्यन्ते स्म /
4576 SK [१४६|१२-१४६|१४] यदि तर्हि स्पर्शादुत्तरकालल्ं वेदना सूत्रं परिहार्यं ᳚चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः सहजाता वेदना संज्ञा चेतने᳚ति /
4577 SK [१४६|१४-१४६|१५] सहजाता इत्युच्यते न स्पर्शसहजाता इति किमत्र परिहार्यम् /
4578 SK [१४६|१५-१४६|१६] समनन्तरे ऽपि चायं सहशब्दो दृष्टस्तद्यथा ᳚मैत्रीसहगतं स्मृतिसंवोध्यङ्गं भावयती᳚ त्यज्ञापकमेतत् /
4579 SK [१४६|१६-१४६|१८] यत्तर्हि सूत्र उक्तं ᳚या च वेदना या च संज्ञा या च चेतना यच्च विज्ञानं संसृष्टा इमे धर्मा नासंसृष्टा᳚ इत्यतो नास्ति वेदनाभिरसंसृष्टं विज्ञानम् /
4580 SK [१४६|१८] संप्रधार्यं तावदेतत् क एष सम्सृष्टार्थः /
4581 SK [१४६|१८-१४६|२०] तत्र हि सूत्र एवमुक्तं ᳚यद्वेदयते तच्चेतयते यच्चेतयते तस्त्संप्रजानीते यत्संप्रजानीते तद्विजानाती᳚ति /
4582 SK [१४६|२०-१४६|२१] तन्न विज्ञायते किम् तावदयमेषामालम्बननियम उक्त उताहो क्षणनियम इति /
4583 SK [१४६|२१] आयुरुष्मणोः साहभाव्ये संसृष्टवचनात् सिद्धः क्षणनियमः /
4584 SK [१४६|२२] यच्चापि सूत्र उक्तं ᳚त्रयाणां संनिपातः स्पर्शः᳚ इति /
4585 SK [१४६|२२-१४६|२३] तत् कथं विज्ञानं चास्ति न च त्रयाणां संनिपातो न च स्पर्श इति /
4586 SK [१४६|२३-१४६|२४] तस्मादवश्यं सर्वत्र विज्ञाने स्पर्शः स्पर्शसहजा च वेदनैष्टव्या /
4587 SK [१४६|२४] अलमतिप्रसङ्गिया कथया / प्रकृतमेवानुक्रम्यताम् //
4588 SK [१४६|२५] उक्ता समासेन चैतसिकी वेदना //
4589 SK [१४६|२६] पुनश्चाष्टादशविधा सा मनोपविचारतः // VAक्K_३.३२ //
4590 SK [१४६|२७] सैव चैतसिकी वेदना पुनराष्टदश मनोपविचारव्यवस्थानादष्टादधा भिद्यते /
4591 SK [१४६|२७-१४६|२८] पुनः संधिकरणं चात्र द्रष्टव्यम् /
4592 SK [१४६|२८] अष्टादशमनो पविचाराः कतमे /
4593 SK [१४६|२८-१४७|०१] षट् सौमनस्योपचिराः षट् दौर्मनस्योपविचाराः षडुपेक्षोपविचाराः /
4594 SK [१४७|०१] कथमेषां व्यवस्थानम् / यदि स्वभावतः /
4595 SK [१४७|०२] त्रयो भविष्यन्ति / सौमनस्यदौर्मनस्योपेक्षाविचाराः /
4596 SK [१४७|०२-१४७|०३] अथ संप्रयोगतः /
4597 SK [१४७|०३] एको भविष्यति / सर्वेषां मनः संप्रयुक्तत्वात् / अथालम्बनतः / [१४७|०३-१४७|०४] षट् भविष्यन्ति /
4598 SK [१४७|०४] रूपादिषड्विषयालम्बनत्वत् / त्रिभिरपि स्थापना /
4599 SK [१४७|०४-१४७|०५] तेषां पञ्चदश रूपाद्युपविचारा असंभिन्नालम्बनाः प्रतिनियतरूपाद्यालम्बनत्वात् /
4600 SK [१४७|०५-१४७|०६] त्रयो धर्मोपविचारा उभयथा /
4601 SK [१४७|०६] मनोपविचारा इति को ऽर्थः /
4602 SK [१४७|०६-१४७|०७] मनः किल प्रतीत्यैते सौमनस्यदयो विषयानुपविचरन्तीति /
4603 SK [१४७|०७] विषयेषु वा मन उपविचारयन्तीत्यपरे /
4604 SK [१४७|०८] वेदनावशेन मनसो विषयेषु पुनः पुनर्विचरणात् /
4605 SK [१४७|०८-१४७|०९] कस्मात् कायिकी वेदना न मनोपविचारः /
4606 SK [१४७|०९-१४७|१०] नैव ह्यसौ मन एवाश्रिता नाप्युपविचारिका ऽविकल्पकत्वादित्ययोगः /
4607 SK [१४७|१०] तृतीयध्यानसुखस्य कस्मान्मनोपविचारेष्वग्रहणम् /
4608 SK [१४७|१०-१४७|११] आदितः किल कामधातौ मनोभूमिकसुखेन्द्रियाभावात्तत्प्रतिद्वन्द्वेन कुःखोपविचाराभावाच्चेति /
4609 SK [१४७|१२] यदि मनोभूमिका एवैते /
4610 SK [१४७|१२-१४७|१३] यत्तर्हि सूत्र उक्तं ᳚चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयानि रूपाण्युपविचरन्तीत्येवमादिः /
4612 SK [१४७|१३-१४७|१४] पञ्चविज्ञानकायाभिनिर्हृतत्वमभिसंधायैतदुक्तं ᳚मनोभूमिका ह्येते /
4613 SK [१४७|१४-१४७|१५] तद्यथा ऽशुभा चक्षुर्विज्ञानाभिनिर्हृता च मनोभूमिका चे᳚ति /
4614 SK [१४७|१५-१४७|१६] अपि तु ᳚दृष्ट्वा यावत् स्पृष्ट्वे᳚ति वचनात् /
4615 SK [१४७|१६-१४७|१७] अचोद्यमेवैतत् / ये ऽप्य दृष्ट्वा यावदस्पृष्ट्वोपविचर्न्ति ते ऽपि मनोपविचाराः /
4616 SK [१४७|१७-१४७|१८] इत्रथा हि कामधातौ रूपधात्वालम्बना रूपाद्युपविचारा न स्युः कामधात्बलम्वनाश्च रूपधातौ गन्धरसस्प्रष्टव्योपविचाराः /
4617 SK [१४७|१८-१४७|१९] यथा तु यक्ततरं तथोक्तं यो ऽपि रूपाणि दृष्ट्वा शब्दानुपविचरति सो ऽपि मनोपविचारः /
4618 SK [१४७|२०] यथा त्वनाकुलं तथोक्तमिन्द्रियार्थस्य व्यवच्छेदतः /
4619 SK [१४७|२०-१४७|२१] किमस्ति रूपं यत्सौमनस्यस्थानीयमेव स्यात् यावदुपेक्षास्थानीयमेव /
4620 SK [१४७|२१-१४७|२२] अस्ति संतानं नियमय्य न त्व्बालम्बनम् //
4621 SK [१४७|२३-१४७|२४] अथैषां मनोपविचाराणां कति कामप्रतिसंयुक्तास्तेषां च कति किमालम्बना एवं यावदारूप्यप्रतिसंयुक्ता वक्तव्याः /
4623 SK [१४७|२५] कामे स्वालम्बनाः सर्वे
4624 SK [१४७|२६] आमधातौ सर्वे ऽष्टादश सन्ति स च तेषां सर्वेषामालम्बनम् / तेषामेव
4625 SK [१४८|०१] रूपी द्वादशगोचरः /
4626 SK [१४८|०२] रूपधातुर्द्वादशानामालम्बनं षट् गन्धरसोपविचारानपास्य / तत्र तयोरभावात् /
4627 SK [१४८|०३] त्रयाणामुत्तरः
4628 SK [१४८|०४] गोचर इति वर्तते / आरुप्यधातुस्त्रयाणां धर्मोपविचाराणामालम्बनम् /
4629 SK [१४८|०४-१४८|०५] तत्र रूपाद्यभावात् //
4630 SK [१४८|०५] उक्ताः कामप्रतिसंयुकताः /
4631 SK [१४८|०६] रूपप्रतिसंयुक्ता वक्तव्याः / तत्र तावत्
4632 SK [१४८|०७] ध्यानद्वये द्वादश
4633 SK [१४८|०८] दौर्मनस्योपविचारानपास्य / ते च द्वादश
4634 SK [१४८|०९] कामगाः // VAक्K_३.३३ //
4635 SK [१४८|१०] कामान् गच्छन्तीति कामगाः / कामधातुमालबन्त इत्यर्थः /
4636 SK [१४८|१०-१४८|११] दृष्टो हि विषयाणां ग्रहणार्थे गमिप्रयोगः /
4637 SK [१४८|११] कथमेतत् गम्यते / एवमेतत् गम्यत इति /
4638 SK [१४८|१२] स्वो ऽष्टालम्बनम्
4639 SK [१४८|१३] स एव रूपधातुस्तेषं स्वः / स एव रूपधातुस्तेषां स्वः /
4640 SK [१४८|१३-१४८|१४] स्वो ऽष्टानां मनोपविचाराणामालम्बनं गन्धरसोपविचारांश्चतुरो हित्वा /
4641 SK [१४८|१५] आरूप्यो द्वयोः
4642 SK [१४८|१६] धर्मोपविचारयोरालम्बनम् /
4643 SK [१४८|१७] ध्यानद्वये तु षट् /
4644 SK [१४८|१८] तृतीयचतुर्थयोर्ध्यान्योः षडुपेक्षोपविचारा एव सन्ति नान्ये / तेषां पुनरालम्बनं
4645 SK [१४८|१९] कामाः षण्णां
4646 SK [१४८|२०] कामधातुः षण्णामप्यालम्बनम् /
4647 SK [१४८|२१] चतुर्णां स्वः
4648 SK [१४८|२२] रूपधातुश्चतुर्णां तत्र गन्धरसाभावात् /
4649 SK [१४८|२३] एकस्यालम्बनं परः // VAक्K_३.३४ //
4650 SK [१४८|२४] आरुप्यधातुरेकस्यैव धर्मोपविचारस्यालम्बनम् / उक्ता रूपप्रतिसंयुक्ताः /
4651 SK [१४९|०१] आरूप्यप्रतिसंयुक्ता इदानीमुच्यन्ते /
4652 SK [१४९|०२] चत्वारो ऽरूपिसामन्ते
4653 SK [१४९|०३] आकाशानन्त्यायतनसामन्तकमत्रारूपिसामन्तकम् /
4654 SK [१४९|०३-१४९|०४] तत्र चत्वारो रूपशब्दस्प्रष्टव्यधर्मोपविचाराः /
4657 SK [१४९|०६] चतुर्थं हि ध्यानमेषामालम्बनम् /
4658 SK [१४९|०६-१४९|०८] येषां तत् व्यवच्छिन्नालम्बनमस्ति येषां पुनः परिपिण्डितालम्बनं तेषां तत्रैक एव संभिन्नालम्बनो धर्मोपविचारः /
4659 SK [१४९|०९] एक ऊर्ध्वगः /
4660 SK [१४९|१०] एक एव धर्मोपविचारस्तत्रारूप्यधात्वालम्बनः /
4662 SK [१४९|१२] मौले पुनरारूप्ये धर्मोपविचार एवैको ऽस्ति नान्यः / स चापि
4664 SK [१४९|१४] आरुप्यधात्वालम्बन एव /
4665 SK [१४९|१४-१४९|१५] नहि मौलानामारुप्याणामधरो धातुरालम्बनमिति पश्चात् प्रतिवेदविष्यामः /
4666 SK [१४९|१५] एते च मनोपविचाराः
4667 SK [१४९|१६] सर्वे ऽष्टादश सास्रवाः // VAक्K_३.३५ //
4668 SK [१४९|१७] नास्ति कश्चिदनास्रवः / कः कतिभिः समन्वागतः /
4669 SK [१४९|१७-१४९|२१] कामधातूपपन्नो रूपावचरस्य कुशलस्य चित्तस्यालाभी कामावचरैः सर्वैः प्रथमद्वितीयध्यानभूमिकैरष्टाभिः तृतीयचतुर्थध्यानभूमिकैश्चतुर्भिः क्लिष्टैर्गन्धरसालम्बनान् पर्युदस्य आरूप्यावचरेणैकेन क्लिष्टेनैवालाभी रूपावचरस्य कुशलस्य चित्तस्या वितरागः सर्वैः कामावचरैः प्रथमध्यानभुमिकैर्दशभिः /
4670 SK [१४९|२१-१४९|२२] चतुर्भिः सौमनस्योपविचारैः क्लिष्टैर्गन्धरसालम्बनौ व्युदस्य षड्भिरूपेक्षोपविचारैरनागम्यभूमिकैः /
4671 SK [१४९|२२] द्वितीयध्यानभूमिकैरष्टाभिः /
4672 SK [१४९|२३] तृतीयचतुर्थध्यानारूप्यभूमिकैः पूर्ववत् / अनया वर्त्तन्या शेषमनुगन्तव्यम् /
4673 SK [१४९|२४-१४९|२५] ध्यानोपपन्नस्तु कामावचरेणैकेनोपेक्षाधर्मोपविचारेण निर्माणचित्तसंप्रयुक्तेन समन्वागतो वेदितव्यः /
4675 SK [१४९|२५-१५०|०१] अस्त्येवं मनोपविचाराणां वैभाषिकीयो ऽर्थः /
4676 SK [१५०|०१] सूत्रार्थस्त्वन्यथा दृश्यते /
4677 SK [१५०|०१-१५०|०२] नहि यो यस्माद्वीतरागः स तदालम्बनमुपविचरतीति युक्तम् /
4678 SK [१५०|०२-१५०|०३] अतः सास्रवा अपि न सर्वे सौमनस्यादयो मनोपविचाराः /
4679 SK [१५०|०३] किं तर्हि / सांक्लेशिका यैर्मनो विषयानुपविचरतीति /
4680 SK [१५०|०३-१५०|०४] कथं चोपविचरति /
4681 SK [१५०|०४-१५०|०५] अनुनीयते च प्रतिहन्यते चाप्रतिस्ङ्ख्याय चोपेक्षते येषां प्रतिपक्षेण षट् सातता विहारा भवन्ति /
4682 SK [१५०|०५-१५०|०७] चक्षुषा रूपाणि दृष्ट्वा नैव सुमना भवति न दुर्मना उपेक्षको विहरति स्मृतिमान् संप्रजानन् एवं यावन्मनसा धर्मान् विज्ञायेति /
4683 SK [१५०|०७-१५०|०८] नह्यर्हतो लौकिकं नास्ति कुशलं धर्मालम्बनं सौमनस्यं यत्तु तत्सांक्लेशिकं मनस उपविचारभुतं तस्यैव प्रतिषेधो लक्ष्यत इति /
4684 SK [१५०|०८-१५०|०९] पुनस्त एव सौमनस्यादयः षट्त्रिंशच्छास्तृपदानि भवन्ति /
4685 SK [१५०|०९] गर्धनैष्क्रम्याश्रितभेदेन /
4686 SK [१५०|१०] तद्भेदस्य शास्त्रा गमितत्वात् /
4687 SK [१५०|१०-१५०|११] तत्र गर्धाश्रिताः क्लिष्टा नैष्क्रम्याश्रिताः कुशलाः /
4688 SK [१५०|११] एवमेतद्वेदनाख्यं भवाङ्गमनेकप्रकारभेदं वेदितव्यम् /
4689 SK [१५०|११-१५०|१२] शेषाण्यङ्गानि पुनर्नोच्यन्ते /
4690 SK [१५०|१२] किं कारणम् / यस्मात्
4691 SK [१५०|१३] उक्तं च वक्ष्यते चान्यत्
4692 SK [१५०|१४] किञ्चिदत्राङ्गमुक्तं किञ्चित् पश्चद्वक्ष्यते / तत्र विज्ञानं तावदुक्तं
4693 SK [१५०|१५] ᳚विज्ञानं प्रतिविज्ञप्तिर्मन आयतनं च तदि᳚ति /
4694 SK [१५०|१६] षडायतनमप्युक्तं
4695 SK [१५०|१७] ᳚तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादय᳚ इति /
4696 SK [१५०|१८] संस्कारा भवश्च कर्मकोशस्थाने व्याख्यास्यन्ते / तृष्णोपादानानि क्लेशकोशस्थाने /
4697 SK [१५०|१९] स चैष प्रतीत्यसमुत्पादः समासतः क्लेशकर्मवस्तूनीति प्राक् ज्ञापितम् /
4698 SK [१५०|२०] अत्र तु क्लेश इष्यते /
4699 SK [१५०|२१] बीजवन्नागवन्मूलवृक्षवत्तुषवत्तथा // VAक्K_३.३६ //
4700 SK [१५०|२२] किमस्य वीजादिभिः साधर्म्यम् /
4701 SK [१५०|२२-१५०|२३] तद्यथा वीजादङ्कुरकाण्डपत्रादीनां प्रभवो भवत्येवं क्लेशात् क्लेशकर्मवस्तूनाम् /
4702 SK [१५०|२३-१५१|०१] यथा नागाधिष्टितं सरो न शुष्यत्येवं क्लेशनागाधिष्ठितं जन्मसरः /
4703 SK [१५१|०१-१५१|०२] यथा चानपोद्धृतमूला वनस्पतयश्छिन्नाश्छिन्नाः पुनरपि प्ररोहन्त्येवमनपोद्धृतक्लेशमूला गतयः /
4704 SK [१५१|०२-१५१|०३] यथा च वृक्षाः कालेन कालल्ं पुष्पफलानां प्रसोतारो भवन्त्येवं क्लेशा अप्यसकृत् क्लेशकर्मवस्तूनां हेतुर्भवन्ति /
4705 SK [१५१|०३-१५१|०६] यथा च तुषावनद्धास्तण्डुलाः प्ररोहणसमर्था भवन्ति न केवला एवं क्लेशप्राप्ततुषावनद्धं कर्म जन्मान्तरविरोहणे समर्थं भवति न केवलमित्येवं तावत् क्लेशो बीजादिवद्वेदितव्यः /
4706 SK [१५१|०७] तुषितण्डुलवत् कर्म तथैवौषधिपुष्पवत् /
4707 SK [१५१|०८] तुषौ ऽस्यास्तीति तुषी / तुषस्थानीयः क्लेश उक्तः /
4708 SK [१५१|०८-१५१|०९] इदानीं तुषितण्डुलस्थानीयं कर्म्मोच्यते /
4709 SK [१५१|०९-१५१|१०] सन्त्योषधयः फलपाकान्ता एवं कर्माणि विपच्य पुनर्विपाकानभिनिर्वर्त्तयन्ते /
4710 SK [१५१|१०-१५१|११] यथा च पुष्पं फलोत्पत्तवासन्नं कारणमेवं कर्माणि विपाकोत्पत्तो वेदितव्यानि /
4711 SK [१५१|१२] सिद्धान्नपानवद्वस्तु
4712 SK [१५१|१३-१५१|१४] पथा सिद्धमन्नं पानं च केवलं परिभोगाय कल्प्यते न पुनर्विरोहाय एवं विपाकाख्यं वस्तु /
4713 SK [१५१|१४] नहि पुनर्विपाकाद्विपाकान्तरं जन्मान्तरेषु प्रवर्हते /
4714 SK [१५१|१४-१५१|१५] यदि हि प्रवर्धेत मोक्षो न स्यात् /
4715 SK [१५१|१५-१५१|१६] न खल्वेष जन्मसंतान एवं प्रतीत्यसमुत्पद्यमानो भवचतुष्टयं नातिक्रामति /
4716 SK [१५१|१६] यदुतान्तराभवमुपपत्तिभवं पूर्वकालभवं मरणभवं च /
4717 SK [१५१|१६-१५१|१७] ते च व्याख्याताः /
4718 SK [१५१|१८] तस्मिन् भवचतुष्टये // VAक्K_३.३७ //
4719 SK [१५१|१९] उपपत्तिभवः क्लिष्टः
4720 SK [१५१|२०] एकान्तेन / कतमेन क्लेशेन /
4721 SK [१५१|२१] सर्वक्लेशै स्वभूमिकैः /
4722 SK [१५१|२२] यद्भमिक उपपत्तिभवस्तद्भूमिकईरेव सर्वक्लेशैः /
4723 SK [१५१|२२-१५१|२३] नहि स क्लेशो ऽस्ति येन प्रतिसम्धिबन्धः प्रतिविद्यते इत्याभिधर्मिकाः /
4724 SK [१५१|२३-१५१|२४] क्लेशैरेव तु न पर्यवस्थानैः स्वतन्त्रईः /
4725 SK [१५१|२४-१५१|२५] यद्यपि सा ऽवस्था मन्दिका यस्तु यत्राभीक्ष्णं चरित आसन्नश्च तस्य तदानीं स एव क्लेश उपतिष्ठते /
4726 SK [१५१|२५] पूर्वावेधात् /
4727 SK [१५१|२५-१५१|२६] अन्तरभवप्रतिसंधिरप्येवमवश्यं क्लिष्टो वेदितव्यः /
4728 SK [१५१|२७] त्रिधा ऽन्ये
4729 SK [१५१|२८] अन्ये त्रयो भवास्त्रिप्रकाराः अन्तरभवादयः कुशलक्लिष्टाव्याकृताः /
4730 SK [१५२|०१] अथैषां भवानां कतमः किंप्रतिसंयुक्तः /
4731 SK [१५२|०२] त्रय आरूप्ये
4732 SK [१५२|०३] अन्तराभवं वर्जयित्वा /
4733 SK [१५२|०३-१५२|०४] नह्यारूप्यधातुः स्थानान्तरपरिच्छिन्नो यस्य प्राप्त्यर्थमन्तराभवो ऽभिनिर्वर्तेत /
4734 SK [१५२|०४-१५२|०५] कामरूपधात्वोरपरिसंख्यानात् सर्व एव चत्वारो भवाः सन्तीत्यनुज्ञापितं भवति /
4735 SK [१५२|०५-१५२|०६] उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो विस्तरेण /
4736 SK [१५२|०७] अथ कथं सत्त्वानां स्थितिभवतीत्याह
4737 SK [१५२|०८] आहारस्थितिकं जगत् // VAक्K_३.३८ //
4738 SK [१५२|०९-१५२|१०] एको धर्मो भगवता स्वयमभिज्ञायाभिसंबध्याख्यातो ᳚यदुत सर्वस्त्त्वा आहारस्थितिका᳚ इति सूत्रपदम् /
4739 SK [१५२|१०] के पुनराहाराः / चत्वार आहाराः /
4740 SK [१५२|१०-१५२|११] कवडीकाराहारः प्रथमः /
4741 SK [१५२|११] औदारिकः सूक्ष्मश्च /
4742 SK [१५२|११-१५२|१२] सूक्ष्मो ऽन्तराभविकानां गन्धाहारत्वात् /
4744 SK देवानां प्राथमकल्पिकानां च निःष्यन्दाभावात् /
4745 SK [१५२|१२-१५२|१३] तैलस्येव सिकतास्वङ्गेष्वनुप्रवेशात् /
4746 SK [१५२|१३] सूक्ष्माणां वा सूक्ष्मो बालकसंस्वेदजन्तुकादीनाम् /
4747 SK [१५२|१३-१५२|१४] स्पर्शो द्वितीयः /
4748 SK [१५२|१४] मनःसंचेतना तृतीयः / विज्ञानमाहारश्चतुर्थः /
4750 SK [१५२|१६] कवडीकार आहारः कामे
4751 SK [१५२|१७] न रूपारूप्यधात्वोस्तद्वीतरागस्य तत्रोपपत्तेः / स च
4752 SK [१५२|१८] त्र्यायतनात्मकः /
4753 SK [१५२|१९] कामावचराणि गन्धरसस्प्रष्टव्यायतनानि सर्वाण्येव कवडीकार आहारः /
4754 SK [१५२|१९-१५२|२०] कवडीकृत्याभ्यवहरणात् /
4755 SK [१५२|२०] मुखनासिकाग्रासव्यवच्छेदतः /
4756 SK [१५२|२०-१५२|२१] च्छायातपज्वालाप्रभासु तेषां कथमाहारत्वम् /
4757 SK [१५२|२१] बाहुल्येन किलैष निर्देशः /
4758 SK [१५२|२१-१५२|२२] यान्यपि तु नाभ्यवह्नियन्ते स्थितिं चाहरन्ति तान्यपि सूक्ष्म आहारः /
4759 SK [१५२|२२] स्नानाभ्यङ्गवदिति /
4760 SK [१५२|२२-१५२|२३] कस्मान्न रूपायतनमाहारः /
4761 SK [१५२|२३] तदपि कवडीकृत्याभ्यवह्रियते /
4762 SK [१५२|२४] न रूपायतनं तेन स्वाक्षमुक्ताननुग्रहात् // VAक्K_३.३९ //
4763 SK [१५२|२५] आहारो हि नाम य इन्द्रियमहाभूतानामनुग्रहाय संवर्त्तते /
4764 SK [१५२|२५-१५२|२६] रूपायतनं चाभ्यवहरणकाले स्वमिन्द्रियं तन्महाभूतानि वा नानुगृह्णाति /
4765 SK [१५२|२६] कुत एवान्यान्यविषत्वात् /
4766 SK [१५३|०१-१५३|०२] यदापि च दृश्यमाने सुखसौमनस्ये आदधाति तदापि तदालम्बनः सुखवेदनीयः स्पर्श आहारो भवति न रूपम् /
4767 SK [१५३|०२-१५३|०३] मुक्तानामनागाम्यर्हेतां सुमनोज्ञमप्याहारं पश्यतामनुग्रहाभावात् /
4768 SK [१५३|०४] स्पर्शसंचेतनाविज्ञा आहाराः सास्रवास्त्रिषु /
4769 SK [१५३|०५] स्पर्शस्त्रिकसंनिपातजः /
4770 SK [१५३|०५-१५३|०६] चेतना मनस्कर्म विज्ञानं च सास्रवाण्येवाहाराः त्रिष्वपि धातुषु संविद्यन्ते /
4771 SK [१५३|०६] किमर्थं नानास्रवाणि /
4772 SK [१५३|०६-१५३|०७] यस्मात् भवापोषणार्थ आहारार्थः /
4773 SK [१५३|०७] तानि च भावक्षयायोत्थितानीति वैभाषिकाः /
4774 SK [१५३|०७-१५३|०९] अपि तु सूत्र उक्तं ᳚चत्वार इमे आहारा भूतानां सत्त्वानां स्थितये यापनायै संभवैषिणां चानुग्रहाये᳚ति /
4775 SK [१५३|०९] न चैवमनास्रवा धर्मा इति नाहाराः /
4776 SK [१५३|१०] भूता हि तावत्सत्त्वा उपपन्ना इति विज्ञायन्ते / अथ संभवैषिणः कतमे /
4777 SK [१५३|११] मनोमयः संभवैषी गन्धर्वश्चान्तराभवः // VAक्K_३.४० //
4778 SK [१५३|१२] निर्वृत्तिश्च
4779 SK [१५३|१३] अन्तराभवो ह्येभिरभिधानैरुक्तो भगवता /
4780 SK [१५३|१३-१५३|१४] स एव मनोनिर्जातत्वात् मनोमय उक्तः /
4781 SK [१५३|१४] शुक्रशोणितादिकं किञ्चिद्बाह्यमनुपादाय भावात् /
4782 SK [१५३|१४-१५३|१५] संभवैषणशीलत्वात् संभवैषी /
4783 SK [१५३|१५] गन्धर्वणात् गन्धर्वः / उपपत्त्यद्भिमुखत्वादभिनिर्वृत्तिः /
4784 SK [१५३|१५-१५३|१६] ᳚अव्याबाधमात्मभावमभिनिर्वर्त्य सव्याबाधे लोके उपपद्यत᳚ इति सूत्रपदात् /
4785 SK [१५३|१६-१५३|१८] ᳚तथास्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनम्᳚ इति सूत्र चतुःकोटिकात् /
4786 SK [१५३|१८] प्रथमा कोटिर्द्विधातुवीतरागस्योर्ध्वंस्रोतसो ऽनागामिनः /
4787 SK [१५३|१८-१५३|१९] द्वितीयान्तरापरिनिर्वायिणः /
4788 SK [१५३|१९] तृतीया ऽर्हताम् / चतुर्थ्येतानाकारान् स्थापयित्वा /
4789 SK [१५३|१९-१५३|२०] भूतावा ऽर्हन्तः संभवैषिणः सतृष्णाः /
4790 SK [१५३|२१] अथ कत्याहाराः सत्त्वानां स्थितये कति संभवैषिणामनुग्रहाय /
4791 SK [१५३|२१-१५३|२२] सर्वे ऽप्युभयथेति वैभाषिकाः /
4792 SK [१५३|२२] कवडीकाराहारो ऽपि हि तद्रागिणां पुनर्भवाय संवर्तते / उक्तं हि /
4793 SK [१५३|२३-१५३|२४] भगवता ᳚अत्वार इमे आहारा रोगस्य मूलल्ं गण्डस्य शल्यस्य जरामरणस्य प्रत्यय᳚ इति /
4794 SK [१५३|२४] मनःसंचेतना ऽपि चेह स्थितये दृश्यते /
4795 SK [१५३|२४-१५३|२६] एवं हि वर्णयन्ति दुर्भिक्षाभ्याहतेन कील पित्रा पुत्रकौ सक्तव इति भस्मना भस्त्रां परिपूर्य कीलके आसज्याश्वासितौ /
4796 SK [१५३|२६-१५३|२७] तौ च तां परिकल्पयन्तौ चिरमप्यासितौ केनापि चोद्घाटितायां भस्मेति नैराश्यमापन्नौ व्यापन्नाविति /
4797 SK [१५३|२७-१५४|०२] पुनश्च महासमुद्रे भग्नयानपात्राः पुरुषाः स्थलमिति महान्तं फेनपिण्डं प्रद्रुताः आमृश्य चैनं निराशा उपरेमुरिति /
4798 SK [१५४|०२-१५४|०४] संगीतिपर्याये चोक्तं महासमुद्रादौदारिकाः प्राणिनो जलात् स्थलमभिरुह्य सिकतास्थले ऽण्डानि स्थापयित्वा सिकताभिरवष्टभ्य पुनरपि महासमुद्रे ऽवतरन्ति /
4799 SK [१५४|०४-१५४|०५] तत्र यासां मातृणामण्डान्यारभ्य स्मृतिर्न मुष्यते तान्यण्डानि न पूतीभवन्ति यासां तु मुष्यते तानि पूतीभवन्ति /
4800 SK [१५४|०५] तदेतन्न वर्णयन्ति सौत्रान्तिकाः /
4801 SK [१५४|०५-१५४|०६] मा भूत् परकीयेणाहारेणाहार इति /
4802 SK [१५४|०६] एवं तु वर्णयन्ति /
4803 SK [१५४|०६-१५४|०७] येषामण्डानां मातरमारभ्य स्मृतिर्न मुष्यते तानि न पूतीभवन्ति /
4804 SK [१५४|०७-१५४|०८] येषां तु मुष्यते तानि पूतीभवन्ति /
4805 SK [१५४|०८] तस्याः स्पर्शावस्थायाः स्मरन्तीति /
4806 SK [१५४|०९] अथ कस्माच्चत्वार एवाहाराः /
4807 SK [१५४|०९-१५४|१०] ननु च सर्व एव सास्रवा धर्मा भवानां पोषकाः /
4808 SK [१५४|१०] यद्यप्येतदेवं तथापि प्रधान्येनोक्तम्
4809 SK [१५४|११] इह पुष्ट्यर्थमाश्रयाश्रितयोर्द्वयम् /
4810 SK [१५४|१२] द्वयमन्यभवाक्ष्पनिवृत्त्यर्थं यथाक्रमम् // VAक्K_३.४१ //
4811 SK [१५४|१३] आश्रयो हि सेन्द्रियः कायः / तस्य पुष्टये कवडीकाराहाराः /
4812 SK [१५४|१३-१५४|१४] आश्रिताश्चित्तचैत्तास्तेषां पुष्टये स्पर्शः /
4813 SK [१५४|१४] अनयोस्तावदिहोत्पन्नस्य भवस्य पोषणे प्राधान्यम् /
4814 SK [१५४|१४-१५४|१६] मनःसंचेतनया पुनर्भवस्याक्षेपः आक्षिप्तस्य पुनः कर्मपरिभाविताद्विज्ञानवीजादभिनिर्वृत्तिरित्यनयोरनुत्पन्नस्य भवस्याकरणे प्राधान्यम् /
4815 SK [१५४|१६] अतश्चत्वार उक्ताः /
4816 SK [१५४|१६-१५४|१७] पूर्वकौ हि द्वौ धात्रीस्थानीयौ जातस्य पोषकत्वात् /
4817 SK [१५४|१७] उत्तरौ मातृस्थानीयौ जनकत्वादिति /
4818 SK [१५४|१८] यः कश्चित् कवडीकारः सर्वः स आहारः /
4819 SK [१५४|१८-१५४|१९] स्यात् कवडीकारो नाहार इति चतुष्कोटिकम् /
4820 SK [१५४|१९-१५४|२०] प्रथमा कोटिर्यं कवडीकारं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानां च परिभेदः /
4821 SK [१५४|२०] द्वितीया कोटिस्त्रय आहाराः /
4822 SK [१५४|२०-१५४|२१] तृतीया यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभूतानां च वृद्धिः /
4823 SK [१५४|२१-१५४|२२] चतुर्थ्येतानाकारान् स्थापयित्वा /
4824 SK [१५४|२२-१५४|२३] एवं स्पर्शदिभिरपि यथायोगं चतुःकोटिकानि कर्त्तव्यानि /
4825 SK [१५४|२३-१५४|२४] स्यात् स्पर्शादीन् प्रतीत्येन्द्रियाणामुपचयो महाभूतानां च वृद्धिर्न च त आहाराः /
4826 SK [१५४|२४] स्यादन्यभूमिकाननास्रवांश्च /
4827 SK [१५४|२४-१५४|२५] यो ऽपि हि परिभुक्तो भोक्तुर्बाधामादधाति सो ऽप्याहार एव /
4828 SK [१५४|२५] आपाते ऽनुग्रहात् /
4829 SK [१५४|२५-१५४|२६] द्वयोर्हि कालयोराहार आहारकृत्यं करोति परिभुज्यमानो जीर्यंश्चेति वैभाषिकाः /
4830 SK [१५४|२६] अथ कस्यां गतौ कत्याहाराः /
4831 SK [१५४|२७] सर्वासु सर्वे / एवं योनिष्वपि / कथं नरकेषु कवडीकार आहारः /
4832 SK [१५४|२७-१५४|२८] प्रदीप्तायस्पिण्डाः स्वथितं च ताम्राम् /
4833 SK [१५४|२८-१५५|०१] यद्यूपघातको ऽप्याहारो भवति चतुःकोटिकं बाध्यते प्रकरणग्रन्थश्च ᳚कवडीकार आहारः कतमः /
4834 SK [१५५|०१-१५५|०३] यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभुतानां च वृद्धिर्यापना ऽनुयापनेति विस्तरेण यावद्विज्ञानम् /᳚
4835 SK [१५५|०३] उपचयाहाराभिसंधिवचनादविरोधः /
4836 SK [१५५|०३-१५५|०४] अपचयाहारस्तु नरकेक्षु लक्षणप्राप्तत्वात् /
4837 SK [१५५|०४] सो ऽपि हि जिघत्सां पिपासां हन्तुं समर्थ इति /
4838 SK [१५५|०४-१५५|०५] अपितु प्रत्येकनरकेषु मनुष्यवत् कवडीकाराहारसद्भावाद्युक्तं पाञ्चगतिकत्वम् /
4839 SK [१५५|०५-१५५|०७] उक्तं भगवता ᳚यश्च बाह्यकानामृषीणां कामेभ्यो वीतरागाणां शतं भोजयेद्यश्चैकं जम्बूषण्डगतं पृथगजनम् /
4840 SK [१५५|०७] अतो दानादिदं दानं महाफलतरमि᳚ति /
4841 SK [१५५|०७-१५५|०८] को ऽयं जम्बूषण्डगतो नाम पृथग्जनः /
4842 SK [१५५|०८] जम्बूद्वीपनिवासिनः कुक्षिमन्त इत्येके /
4843 SK [१५५|०८-१५५|०९] तदेतन्न युक्तमेकमिति वचनात् /
4844 SK [१५५|०९] कश्चात्र विशेषः /
4845 SK [१५५|०९-१५५|१०] स्याद्यदि भूयसः पृथग्जनान् भोजयित्वा भूयः पुण्यं स्यात् नाल्पीयसो वीतरागानिति /
4846 SK [१५५|१०] संनिकृष्टो बोधिसत्त्व इत्यपरे /
4847 SK [१५५|११] तदेतन्न वर्णयन्ति ᳚बहुतरं हि तस्मै दत्वा पुण्यं नार्हत्कोटिभ्य᳚ इति /
4848 SK [१५५|११-१५५|१२] अतो निर्वेधभागीयलाभी पृथग्जन एषोऽभिप्रेतः इति वैभाषिकाः /
4849 SK [१५५|१२-१५५|१३] नत्वियमन्वर्था संज्ञा नापिक्वचित्परिभाषिता सूत्रे शास्त्रे वा /
4850 SK [१५५|१३-१५५|१४] जम्बूषण्डगतो निर्वेधभागीयलाभीति परिकल्प एवायं केवलः /
4851 SK [१५५|१४] बोधिसत्त्व एव त्वेषु जम्बूद्वीपषण्डेषु निषण्णो युज्यते /
4852 SK [१५५|१४-१५५|१५] स हि पृथग्जन कामवैराग्यसंबन्धेन तदानीं तेभ्यो विशिष्यमाण उक्त इति /
4853 SK [१५५|१५-१५५|१६] अनन्तेभ्यो ऽपि हि स तेभ्यो विशिष्यमाणः /
4854 SK [१५५|१६] शतग्रहणं तु पूर्वाधिकारात् /
4855 SK [१५५|१६-१५५|१७] इत्थं चैतदेवं यदेवं पर्युदस्य बाह्यकेभ्य एव स्रोतापत्ति फलप्रतिपन्नकं विशेषयांबभूव /
4856 SK [१५५|१७-१५५|१८] अन्यथा हि जम्बूषण्डगतादेव व्यशेषयिष्यत् /
4857 SK [१५५|१८-१५५|१९] उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो यथावस्थितिश्च्युतिरप्युक्ता यथायुःक्षयादिभिः /
4858 SK [१५५|२०] इदमिदानीं वक्तव्यम् / कतमस्मिन् विज्ञाने वर्तमाने च्युत्युपपत्ती भवत इत्याह
4859 SK [१५५|२१] छेदसंधान वैराग्यहानिच्युत्युपपत्त्यः /
4860 SK [१५५|२२] मनोविज्ञान एवेष्टाः
4861 SK [१५५|२३-१५५|२४] कुशलल्मूलसमुच्छेदः कुशलमूलप्रतिसंधानं धातुभूमिवैराग्यं परिहाणिश्च्युतिरुपपत्तिश्च /
4862 SK [१५५|२४] एते षट् धर्मा मनोविज्ञान एवेष्यन्ते नान्यत्र /
4863 SK [१५५|२४-१५५|२५] उपपत्तिवचनादन्तराभवप्रतिसंधिरप्युक्तरूपो वेदितव्यः /
4864 SK [१५५|२५] वेदनायां तु
4865 SK [१५६|०१] उपेक्षायां च्युतोद्भवौ // VAक्K_३.४२ //
4866 SK [१५६|०२] च्युतिरेव च्युतमुपपत्तिरुद्भवः /
4867 SK [१५६|०२-१५६|०३] एतावदुःखासुखायां वेदनायां भवतस्तस्या अपटुत्वात् /
4868 SK [१५६|०३] इतरे हि वेदने पट्व्यौ / न च पटुविज्ञाने च्युत्युपपत्ती युज्येते /
4869 SK [१५६|०३-१५६|०४] तत्रापि च मनोविज्ञाने ऽपि
4870 SK [१५६|०५] नैकाग्राचित्तयोरेतौ
4871 SK [१५६|०६] च्युतोद्भवाविति वर्तते / नहि समाहितचित्तस्यास्ति च्युतिरुपपत्तिर्वा /
4872 SK [१५६|०६-१५६|०७] विसभागभूमिकत्वादभिसंस्कारिकत्वादनुग्राहकत्वाच्च /
4873 SK [१५६|०७-१५६|०८] नाप्यचित्तस्य सा नह्यचित्तक उपक्रमितुं शस्येत /
4874 SK [१५६|०८-१५६|०९] यदा चास्याश्रयो विपरिणन्तुमारभते तदावश्यमस्य तदाश्रयप्रतिबद्धं चित्तं संमुखीभूय पश्चात् प्रच्यवेत नान्यथा /
4875 SK [१५६|०९-१५६|१०] उपपत्तौ च चित्तच्छेदहेत्वभावाद्विना च क्लेशेनानुपपत्तेरयुक्तमचित्तकत्वम् /
4876 SK [१५६|११] मरणभवस्त्रिप्रकार इत्युक्तम् / अर्हस्तु
4877 SK [१५६|१२] निर्वात्यव्याकृतद्वये /
4878 SK [१५६|१३] ऐर्यापथिके विपाकचित्ते वा / अस्ति चेत्कामधातौ विपाक उपेक्षा /
4879 SK [१५६|१३-१५६|१४] नास्ति चेदैर्यापथिक एव /
4880 SK [१५६|१४] किमर्थमव्याकृट एव नान्यस्मिन् /
4881 SK [१५६|१४-१५६|१५] तद्वि चित्तच्छेदानुकूलं दुर्बलत्वात् /
4882 SK [१५६|१६] अथ म्रियमाणस्य कस्मिन् शरीरप्रदेशे विज्ञानं निरुध्यते /
4883 SK [१५६|१६-१५६|१७] सकृन्मरणे समनस्कं कायेन्द्रियं सहसाऽन्तर्दीयते /
4884 SK [१५६|१७] यदि तु क्रमेण च्यवते ततः
4885 SK [१५६|१८] क्रमच्युतौ पादनाभिहृदयेषु मनश्च्युतिः // VAक्K_३.४३ //
4886 SK [१५६|१९] अधोनृसुरगाजानां
4887 SK [१५६|२०] अधो गच्छन्तीत्यधोगा अपायगामिनः / नृन् गच्छन्तीति नृगा मनुष्यगामिनः /
4888 SK [१५६|२०-१५६|२१] सुरान् गच्छन्तीति सुरगा देवगामिनः /
4889 SK [१५६|२१-१५६|२२] तेषां यथासंख्यं पादयोर्नाभ्यां हृदये च विज्ञानं संनिरुध्यते /
4890 SK [१५६|२२] न पुनर्जायन्त इत्यजा अर्हन्तः / तेषामपि हृदये विज्ञानं निरुध्यते /
4891 SK [१५६|२३] मूर्ध्नीत्यपरे /
4892 SK [१५६|२३-१५६|२४] कायेन्द्रियस्य तेषु निरोधात् कायेन्द्रियं हि म्रियमाणस्य तप्त इवोपले जलं निष्ठ्यूतं संकोचमापद्यमानं पादादिष्वन्तर्धीयत इति /
4893 SK [१५६|२४-१५६|२५] एवं च पुनः क्रमेण मरणम् /
4894 SK [१५६|२५] प्राणिनां प्रायेण मर्मच्छेदवेदनाभ्यां हतानां जायते /
4895 SK [१५६|२६] मर्मच्छेदस्त्वबादिभिः /
4896 SK [१५६|२७] शरीरप्रदेशाः केचिदुपहन्यमाना मरणमानयन्ति /
4897 SK [१५६|२७-१५७|०१] ते ह्येतदुच्यन्ते मर्माणीति /
4898 SK [१५७|०१-१५७|०३] तानि चाप्तेजोवायुधातूनामन्यतमेनातिप्रायं गतेन निशितशस्त्रसंपातस्यर्धिनाडीतीब्राभिर्वेदनाभिः छिद्यन्त इव न च पुनस्तानि काष्ठादिवच्छिद्यन्ते छिन्नबद्वा पुनर्न चेष्टन्त इति च्छिन्नान्युच्यन्ते /
4899 SK [१५७|०३-१५७|०४] कस्मान्न पृथिवीधातुना /
4900 SK [१५७|०४] चतुर्थदोषाभावात् / वातपित्तश्लेष्माणो हि त्रयो दोषाः /
4901 SK [१५७|०४-१५७|०५] ते चाप्तेजोवायुधातुप्रधाना यथायोगमिति /
4902 SK [१५७|०५] भाजनलोकसंवर्त्तनीसाधर्म्येणेत्यपरे /
4903 SK [१५७|०५-१५७|०६] देवेषु नास्ति मर्मच्छेदः /
4904 SK [१५७|०६] किं तु च्यवनधर्मणो देवपुत्रस्य पञ्चोपनिमित्तानि प्रादुर्भवन्ति /
4905 SK [१५७|०७-१५७|०९] वस्त्राणामाभरणानां च मनोज्ञः शब्दो निश्चरति शरीरप्रभा मन्दीभवति स्नातस्योदबिन्दवः काये संतिष्ठन्ते चपलात्मना ऽप्येकत्र विषये बुद्धिरवतिष्ठते उन्मेषनिमेषौ चाक्ष्णोः संभवतः /
4906 SK [१५७|०९] एतानि तु व्यभिचारीणि /
4907 SK [१५७|०९-१५७|१०] पञ्च पुनर्निमित्तानि मरणं नातिवर्त्तन्ते /
4908 SK [१५७|१०-१५७|११] वासांसि क्लिश्यन्ति माला म्लायन्ति कक्षाभ्यां स्वेदो मुच्यते दौर्गन्ध्यं कायेऽवक्रामति स्वे चासने देवपुत्रो नाभिरमते /
4909 SK [१५७|११-१५७|१२] सोऽयं सत्त्वलोक एवमुत्पद्यमानस्तिष्ठन् च्यवमनश्च त्रिषु राशिषु स्थापितो भगवता /
4910 SK [१५७|१२-१५७|१३] त्रयो राशयः /
4911 SK [१५७|१३-१५७|१४] सम्यक्त्वनियतो राशिर्मिथ्यात्वनियतो राशिरनियतो राशिरिति /
4913 SK [१५७|१५] सम्यङ्मिथ्यात्वनियता आर्यानन्तर्यकारिणः // VAक्K_३.४४ //
4914 SK [१५७|१६] ᳚सम्यक्त्वं कतमत् /
4915 SK [१५७|१६-१५७|१७] यत्तत्पर्यादाय रागप्रहाणं पर्यादाय द्वेषप्रहाणं पर्यादाय मोहप्रहाणं पर्यादाय सर्वक्लेशप्रहाणमिदमुच्यते सम्यक्त्व᳚मिति सूत्रम् /
4916 SK [१५७|१७] आर्याः कतमे /
4917 SK [१५७|१८] येषामनास्रवो मार्ग उत्पन्नः / आराद्याताः पापकेभ्यो धर्मेभ्य इत्यार्याः /
4918 SK [१५७|१८-१५७|१९] आत्यन्तिकविसंयोगप्राप्तिलाभात् /
4919 SK [१५७|१९-१५७|२०] एते हि क्लेशक्षये नियतत्वात् सम्यक्त्वनियताः मोक्षभागीयलाभिनो ऽप्यवश्यं परिनिर्वाणधर्माण इति /
4920 SK [१५७|२०] कस्मान्न सम्यक्त्वे नियताः /
4921 SK [१५७|२१] ते हि मिथ्यात्वेऽपि नियता भवेयुः /
4922 SK [१५७|२१-१५७|२२] न च ते कालनियमेन सम्यक्त्वे नियता यथा सप्तकृत्वः परमादयः /
4923 SK [१५७|२२] मिथ्यात्वं कतमत् /
4924 SK [१५७|२२-१५७|२३] नरकाः प्रेतास्तिर्यञ्च इदमुच्यते मिथ्यात्वम् /
4925 SK [१५७|२३] तत्रानन्तर्यकारिणो नरके नियतत्वान्मिथ्यात्वनियताः /
4926 SK [१५७|२३-१५७|२४] नियतेभ्योऽन्येऽनियता इति सिद्धम् /
4927 SK [१५७|२४] प्रत्ययापेक्षं हि तेषामुभयभाक्त्वमनुभयभाक्त्वं च /
4928 SK [१५७|२५] उक्तः सत्त्वलोको भाजनलोक इदानीं वक्तव्यः /
4929 SK [१५७|२६-१५७|२७] तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः / लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम् // VAक्K_३.४५ //
4930 SK [१५८|०१] त्रिसाहस्रमहासाहस्रलोकधातोरेवं संनिवेशमिच्छन्ति /
4931 SK [१५८|०१-१५८|०२] यदुताकाशष्प्रतिष्ठमधस्ताद्वायुमण्डलमभिनिर्वृत्तं सर्वसत्त्वानाम् /
4932 SK [१५८|०२-१५८|०४] कर्माधिपत्येन तस्य योजनलक्षाणां षोडशकमुद्वेधः परिणाहेनासंख्यं तथा च दृढंं यन्महालग्नोऽपि वज्रेण भेत्तुमशक्तः /
4933 SK [१५८|०४] तस्योपरिष्टात्
4934 SK [१५८|०५] अपामेकादशोद्वेधं सहस्राणि च विंशतिः //
4935 SK [१५८|०६] मण्डलमिति वर्त्तते /
4936 SK [१५८|०६-१५८|०७] तस्मिन् वायुमण्दले सत्त्वानां कर्मभिर्मेघाः संभूयाक्षमात्राभिर्धाराभिरभिवर्षन्ति /
4937 SK [१५८|०७] तत् भवत्यषां मण्डलम् /
4938 SK [१५८|०७-१५८|०८] तस्य योजनानामेकादशलक्षाण्यूर्ध्वेऽधो विंशतिश्च सहस्राणि / [१५८|०८] कथं ता आपो न तिर्यङ्ग्विस्रवन्ति /
4939 SK [१५८|०८-१५८|०९] सत्त्वानां कर्माधिपत्येन /
4940 SK [१५८|०९-१५८|१०] यथा हि भुक्तं पीतमन्नं पानं च नापक्वं पक्वाशयमापतती त्येके /
4941 SK [१५८|१०] कुसूलन्यायेन वायुना संधार्यन्त इति निकायान्तरीयाः /
4942 SK [१५८|१०-१५८|१२] ताश्च पुनरापः सत्त्वानां कर्मप्रभावसंभूतैर्वायुभिरावर्त्यमाना उपरिष्टात्काञ्चनीभवन्ति पक्वक्षीरीशरीभावयोगेन /
4943 SK [१५८|१२] तत् भवत्यषां मण्डलम् /
4944 SK [१५८|१३] अष्टलक्षोच्छ्रयं पश्चाच्छेषं भवति काञ्चनम् // VAक्K_३.४६ //
4945 SK [१५८|१४] किं च शेषम् / त्रयो लक्ल्षाः सहस्राणि च विंशतिः /
4946 SK [१५८|१४-१५८|१५] सा काञ्चनमयी मही भवत्यपामुपरिष्टात् उक्तो जलकाञ्चनमण्डलोच्छ्रायः /
4947 SK [१५८|१६-१५८|१७] तिर्यक् त्रीणि सहस्राणि सार्धं शतचतुष्टयम् / लक्षद्वादशकं चैव जलकाञ्चनमण्डलम् // VAक्K_३.४७ //
4948 SK [१५८|१८] समानं ह्येतदुभयं विस्तारतः /
4949 SK [१५८|१९] समन्ततस्तु त्रिगुणं
4950 SK [१५८|२०-१५८|२१] समन्ततः परिक्षेपेण तु परिगण्यमानं त्रिगुणं जायते षट्त्रिंशल्लक्षा दशसहस्राणि सार्धानि च त्रीणि शतानि योजनानाम् /
4951 SK [१५८|२१-१५८|२२] यच्च तत्काञ्चनमयं महीमण्डलमपामुपरिष्टात् संनिविष्टं
4952 SK [१५८|२३-१५८|२४] तत्र मेरुर्युगन्धरः / ईशाधारः खदिरकः सुदर्शनगिरिस्तथा // VAक्K_३.४८ //
4953 SK [१५९|०१] अश्वकर्णो विनितको निमिन्धरगिरिः
4954 SK [१५९|०२] इतीमे काञ्चनमण्डलप्रतिष्ठा अष्टौ महापर्वताः / मध्ये सुमेरुः /
4955 SK [१५९|०२-१५९|०३] शेषाः सुमेरुपरिचायावस्थिताः /
4956 SK [१५९|०३-१५९|०४] तस्यान्यसप्तपर्वतप्राकारपरिक्षिप्तस्य यो बाह्यः पर्वते निमिन्धरगिरिः /
4959 SK [१५९|०७] ततो बहिश्चत्वारो द्वीपाः / तेभ्यः पुनः
4960 SK [१५९|०८] बहिश्चक्रवाडः
4961 SK [१५९|०९] तेन चातुर्द्विपकश्चक्रीकृतः / तेषां तु
4962 SK [१५९|१०] सप्त हैमाः स आयसः // VAक्K_३.४९ //
4963 SK [१५९|११] युगन्धरादयः सप्त पर्वताः सौवऋणाश्चक्रवाडः शस्त्रकः /
4964 SK [१५९|१२] चतूरत्नमयो मेरुः
4965 SK [१५९|१३] सुवर्णमयो रूप्यमयो वैदूर्यमयः स्फटिकमयश्च यथासंख्यं चतुर्षु पार्श्वेषु /
4966 SK [१५९|१३-१५९|१४] यच्च यन्मयं पार्श्वं सुमेरोस्तस्यानुभावेन तद्वर्ण तस्यां दिशि नभो दृश्यते /
4967 SK [१५९|१४-१५९|१५] जाम्बूद्वीपकमस्य पार्श्वं वैदूर्यमयं वर्णयन्ति /
4968 SK [१५९|१५-१५९|१६] तस्येह प्रभानुरागेण वैदूर्यमयं नभो दृश्यत इति /
4969 SK [१५९|१७] अथ कथं तेषां संभवः /
4970 SK [१५९|१७-१५९|१८] काञ्चनमय्यां पृथिव्यां पुनर्वारिधारा अतिपतन्ति /
4971 SK [१५९|१८-१५९|१९] ता ह्यापो नानाविधबीजगर्भा बहुविधप्रभावभिन्नैर्वायुभिर्मथ्यमानास्तां तां जातिं परिणमयन्ति /
4972 SK [१५९|१९-१५९|२०] एवं च पुनः परिणमयन्ति यद्भिन्नजातीयस्य कार्यविशेषोत्पत्तावसमवधानेन प्रत्ययीभवन्ति /
4973 SK [१५९|२०-१५९|२१] न तु खलु यथा सांख्यानां परिणामः /
4974 SK [१५९|२१] कथं च सांख्यानां परिणामः /
4975 SK [१५९|२१-१५९|२२] अवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भाव इति /
4976 SK [१५९|२२] कश्चात्र दोषः /
4977 SK [१५९|२२-१५९|२३] स एव हि धर्मी न संविद्यते यस्यावस्थितस्य धर्माणां परिणामः कस्प्येत /
4978 SK [१५९|२३-१५९|२४] कश्चैंवमाह धर्मेभ्योऽन्यो धर्मीति /
4979 SK [१५९|२४] तस्यैव तु द्रव्यस्यान्यथीभावमात्रं परिणामः /
4980 SK [१५९|२४-१५९|२५] एवमप्ययुक्तम् /
4981 SK [१५९|२५] किमत्रायुक्तम् / तदेव चेदं न चेदं तथेति अपूर्वैषा वायो युक्तिः /
4982 SK [१५९|२५-१५९|२६] एवं च पुनः संभूताः सुवर्णादयः कर्मप्रभावात् प्रेरितैर्वायुभिः समाहृत्य राशीक्रियन्ते /
4983 SK [१५९|२६-१५९|२७] त एते पर्वताश्च भवन्ति द्वीपाश्च /
4984 SK [१५९|२७] ते पुनः सुमेवदयश्चक्रवाडपर्यन्ताः पर्वताः
4985 SK [१६०|०१] जलेऽशीतिसहस्रके /
4987 SK [१६०|०३] काञ्चनमय्याः पृथिव्या उपर्यशीतिय्योजनसहस्राण्युदकं तत्र ते मग्नाः /
4988 SK [१६०|०४] ऊर्ध्वं जलात् मेरुर्भूयो ऽशीतिसहस्रकः // VAक्K_३.५० //
4989 SK [१६०|०५] इति हि मेरोः षष्टि योजनशतसहस्रं समुच्छ्रयः /
4990 SK [१६०|०६] अर्धार्धहानिरष्टासु
4991 SK [१६०|०७] जलादूर्ध्वं यावान्सुमेरुस्ततोऽर्धेन युगन्धरश्चत्वारिंशद्योजनसहस्राणि /
4992 SK [१६०|०७-१६०|०९] ततो ऽर्धेन ईशाधर इत्येवमन्येष्वप्यर्धार्धहानिर्वेदितव्या यावन्निमिन्धरार्धेनार्धत्रयोदशोत्तराणि त्रीणि योजनशतानि चक्रवाडः /
4993 SK [१६०|१०] समोच्छ्रायघनाश्च ते /
4994 SK [१६०|११] यावानेव चैषां जलादूर्ध्वं समुच्छ्रायस्तावानेव घनो विस्तार इत्यर्थः /
4995 SK [१६०|१२] शीताः सप्तान्तराण्येषां
4996 SK [१६०|१३-१६०|१४] एषां च निमिन्धरान्तनां पर्वतानां सप्तान्तराणि सप्त शीता उच्यन्ते पूर्णा अष्टाङ्गोपेतस्य पानीयस्य /
4997 SK [१६०|१४-१६०|१५] तद्धि पानीयं शीतलं च स्वादु च लघु च मृदु चाच्छं च निष्प्रतिकं च पिबतश्च कण्ठं न क्षिणोति पीतं च कुक्षिं न व्याबाधते /
4998 SK [१६०|१६] तासां च पुनः
4999 SK [१६०|१७] आद्याशीतिसहस्रिका // VAक्K_३.५१ //
5000 SK [१६०|१८] सुमेरुयुगन्धरान्तरं प्रथमा शीता / अशीतिर्योजनसहस्राणि वैपुल्येन /
5001 SK [१६०|१९] आभ्यन्तरः समुद्रोऽसौ
5002 SK [१६०|२०] द्वौ हि समुद्रावाभ्यन्तरो बाह्यश्च / तदाऽसौ शीताऽभ्यन्तरः समुद्रः
5003 SK [१६०|२१] त्रिगुणः स तु पार्श्वतः /
5004 SK [१६०|२२] अशीतिर्योजनसहस्राण्यस्य वैपुल्यमुक्तम् /
5005 SK [१६०|२२-१६०|२३] पार्श्वतस्रिगुणो भवति युगन्धरतीरेण गण्यमानः चत्वारिंशत् सहस्राणि लक्षद्वयं च /
5006 SK [१६१|०१] अर्धार्धेनापराः शीताः
5007 SK [१६१|०२-१६१|०३] युगन्धरस्येषाधारस्य चान्तरं द्वितीया शीता अर्धेन प्रथमायाश्चत्वारिंशत् योजनसहस्राणि /
5008 SK [१६१|०३-१६१|०४] ततो ऽर्धेन पुनस्तृतीयेत्येवमर्धार्धेनापराः शीताः भवन्ति /
5009 SK [१६१|०४] यावदर्धत्रयोदशशतानि सप्तमी शीता /
5010 SK [१६१|०४-१६१|०५] दैर्ध्यं तु तासां न परिसंख्यातमतिबहुप्रकर्षविसर्पणात् /
5011 SK [१६१|०६] शेषं बाह्यो महोदधेः // VAक्K_३.५२ //
5012 SK [१६१|०७] किं शेषम् / निमिन्धरचक्रवाडयोरन्तरम् /
5013 SK [१६१|०७-१६१|०८] तद्धि बाह्यो महासमुद्रो लवणं पूर्णः ह्षारोदकस्य /
5014 SK [१६१|०८] स खलु विस्तारेण योजनानां
5015 SK [१६१|०९] लक्षत्रयं सहस्राणि विंशतिर्द्वे च
5016 SK [१६१|१०] तत्र चत्वारो द्वीपाश्चतुर्षु सुमेरुपार्श्वेषु /
5018 SK [१६१|१२] जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः // VAक्K_३.५३ //
5019 SK [१६१|१३] साहस्राणि त्रीणि पार्श्वान्यस्य शकटस्येवाकृतिः /
5020 SK [१६१|१३-१६१|१५] तस्य च मध्ये काञ्चनमय्यां पृथिव्यां वज्रासनमभिनिर्वृत्तं यस्मिन्निषद्य सर्वे बोधिसत्त्वा वज्रोपमं समाधिमुत्पादयन्ति //
5021 SK [१६१|१५] नहि तमन्य आश्रयः प्रदेशो वा सोढुं समर्थः /
5022 SK [१६१|१६] सार्धत्रियोजनं त्वेकं
5023 SK [१६१|१७] च्तुर्थमस्य पार्श्वं सार्धानि त्रीणि योजनानि / अत एव ह्यसौ शकटाकृतिः /
5024 SK [१६१|१८] प्राग्विदेहोऽर्धचन्द्रवत् /
5025 SK [१६१|१९] इतः पूर्वेण सुमेरुपार्श्वे पूर्वं विदेहो द्वीपः / सो ऽर्धचन्द्र इवाभिनिर्वृत्तः /
5026 SK [१६१|१९-१६१|२०] परिमाणतस्तु
5027 SK [१६१|२१] पार्श्वत्रयं तथा ऽस्य
5028 SK [१६१|२२] यथा जम्बूद्वीपस्य द्वे द्वे योजनसहस्रे /
5029 SK [१६१|२३] एकं सार्धं त्रिशतयोजनम् // VAक्K_३.५४ //
5030 SK [१६१|२४] चतुर्थं पार्श्वं सार्धानि त्रीणि योजनशतानि /
5031 SK [१६१|२५] गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः /
5032 SK [१६२|०१-१६२|०२] इतः पश्चिमेन सुमेरुपार्श्वे ऽपरगोदानीयो द्वीपः सार्धानि सप्त योजनसहस्राणि साकल्येन /
5033 SK [१६२|०२] मण्डलश्चासौ पूर्णचन्द्रवत् /
5034 SK [१६२|०३] सार्धे द्वे मध्यमस्य
5035 SK [१६२|०४] मध्यमस्यार्धतृतीये योजनसहस्रे /
5036 SK [१६२|०५] अष्टौ चतुरस्रः कुरुः समः // VAक्K_३.५५ //
5037 SK [१६२|०६] इह उत्तरेण सुमेरुपार्श्वे उत्तरकुरुद्वीपः /
5038 SK [१६२|०६-१६२|०७] सो ऽष्टौ योजनसहस्राणि साकल्येन चतुरस्रः /
5039 SK [१६२|०७] कृत्यापीठिकावत् /
5040 SK [१६२|०७-१६२|०८] सर्वेषु च पार्श्वेषु समो यथैकं पार्श्वं द्वियोजनसहस्रे /
5041 SK [१६२|०८] तथा ऽन्यानि स्तोकमपि नाधिकम् /
5042 SK [१६२|०८-१६२|०९] यश्च द्वीपो यदाकृतिस्तदाकृतीन्येव तत्र मनुष्याणां मुखानि /
5043 SK [१६२|१०] तेषां खलु द्वीपानामन्तराले ऽन्तरद्वीपा अभिनिर्वृत्ताः /
5044 SK [१६२|१०-१६२|११] के पुनस्ते कति चेत्याह
5045 SK [१६२|१२-१६२|१३] देहा विदेहाः कुरवः कौरवाश्चामरावराः / अष्टौ तदन्तरद्ब्वीपा गाठा उत्तरमन्त्रिणः // VAक्K_३.५६ //
5046 SK [१६२|१४] तत्र देहविदेहौ पूर्वविदेहपरिवारौ / कुरुकौरवौ उत्तरकुरोः /
5047 SK [१६२|१४-१६२|१५] गाठोत्तरमन्त्रिणावपरगोदानीयस्य /
5048 SK [१६२|१५] चामरावरौ जम्बूद्वीपस्य / सर्वे मनुष्यैरावासिताः /
5049 SK [१६२|१५-१६२|१६] एको राक्षसैरित्यपरे /
5050 SK [१६२|१७] इहोत्तरेण कीटाद्रिनवकाद्धिमवान्
5051 SK [१६२|१८-१६२|१९] इहैव जम्बूद्वीपे उत्तरेणास्य जम्बूद्वीपस्य कृष्णपर्वतास्त्रयस्तानतिक्रम्यापरे त्रयः पुनश्च त्रय इति नवभ्यः कीटपर्वतेभ्यः परेण हिमवान् पर्वतः /
5053 SK [१६२|२१] पञ्चाशद्विस्तृतायामं सरो ऽर्वाग्गन्धमादनात् // VAक्K_३.५७ //
5054 SK [१६२|२२-१६२|२३] तस्माद्धिमवतः परेणानवतप्तं नाम सरो गन्धमादनादर्वाक् यतश्चतस्रो नद्यः स्रव्न्ति गङ्ग सिन्धुः शीता वक्षुश्च /
5055 SK [१६२|२३-१६२|२४] तस्य पञ्चाशद्योजनानि विस्तारः पञ्चाशदायामः /
5056 SK [१६२|२४] पूर्णमष्टाङ्गस्याङ्गोपेतस्याम्भसः /
5057 SK [१६२|२४-१६२|२५] दुर्गमं च मनुअष्याणामनृद्धिमताम् /
5058 SK [१६२|२५-१६२|२६] तस्यैव चान्तिके जम्बूरभिनिर्वृत्ता मधुरस्वादूनि यस्याः फलानि तस्या अधिकारेणायं जम्बूद्वीप इति ख्यातः /
5059 SK [१६२|२६-१६२|२७] तत्फलाधिकारेण वा जम्बूद्वीप इति /
5060 SK [१६२|२८] नरकाः कस्मिन्नवकाशे कियत्प्रमाणाश्च /
5061 SK [१६३|०१] अधः सहस्रैविंशत्या तन्मात्रो ऽवीचिरस्य हि /
5062 SK [१६३|०२-१६३|०३] अस्यैव जम्बूद्वीपस्याधो विंशत्या योजनसहस्रैरवीचिर्महानरको विंशतिसहस्रप्रमाण एवोद्वेधविस्ताराभ्यामेवमस्याधरतलमितश्चत्वारिंशता योजनसहस्रैर्भवति /
5063 SK [१६३|०३-१६३|०४] दुःखनिरन्तरत्वादवीचिः /
5064 SK [१६३|०४-१६३|०५] अन्येषु सान्तरं दुःखम् तद्द्यथा संजीवे च्छिन्नावभिन्नसंपिष्टशरीराणां शीतला वायवो वान्ति पुनरपि तान् सत्त्वान् संजीवयन्ति /
5065 SK [१६३|०५-१६३|०६] अत एव संजीवः /
5066 SK [१६३|०६] नास्मिन् सुखवीचिरस्तीत्यवीचिरित्यपरे /
5067 SK [१६३|०६-१६३|०७] अन्येष्वपि सुखा वेदना विपाको नास्ति /
5068 SK [१६३|०७] नैः ष्यन्दिकी न वार्यते /
5069 SK [१६३|०८] तदूर्ध्वं सप्त नरकाः
5070 SK [१६३|०९] तस्मादवीचेरूर्ध्वं सप्त नरकाः उपर्युपरि संनिविष्टाः /
5071 SK [१६३|०९-१६३|१०] प्रतापनस्तापनो महारौरवो रौरवः संघातः कालसूत्रः संजीवश्च /
5072 SK [१६३|१०] अवीचिपार्श्वेष्वित्यपरे / ते पुनः
5073 SK [१६३|११] सर्वे ऽष्टौ षोडशोत्सदाः // VAक्K_३.५८ //
5074 SK [१६३|१२] उक्तं हि भगवता
5075 SK [१६३|१३-१६३|१४] ᳚इत्येते नरका अष्टावाख्याता दुरतिक्रमाः / रौद्रकर्मभिराकीर्णाः प्रत्येकं षोडशोत्सदाः //
5076 SK [१६३|१५-१६३|१६] चतुस्कन्धाश्चतुर्द्वारा विभक्ता भागशो ऽसिताः / अयःप्राकारपर्यन्ता अयसा प्रतिवर्जिताः //
5077 SK [१६३|१७-१६३|१८] तप्ता चैवायसी भुमिर्ज्वलिता तेजसा युता / अनेकयोजनशता स्फुटा तिष्ठति अर्च्चिषे᳚ति /
5078 SK [१६३|१९] षोडशोत्सदाः कतमे /
5079 SK [१६३|२०] कुकूलं कुणपं चाथ क्षुरमार्गादिकं नदी /
5080 SK [१६३|२१] तेषां चतुर्दिशं /
5081 SK [१६३|२२] द्वारे द्वारे तेषां चत्वार उत्सदाः / कुकूलं जानुमात्रम् /
5082 SK [१६३|२२-१६३|२३] यत्र तेषां सत्त्वानां निक्षिप्ते संशीर्यते त्वङ्मांसशोणितमुत्क्षिप्ते पादे पुनरपि संजायते त्वङ्मांसशोणितम् /
5083 SK [१६३|२४-१६३|२५] कुणपं गूथमृत्तिका यत्र न्यङ्कुटा नाम प्राणिनः प्रतिवसन्ति सर्वश्वेताः कृष्णशिरसः सूचिमुखास्तेषां सत्त्वानां यावदस्थीनि भिन्दन्ति /
5084 SK [१६३|२५-१६४|०१] क्षुरधाराचितो महापथः यत्र तेषां सत्त्वाना मन्वाक्रामतां निक्षिप्ते पादे संछिद्यते त्वङ्मांसशोणितमिति पूर्ववत् /
5085 SK [१६४|०१-१६४|०२] असिपत्रवनं यत्र तेषां सत्त्वानां तीक्ष्णा असयः संनिपतन्ति अङ्गप्रत्यङ्गान्यवकृन्तन्ति श्यामशबलाश्च श्वानो भक्षयन्ति /
5086 SK [१६४|०२-१६४|०३] अयःशाल्मलीवनं तीक्ष्णषोड्शाङ्गुलकण्टकम् /
5087 SK [१६४|०३-१६४|०४] तेषां सत्त्वानामभिरोहतां कण्टका अवाङ्मुखीभवन्तः कायं भिन्दन्ति अवतरतां चोर्ध्वीभवन्तः /
5088 SK [१६४|०४-१६४|०५] अयस्तुण्डाश्च वायसा अक्षीण्युत्पाट्योत्पाट्य भक्षयन्ति /
5089 SK [१६४|०५-१६४|०६] तदेतत् क्षुरमार्गादिक त्रयं शस्त्राभिनिपातं सामान्यादेकीक्रियन्ते /
5090 SK [१६४|०६-१६४|०८] चतुर्थ उत्सदो नदी वैतरणि पूर्ण तप्तस्य क्षारोदकस्य यस्यां ते सत्त्वा असिशक्तिप्रासहस्तैः पुरुषैरुभाभ्यां तीराभ्यां प्रतिवार्यमाणा ऊर्ध्वमपि गच्छन्तः स्विद्यन्ते पच्यन्ते अधस्तिर्यगपि गच्छन्तः स्विद्यन्ते पच्यन्ते /
5091 SK [१६४|०९] तद्यथा बहूदकायां स्थाल्यामग्नावधिश्रितायां तिलतण्डुइलादयः /
5092 SK [१६४|०९-१६४|१०] सा हि महानरकस्य परिखेवोत्पन्ना /
5093 SK [१६४|१०] त एते चत्वार उत्सदा दिग्भेदेन षोडशोच्यन्ते /
5094 SK [१६४|११] अधिकयातनास्थानित्वादुत्सदाः इत्युच्यन्ते / नरकेषु हि पतिता एतेषु पुनर्यात्यन्ते /
5095 SK [१६४|१२] नरका वरोधादुर्ध्वमेतेषु सीदन्त्युत्सदा इत्यपरे /
5096 SK [१६४|१३] प्रश्नात्प्रश्नान्तरमुपजायते /
5097 SK [१६४|१३-१६४|१४] किं ते नरकपालाः सत्त्वसंख्याता उताहो नेति /
5098 SK [१६४|१४] नेत्येके / कथमिदानीं चेष्टन्ते /
5099 SK [१६४|१४-१६४|१५] सत्त्वानां कर्मभिर्विवर्त्तनीवायुबीजवत् /
5100 SK [१६४|१५] यत्त्र्हि भदन्तधर्मसुभूतिनोक्तं
5101 SK [१६४|१६-१६४|१७] ᳚क्रोधनाः क्रूरकर्माणः पापाभिरुचयश्च ये / दुःखितेषु च नन्दन्ति जायन्ते यमराक्षसा᳚ इति //
5102 SK [१६४|१८-१६४|१९] ये ते यमेनानुशिष्टाः सत्त्वान् नरकेषु प्रक्षिपन्ति त एते यमराक्षसा उक्ता न तु ये कारणाः कारयन्तीति /
5103 SK [१६४|१९] सत्त्वसंख्याता इत्येके / तस्येदानीं कर्मणः क्व विपाकः /
5104 SK [१६४|२०-१६४|२१] तेष्वेव नरकेषु हि आनन्तर्यकारिणां विपाकावकाशस्तत्र तेषां को विप्रतिबन्धः /
5105 SK [१६४|२१] कथमग्निना न दह्यन्ते / अग्नेर्नूनं कर्मभिः कृतावधित्वात् /
5106 SK [१६४|२१-१६४|२२] भूतविशेषनिर्वृत्तेर्वा /
5107 SK [१६४|२३] इमे तावदुष्णा अष्टौ महानरका उच्यन्ते /
5108 SK [१६४|२४] शीता अन्ये ऽष्टावर्वुदादयः // VAक्K_३.५९ //
5109 SK [१६४|२५] अन्ये शीतनरका अष्टौ /
5110 SK [१६४|२५-१६५|०१] तद्यथा अर्वुदो निरर्वुदः अटतो हहवः हुहुवः उत्पलः पद्मो महापद्मश्च /
5111 SK [१६५|०१-१६५|०२] तेषां सत्त्वानां तीर्वशीताभिहतानां कायशब्दविकारानुरूपाण्येतानि नामानि /
5112 SK [१६५|०२] ते ऽप्यस्यैव जम्बूद्वीपस्याधस्तात् महानरकाणां तिर्यक् /
5113 SK [१६५|०२-१६५|०३] कुत इयतो जम्बूद्वीपस्याधस्तादवीच्यादीनामवकाशः /
5114 SK [१६५|०३-१६५|०४] धान्यराशिवदधो विशाला हि द्वीपाः /
5115 SK [१६५|०४] अत एव महासमुद्रो ऽनुपूर्वनिम्नः /
5116 SK [१६५|०४-१६५|०५] इतीमे षोडश नरकाः सर्वे सत्त्वकर्माधिपत्यनिर्वृत्ताः /
5117 SK [१६५|०५-१६५|०६] प्रत्येकं नरकास्तु स्वैः स्वैः कर्मभिरभिनिर्वृत्ताः /
5118 SK [१६५|०६] बहूनां सत्त्वानां द्वयोरेकस्य वा /
5119 SK [१६५|०६-१६५|०७] तेषामनेकप्रकल्पो भेदः स्थानं चानियतं नदीपर्वतमरुप्रदेशेष्वन्येषु वा ऽधश्च भावात् /
5120 SK [१६५|०७-१६५|०८] एष तावन्नरकभाजनानां संनिवेशः /
5121 SK [१६५|०८] तिर्यञ्चः स्थलजलाकाशगोचराः /
5122 SK [१६५|०८-१६५|०९] तेषां किल मूलं स्थानं महासमुद्रस्ततो ऽन्यत्र विसृता इति /
5123 SK [१६५|०९] प्रेतानां यमो राजा /
5124 SK [१६५|०९-१६५|१०] तस्य जम्बूद्वीपस्याधस्तात् पञ्चयोजनशतान्तरपरिच्छिन्ना राजधानी तेषां मूलस्थानं ततो ऽन्यत्र विसृताः /
5125 SK [१६५|११] केचित् प्रेता महर्द्धिका दैवीमिव श्रियमुद्वहन्ति / शेषा यथा प्रेतावदाने /
5126 SK [१६५|१२] अथेमौ चन्द्रार्कौ कस्मिन् प्रतिष्ठितौ / वायौ /
5127 SK [१६५|१२-१६५|१३] वायवोऽन्तरीक्षे सर्वसत्त्वसाधारणकर्माधिपत्यनिर्वृत्ता आवर्तवत् सुमेरुं परिवर्तन्ते /
5128 SK [१६५|१३-१६५|१४] चन्द्रार्कताराणां वोर्ध्वचारः /
5129 SK [१६५|१४] कियद्वीप्रकृष्टावितश्चन्द्रार्कौ /
5130 SK [१६५|१५] अर्धेन मेरोश्चन्द्रार्कौ /
5131 SK [१६५|१६] युगन्धरगिरेर्मूर्ध्ना समं वहतः / किं प्रमाणौ / यथाक्रमं
5132 SK [१६५|१७] पण्चाशत्सैकयोजनौ /
5133 SK [१६५|१८] पञ्चाशत् योजनानि चन्द्रमण्डलस्य प्रमाणम् /
5134 SK [१६५|१८-१६५|१९] सैकानि पञ्चाशत् सूर्यमण्दलस्य प्रमाणम् /
5135 SK [१६५|१९] एकपञ्चाशदित्यर्थः /
5136 SK [१६५|१९-१६५|२०] तारकाविमानानां यस्याल्पप्रमाणं प्रमाणं तस्य क्रोशः /
5137 SK [१६५|२०-१६५|२१] सूर्यविमानस्याधस्तात् वहिः स्फटिकमण्डलं तैजसमभिनिर्वृत्तं तापनं प्रकाशनं च /
5138 SK [१६५|२१-१६५|२२] चन्द्रविमानस्याधस्तादाप्यं शीतलं भास्वरं च /
5139 SK [१६५|२२-१६५|२३] प्रणीनां कर्मभिर्दृष्टिशरीरफलपुष्पसस्योषधीनामनुग्रहार्थमुपघातकार्थं यथासंभवम् /
5140 SK [१६५|२३] चतुर्द्वीपके एकश्चन्द्रमाः कृत्यं करोत्येकः सूर्यः /
5141 SK [१६५|२३-१६५|२४] किं पुनश्चतुर्द्वीपेषु सूर्यो युगपत् कृत्यं करोति /
5142 SK [१६५|२४] नेत्याह / किं तर्हि / तेषु /
5143 SK [१६५|२५] अर्धरात्रोऽस्तङ्गमनं मध्याह्न उदयः सकृत् // VAक्K_३.६० //
5144 SK [१६५|२६-१६५|२७] यदोत्तरकुरावर्धरात्रं तदा पूर्वविदेहे सूर्यस्यास्तङ्गमनं जम्बूद्वीपे मध्याह्नो गोदानीये उदयः /
5145 SK [१६५|२७] एवमन्येष्वपि योज्यम् / सूर्यस्येह गतिभेदेन रात्रिदिवानां वृद्धिह्रासौ /
5147 SK [१६६|०१] प्रावृण्मासे द्वितीये ऽन्त्यनवम्यां वर्धते निशा /
5148 SK [१६६|०२] वर्षाणां द्वितीये मासे भाद्रपदे द्वितीयस्य पक्षस्य नवम्यां वर्धते रात्रिः /
5149 SK [१६६|०३] हेमन्तानां चतुर्थे तु हीयते
5150 SK [१६६|०४] सैव हेमन्तानां चतुर्थे मासे पुनर्हीयते / अन्त्यनवम्यामिति वर्त्तते /
5151 SK [१६६|०४-१६६|०५] फाल्गुनमासस्य द्वितीयपक्षनवम्याम् /
5152 SK [१६६|०६] अहर्विपर्ययात् // VAक्K_३.६१ //
5153 SK [१६६|०७] यदा रात्रिर्वर्धते तदा दिवसो हीयते / यदा रात्रिर्हीयते तदा दिवसो वर्धते /
5154 SK [१६६|०८] कियत्या मात्रया वर्धते /
5155 SK [१६६|०९] लवशो रात्र्यहर्वृद्धी
5156 SK [१६६|१०] लवं लवं रात्रिर्वर्धते दिवसो वा / ते च हानिवृद्धी यथाक्रमं
5157 SK [१६६|११] दक्षिणोत्तरगे रवौ /
5158 SK [१६६|१२] जम्बूद्विपस्य दक्षिणं पार्श्वं गच्छति भास्करे रात्रिवृद्धिः उत्तरं गच्छत्यहर्वृद्धिः /
5159 SK [१६६|१३] शुक्लपक्षस्यादौ चन्द्रमसो विकलं मण्डलं दृश्यते / किं तत्र कारणम् /
5160 SK [१६६|१४] स्वच्छायया ऽर्कसामीप्याद्विकलेन्दुसमीक्षणम् // VAक्K_३.६२ //
5161 SK [१६६|१५-१६६|१६] यदा हि सौरस्य विमानस्यासन्ने चान्द्रमसं विमानं वहति तदा किल सौर्यो भासस्तस्मिन् विमाने पतन्ति /
5162 SK [१६६|१६-१६६|१७] ततो ऽपरपार्श्वे छाया पतन्ती विकलं मण्डलं दर्शयतीति प्राज्ञप्तिको निर्देशः /
5163 SK [१६६|१७-१६६|१८] वाहयोगः स तादृशो भवति यत्कदाचिद्विमानस्यार्धं दृश्यत इति पूर्वाचार्याः /
5164 SK [१६६|१८-१६६|१९] अथैतानि सूर्यादिविमानानि कतमे सत्त्वा अध्यावसन्ति /
5165 SK [१६६|१९] देवाश्चातुर्महाराजकायिकाः / किमेतान्येव तेषां स्थानानि /
5166 SK [१६६|२०] विमानवासिनामेतानि / भूमिनिवासिनां पुनः सुमेरूपरिषण्डादीनि /
5167 SK [१६६|२०-१६६|२१] कति चास्य परिषण्डाः कियत्यो वा /
5168 SK [१६६|२२] परिषण्डाश्चतस्रो ऽस्य दशसाहस्रिकान्तराः /
5169 SK [१६६|२३]/ दशयोजनसहस्राण्युद्गम्यैका / एवं यावच्चतुर्थी / ताभिः सुमेरोरर्धमाक्षिप्तम् /
5170 SK [१६६|२४] ताश्च ततो यथासंख्यं
5171 SK [१६७|०१] षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः // VAक्K_३.६३ //
5172 SK [१६७|०२] प्रथमा परिषण्डा षोडश सहस्राणि योजनानां सुमेरोर्निर्गता /
5173 SK [१६७|०३] द्वितीया ऽष्टौ तृतीया चत्वारि चतुर्थी द्वे /
5174 SK [१६७|०४] करोटपाणयस्तासु मालाधारास्सदामदाः /
5175 SK [१६७|०५] महाराजिकदेवाश्च
5176 SK [१६७|०६] प्रथमायां परिषण्डायां करोटपाणयो नाम यक्षाः प्रतिवसन्ति /
5177 SK [१६७|०६-१६७|०७] द्वितीयायां मालाधारास्तृतीयायां सदामदाः सदामत्ताः /
5178 SK [१६७|०७] सर्व एते चतुर्महाराजकायिकाः /
5179 SK [१६७|०७-१६७|०८] चतुर्थ्यां तु चत्वारो महाराजाः स्वयं प्रतिवसन्ति तत्परिचाराश्च /
5180 SK [१६७|०८-१६७|०९] अतस्तस्यां महाराजकायिका देवा इत्युक्तम् /
5181 SK [१६७|०९] यथा परिषण्डासु चतुर्महाराजकायिका देवा एवं
5182 SK [१६७|१०] पर्वतेष्वपि सप्तसु // VAक्K_३.६४ //
5183 SK [१६७|११] युगन्धरादिषु पर्वतेषु तेषां ग्रामनिगमाः / अत एवैष देवनिकायः सर्वेषां महिष्ठः /
5184 SK [१६७|१२] मेरुमूर्ध्नि त्रयस्त्रिंशाः
5185 SK [१६७|१३] अथ कियान्मेरुमूर्धा /
5186 SK [१६७|१४] स चाशीतिसहस्रदिक् /
5187 SK [१६५|१५] एकैकपार्श्वमशीतिसहस्राणि यथैवाधस्तात् /
5188 SK [१६७|१५] अन्ये पुनराहुः /
5189 SK [१६७|१५-१६७|१६] स विंशतिसहस्रदिक् /
5190 SK [१६७|१६] चत्वारि पार्श्वन्यस्य चतस्रो दिशः /
5191 SK [१६७|१६-१६७|१७] एकैकं पार्श्वं विंशतिर्योजनसहस्राणि समन्तात् परिक्षेपेणाशीतिरिति //
5193 SK [१६७|१८] विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः // VAक्K_३.६५ //
5194 SK [१६७|१९] सूमेरुमूर्ध्नो विदिशः कोणाः /
5195 SK [१६७|१९-१६७|२०] तासु पञ्चयोजनशतप्रमाणाश्चत्वारः कूटा अभ्युद्गता येषु वज्रपाणयो नाम यक्षाः प्रतिवसन्ति /
5196 SK [१६७|२०] तस्य च मेरुमूर्ध्नः
5197 SK [१६७|२१-१६७|२२] मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम् / पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु // VAक्K_३.६६ //
5198 SK [१६७|२३-१६७|२४] सुमेरुतलस्य मध्ये सुदर्शनं नाम नगरम् दैर्ध्ये सार्धतृतीययोजनसहस्रे एकैकं पर्श्वमुच्छ्रायेणाध्यर्धयोजनम् /
5199 SK [१६७|२४-१६७|२५] प्राकारः सौवर्ण एकोत्तरेण धातुशतेनास्य भुमिश्चित्रिता /
5200 SK [१६७|२५-१६७|२६] तच्च भूमितलं तूलपिचुवत् मृदुसंस्पर्शं पादक्षेपोत्क्षेपाभ्यां नतोन्नतं शक्रस्य देवानामिन्द्रस्य राजधानी /
5201 SK [१६८|०१] सार्धद्विशतपाश्र्वो ऽत्र वैजयन्तः
5202 SK [१६८|०२-१६८|०४] शक्रस्य देवानामिन्द्रस्य वैजयन्तो नाम प्रासादो नगरस्य मध्ये नानारत्नस्थानविधानसंपदा सर्वान्यभवनश्रीमहिम्ना ह्रेपणो दैर्ध्येणार्धतृतीये योजनशते पार्श्वं पार्श्वम् /
5203 SK [१६८|०४] इयं तावन्नगरस्याभिरामता /
5204 SK [१६८|०५] बहिः पुनः /
5205 SK [१६८|०६] तच्चैत्ररथपारुष्यमिश्रनन्दनभूषितम् // VAक्K_३.६७ //
5206 SK [१६८|०७] तस्य हि नगरस्य बहिश्चतुर्षु पार्श्वेषु चत्वार्युद्यानादीनि देवानां क्रिडाभूमयः /
5207 SK [१६८|०८] चैत्ररथमुद्यानं पारुष्यकं मिश्रकावणं नन्दनवनं च / तैस्तन्नगरं बहिरलङ्कृतम् /
5208 SK [१६८|०९] विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम् /
5209 SK [१६८|१०-१६८|११] एषां चोद्यानानां चतुर्दिशं चत्वारि सुमूमीनि विंशतियोजनान्तरितानि क्रीडास्थानान्येव देवानां परस्परस्पर्धयैव शोभां वितन्वन्ति /
5210 SK [१६८|१२] वहिरेव नगरस्य पार्श्वे
5211 SK [१६८|१३] पूर्वोत्तरे पारिजातः सुधर्मा दक्षिणावरे // VAक्K_३.६८ //
5212 SK [१६८|१४] पारिजातो नाम कोविदारस्त्रायस्त्रिंशानां देवानां कामरतिप्रकर्षाश्रयः /
5213 SK [१६८|१४-१६८|१५] तस्य पञ्च योजनानि मूलाहिनिवेशो योजनशतमुच्छ्रायः/
5214 SK [१६८|१५-१६८|१६] पञ्चाशत् योजनानि शाखापत्रपलाशं स्करित्वा तिष्ठति /
5215 SK [१६८|१६-१६८|१७] तस्य खलु सर्वपरिफुल्लस्य योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजन योजनानि प्रतिवातम् /
5216 SK [१६८|१७] युक्तं तावदनुवातम् /
5217 SK [१६८|१७-१६८|१८] प्रतिवातं तु कथम् /
5218 SK [१६८|१८] वृक्षानतिक्रमं संधायोक्तमित्येके /
5219 SK [१६८|१८-१६८|१९] नहि नाम स्प्रतिवातं वातो वाति /
5220 SK [१६८|१९-१६८|२०] तस्यैव तु सा गन्धस्य तादृशो प्रभावसंपदेष्टव्या यात् प्रतिबध्यमानोऽपि दिव्यैर्मृदुमारुतैर्गन्धान्तरं संतनोति /
5221 SK [१६८|२०-१६८|२१] मन्दतरतमसमारम्भात्तु संतान आश्वेव समुच्छिद्यते यतो न तथा विप्रकृष्टमध्वानं प्रसर्पति /
5222 SK [१६८|२१-१६८|२२] किं पुनः स्वभूताश्रित एवमपुष्पगन्धसंतानो वर्तते उताहो वायुरधिवासितो जायते /
5223 SK [१६८|२२] नात्र नियमः /
5224 SK [१६८|२३] उभयथापि ह्याचार्येष्टिः / यत्तर्हि भगवतोक्तं
5225 SK [१६८|२४-१६८|२५] ᳚न पुष्पगन्धः प्रतिवातमेति न मौलिकस्तागरश्चान्दनो वा / सतां तु गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाती᳚ति /
5226 SK [१६९|०१] मानुष्यकं पुष्पगन्धं संधायोक्तम् / तद्धि प्रतीतं लोके /
5227 SK [१६९|०१-१६९|०३] न च तस्य तादृशी शक्तिः महीसासकास्तु पथन्ति ᳚योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजनानि प्रतिवातमिति /
5228 SK [१६९|०३-१६९|०४] सुधर्मा नाम देवसभा दक्षिणपश्चिमे दिग्भागे यस्यां निषद्य देवाः कृत्याकृत्यं समर्थयन्ति /
5229 SK [१६९|०४] एष तावत्त्रिदशानां भाजनसंनिवेशः /
5230 SK [१६९|०५] ततऊर्ध्वं विमानेषु देवाः
5231 SK [१६९|०६] त्रिदशेभ्य ऊर्ध्वं देवा विमानेषु प्रतिष्ठिताः /
5232 SK [१६९|०६-१६९|०७] ते पुनर्यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनश्च ब्रह्मकायिकादयश्च पूर्वोक्ताः षोडशस्थानान्तरगताः /
5233 SK [१६९|०८] इत्येते द्वाविंशतिदेवनिकायाः समासेन येषां भाजनं प्रज्ञायते /
5234 SK [१६९|०९] कामभुजस्तु षट् /
5235 SK [१६९|१०] तेषां तु षट् कामावचरा देवनिकायाः कामान् परिभुञ्जते न शेषाः /
5236 SK [१६९|१०-१६९|११] तद्यथा चतुर्महाराजकायिका यावत् परनिर्मितवशवर्तिनः /
5238 SK [१६९|१२] द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षितमैथुनाः // VAक्K_३.६९ //
5239 SK [१६९|१३] द्वन्द्वेन मैथुनं भूमिसम्बद्धवासिनाम् /
5240 SK [१६९|१३-१६९|१४] चातुर्महाराजकायिकानां त्रायस्त्रिङ्क्शानां यथा मनुष्याणाम् /
5241 SK [१६९|१४] तेषां तु वायुनिर्मोक्षात् दाहविगमः शुक्राभावात् /
5242 SK [१६९|१४-१६९|१५] आलिङ्गनेन मैथुनं यामानामालिङ्गनमात्रेण दाहविगमात् /
5243 SK [१६९|१५-१६९|१६] पाणिसंप्राप्त्या तुषितानां हसितेन निर्माणरतीनां प्रेक्षितेन परनिर्मितवशवर्तिनाम् /
5244 SK [१६९|१६-१६९|१७] स्ववर्तिनां सर्वेषां द्वन्द्वसमापत्त्या /
5245 SK [१६९|१७] कालपरिमानं तु प्रज्ञप्तावुक्तमिति वैभाषिकाः /
5246 SK [१६९|१७-१६९|१८] यावद्यावद्विषयाणां तीव्रतरता तावत्तावद्रागोऽपि तीव्रतरः /
5247 SK [१६९|१८-१६९|१९] यस्य देवस्य देव्या वा उत्सङ्गे देवकुमारो देवकन्या वा जायते स तयोः पुत्रो भवति सा च दुहिता /
5248 SK [१६९|१९-१६९|२०] कियत्प्रमाणो जायते /
5249 SK [१६९|२१] पञ्चवर्षोपमो यावत् दशवर्षोपमः शिशुः /
5250 SK [१६९|२२] संभवत्येषु
5251 SK [१६९|२३] यथासंख्यं षट्सु देवनिकायेषु / ते तु क्षिप्रमेवाभिवर्धन्ते /
5252 SK [१६९|२४] संपूर्णाः सवस्त्राश्चैव रूपिणः // VAक्K_३.७० //
5253 SK [१७०|०१] रूपावचरा देवाः संपूर्णकायाः वस्त्रेण संवीता उपपद्यन्ते /
5254 SK [१७०|०१-१७०|०२] सर्वे देवा आर्यभाषाभाषिणः /
5255 SK [१७०|०२] तदत्र कामधातौ वेदितव्याः
5256 SK [१७०|०३] कामोपपत्तयस्तिस्रः कामदेवाः समानुषाः /
5257 SK [१७०|०४] कथं कृत्वा /
5258 SK [१७०|०४-१७०|०५] सन्ति सत्त्वाः प्रत्युपस्थितकामाः प्रत्युपस्थितेषु कामेष्वैश्वर्यं वशे वर्तयन्ति /
5259 SK [१७०|०५] तद्यथा मनुष्यास्तदेकत्याश्च देवाः / ते पुनश्चत्वारो देवनिकायाः /
5260 SK [१७०|०६] सन्ति सत्त्वा निर्मितकामा निर्माय कामानैश्वर्य वशे वर्तयन्ति /
5261 SK [१७०|०६-१७०|०७] तद्यथा देवा निर्माणरतयः /
5262 SK [१७०|०७-१७०|०८] सन्ति सत्त्वाः परनिर्मितकामाः परनिर्मितेषु कामेष्वैश्वर्य वशे वर्त्तयन्ति /
5263 SK [१७०|०८] तद्यथा देवाः परनिर्मितवशवर्त्तिनः /
5264 SK [१७०|०८-१७०|१०] ता एता यथोत् पन्नपरिभोगित्वात् यथेच्छात्मनिर्मितपरिभोगित्वाद्यथेच्छात्मपर निर्मितपरिभोगित्वाच्च तिस्रः कामोपपत्तय इत्युच्यन्ते /
5265 SK [१७०|१०] रूपधातौ तु
5266 SK [१७०|११] सुखोपपत्तयस्त्रिसो नवत्रिध्यानभूमयः // VAक्K_३.७१ //
5267 SK [१७०|१२] त्रिषु ध्यानेषु या नव भूमयः तास्तिस्रः सुखोपपत्तयः /
5268 SK [१७०|१२-१७०|१४] ते हि देवा विवेकजेन समाधिजेन च प्रीतिसुखेन च निष्प्रीतिकेन च सुखेन सुखं विहरन्तो दीर्घमध्वानं तिष्ठन्ति /
5269 SK [१७०|१४] अत एता निर्दुःखदीर्घसुखत्वात्सुखा उपपत्तयः सुखोपपत्तयः /
5270 SK [१७०|१४-१७०|१५] ध्यानान्तरोत्पत्तौ तु प्रीतिसुखाभावात्सुखोपपत्तित्वं विचार्यम् /
5271 SK [१७०|१६-१७०|१७] यान्येतानि देवानां द्वाविंशतिस्थानान्युक्तानि तेषामधरादुत्तरं कियद्विप्रकृष्टम् /
5272 SK [१७०|१७] नैतत् सर्वं योजनपरिसंख्यया सुकरं परिसंख्यातुम् / अपि तु
5273 SK [१७०|१८] स्थानात् स्थानादधो यावत्तावदूर्ध्वं ततस्ततः /
5274 SK [१७०|१९-१७०|२०] जम्बूद्वीपात् प्रभृति यदुत्तरं स्थानं तस्माद्यावदधो जम्बूद्वीपस्तावत् पुनस्तस्मादूर्ध्वं स्थानान्तरम् /
5275 SK [१७०|२०-१७०|२१] तद्यथा चतुर्थी परिषण्डा चतुर्णां महाराजानां मूलस्थानमितश्चत्वारिंशद्योजनसहस्राणि /
5276 SK [१७०|२१-१७०|२२] तस्माद्यावदधोजम्बूद्वीपस्तावदूर्ध्वं त्रिदशानां स्थानम् तस्मादपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं यामानां स्थानम् /
5277 SK [१७०|२३] ततोऽपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं तुषितानां स्थानमिति /
5278 SK [१७०|२३-१७०|२४] एवं विस्तरेण सर्वमनुक्रम्य सुदर्शनेभ्यो यावदधो जम्बूद्वीपस्तावदूर्ध्वंमकनिष्ठानां स्थानम् /
5279 SK [१७०|२५] तस्मादूर्ध्वं न पुनः स्थानमस्ति / अत एव ज्येष्ठभूत्वादकनिष्ठा उच्यन्ते /
5280 SK [१७०|२५-१७०|२६] अघनिष्ठा इत्यपरे /
5281 SK [१७०|२६] अघं किल चित्तस्थं रूपं तन्मात्रनिष्ठेति /
5282 SK [१७०|२७] किं पुनरधरस्थानोपपन्ना उर्ध्वानि विमानानि गत्वा पश्यन्ति
5283 SK [१७१|०१] नोर्ध्वं दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात् // VAक्K_३.७२ //
5284 SK [१७१|०२] ऋद्ध्या वा त्रायस्त्रिंशा यामान् / गच्छेयुः /
5285 SK [१७१|०२-१७१|०३] पराश्रयेण वा यद्वृद्धिमता नीयेरन् देवेन वा तत्रत्येन /
5286 SK [१७१|०३] एवं शेषाः /
5287 SK [१७१|०३-१७१|०४] आगतं तूर्ध्वोपपन्नं पश्येन्नतूर्ध्वधातुकं नोर्ध्वभूमिकम् /
5288 SK [१७१|०४] यिअथा स्प्रष्टव्यं न स्पृशेदविषयत्वात् /
5289 SK [१७१|०४-१७१|०५] अत एव तेनास्वेन कायेनागच्छन्ति /
5290 SK [१७१|०५-१७१|०६] किं तर्हि निर्मितेनाधरभूमिकेन तदिच्छया पश्येदिहत्यमिवेति निकायान्तरीयाः /
5291 SK [१७१|०७] अथैषां यामादिविमानानां कियत् प्रमाणम् /
5292 SK [१७१|०७-१७१|०८] चतुर्णां तावद्यावत्सुमेरुमूर्ध्नः इत्येके /
5293 SK [१७१|०८] द्विगुणोत्तरमित्यपरे / प्रथमं तु ध्यानं यावांश्चातुर्द्वीपकः /
5294 SK [१७१|०८-१७१|०९] द्वितीयं यावान् साहस्रश्चूडिको लोकधातुः /
5295 SK [१७१|०९] तृतीयं यावान् द्विसाहस्रः /
5296 SK [१७१|०९-१७१|१०] चतुर्थं यावांस्रिसाहस्र इत्येके /
5297 SK [१७१|१०] प्रथमादीनि साहस्रादिपरिमाणानि /
5298 SK [१७१|१०-१७१|११] चतुर्थं त्वपरिमाणमित्यपरे /
5299 SK [१७१|१२] अथ कोऽयं साहस्रश्चूडिको लोकधातुः को द्विसाहस्रस्त्रिसाहस्रो वा /
5300 SK [१७१|१३-१७१|१४] चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम् / ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः // VAक्K_३.७३ //
5301 SK [१७१|१५-१७१|१७] सहस्रञ्जंबूद्वीपानां पूर्वविदेहानामपरगोदानीयानामुत्तरकुरुणां सहस्रं सूर्याणां चन्द्राणां सुमेरूणां सहस्रं चातुर्महाराजकायिकानां देवानां यावत् परनिर्मितवशवर्तिनां सहस्रं ब्रह्मलोकानामयमुच्यते साहस्रश्चूडिको लोकधातुः /
5302 SK [१७१|१८] तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः /
5303 SK [१७१|१९] तेषां चूडिकानां लोकधातूनां सहस्रं द्विसाहस्रो मध्यमो लोकधातुः /
5304 SK [१७१|२०] तत्सहस्रं त्रिसाहस्रः
5305 SK [१७१|२१] तेषां द्विसाहस्राणां लोकधातूनां सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातुः /
5306 SK [१७१|२१-१७१|२२] एष हि कृत्स्नः
5307 SK [१७१|२३] समसंवर्तसंभवः // VAक्K_३.७४ //
5308 SK [१७१|२४] समं संवर्तते समं विवर्तते / संभवो हि विवर्तः इत्युत्तरत्र व्याख्यास्यते /
5309 SK [१७१|२५-१७१|२६] किं खलु यथा भाजनानां प्रमाणभेद एवं तद्वासिनामपि सत्त्वानां प्रमाणभेदोऽस्ति /
5310 SK [१७१|२६] अस्तीत्याह / तत्र तावत्
5311 SK [१७१|२७] जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः /
5312 SK [१७१|२८] जम्बूद्वीपका मनुष्याः प्रमाणार्धचतुर्हस्तकाः केचित्तु चतुर्हस्तकाः
5313 SK [१७२|०१] द्विगुणोत्तरवृद्ध्या तु पूर्वगोदोत्तराह्वयाः // VAक्K_३.७५ //
5314 SK [१७२|०२-१७२|०३] पूर्वविदेहका गोदानीका उत्तरकौरवाश्च मनुष्या अष्टषोडशद्वात्रिंशद्धस्तका यथाक्रमम् /
5315 SK [१७२|०४] पादवृद्ध्या तनुर्यावत्सार्धक्रोशो दिवौकसाम् /
5317 SK [१७२|०६] पादः क्रोशस्य चतुर्थो भगः /
5318 SK [१७२|०६-१७२|०८] तन्मात्रं शरीरं चातुर्महाराजकायिकानां द्वौ पादौ त्रायस्त्रिंशानां त्रयो यामानां चत्वारस्तुषितानां पञ्च निर्माणरतीनां अध्यर्धः क्रोशः परनिर्मितवशवर्तिनाम् /
5319 SK [१७२|०९] रुपिणां त्वादौ योजनार्धं
5320 SK [१७२|१०] रूपिणां देवानां प्रथमे स्थाने ब्रह्मकायिकानामर्धयोजनमात्रं शरीरम् /
5321 SK [१७२|११] ततः परम् // VAक्K_३.७६ //
5322 SK [१७२|१२] अर्धार्धवृद्धिः
5323 SK [१७२|१३] त्रिषु स्थानेसु ब्रह्मपुरोहितानां योजनं महाब्रह्मणो ऽध्यर्धं परीत्ताभानां द्वे योजने /
5324 SK [१७२|१४-१७२|१५] उर्ध्वं तु परीत्ताभेभ्य आश्रयः / द्विगुणद्विगुणा हित्वा ऽनभ्रकेभ्यऽस्त्रियोजनम् // VAक्K_३.७७ //
5325 SK [१७२|१६] अप्रमाणाभानां चत्वारि योजनानि / आभास्वराणामष्टौ /
5326 SK [१७२|१६-१७२|१७] एवं द्विगुणवृद्ध्या यावच्छुभकृत्स्नानां चतुःषष्टिः /
5327 SK [१७२|१७-१७२|१८] अनभ्रकाणां ततो योजनत्रयेण हीनं द्विगुणं पञ्चविंशतियोजन शतम् /
5328 SK [१७२|१८-१७२|१९] तस्मात् परेण पुनः पुण्यप्रसवानां द्विगुणं द्विगुणं यावदकनिष्ठानां षोडशयोजनसहस्राणि शरीरम् /
5329 SK [१७२|२०] एवं प्रमाणभिन्नानां किमायुषोऽप्यस्ति भेदः / अस्तीत्याह /
5330 SK [१७२|२१] सहस्रमायुः कुरुषु
5331 SK [१७२|२२] वर्षाणाम् /
5332 SK [१७२|२३] द्वयोरर्धार्धवर्जितम् /
5333 SK [१७२|२४] द्वयोर्द्विपयोरर्धार्धं वर्जयित्वा पञ्च वर्षशतानि गोदानीयानाम् /
5334 SK [१७२|२४-१७२|२५] अर्धतृतीये वर्षशते पूर्वविदेहानाम् /
5336 SK [१७३|०२] जम्बूद्वीपे नास्त्यायुषो नियमः कदाचित् भूयो भवति कदाचिदल्पीयः /
5337 SK [१७३|०३] अन्ते तु दशाब्दाः
5338 SK [१७३|०४] अब्दः संवत्सरः / अन्ते हीयमानं दश वर्षाण्यायुर्भवति /
5339 SK [१७३|०५] आदितोऽमितम् // VAक्K_३.७८ //
5340 SK [१७३|०६] आदितः प्राथमकल्पिकानं मनुष्याणामपरिमाणमायुर्भवति /
5341 SK [१७३|०६-१७३|०७] सहस्रादिसंख्यया परिमातुं न शक्यते /
5342 SK [१७३|०८] उक्तं मनुष्याणां देवानां वक्तव्यम् /
5343 SK [१७३|०८-१७३|०९] तच्चाहोरात्रं व्यवस्थाप्य शक्यं वक्तुमिति स एव चैषां व्यवस्थाप्यते /
5344 SK [१७३|१०-१७३|११] नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम् / कामेऽधराणां
5345 SK [१७३|१२-१७३|१३] यानि मनुष्याणां पञ्चाशद्वर्षाणि तानि कामधातावधराणां देवानां चातुर्महाराजकायिकानामेकं रात्रिन्दिवम् /
5346 SK [१७३|१४] तेनायुः पञ्चवर्षशतानि तु // VAक्K_३.७९ //
5347 SK [१७३|१५-१७३|१६] तेन ततस्तेनाहोरात्रेण तेषां त्रिंशद्रात्रकेण मासेन द्वादशमासकेन संवत्सरेण दिव्यानि पञ्चवर्षशतान्यायुः प्रमाणम् /
5348 SK [१७३|१७] द्विगुणोत्तरमूर्ध्वानामुभयं
5349 SK [१७३|१८] ऊर्ध्वानां देवानामुभय द्विगुणोत्तरमहोरात्रश्चायुश्च / कथं कृत्वा /
5350 SK [१७३|१८-१७३|१९] यन्मनुष्याणां वर्षशतं तत्त्रायस्त्रिंशानां देवानामेकं रात्रिन्दिवम् /
5351 SK [१७३|१९-१७३|२०] तेन रात्रिन्दिवेन दिव्यं वर्षसहस्रमायुः /
5352 SK [१७३|२०] एवं यामादीनां यथाक्रमम् /
5353 SK [१७३|२०-१७३|२१] मानुष्यकाणि द्वे चत्वार्यष्टौ षोडश वर्षशतान्येकं रात्रिन्दिवम् /
5354 SK [१७३|२१-१७३|२२] तेन रात्रिन्देवेन द्वे चत्वार्यष्टौ षोडश दिव्यानि वर्षसहस्राण्यायुषः प्रमाणम् /
5355 SK [१७३|२२] युगन्धरादूर्वं सूर्याचन्द्रमसोरभावात् //
5356 SK [१७३|२२-१७३|२३] कथं देवानामहोरात्रव्यवस्थानमालोककृत्यं वा /
5357 SK [१७३|२३-१७३|२४] पुष्पाणां संकोचविकासात्कुमुदबन्धु वत् शकुनीनां कूजनाकूजनात् मिद्धापगमागमाच्च आलोककृत्यं स्वयंप्रभत्वात् /
5358 SK [१७३|२५] उक्तमायुः कामिनाम् /
5359 SK [१७४|०१] रूपिणां पुनः /
5360 SK [१७४|०२] नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसंमितैः // VAक्K_३.८० //
5361 SK [१७४|०३] येषां रूपिणामर्धयोजनमाश्रयः तेषामर्धकल्पमायुः / येषां योजनं तेषां कल्पम् /
5362 SK [१७४|०३-१७४|०५] एवं यस्य यावद्योजनमाश्रयस्तस्य तावत्कल्पमायुर्यवदकनिष्ठानां षोडशकल्पसहस्राण्यायुः प्रमाणम् /
5363 SK [१७४|०६] आरूप्ये विंशतिः कल्पसहस्राण्य धिकाधिकम् /
5364 SK [१७४|०७] आकाशानन्त्यायतने विंशतिकल्पसहस्राण्यायुषः प्रमाणम् /
5365 SK [१७४|०८] विज्ञानानन्त्यायतने तस्मादधिकं विंशतिः सहस्राणि /
5366 SK [१७४|०८-१७४|०९] आकिञ्चन्यायतने तस्मादधिकं विंशतिः /
5367 SK [१७४|०९] भवाग्रे तस्मादधिकं विंशतिः /
5368 SK [१७४|०९-१७४|१०] एवं तेषां यथाक्रमं विंशतिश्चत्वारिंशत् षष्टिरशीतिः कल्पसहस्राण्यायुःप्रमाणम् /
5369 SK [१७४|११-१७४|१२] कतमोऽत्र कल्पो वेदितव्यः किमन्तरकल्पोऽथ संवर्तकल्पोऽथ विवर्त्तकल्पोऽथ महाकल्पः /
5370 SK [१७४|१३] महाकल्पः परीत्ताभात् प्रभृत्यर्धमधस्ततः // VAक्K_३.८१ //
5371 SK [१७४|१४] परीत्ताभादेव निकायात् प्रभृति महाकल्पेनायुः वेदितव्यम् /
5372 SK [१७४|१४-१७४|१५] तस्मादधो महाकल्पस्यार्ध कल्पीकृत्य महाब्रह्मादीनामायुर्व्यवस्थापितम् /
5373 SK [१७४|१५] कथं कृत्वा /
5374 SK [१७४|१५-१७४|१७] यच्च लोको विंशतिमन्तरकल्पान् विवर्तते यच्च लोको विंशतिमन्तरकल्पान्विवर्त आस्ते यच्च विंशतिमन्तरकल्पान्संवर्तते इमे षष्टिरन्तरकल्पा महाब्रह्मणोऽध्यर्धः कल्पः उक्तः /
5375 SK [१७४|१७-१७४|१८] एवं च कृत्वा महाकल्पस्यार्धं चत्वारिंशदन्तरकल्पान् कल्पीकृत्य तेषामायुः प्रमाणमुक्तम् /
5376 SK [१७४|१९] उक्तं सुगतावायुः प्रमाणम् /
5377 SK [१७४|२०] दुर्गताविदानीं वक्तव्यम् / तत्र तावत्
5378 SK [१७४|२१-१७४|२२] कामदेवायुषा तुल्या अहोरात्रा यथाक्रमम् / संजीवादिषु षट्सु
5379 SK [१७४|२३-१७४|२४] यावत् षण्णां कामावचराणां देवनिकायानामायुरुक्तं तेन तुल्या अहोरात्राः षट्षु नरकेषु यथाक्रमं वेदितव्याः /
5380 SK [१७४|२४-१७४|२५] संजीवे कालसूत्रे संघाते रौरवे महारौरवे तापने च /
5381 SK [१७४|२६] आयुस्तैस्तेषां कामदेववत् // VAक्K_३.८२ //
5382 SK [१७४|२७-१७४|२८] तैरिदानीं स्वैरहोरात्रैस्तेषां यथा षण्णां कामावचराणां देवानामायुस्तथैव यथाक्रमं वेदितव्यम् /
5383 SK [१७४|२८] कथं कृत्वा /
5384 SK [१७४|२८-१७४|२९] यद्धि चातुर्महाराजकायिकानामायुः प्रमाणं तत्संजीवने महानरके एकं रात्रिन्दिवं /
5385 SK [१७४|२९-१७५|०१] तेन यावत् द्वादशमासकेन संवत्सरेण तत्रत्यानि पञ्चवर्षशतान्यायुः /
5386 SK [१७५|०१-१७५|०२] यत्त्रायस्त्रिंशानामायुः प्रमाणं तत् कालसूत्रे महानरके एकं रात्रिन्दिवम् /
5387 SK [१७५|०२-१७५|०३] तेन रात्रिन्दिवेन तस्मिन्वर्षसहस्राण्यायुःप्रमाणं /
5388 SK [१७५|०३-१७५|०४] एवमन्येष्वपि यथायोगं योज्यं यावत् परनिर्मितवशवर्तिनामायुःप्रमाणं तत्तुल्येनाहोरात्रेण तापने षोडश वर्षसहस्राण्यायुःप्रमाणम् /
5389 SK [१७५|०५] अर्धं प्रतापने
5390 SK [१७५|०६] प्रतापने महानरकेऽन्तरकल्पस्यार्धमायुः प्रमाणम् /
5391 SK [१७५|०७] अवीचावन्तःकल्पं
5392 SK [१७५|०८] तिरश्चां तु नियमो नास्ति /
5393 SK [१७५|०९] परं पुनः /
5394 SK [१७५|१०] कल्पं तिरश्चां
5395 SK [१७५|११] परमायुस्तिरश्चामन्तरकल्पं तत् पुनर्नागानां नन्दोपनन्दाश्वतलीप्रभृतीनाम् /
5396 SK [१७५|११-१७५|१३] उक्तं हि भगवता ᳚अष्टाविमे भिक्षवो नागा महानागाः कल्पस्था धरणिधरा᳚ इति विस्तरः /
5397 SK [१७५|१४] प्रेतानां मासाह्ना शतपञ्चकम् // VAक्K_३.८३ //
5398 SK [१७५|१५] यो मनुष्याणां मासः स प्रेतानामहोरात्रः /
5399 SK [१७५|१५-१७५|१६] तेनाहोरात्रेण पञ्च वर्षशतान्यायुः /
5400 SK [१७५|१६] शीतनरकेष्वायुषः किं प्रमाणम् /
5401 SK [१७५|१७-१७५|१८] वाहाद्वर्षशतेनैकतिलोद्धारक्षयायुषः / अर्वुदाद्विंशतिगुणप्रतिवृद्ध्यायुषः परे // VAक्K_३.८४ //
5402 SK [१७५|१९-१७५|२०] उपमानमात्रेण तेष्वायुराख्यातं भगवता ᳚तद्यथा भिक्षवः इह स्याद्विंशतिखारीको मागधकस्तिलवाहः पूर्णस्तिलानां चूडिकावद्धः /
5403 SK [१७५|२०-१७५|२२] ततः कश्चिदेव वर्षशतस्यात्ययादेकं तिलमपनयते क्षिप्रतरं भिक्षवः सविंशतिखारीको मागधस्तिलवाहोऽनेनोपक्रमेण परिक्षयं पर्यादानं गच्छेत् /
5404 SK [१७५|२२] न त्वेवाहमर्वुदोपपन्नानामायुषः पर्यन्तं वदामि /
5405 SK [१७५|२२-१७५|२४] यथा खलु भिक्षवो विंशतिर्वुदा एवमेको निरर्वुदो विस्तरेण यथा खलु भिक्षवो विंशतिः पद्या एवमेको महापद्म᳚ इति /
5406 SK [१७५|२५] एवमेषामायुष्मतां सत्त्वानां किमस्त्यपरिपूर्णायुषामन्तरा मृत्युराहोस्विन्न /
5407 SK [१७५|२६] सर्वत्रास्ति
5408 SK [१७६|०१] कुरुबाह्योऽन्तरामृत्युः
5409 SK [१७६|०२] उत्तरकुरुषु नियतायुषः सत्त्वा अवश्यं कृत्स्नमायुर्जीवन्ति / अन्येषु नावश्यम् /
5410 SK [१७६|०३] पुद्गलानां तु बहूनां नास्त्यन्तरेण कालक्रियया /
5411 SK [१७६|०३-१७६|०५] तुषितस्थर्स्यकजातिबद्धस्य बोधिसत्त्वस्य चरमभविकसत्त्वस्य जिनादिष्टस्य जिनभुतस्य श्रद्धाधर्मानुसारिणो बोधिसत्त्वचक्रवर्त्तिमात्रोश्च तद्गर्भयोरित्येवमादिनाम् /
5412 SK [१७६|०६-१७६|०७] योजनप्रमणेन स्थानानि शरीराणि चोत्कानि वर्षप्रमाणेनायुरुक्तं तयोश्च प्रमाणं नोक्तमिति वक्तव्यं नाना च सर्वेषां ववस्थानमतस्तस्यापि पर्यन्तो वक्तव्यः /
5413 SK [१७६|०८] तेषां समानाख्यानार्थमादिप्रक्रम आरभ्यते /
5414 SK [१७६|०९] परमाण्वक्षरक्षणाः /
5415 SK [१७६|१०] रूपनामाध्वपर्यन्ताः
5416 SK [१७६|११] रूपस्यापचीयमानस्य पर्यन्तः परमाणुः /
5417 SK [१७६|११-१७६|१२] कालस्य पर्यन्तः क्षणो नाम्नः पर्यन्तोऽक्षरं तद्यथा गौरिति /
5418 SK [१७६|१२] क्षणस्य पुनः किं प्रमाणम् /
5419 SK [१७६|१२-१७६|१३] समग्रेषु प्रत्ययेषु यावता धर्मस्यात्मलाभः गच्छन्वा धर्मो यावता परमाणोः परमाण्वन्तरं गच्छति /
5420 SK [१७६|१३-१७६|१४] बलवत्पुरुषाद्धट्मात्रेण पञ्चषष्टिः क्षणा अतिक्रामन्तीत्याभिधार्मिकाः /
5421 SK [१७६|१५] परमाणुरणुस्तथा // VAक्K_३.८५ //
5422 SK [१७६|१६-१७६|१७] लोहापशशाविगोच्छिद्ररजोलिक्षास्तदुद्भवाः / यवस्तथाङ्गुलीपर्व ज्ञेयं सप्तगुणोत्तरम् // VAक्K_३.८६ //
5423 SK [१७६|१८] एतत्परमाण्वादिकं सप्तगुणोत्तरं वेदितव्यम् / सप्त परमाणवोऽणुः /
5424 SK [१७६|१८-१७६|१९] सप्ताणवो लोहरजः /
5425 SK [१७६|१९] तानि सप्ताव्रजस्तानि सप्त दाशरजस्तानि सप्तैडकरजः /
5426 SK [१७६|१९-१७६|२०] तानि सप्त गोरजः तानि सप्त वातायनच्छिद्ररजः /
5427 SK [१७६|२०] तानि सप्त लिक्षास्तदुद्भवा यूकेत्यर्थः /
5428 SK [१७६|२०-१७६|२१] सप्त यूका यवः /
5429 SK [१७६|२१-१७६|२२] सप्त यवा अङ्गुलीपर्व त्रीणि पर्वाण्यङ्गुरीति प्रसिद्धमेवेति नोक्तम् /
5430 SK [१७६|२२] पार्श्वाकृतास्तु /
5431 SK [१७७|०१] चतुर्विंशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम् /
5433 SK [१७७|०३] व्यासेनेत्यर्थः /
5434 SK [१७७|०४] पञ्चशतान्येषां क्रोशो रण्यं च तन्मतम् // VAक्K_३.८७ //
5435 SK [१७७|०५] मनुषां पञ्च शतानि क्रोशः / क्रोशमात्रं च ग्रामादि रण्यमिष्टम् /
5436 SK [१७७|०६] तेऽष्टौ योजनमित्याहुः /
5437 SK [१७७|०७] उक्तं योजनस्य प्रमाणम् / वर्षस्येदानीमुच्यते /
5438 SK [१७७|०८] विंशं क्षणशतं पुनः /
5440 SK [१७७|१०] क्षणानां विंशं शतमेकस्तत्क्षणः /
5441 SK [१७७|११] ते पुनः षष्टिर्लवः /
5442 SK [१७७|१२] तत्क्षणाः षष्टिर्लव इत्युच्यते /
5443 SK [१७७|१३] त्रिंशद्गुणोत्तराः // VAक्K_३.८८ //
5444 SK [१७७|१४] त्रयो मुहूर्त्ताहोरात्रमासाः
5445 SK [१७७|१५] त्रिंशल्लवा मुहूर्त्तस्त्रिशन्मुहूर्त्ता अहोरात्रः /
5446 SK [१७७|१५-१७७|१६] कदाचित्तु रात्रिरधिका भवति कदाचिदूना कदाचित्समा / [१७७|१६] त्रिदशाहोरात्रा मासः /
5447 SK [१७७|१७] द्वादशमासकः /
5448 SK [१७७|१८] संवत्सरः सोनरात्रः
5449 SK [१७७|१९-१७७|२०] चत्वारो मासा हेमन्तानां चत्वारो ग्रीष्माणां चत्वारो वर्षाणामित्येते द्वादश मासा संवत्सरः सार्धमूनरात्रैः /
5450 SK [१७७|२०] संवत्सरेण हि षडूनरात्रा निपात्यन्ते / कथं कृत्वा /
5451 SK [१७७|२१] ᳚हेमन्तग्रीष्मवर्षाणामध्यर्धे मासि निर्गते / शेषेऽर्धमासे विद्वद्भिरूनरात्रो निपात्यते //᳚
5452 SK [१७७|२३] उक्तं वर्षप्रमाणम् /
5453 SK [१७८|०१] कल्पस्येदानीं वक्तव्यम् /
5454 SK [१७८|०२] कल्पो बहुविधः स्मृतः // VAक्K_३.८९ //
5455 SK [१७८|०३] अन्तरकल्पो संवर्त्तकल्पो विवर्तकल्पो महाकल्पश्चेति / तत्र तावत्
5456 SK [१७८|०४] संवर्त्तकल्पो नरकासंभवात् भाजनक्षयः /
5457 SK [१७८|०५] नरकेषु हि सत्त्वासंभवात् प्रभृति यावत् भाजनसंक्षयः / द्वे हि संवर्त्तन्यौ /
5458 SK [१७८|०५-१७८|०६] गतिसंवर्तनी धातुसंवर्तनी च /
5459 SK [१७८|०६] पुनर्द्वे संवर्तन्यौ / सत्त्वसंवर्तनी भाजनसंवर्तनी च /
5460 SK [१७८|०७] भवति स कालो यन्नरकेषु सत्त्वाश्च्यवन्ते नोपपद्यन्ते / स आरम्भः संवर्तकल्पस्य /
5461 SK [१७८|०८] यदयं लोको विंशत्यन्तरकल्पान् विवृत्तोऽस्थात् तन्निर्यातं वक्तव्यम् /
5462 SK [१७८|०८-१७८|०९] यद्विंशतिमन्तरकल्पान् संवर्तिष्यते तत् प्रतिपन्नं वक्तव्यम् /
5463 SK [१७८|०९-१७८|१०] यदा नरकेष्वेकसत्त्वो नावशिष्टो भवति इयता ऽयं लोकः संवृत्तो भवति /
5464 SK [१७८|१०-१७८|११] यदुत नरकसंवर्त्तन्या यस्य तदानीं नियतं नरकवेदनीयं कर्म घ्रियते स लोकधात्वन्तरनरकेषु क्षिप्यते /
5465 SK [१७८|११-१७८|१२] एवं तिर्यक्संवर्त्तनी प्रेतसंवर्त्तनी च वक्तव्या /
5466 SK [१७८|१२] महासमुद्रगतास्तिर्यञ्चः पूर्वं संवर्तन्ते /
5467 SK [१७८|१२-१७८|१३] मनुष्यसहचरिष्णवस्तु तैरेव सार्धं भवन्ति /
5468 SK [१७८|१३-१७८|१६] स कालो यन्मनुष्येष्वन्यतमः सत्त्वः स्वयमनाचार्यकं धर्मताप्रातिलम्भिकं प्रथमं ध्यानं समापद्यते स तस्मात् व्युत्थाय वाचं भाषते सुखं वत विवेकजं प्रीतिसुखं शान्तं वत विवेकजं प्रीतिसुखमिति /
5469 SK [१७८|१६-१७८|१७] तं च शब्दं श्रुत्वा अन्येऽपि सत्त्वाः समापद्यन्ते /
5470 SK [१७८|१७] कालं कृत्वा ब्रह्मलोक उपपद्यन्ते /
5471 SK [१७८|१७-१७८|१८] यदा जम्बूद्वीप एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत जम्बूद्वीपसंवर्तन्या /
5472 SK [१७८|१८-१७८|१९] एवं पूर्वविदेहगोदानीयोत्तरकुरुसंवर्तन्यो वक्तव्याः /
5473 SK [१७८|१९-१७८|२०] यदा मनुष्येष्वेकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत मनुष्यगतिसंवर्त्तन्या /
5474 SK [१७८|२०-१७८|२१] औत्तरकौरवास्तु कालं कृत्वा कामावचरेषु देवेषूपपद्यन्ते /
5475 SK [१७८|२१] तत्र वैराग्याभावात् /
5476 SK [१७८|२१-१७८|२२] एवं चातुर्महाराजकायिकेष्वपि देवेषु प्रथमं ध्यानं समापद्य ब्रह्मलोक उपपद्यन्ते /
5477 SK [१७८|२२-१७८|२४] यदा तत्रैकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत चातुर्महाराजकायिकसंवर्तन्या /
5478 SK [१७८|२४-१७८|२५] एवं यावत् परनिर्मितवशवर्तिसंवर्त्त्न्यो वक्तव्याः /
5479 SK [१७८|२५-१७८|२६] यदैकसत्त्वोऽपि कामावचरेषु देवेषु नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत कामधातुसंवर्तन्या /
5480 SK [१७८|२६-१७८|२८] ब्रह्मलोकेऽप्यन्यतमः सत्त्वो धर्मताप्रातिलम्भिकं द्वितीयं ध्यानं समापद्योत्थाय वाचं भाषते सुखं वत समाधिजं प्रीतिसुखं शान्तं वत समाधिजं प्रीतिसुखमिति /
5481 SK [१७८|२८-१७९|०१] तं शब्दं श्रुत्वाऽन्येऽपि सत्त्वाः समापद्यन्ते कालं च कृत्वा आभास्वरेषु देवेषूपपद्यन्ते /
5482 SK [१७९|०१-१७९|०२] यदा ब्रह्मलोक एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत सत्त्वसंवर्तन्या /
5483 SK [१७९|०२-१७९|०४] ततः शून्ये भाजने इत एव सामन्तकात् सत्त्वानां तदाक्षेपके कर्मणि परिक्षीणे सप्त सूर्याः प्रादुर्भूय क्रमेण यावत् पृथिवीं सुमेरुं च निःशेषं दहन्ति /
5484 SK [१७९|०४-१७९|०५] तस्मादेवं प्रज्वलितादर्चिर्वायुना क्षिप्तं शून्यं ब्राह्मं विमानं निर्दहत् परैति /
5485 SK [१७९|०५] तच्च तद्भूमिकमेवार्चिर्वेदितव्यम् /
5486 SK [१७९|०५-१७९|०६] नहि विसभागा अपक्षालाः क्रमन्ते /
5487 SK [१७९|०६] तत्संबद्धसंभूतत्वात्तस्मात्तदित्युक्तम् /
5488 SK [१७९|०६-१७९|०७] कामावचरो ह्यग्नी रूपावचरमग्निं संबध्नातीति /
5489 SK [१७९|०७-१७९|०८] एवमन्यस्यामपि संवर्तन्यां यथायोगं वेदितव्यमिति /
5490 SK [१७९|०८-१७९|०९] नरकेषु सत्त्वानां च्युत्यनुत्पादात् प्रभृति यावत् भाजनानां संक्षय एष कालः /
5491 SK [१७९|१०] विवर्तकल्पः प्राग्वायोर्यावन्नरकसंभवः // VAक्K_३.९० //
5492 SK [१७९|११] थमाद्वायोः प्रभृति यावन्नरकेषु सत्त्वसम्भवः एष कालो विवर्तकल्प इत्युच्यते /
5493 SK [१७९|१२-१७९|१४] तथा संवृते हि लोक आकाशमात्रावशेषश्चिर कालं तिष्ठति यावत् पुनरपि सत्त्वानां कर्माधिपत्येन भाजनानां पूर्वनिमित्तभूता आकाशे मन्दमन्दा वायवः स्यन्दन्ते /
5494 SK [१७९|१४-१७९|१५] तदा यदयं लोको विंशतिमन्तरकल्पान् संवृत्तोऽस्थात्तन्निर्यातं वक्तव्यम् /
5495 SK [१७९|१५] यद्विंशतिमन्तरकल्पान् विवर्त्तिष्यते तदुपयातं वक्तव्यम् /
5496 SK [१७९|१६] ततस्ते वायवो वर्धमाना यथोक्तं वायुमण्डलं जायते /
5497 SK [१७९|१६-१७९|१७] ततः शनैर्यथोक्तक्रमविधानं सर्वं जायते अप्मण्डलं काञ्चनमयी महापृथिवी द्वीपाः सुमेर्वादयश्च /
5498 SK [१७९|१७-१७९|१८] प्रथमं तु ब्राह्म विमानमुत्पद्यते /
5499 SK [१७९|१८] ततो यावत् यामीयं ततो वायुमण्डलादीनि /
5500 SK [१७९|१८-१७९|१९] इयताऽयं लोको विवृत्तो भवति यदुत भाजनविवर्तन्या /
5501 SK [१७९|१९-१७९|२०] अथान्यतरः सत्त्व आभास्वरेभ्यश्च्युत्वा शून्ये ब्राह्मे विमान उत्पद्यते /
5502 SK [१७९|२०-१७९|२१] अन्येऽपि सत्त्वास्ततश्च्युत्वा ब्रह्मपुरोहितेषूपपद्यन्ते /
5503 SK [१७९|२१] ततो ब्रह्मकायिकेषु परनिर्मितवशवर्तिषु /
5504 SK [१७९|२१-१७९|२२] क्रमेण यावदुत्तरकुरौ गोदानीये पूर्वविदेहे जम्बूद्वीपे प्रेतेषु तिर्यक्षु नरकेषूपपद्यन्ते /
5505 SK [१७९|२२-१७९|२३] धर्मता ह्येषा यत् पश्चात् संवर्तते तत् पूर्वं विवर्त्तते /
5506 SK [१७९|२३-१७९|२४] यदा नरकेष्वेकः सत्त्वोऽपि प्रादुर्भूतो भवति तदा यदयं लोको विंशतिमन्तरकल्पान् विवर्तते तन्निर्यातं भवति /
5507 SK [१७९|२४-१७९|२५] यद्विंशतिमन्तरल्पान् विवर्त्तः स्थास्यति तदुपयातं भवति /
5508 SK [१७९|२६] अन्तःकल्पोऽमितात् यावद्दशवर्षायुषः
5509 SK [१७९|२७-१८०|०१] विवर्तमाने लोके एकान्न विंशतिरन्तरकल्पा अपरिमितायुषां मनुष्याणामतिक्रामन्ति /
5510 SK [१८०|०१-१८०|०२] अपरिमितायुषामेव क्रमतां यावद्दशवर्षायुषो भवन्ति /
5511 SK [१८०|०२] सोऽसौ विवृत्तानां तिष्ठतां प्रथमोऽन्तरकल्पः /
5513 SK [१८०|०४] उत्कर्षा अपकर्षाश्च कल्पा अष्टादशापरे // VAक्K_३.९१ //
5514 SK [१८०|०५] तस्मादपरेऽष्टादशोत्कर्षा अपकर्षाश्चाष्टादशान्तरकल्पा भवन्ति / कथं कृत्वा /
5515 SK [१८०|०६] तेभ्यो हि दशवर्षायुष्केभ्य उत्कर्षं गच्छन्तः क्रमेणाशीतिवर्षसहस्रायुषो भवन्ति /
5516 SK [१८०|०७] पुनश्चापकर्षं गच्छन्तो दशवर्षायुषो भवन्ति //
5517 SK एवं द्वितीयोऽन्तरकल्पः /
5518 SK [१८०|०७-१८०|०८] एवं यावदष्टादश /
5519 SK [१८०|०९] उत्कर्ष एकः
5520 SK [१८०|१०] एकान्तरकल्पो विंशतितम उत्कर्ष एवमपकर्षः /
5521 SK [१८०|१०-१८०|११] दशवर्षायुष्केभ्यो यावदशीतिवर्षायुषां मनुष्याणामिति वर्त्तते /
5522 SK [१८०|११] अथैते उत्कर्षाः कियन्तं प्रकर्षं गच्छन्ति /
5523 SK [१८०|१२] तेऽशीतिसहस्राद्यावदायुषः /
5524 SK [१८०|१३-१८०|१४] नातः परेण वर्धन्ते यावानेव चान्येषामन्तरकल्पानामुत्कर्षापकर्षकालस्तावानेव प्रथमस्यापकर्षकालः पश्चिमस्य चोत्कर्षकाल इति समानकालाः सर्वे भवन्ति /
5525 SK [१८०|१५] इति लोको विवृत्तोऽयं कल्पांस्तिष्ठति विंशतिम् // VAक्K_३.९२ //
5526 SK [१८०|१६] इत्यनेनान्तरकल्पन्यायेनायं विंशतिमन्तरकल्पान्विवृत्तस्तिष्ठति /
5527 SK [१८०|१६-१८०|१७] यावन्तं कालं विवृत्तस्तिष्ठति तावन्तमेव कालं
5528 SK [१८०|१८] विवर्ततेऽथ संवृत्त आस्ते सम्वर्तते समम् /
5529 SK [१८०|१९] विंशतिमेवान्तरकल्पान् विवर्तते विंशतिं संवर्तते विंशतिं संवृत्त आस्ते /
5530 SK [१८०|१९-१८०|२०] यद्यपि तदानीमुत्कर्षा अपकर्षाश्च न प्रवर्तन्ते कालस्तु समानः परिसंख्यायते /
5531 SK [१८०|२०-१८०|२२] तत्रैकेनान्तर कल्पेन भाजनान्यभिनिवर्तन्ते एकान्नविंशत्या ऽन्तरकल्पैरावास्यन्ते एकेनान्तरकल्पेन भाजनानि विध्वस्यन्ते एकान्नविंशत्या शून्यी भवन्ति /
5532 SK [१८०|२२-१८०|२३] ता एता अन्तरकल्पानां चतस्रो विंशत्योऽशीतिर्भवन्ति /
5533 SK [१८०|२४] ते ह्यशीतिर्महाकल्पः
5534 SK [१८०|२५] एतन्महाकल्पस्य प्रमाणम् / कल्पः किंस्वभावः / पञ्चस्कन्धस्वभावः /
5535 SK [१८०|२५-१८१|०१] यदुच्यते त्रिभिरसंख्येयैः कल्पानां बुधत्वं प्राप्यत᳚ इति /
5536 SK [१८१|०१] तत् कतमेषां कल्पानाम् /
5537 SK [१८१|०१-१८१|०२] य एव महाकल्पो निर्दिष्टः /
5538 SK [१८१|०३] तदसंख्यत्रयोद्भवम् // VAक्K_३.९३ //
5539 SK [१८१|०४] बुद्धत्वम्
5540 SK [१८१|०५] संख्येयानां कल्पानां त्रयेण /
5541 SK [१८१|०५-१८१|०६] कथमसंख्येयस्यासति संख्येयावसाने पुनस्त्रित्वमुच्यते /
5542 SK [१८१|०६] नैअदेवं वेदितव्यं / किं तर्हि /
5543 SK [१८१|०६-१८१|०७] ᳚षष्टिः स्थानान्तराण्यसंख्येयमि᳚ति मुक्तकसूत्रं पठ्यते /
5544 SK [१८१|०७] कतमानि षष्टिः / एको ह्यद्वितीयः प्रथमं स्थानान्तरम् /
5545 SK [१८१|०८] एककानां दशको द्वितीयम् / दश दशकानि शतं तृतीयम् / दश शतानि सहस्रम् /
5546 SK [१८१|०९] दश सहस्राणि प्रभेदः / दश प्रभेदा लक्षम् /
5547 SK [१८१|०९-१८१|१०] दश लक्षा अतिलक्षः /
5548 SK [१८१|१०] दशातिलक्षाः कौटिः / दश कौट्यो मध्यः/ दश मध्या अयुतम् /
5549 SK [१८१|११] शायुता महायुतम् / दश महायुता नियुतम् / दश नियुता महानियुतम् /
5550 SK [१८१|११-१८१|१२] दश महानियुताः प्रयुतम् /
5551 SK [१८१|१२] दश प्रयुता महाप्रयुतः / दश महाप्रयुताः कङ्करः /
5552 SK [१८१|१२-१८१|१३] दश कङ्करा महाकङ्करः /
5553 SK [१८१|१३] दश महाकङ्करा विस्वरः / दश विस्वरा महाविस्वरः /
5554 SK [१८१|१३-१८१|१४] दश महाविस्वरा अक्षोभ्यः /
5555 SK [१८१|१४] दशाक्षोभ्या महाक्षोभ्यः / दश महाक्षोभ्या विवाहः /
5556 SK [१८१|१५] दश विवाहा महाविवाहः / दश महाविवाहा उत्सङ्गः / दशोत्सङ्गा महोत्सङ्गः /
5557 SK [१८१|१६] दश महोत्सङ्गा वाहनः / दश वाहनानि महावाहनम् /
5558 SK [१८१|१६-१८१|१७] दश महावाहनानि तटिभः /
5559 SK [१८१|१७] दश तिटिभा महातिटिभः / दश महातिटिभा हेतुः /
5560 SK [१८१|१७-१८१|१८] दश हेतवो महाहेतुः /
5561 SK [१८१|१८] दश महाहेतवः करभः / दश करभा महाकरभः /
5562 SK [१८१|१८-१८१|१९] दश महाकरभा इन्द्रः /
5563 SK [१८१|१९] दशेन्द्रा महेन्द्रः / दश महेन्द्राः समाप्तम् / दश समाप्तानि महासमाप्तम् /
5564 SK [१८१|२०] दश महासमाप्तानि गतिः / दश गतयो महागतिः / दश महागतयो निम्बरजः /
5565 SK [१८१|२०-१८१|२१] दश निम्बरजांसि महानिम्बरजः /
5566 SK [१८१|२१] दश महानिम्बरजांसि मुद्रा / दश मुद्रा महामुद्रा /
5567 SK [१८१|२१-१८१|२२] दश महामुद्राः बलम् /
5568 SK [१८१|२२] दश बलानि महाबलम् /
5569 SK [१८१|२२-१८१|२३] दश महाबलानि सज्ञा /
5570 SK [१८१|२३] दश संज्ञा महासंज्ञा / दश महासंज्ञा विभूतः / दश विभूता महाविभूतः /
5571 SK [१८१|२३-१८१|२४] दश महाविभूता बलाक्षम् /
5572 SK [१८१|२४] दश बलाक्षा महाबलाक्षम् / दश महाबलाक्षाण्यसम्ख्यम् /
5573 SK [१८१|२५] अष्टकं मध्याद्विस्तृतम् /
5574 SK [१८१|२५-१८२|०१] इत्येतेषां षष्टिस्थानान्तरगतां संख्यामनुप्राप्ताः कल्पा असंख्येयानित्युच्यन्ते /
5575 SK [१८२|०१] ततो व्यावृत्य पुनर्गण्यन्ते /
5576 SK [१८२|०१-१८२|०२] एवं त्रीणि असंख्येयानीत्युच्यन्ते /
5577 SK [१८२|०२] न तु नैव परिसंख्यातुं शक्यन्त इति /
5578 SK [१८२|०३] किन्तु खलु कालप्रकर्षेणैव कृतप्रणिधाना बोधिसत्त्वा बोधिमभिसंबुध्यन्ते /
5579 SK [१८२|०४] किमेतदेव भविष्यति /
5580 SK [१८२|०४-१८२|०५] महतां हि पुण्यज्ञानसंभारेण षड्भिः पारमिताभिः बहुभिर्दुष्करशतसहस्रैस्त्रिभिः कल्पासंख्येयैरनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते बोधिसत्त्वाः /
5581 SK [१८२|०६] यद्यप्यन्यथाऽप्यस्ति मोक्षावकाशः किमर्थं त इयन्तं यत्नमारभन्ते /
5582 SK [१८२|०६-१८२|०७] परार्थं त इयन्तं यत्नमारभन्ते कथं परानपि महतो दुःखौघात् परित्रातुं शक्नुयामिति /
5583 SK [१८२|०७-१८२|०८] क एषां परार्थेन स्वार्थः /
5584 SK [१८२|०८] एष एव तेषां स्वार्थो यः परार्थस्तस्याभिमतत्वात् /
5585 SK [१८२|०८-१८२|०९] इदानीमेतच्छ्राद्धास्यते /
5586 SK [१८२|०९] सत्यं दुःश्रद्धानमेतदात्मंभरिभिर्निष्करुणैः /
5587 SK [१८२|०९-१८२|११] कारुणिकैस्तु श्रद्धितमेवैतत् यथा चेह केचिदभ्यस्तनैर्धृण्या असत्यपि स्वार्थे परव्यसनाभिरता उपलभ्यन्ते /
5588 SK [१८२|११-१८२|१२] तथा पुनरभ्यस्तकारुण्या असत्यपि स्वार्थे परहितक्रियाभिरामाः सन्तीति संभाव्यम् /
5589 SK [१८२|१२-१८२|१५] यथैव चाभ्यासवशादनात्मभूतेषु संस्कारेषु संस्कृतलक्षणानभिज्ञा आत्मस्नेहं निवेश्य तद्धेतोर्दुःखान्युद्वहन्ति एवं पुनरभ्यासवशादात्मस्नेहं तेभ्यो निर्वर्त्य परेष्वपेक्षां वर्धयित्वा तद्धेतोर्दुःखान्युद्वहन्तीति संभाव्यम् /
5590 SK [१८२|१५-१८२|१६] गोत्रान्तरमेव हि तत्तथाजातीयं निर्वर्तते यत् परेषां दुःखेन दुःखायते सुखेन सुखायते नात्मन इति /
5591 SK [१८२|१६] न ते पुनः स्वार्थमन्यं पश्यन्ति / आह चात्र
5592 SK [१८२|१७-१८२|२०] ᳚हीनः प्रार्थयते स्वसंततिगतं यैस्तैरूपायः सुखं मध्यो दुःखनिवृत्तिमेव न सुखं दुःखास्पदं तद्यतः / श्रेष्ठः प्रार्थयते स्वसंततिगतैर्दुःखैः परेषां सुखं दुःखात्यन्तनिवृत्तिमेव च यतस्तद्दुःखदुःख्येव सः //᳚
5593 SK [१८२|२१] किं पुनरुत्कर्षा बुद्धा उत्पयन्ते आहोस्विदपकर्षाः /
5594 SK [१८२|२२] अपकर्षे हि शताद्यावत्तदुद्भवः /
5595 SK [१८२|२३-१८२|२४] अशीतिवर्षशतायुपि प्रजायामपकर्षे आरब्धे यावद्वर्षशतायुषो मनुष्या भवन्त्येतस्मिन्नन्तरे बुद्धा उत्पद्यन्ते /
5596 SK [१८२|२४] कस्मान्नोत्कर्षकाले / तदा हि दुःसमुद्वेजाः सत्त्वा भवन्ति /
5597 SK [१८३|०१] कस्मान्न शतात् /
5598 SK [१८३|०१-१८३|०२] तदा हि पञ्च कषाया अभ्युत्सदा भवन्ति /
5599 SK [१८३|०२-१८३|०३] तद्यथाऽयुष्कषायः कल्पकषायः क्लेशकषायः दृष्टिकषायः सत्त्वकषायश्च /
5600 SK [१८३|०३] अपकर्षस्याधस्तात् प्रत्यवरा आयुरादयः किटभूतत्वात् कषाया उच्यन्ते /
5601 SK [१८३|०४] द्वाभ्यां हि जीवितोपकरणविपत्ती यथाक्रमम् / द्वाभ्यां कुशलपक्षवीपत्तिः /
5602 SK [१८३|०४-१८३|०५] कामसुखल्लिकाऽत्मक्लमथानुयोगाधिकारात् गृहिप्रव्रजितपक्षयोर्वा /
5603 SK [१८३|०५-१८३|०६] एकेनात्मभाववीपत्तिः /
5604 SK [१८३|०६] प्रमाणरूपारोग्यबलवृद्धिस्मृतिवीर्यधैर्यभ्रंसात् /
5605 SK [१८३|०७] अथ प्रत्येकबुद्धानां कस्मिन् काले उत्पादः /
5606 SK [१८३|०८] द्वयोः प्रत्येकबुद्धानां /
5607 SK [१८३|०९] उत्कर्षेऽयपकर्षेऽपि / द्विविधा हि प्रत्येकबुद्धा वर्गचारिणः खड्गविषाणकल्पाश्च /
5608 SK [१८३|१०] तत्र वर्गचारिणः श्रावकपूर्विणः प्रत्येकजिना उच्यन्ते /
5609 SK [१८३|१०-१८३|११] पृथग्जनपूर्विणोऽपि सन्तीत्यपरे /
5610 SK [१८३|११] येऽन्यत्रोत्पादितनिर्वेधभागीया इह स्वयं मार्गमभिसंबुध्यन्ते / [१८३|११-१८३|१४] तथाहि पूर्वयोगं पठन्ति ᳚पर्वते किल पञ्चशतानि तापसानां कष्टानि तपांसि तप्यन्ते स्म यावत् प्रत्येकबुद्धसहोषितेन मर्कटेनागम्य तदीर्यापथसंदर्शनात् प्रत्येकबोधिमभिसंबन्द्धा᳚ इति /
5611 SK [१८३|१४] नचार्याः सन्तः कष्टानि तपांसि तप्येरन् /
5612 SK [१८३|१४-१८३|१५] खड्गविषाणकल्पाः पुनरेकविहारिणः /
5613 SK [१८३|१५] तेषां प्रत्येकबुद्धानां
5614 SK [१८३|१६] खड्गः कल्पशतान्वयः // VAक्K_३.९४ //
5615 SK [१८३|१७-१८३|१८] महाकल्पानां शतं बोधिसंभारेषु चरितः खड्गं विषाणकल्पो भवति /
5616 SK [१८३|१८] विनोपदेशेनात्मानमेकं प्रतिबुधा इति प्रत्येकबुद्धाः /
5617 SK [१८३|१८-१८३|१९] ते ह्येकमात्मानं दमयन्ति नान्यान् /
5618 SK [१८३|१९] किं पुनरत्र कारणम् /
5619 SK [१८३|१९-१८३|२०] नहि तावदशक्ता धर्मं देशयितुं प्रतिसंवित्प्राप्तत्वात् /
5620 SK [१८३|२०] शक्यं च तैः पूर्वबुद्धानां शासनमनुस्मृत्यापि धर्मं देशयितुम् /
5621 SK [१८३|२१] नापि निष्करुणाः / सत्त्वानुग्रहार्थमृद्धेराविष्करणात् /
5622 SK [१८३|२१-१८३|२२] नापि सत्त्वानामभव्यत्वात् /
5623 SK [१८३|२२] तथा हि लौकिकमार्ग वीतरागाः संविद्यन्ते / किं तर्हि /
5624 SK [१८३|२२-१८३|२३] पूर्वाभ्यासवशेनाल्पोत्सुकताऽधिमुक्तत्वात् नोत्सहन्ते गम्भीरधर्मग्रहणाय परेषां व्यापर्तुम् /
5625 SK [१८३|२४] अनुस्रोतो गामिनीनां हि प्रजानां दुष्करं प्रतिस्रोतो नयनम् /
5626 SK [१८३|२४-१८३|२५] गणपरिकर्षणप्रसङ्गपरिहारार्थं च व्याक्षेपसंसर्गभीरुत्वात् /
5627 SK [१८४|०१] अथ चक्रवर्त्तिनः कदोत्पद्यन्ते /
5628 SK [१८४|०२] चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकात् /
5629 SK [१८४|०३] अमिते चायुषि मनुष्याणां यावदशीतिसहस्रके चोत्पत्तिश्चक्रवर्त्तिनां नाधः /
5630 SK [१८४|०३-१८४|०४] तस्याः सस्यसंपदस्तदूनायुषामभाजनत्वात् /
5631 SK [१८४|०४-१८४|०५] राज्यं चक्रेण वर्तयितुं शीलमेषामिति चक्रवर्त्तिनः /
5632 SK [१८४|०५] ते पुनश्चतुर्विधाः /
5633 SK [१८४|०६] सुवर्णरूप्यताम्रायश्चक्रिणः
5634 SK [१८४|०७] सुवर्णरूप्यताम्रायश्चक्र्काणि येषां सन्ति /
5635 SK [१८४|०७-१८४|०८] प्रथम एषामुत्तमो द्वितीय उपोत्तमः तृतीयो मध्यमश्चतुर्थो ऽधमः /
5636 SK [१८४|०९] ते ऽधरक्रमात् // VAक्K_३.९५ //
5637 SK [१८४|१०] एकद्वित्रिचतुर्द्वीपाः
5638 SK [१८४|११] यस्यायसं चक्रं स एकद्वीपाधिपतिः / यस्य ताम्रमयं स द्वयोः /
5639 SK [१८४|११-१८४|१२] यस्य रूप्यमयं स त्रयाणाम् /
5640 SK [१८४|१२] यस्य सुवर्ण्मयं स चतुर्द्वीपाधिपतिः / एष प्राज्ञप्तिको निर्देशः /
5641 SK [१८४|१३] सूत्रे तु प्रधानग्रहणादेकमेव सौवर्णं चक्रम् /
5642 SK [१८४|१३-१८४|१६] ᳚यस्य राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदईव पोषधे पञ्चदश्यां शिरःस्नातस्योपोषधो पोषितस्योपरिप्रासादतलगतस्यामात्यगणपरिवृतस्य पूर्वस्यां दिशि चक्ररत्नं प्रादुर्भवति सहस्रारं सनाभिकं सनेमिकं सर्वाकारपरिपूर्णं शुभकर्मारकृतं दिव्यं सर्वसौवर्णं स राजा भवति चक्रवर्ती᳚ति /
5643 SK [१८४|१७] एवं चैते चक्रवर्तिन उत्पद्यन्ते /
5644 SK [१८४|१८] न च द्वौ सह बुद्धवत् /
5646 SK सूत्र उक्त᳚ मस्थानमनवकाशो यदपूर्वाचरमौ द्वौ तथागतावर्हन्तौ सम्यक्संबुद्धौ लोक उत्पद्येयातां नेदं स्थानं विद्यते स्थानमेतद्विद्यते यदैकस्तथागतः /
5647 SK [१८४|२०-१८४|२१] यथा तथागत एवं चक्रवर्त्तिनावि᳚ति /
5648 SK [१८४|२१] इदमत्र संप्रधार्यम् /
5649 SK [१८४|२१-१८४|२२] किमत्र त्रिसाहस्रमहासाहस्रो लोकधातुर्लोक इष्ट उताहो सर्वलोकधातव इति /
5650 SK [१८४|२२-१८४|२३] नान्यत्र बुद्धा उत्पद्यन्ते इत्येके /
5651 SK [१८४|२३] किं कारणम् /
5652 SK [१८४|२३-१८४|२४] मा भूत् भगवतः शक्तिव्याघातः इति /
5653 SK [१८४|२४] एक एव हि भगवान् सर्वत्र शक्तः /
5654 SK [१८४|२४-१८४|२५] यत्र बुद्ध एको न शक्तः स्याद् विनेयान् विनेतुं तत्राऽन्योऽपि न शक्त इति /
5655 SK [१८४|२५-१८४|२७] उक्तं च सूत्रे ᳚स चेत्त्वां शारिपुत्र कश्चिदुपसंक्रम्यैवं पृच्छेत् अस्ति कश्चिदेतर्हि श्रमणो वा ब्राह्मणो वा समसमः श्रमणेन गोतमेन यदुताभिसंबोधाय /
5656 SK [१८४|२७-१८४|२८] एवं च पृष्टः किं व्याकुर्याः /
5657 SK [१८४|२८-१८५|०१] स चेन्मां भदन्त कश्चिदुपसंक्रम्येवं पृच्छेत्तस्याहं पृष्ट एवं व्याकुर्या नास्ति कश्चिदेतर्ह्हि शृअमणो वा ब्राह्मणो वा समसमो भगवता यदुताभिसंबोधाय /
5658 SK [१८५|०१] तत्कस्य हेतोः /
5659 SK [१८५|०१-१८५|०३] संमुखं मे भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतं अस्थानमनवकासो यदपूर्वाचरमौ तथागतौ लोक उत्पद्येयातां नेदं स्थानं विद्यत᳚ इति /
5660 SK [१८५|०३-१८५|०४] यत्तर्हि भगवतोक्तं ब्रह्मसूत्रे ᳚यावत्त्रिसाहस्रमहासाहस्रको लोको वशे मेऽत्र वर्तत᳚ इति /
5661 SK [१८५|०४] आभिप्रायिक एष निर्देशः /
5662 SK [१८५|०४-१८५|०५] कोऽत्राभिप्रायः तावतोऽनभिसंस्कारेण व्यवलोकनात् /
5663 SK [१८५|०५-१८५|०६] अभिसंस्कारेन त्वनन्तो बुद्धानां चक्षुर्विषयः /
5664 SK [१८५|०६] सन्त्येवान्यलोकधातुषु बुद्धा इति निकायान्तरीयाः / किं कारणम् /
5665 SK [१८५|०७] बहवो हि समं संभारेषु प्रवर्तमाना दृश्यन्ते /
5666 SK [१८५|०७-१८५|०९] न चैकत्र बहूनां बुद्धानां युगपत् योग उत्पत्तुं न चास्ति तदुत् पत्तौ कक्श्चित् प्रतिबन्धः इति नियतं लोकधात्वन्तरेषूत्पद्यन्ते /
5667 SK [१८५|०९-१८५|१०] अनन्ता लोकधातव इति न शक्यं भगवता कल्पमप्यायुर्विर्भ्रता यिथेह तथाऽन्येष्वपि अनन्तेषु लोकधातुषु व्यापर्तुं किं पुनः पुरुषायुषम् /
5668 SK [१८५|१०-१८५|११] कथं चेह बुद्धो व्याप्रियते /
5669 SK [१८५|११-१८५|१३] अस्य पुद्गलस्येदमिन्द्रियम् इयता कालेलामुष्मिन् देशे अमुं पुद्गलमागम्यास्य दोषस्य परिहारादस्याङ्गस्योपसंहारादनेन प्रयोगेणानुत्पन्नं वोत्पत्स्यते अपरिपूर्णं वा परिपूरयिष्यतीति /
5670 SK [१८५|१३-१८५|१५] यत्त्विदं सूत्रमत्रोपनीत ᳚मस्थानमनवकाशो यद्पूर्वाचरमौ द्वी तथागतावेकत्र लोक उत्पद्येयातामि᳚ति तदेवेदं संप्रधार्यते किमिदमेकं लोकधातुमधिकृत्योक्तमाहोस्वित् सर्वानिति /
5671 SK [१८५|१५-१८५|१६] चक्रवर्तिनोऽपि चास्य लोकद्धातौ न स्यादुत्पादः /
5672 SK [१८५|१६] सहोत्पत्तिप्रतिषेधात् बुद्धवत् /
5673 SK [१८५|१६-१८५|१७] अथैतत् क्षम्यते इदं तु कस्मान्न क्षम्यते ᳚पुण्यस्तु बुद्धानां लोक उत्पाद᳚ इति /
5674 SK [१८५|१७-१८५|१८] यदि बहूनां बहुषु स्यान्न दोषः स्यात् /
5675 SK [१८५|१८] भूयसां लोकानामभ्युदयेन योगः स्यान्निःश्रेयसेन च /
5676 SK [१८५|१८-१८५|१९] अथैङ्कस्मिन्नपि कस्मात् द्वौ तथागतौ न सहोत्पद्येते /
5677 SK [१८५|१९] प्रयोजनाभावात् प्रणिधानवशाच्च /
5678 SK [१८५|१९-१८५|२१] एवं हि बोधिसत्त्वाः प्रणिधानं कुर्वन्ति अहो वताहमन्धे लोके ऽपरिणायके बुद्धो लोक उत्पद्येयमनाथानां नाथ इति /
5679 SK [१८५|२१] आदराभित्वरार्थं च /
5680 SK [१८५|२२-१८५|२३] एकस्मिन्हि बुद्धे सुतरामाद्रियन्ते दुर्लभ ईदृशोऽन्य इति मन्यमानाः सुतरां चाभित्वरन्ते शासनप्रतिपत्तौ माऽस्मिन् गते परिनिर्वृते वा ऽनाथा भूमेति /
5681 SK [१८५|२४] अथैते चक्रवर्तिनः सुवर्णादिमयैश्चक्रैः पृथिवीं जयन्तः कथं जयन्ति / यथाक्रमं
5682 SK [१८५|२५] प्रत्युद्यानस्वयंयान कलहास्त्रजितः
5683 SK [१८५|२६] यस्य सौवर्ण चक्रं भवति तं कोटराजानः स्वयं प्रत्युद्गच्छन्ति /
5684 SK [१८५|२६-१८६|०१] इमे देवस्य जनपदाः ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्चाकीर्णबहुजनमनुष्याश्च /
5685 SK [१८६|०१-१८६|०२] तान् देवः समनुशास्तु /
5686 SK [१८६|०२] वयं देवस्यानुयात्रिका भविष्याम इति /
5687 SK [१८६|०२-१८६|०३] यस्य रूप्यमयं स स्वयमेव तेषामन्तिकं याति पश्चादस्य प्रह्वीभवन्ति /
5688 SK [१८६|०३-१८६|०४] यस्य ताम्रमयं स तेषामन्तिकं गत्वा कलहायते पश्चात् प्रह्वीभवन्ति /
5689 SK [१८६|०४-१८६|०५] यस्य शस्त्रमयं स तेषामन्तिकं गच्छति अन्योन्यं शस्त्राण्यावहन्ति पश्चान्नमन्ति /
5690 SK [१८६|०५] सर्वे तु चक्रवर्तिनः
5691 SK [१८६|०६] अवधाः // VAक्K_३.९६ //
5692 SK [१८६|०७-१८६|०८] शस्त्रेणापि जयतां बधो न प्रवर्तते निर्जित्य च सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयन्ति /
5693 SK [१८६|०८] अत एव ते नियतं देवेषूत्पद्यन्ते /
5694 SK [१८६|०८-१८६|०९] सूत्र उक्तं ᳚राज्ञश्चक्रवर्तिनो लोके प्रादुर्भावात्सप्तानां रत्नानां लोके प्रादुर्भावो भवति /
5695 SK [१८६|१०-१८६|११] तद्यथा चक्ररत्नस्य हस्तिरत्नस्याश्वरत्नस्य मणिरत्नस्य स्त्रीरत्नस्य गृहपतिरत्नस्य परिणायकरत्नस्ये᳚ति /
5696 SK [१८६|११] कथं सत्त्वसंख्याता हस्त्यादयः परकीयेण कर्मणोत्पद्यन्ते /
5697 SK [१८६|१२] न वै कश्चित् परकीयेणोत्पद्यते /
5698 SK [१८६|१२-१८६|१३] येन तु सत्त्वेन तत्संबन्ध संवर्तनीयं कर्मोपचितं तस्मिन्नुत्पन्ने स्वान्येवैनं कर्माण्युत्पादयन्ति /
5699 SK [१८६|१३-१८६|१४] किमेष एवान्यराजभ्यश्चक्रवर्तिनां विशेषः /
5700 SK [१८६|१४] अन्योऽपि विशेषोऽस्ति /
5701 SK [१८६|१४-१८६|१५] तद्यथा द्वात्रिंशन्महापुरुषलक्षणान्येषां भवन्ति तद्यथा बुद्धानाम् /
5703 SK [१८६|१६] देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुनेः /
5704 SK [१८६|१७] देशस्थतराणि बुद्धानां लक्षणानि /
5705 SK [१८६|१७-१८६|१८] उत्तप्ततराणि संपूर्णतराणि चेत्येष तेषां विशेषः /
5706 SK [१८६|१९] किं खलु प्राथमकल्पिका अपि मनुष्याः सराजका आसन् / नेत्याह /
5707 SK [१८६|२०] किं तर्हि /
5708 SK [१८६|२१] प्रागासन्नुपिवत् सत्त्वाः
5709 SK [१८६|२२] प्रथमकल्पिका मनुष्या रूपावचरा इवासन् /
5710 SK [१८६|२२-१८६|२४] सूत्र उक्तं ᳚ते भवन्ति रूपिणो मनोमयाः सर्वाङ्गप्रत्यङ्गोपेता आविकला अहीनेन्द्रियाः शुभा वर्णस्थायिनः स्वयं प्रभा विहायसंगमाः प्रीतिभक्षः प्रीत्याहारा दीर्घायुषो दीर्घमध्वानं तिष्ठन्ती᳚ति /
5711 SK [१८६|२५] रसरागात्ततः शनैः // VAक्K_३.९७ //
5712 SK [१८६|२६] आलस्यात्सम्निधिम् कृत्वा साग्रहैः क्षेत्रपो भृतः /
5713 SK [१८६|२७] तेषां तथाभूतानां भूमिरसः प्रादुर्भूतो मधुस्वादुरसः /
5714 SK [१८६|२७-१८७|०१] तस्यान्यतमो लोलुपजातीयः सत्त्वो गन्धं घ्रात्वा रसं स्वादितवान् भक्षितवांश्च /
5715 SK [१८७|०१-१८७|०२] तथाऽन्येऽपि सत्त्वास्तथैवाकार्षुः /
5716 SK [१८७|०२] स आरम्भः कवडीकाराहारस्य /
5717 SK [१८७|०२-१८७|०३] तेषां तदाहाराभ्यासात् खरत्वं गुरुत्वं च कायेऽवक्रान्तं प्रभावा अन्तर्हिताः /
5718 SK [१८७|०३-१८७|०४] ततोऽन्धकार उत्पन्ने सूर्याचन्द्रमसौ प्रादुर्भूतौ /
5719 SK [१८७|०४-१८७|०५] सोऽप्येषां भूमिरस आस्वादगृद्धानां क्रमेणान्तर्हितो भूमिपर्पटकं प्रादुर्भूतम् /
5720 SK [१८७|०५] तत्रापि गृद्धास्तदप्यन्तर्हितम् / वनलता प्रादुर्भूता /
5721 SK [१८७|०५-१८७|०६] तत्रापि गृद्धाः साऽप्यन्तर्हिता /
5722 SK [१८७|०६] अकृष्टोप्तः शालिरुत्पन्नस्तं प्रभुक्ताः /
5723 SK [१८७|०६-१८७|०८] तस्येदानीमौदारिकत्वान्निःस्यन्दनिर्वाहार्थं सत्त्वानां मूत्रपुरीषमार्गौ सह स्त्रीपुरुषेन्द्रियाभ्यां प्रादुर्भूतौ संस्थानं च भिन्नम् /
5724 SK [१८७|०८-१८७|०९] तेषामन्योन्यं पश्यतां पूर्वाभ्यासवशादयोनिशोमनस्कारग्राहग्रासतां गतानां कामराग उदीर्णो यतो विप्रतिपन्नाः /
5725 SK [१८७|०९-१८७|१०] एष आरम्भः कामिनां कामभूतग्रहावेशस्य /
5726 SK [१८७|१०-१८७|११] ते च खलु तं शालिं सायं च सायमाशार्थं प्रातश्च प्रातराशार्थं प्रवेशयन्ति स्म /
5727 SK [१८७|११] अथान्यतमः सत्त्वोऽलसजातीयः संनिधिकारमकार्षीत् /
5728 SK [१८७|१२] अन्येऽपि च सत्त्वाः संनिधिकारमकार्षुः /
5729 SK [१८७|१२-१८७|१३] तेषां तत्र ममकार उत्पन्ने स शालिर्लूनो लूनो न पुनर्जायते स्म /
5730 SK [१८७|१३-१८७|१४] ततः क्षेत्राणि प्रविभज्य स्वेष्वाग्रहं कृत्वा परकीयं हर्तुमारब्धाः /
5731 SK [१८७|१४] प्रथम आरम्भश्चौर्यस्य /
5732 SK [१८७|१४-१८७|१५] तैस्तेषामङ्कुशार्थं समेत्यान्यतमः पुरुषविशेषः क्षेत्राणि पालयितुं षष्ठभागेन भृतः /
5733 SK [१८७|१५-१८७|१६] तस्य क्षेत्राणामधिपतिः क्षत्रियः क्षत्रिय इति संज्ञोत्पन्ना /
5734 SK [१८७|१६-१८७|१७] महाजनकायस्य संमतः प्रजां च रञ्जयतीति महासंमतो राजेति सम्ज्ञोत्पन्ना /
5735 SK [१८७|१७] एष आरम्भो राजपरंपरायाः /
5736 SK [१८७|१७-१८७|१८] तत्र ये गृहेभ्यो वहिर्मनसः संवृत्तास्तेषां ब्राह्मणा इति संज्ञोत्पन्ना /
5737 SK [१८७|१८-१८७|१९] अथान्यतमस्य राज्ञो लोभात् सम्विभागमकुर्वन्तः सत्त्वानां तास्कर्यं प्राचुर्यमापन्नं स तान् शस्त्रेणोपसंक्रमते स्म /
5738 SK [१८७|२०] ततोऽन्ये नैवङ्कारकाः स्म इति मृषा वाचं वक्तुमारब्धाः इति
5739 SK [१८७|२१] ततः कर्मपथाधिक्यादपह्रासे दशायुषः // VAक्K_३.९८ //
5740 SK [१८७|२२-१८७|२३] तत एवं कर्मपथानां वृद्धौ सत्यां क्रमेण ह्रसतां मनुस्याणां दशवर्षायुषो मनुष्याः संभवन्ति /
5741 SK [१८७|२३] अतोऽस्य कृत्स्नस्यानर्थौघस्य द्वौ धर्मौ मूलयोनिः रसराग आलस्यं च /
5742 SK [१८७|२४] दशवऋषायुषां मनुष्याणामन्तरकल्पस्य निर्यणं भवति / कथं भवतीत्याह
5743 SK [१८७|२५] कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः /
5744 SK [१८७|२६] त्रिभिरन्तरकल्पस्य निर्याणं भवति / शस्त्रेण रोगेण दुर्भिक्षेण च /
5745 SK [१८७|२६-१८८|०२] अन्तरकल्पस्य निर्याणकाले दशवर्षायुषो मनुष्याः अधर्मरागरक्ता भवन्ति विषमलोभाविभूता मिथ्याधर्मपरीताः /
5746 SK [१८८|०२-१८८|०३] तेषां व्यापाद उत्कर्ष गतोऽन्योन्यं सत्त्वं दृष्ट्वा तीव्रमाघातचित्तं वधकचित्तं च प्रत्युपस्थितं भवति /
5747 SK [१८८|०३-१८८|०५] तद्यथेदानीं मृगलुब्धकस्यारण्यकं मृगं दृष्ट्वा ते यद्यदेव गृह्णन्ति काष्ठम् वा लोष्टं वा तत्तेषां तीक्ष्णं शस्त्रं प्रादुर्भवति /
5748 SK [१८८|०५] तेऽन्योन्यं सत्त्वं जीविताद्व्यपरोपयन्ति /
5749 SK [१८८|०५-१८८|०६] पुनः कल्पस्य निर्याणकाले दशवर्षायुषां मनुष्याणां तैरेव दोषैरमनुष्या ईति मुत्सृजन्ति /
5750 SK [१८८|०६-१८८|०७] तेषामसाध्या व्याध्यादयः प्रादुर्भवन्ति यतो म्रियन्ते /
5751 SK [१८८|०७-१८८|०८] पुनर्दशवर्षायुषां तैरेव दोषैर्देवा वर्षं नोत्सृजन्ति यतो दुर्भिक्षं जायते चञ्चः श्वेतास्थि शलाकावृत्तिः /
5752 SK [१८८|०८] कथं च चञ्चः /
5753 SK [१८८|०९] द्वाभ्यां कारणाभ्याम् / य इदानीं समवायः स तदानीं चञ्च इत्युच्यते /
5754 SK [१८८|०९-१८८|१०] समुद्गोऽपि चञ्चः /
5755 SK [१८८|१०-१८८|११] ते च मनुष्या जिघत्सादौर्बल्यपरीताः समेत्य कालं कुर्वन्ति समुद्रेषु चानागतजनताऽनुग्रहार्थं बीजान्यवस्थापयन्ति /
5756 SK [१८८|११] अतस्तद्दुर्भिक्षं चञ्चमित्युच्यते /
5757 SK [१८८|१२] कथं श्वेतास्थि / द्वाभ्यां कारणाभ्याम् /
5758 SK [१८८|१२-१८८|१४] तेषां हि शुष्करुक्षकायानां कालं कुर्वतामाश्वेवास्थीनि श्वेतानि भवन्ति बुभुक्षाहताश्च श्वेतान्यस्थीनि संहृत्य क्वाथयित्वा पिवन्ति /
5759 SK [१८८|१४] कथं शलाकावृत्तिः / द्वाभ्यां कारणाभ्याम् /
5760 SK [१८८|१४-१८८|१७] ते हि सत्त्वाः शलाकोद्देशिकया गृहेष्वामिर्षं सम्विभजन्ते अद्य गृहस्वामी भोक्ष्यते श्वो गृहस्वामिनीत्येवमादि धान्यस्थानविवरेभ्यश्च शलाकया धान्यफलानि निष्कृष्य बहुलोदकेन क्वाथयित्वा पिवन्ति /
5761 SK [१८८|१७] एवं वर्णयन्ति /
5762 SK [१८८|१७-१८८|१९] येनैकाहमपि प्राणातीपातविरतिः सम्रक्षिता भवति एकहरीतकी वा संघायैकपिण्डपातो वा सत्कृत्यानुप्रदत्तो भवति स तेषु शस्त्ररोगदुर्भिक्षान्तरकल्पेषु नोत्पद्यत इति /
5763 SK [१८८|२०] अथ कियन्तं कालमेतानि शस्त्राघातरोगदुर्भिक्षाणि तेषां सत्त्वानां भवन्ति
5764 SK [१८८|२१] दिवसान् सप्त मासांश्च वर्षाणि च य्थाक्रमम् // VAक्K_३.९९ //
5765 SK [१८८|२२] शस्त्रकः प्राणातिपातः सप्त दिवसान् भवति / रोगः सप्त मासांश्च दिवसांश्च /
5766 SK [१८८|२३] दुर्भिक्षं सप्तवर्षाणि च मासांश्च दिवसाम्श्चेति समुच्चयार्थश्चकारः /
5767 SK [१८८|२३-१८८|२४] तदा च द्वयोर्द्वीपयोस्तेषां प्रतिरूपकाणि भवन्ति /
5768 SK [१८८|२४-१८८|२५] व्यापाद उद्रेकप्राप्तो भवति वैवस्त्र्यदौर्बल्ये जिघत्सापिपासे च /
5769 SK [१८८|२५] यदुक्तमेवमन्यस्यामपि संवर्तन्यां वेदितव्यम् यथायोगमिति /
5770 SK [१८८|२६] अथ कतीमाः संवर्तन्यः /
5771 SK [१८९|०१] संवर्तन्यः पुनस्तिस्रो भवन्त्यग्न्यम्बुवायुभिः /
5772 SK [१८९|०२] एकत्र ध्याने सत्त्वाः समं संवर्तन्ते एतस्यामिति संवर्तनी /
5773 SK [१८९|०२-१८९|०३] सप्तभिः सूर्यैस्तेजः संवर्तनी भवति वर्षोदकेनाप्संवर्तनी वायुप्रकोपाद्वायुसंवर्तनी /
5774 SK [१८९|०४] ताभिश्च भाजनानां सुक्ष्मोऽप्यवयवो नावशिष्यते /
5775 SK [१८९|०४-१८९|०५] अत्र तु केचितीर्थङ्करा इच्छन्ति /
5776 SK [१८९|०५] परमाणवो नित्यास्ते तदानीं शिष्यन्त इति / कस्मात्त एवमिच्छन्ति /
5777 SK [१८९|०६] मा भूदबीजकः स्थूलानां प्रादुर्भाव इति /
5778 SK [१८९|०६-१८९|०७] ननु च सत्त्वानां कर्मजः प्रभावविशिष्टो वायुर्बीजमुक्तम् /
5779 SK [१८९|०७] सर्वर्तनीशीर्षवायुर्वातस्य निमित्तं भविष्यति /
5780 SK [१८९|०७-१८९|०८] ᳚वायुना लोकान्तरेभ्यो बीजान्याह्रियन्त᳚ इति महीशासकाः सूत्रे पठन्ति /
5781 SK [१८९|०८-१८९|०९] एवमपि न ते बीजादिभ्योऽङ्कुरादीनामुत्पत्तिमिच्छन्ति /
5782 SK [१८९|०९] किं तर्हि //
5783 SK [१८९|०९-१८९|१०] स्वेभ्य एवावयवेभ्यस्तेषामपि स्वेभ्यः /
5784 SK [१८९|१०] एवं यावत् परमाणुभ्यः /
5785 SK [१८९|१०-१८९|११] किमिदं बीजादीनामङ्कुरादिषु सामर्थ्यम् /
5786 SK [१८९|११] न किञ्चिदन्यत्र तत्परमाणूपसर्पणात् /
5787 SK [१८९|११-१८९|१२] किं पुनः कारणं त एवमिच्छन्ति /
5788 SK [१८९|१२] नहि विजातीयात्संभवो युक्त इति / कस्मान्न युक्तः /
5789 SK [१८९|१२-१८९|१३] अनियमो हि स्यात् /
5790 SK [१८९|१३] शक्तिनियमान्नैवं भविष्यति / शब्दपाकजोत्पत्तिवत् /
5791 SK [१८९|१३-१८९|१४] चित्रो हि गुणधर्मो द्रव्यं तु नैवम् /
5792 SK [१८९|१४-१८९|१५] समानजातीयेभ्यः एव हि द्रव्येभ्यः समानजातीयानां दृष्ट उत्पादस्तद्यथा वीरणेभ्यः कटस्य तन्तुभ्यः पटस्येति /
5793 SK [१८९|१५] इदमयुक्तं वर्तते /
5794 SK [१८९|१५-१८९|१६] किमत्रायुक्तम् यदसिद्धं साधनायोदाह्रियते /
5795 SK [१८९|१६] किमत्रासिद्धम् /
5796 SK [१८९|१७] अन्यो वीरणेभ्यः कटोऽन्यश्च तन्तुभ्यः पट इति /
5797 SK [१८९|१७-१८९|१८] त एव हि ते यथासंनिविष्टास्तां तां संज्ञां लभ्न्ते /
5798 SK [१८९|१८] पिपीलिकापङ्क्तिवत् / कथं गम्येत /
5799 SK [१८९|१८-१८९|१९] एकतन्तुसंयोगे पटस्यानुपलम्भात् /
5800 SK [१८९|१९] को हि तदा सतः पटस्योपलब्धौ प्रतिबन्धः /
5801 SK [१८९|१९-१८९|२०] अकृत्स्नवृत्तौ पटभागोऽत्र स्यान्न पटः /
5802 SK [१८९|२०] समूहमात्रं च पटः स्यात् / कश्च तन्तुभ्योऽन्यः पटभागः /
5803 SK [१८९|२०-१८९|२१] अनेका श्रयसंयोगापेक्षणे दशामात्रसंयोगे पटोपलब्धिः स्यान्न वा कदाचित् /
5804 SK [१८९|२१-१८९|२२] मध्यपरभागानामिन्द्रियेणासंनिकर्षात् /
5805 SK [१८९|२२-१८९|२३] क्रमसंनिकर्षे चावयवानां चक्षुःस्पर्शनाभ्यामवयवविज्ञानं न स्यात् /
5806 SK [१८९|२३-१८९|२४] तस्मात्क्रमेण संनिकर्षादवयविव्यवसायादवयवेष्वेव तद्बुद्धिरलातचक्रवत् /
5807 SK [१८९|२४] भिन्नरूपजातिक्रियेषु तन्तुषु पटस्य रूपाद्यसंभवात् /
5808 SK [१८९|२४-१८९|२६] चित्ररूपादित्वे विजातीयारम्भोऽपि स्यात् अचित्रे च पार्श्वान्तरे पटस्यादर्शनं चित्रदर्शनं वा /
5809 SK [१८९|२६] क्रियाऽपि चित्रेत्यतिचित्रम् /
5810 SK [१८९|२६-१८९|२७] तापप्रकाशभेदे वाऽग्निप्रभाया आदिमध्यान्ते तद्रूपस्पर्शयोरनुपपत्तिः /
5811 SK [१८९|२७-१९०|०२] परमाण्वतीन्द्रियत्वेऽपि समस्तानां प्रत्यक्षत्वं यथा तेषां कार्यारम्भकत्वं चक्षुरादीनां च तैमिरिकाणां च विकीर्णकेशोपलब्धिः /
5812 SK [१९०|०२] तेषां परमाणुवदेकः देशोऽतीन्द्रियः /
5813 SK [१९०|०२-१९०|०३] रूपादिष्वेव च परमाणुसंज्ञानिवेशा त्तद्विनाशे सिद्धः परमाणुविनाशः /
5814 SK [१९०|०३-१९०|०४] द्रव्यं हि परमाणुरन्यच्च रूपादिभ्यो द्रव्यमिति न तेषं विनाशे तद्विनाशः सिद्ध्यति /
5815 SK [१९०|०४-१९०|०५] अयुक्तमस्यान्यत्वं यावता न निर्धार्यते केनचित् इमानि पृथिव्यप्तेजांसि इम एषां रूपादय इति /
5816 SK [१९०|०६-१९०|०७] चक्षुःस्पर्शनग्राह्याणि च प्रज्ञायन्ते दग्धेषु चोर्णाकर्पासकुसुम्भकुङ्कुमादिषु तद्बुद्ध्यभावाद्रूपादिभेदेष्वेव तद्बुद्धिः /
5817 SK [१९०|०७-१९०|०८] पाकजोत्पत्तौ घटपरिज्ञनं संस्थानसामान्यात् पङ्क्तिवत् /
5818 SK [१९०|०८] चिह्नमपश्यतः परिज्ञानाभावात् /
5819 SK [१९०|०८-१९०|०९] को वा बालप्रलापेष्वादरः इति तिष्ठतु तावदेवाप्रतिषेधः /
5820 SK [१९०|१०] अथ कस्याः संवर्तन्याः कतमच्छीर्ष भवति /
5821 SK [१९०|११] ध्यानत्रयं द्वितीयादि शीर्ष तासाम् यथाक्रमम् // VAक्K_३.१०० //
5822 SK [१९०|१२] त्रीणि संवर्तनीशीर्षाणि / तेजःसंवर्तन्या द्वितीयं ध्यानं शीर्षं भवत्यधो दह्यते /
5823 SK [१९०|१३] अप्संवर्तन्यास्तृतीयं ध्यानं शीर्ष भवत्यधः क्लिद्यते /
5824 SK [१९०|१३-१९०|१४] वायुसंवर्त्तन्याश्चतुर्थं ध्यानं शीर्षं भवत्यधो विकीर्यते /
5825 SK [१९०|१४] यद्धि संवर्तन्या उपरिष्टात्तच्छीर्षमित्युच्यते /
5826 SK [१९०|१४-१९०|१६] किं पुनः कारणं प्रथमद्वितीयतृतीयध्यानानि तेजोजलवायुभिर्ध्वस्यन्ते /
5827 SK [१९०|१७] तदपक्षालसाधम्र्यात्
5828 SK [१९०|१८] प्रथेमे हि ध्याने वितर्कविचारा अपक्षालाः /
5829 SK [१९०|१८-१९०|१९] ते च मनसः परिदाहकत्वादग्निकल्पाः /
5830 SK [१९०|१९] द्वितीये प्रीतिरपक्षालः सा च प्रस्रब्धियोगेनश्रयमृदूकरणादप्कल्पाः /
5831 SK [१९०|२०] अत एवतस्मिन् कृत्स्नकायक्रौर्यापगमात् दुःखेन्द्रियस्य निरोध उक्तः सूत्रे /
5832 SK [१९०|२१] तृतीये ध्याने आश्वासप्रश्वासाः / ते च वायव एव /
5833 SK [१९०|२१-१९०|२२] इति यस्यां ध्यानसमापत्तौ यथाभुत आध्यात्मिकोऽपक्षालस्तस्याम् ध्यानोपपत्तौ तथाभूतो बाह्य इति /
5834 SK [१९०|२२-१९०|२३] कस्मात् पृथिवीसंवर्तनी न भवति /
5835 SK [१९०|२३-१९०|२४] पृथिव्येव हि भाजनाख्या तस्यां तेजोजलवायुभिर्विरोधो न पृथ्हिव्येति /
5836 SK [१९०|२४] अथ चतुर्थध्याने कथं न संवर्तनी /
5837 SK [१९०|२५] न चतुर्थेऽस्त्यनिञ्जनात् /
5838 SK [१९०|२६] चतुर्थं ध्यानमाध्यात्मिकापक्षालरहितत्वादानेञ्ज मुक्तं भगवता /
5839 SK [१९०|२६-१९०|२७] अतोऽत्र बाह्योऽपक्षालो न प्रवर्तत इति नास्त्यत्र संवर्तनी /
5840 SK [१९०|२७] शुद्धावासप्रभावादित्यपरे /
5841 SK [१९०|२७-१९१|०१] नहि तैः शक्यमारुप्यान् प्रवेष्टुं नाप्यन्यत्र गन्तुमिति /
5842 SK [१९१|०१-१९१|०२] नित्यं तर्हि चतुर्थध्यानभाजनं प्राप्न्नोति /
5843 SK [१९१|०३] न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात् // VAक्K_३.१०१ //
5844 SK [१९१|०४] नहि चतुर्थं ध्यानमेकभूमिसंबद्धम् / किं तर्हि /
5845 SK [१९१|०४-१९१|०५] विच्छिन्नस्थानान्तरं तारकावत् /
5846 SK [१९१|०५] तत्राप्ययं सत्त्व उपपद्येत च्यवेत वा /
5847 SK [१९१|०५-१९१|०६] स सार्धं विमानेनेति नास्त्यस्य नित्यत्वम् /
5848 SK [१९१|०६] केन पुनः क्रमेणैताः संवर्तन्यो भवन्ति / निरन्तरं तावत्
5849 SK [१९१|०७] सप्ताग्निना
5850 SK [१९१|०८] सप्त संवर्तन्यस्तेजसा भवन्ति / ततः /
5852 SK [१९१|१०] सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवति /
5853 SK [१९१|११] एवं गतेऽद्भिः सप्तके पुनः /
5854 SK [१९१|१२] तेजसा सप्तकः
5855 SK [१९१|१३] एतेन क्रमेणाप्संवर्तनीनां गते सप्तके पुनः तेजःसंवर्तनीनां सप्तको भवति /
5856 SK [१९१|१४] पश्चाद्वायुसंवर्तनी ततः // VAक्K_३.१०२ //
5857 SK [१९१|१५] पश्चादेकावायुसंवर्तनी भवति / किं कारणम् /
5858 SK [१९१|१५-१९१|१७] यथिव हि तेषां सत्त्वानां समापत्तिविशेषादात्मभावानां स्थितिविशेषस्तथा भाजनानामपामिति ता एता भवन्ति षट्पञ्चाशत्तेजः संवर्तन्यः सप्ताप्संवर्त्तन्यः एका वायुसंवर्त्तनी /
5859 SK [१९१|१७-१९१|१८] एवं च प्रज्ञप्तिभाष्यं सुनीतं भवति ᳚चतुःषष्टि कल्पाः शुभकृत्स्नानां देवानामायुःप्रमाणमि᳚ति /
5860 SK [१९१|१९-१९१|२०] ᳚ये धर्मा हेतुप्रभवा हेतुम् तेषां तथागतोह्यवदत् / तेषां च यो निरोध एवंवादी महाश्रमण᳚ // इति /
5861 SK [१९१|२१] अभिधर्मकोशभाष्ये लोकनिर्देशो नाम
5862 SK [१९१|२२-१९१|२३] तृतीयं कोशस्थानम् समाप्तमिति /
5864 SK =====================================================================
5865 SK [१९२|०२] ॐ नमो बुद्धाय /
5866 SK [१९२|०३] अथ यदेतत्सत्त्वभाजनलोकस्य बहुधा वैचित्र्यमुक्त तत् केन कृतम् /
5867 SK [१९२|०३-१९२|०४] न खलु केनचिद्बुद्धिपूर्वकं कृतम् /
5868 SK [१९२|०४] किं तर्हि / सत्त्वानां
5869 SK [१९२|०५] कर्मजं लोकवैचित्र्यं
5870 SK [१९२|०६-१९२|०७] यदि कर्मजं कस्मात्सत्त्वानां कर्मभिः कुङ्कुमचन्दनादयो रम्यतरा जायन्ते न तेषां शरीराणि /
5871 SK [१९२|०७-१९२|०८] कर्माण्येव तान्येवञ्जातीयाति व्याभिश्रकारिणां सत्त्वानां यदाश्रयाश्च व्रणभूता जायन्ते भोगाश्च रम्यास्तत्प्रतीकारभूताः /
5872 SK [१९२|०८-१९२|०९] अव्यामिश्रकारिणां तु देवानामुभये ऽपि रम्याः /
5873 SK [१९२|०९] किं पुनस्तत्कर्मेत्याह
5874 SK [१९२|१०] चेतना तत्कृतं च तत् /
5875 SK [१९२|११] सूत्र उक्तं ᳚द्वे कर्मणी चेतना कर्म चेतयित्वा चे᳚ति /
5876 SK [१९२|११-१९२|१२] यत्तच्चेतयित्वा चेतनाकृटं च तत् /
5877 SK [१९२|१२] ते एते द्वे कर्मणी त्रीणि भवन्ति / कायवाङ्मनस्कर्माणि /
5878 SK [१९२|१२-१९२|१३] कथमेषां कर्मणां व्यवस्थानम् /
5879 SK [१९२|१३] किमाश्रयतः आहोस्वित् स्वभावतः समुत्थानतो वा /
5880 SK [१९२|१३-१९२|१४] आश्रयतश्चेदेकं कायकर्म प्राप्नोति /
5881 SK [१९२|१४] सर्वेषां कायाश्रितत्वात् स्वभावतश्चेद्वाक्कर्मैकं प्राप्नोति /
5882 SK [१९२|१५] वचसः कर्मस्वभावत्वात् / समुत्थानतश्चेन्मनस्कर्मैकं प्राप्नोति /
5883 SK [१९२|१५-१९२|१६] सर्वेषां मनः समुत्थितत्वात् /
5884 SK [१९२|१६] यथाक्रमं त्रिभिः कारणैस्त्रयाणामिति वैभाषिकाः / तत्र पुनः
5885 SK [१९२|१७] चेतना मानसं कर्म
5886 SK [१९२|१८] चेतना मनस्कर्मे ति वेदितव्यम् /
5887 SK [१९२|१९] तज्जं वाक्कायकर्मणी // VAक्K_४.१ //
5888 SK [१९२|२०] यत्तच्चेतनाजनितं चेतयित्वा कर्मेत्युक्तं कायवाक्कर्मणी ते वेदितव्ये /
5889 SK [१९२|२१] ते तु विज्ञप्त्यविज्ञप्ती
5890 SK [१९२|२२] ते तु कायवाक्कर्मणी प्रत्येकं विज्ञप्त्यविज्ञप्तिस्वभावे वेदितव्ये / तत्र तु
5891 SK [१९२|२३] कायविज्ञप्तिरिष्यते /
5893 SK [१९२|२५] चित्तवशेन कायस्य तथा तथा संस्थानं कायविज्ञप्तिः / गतिरित्यपरे /
5894 SK [१९२|२५-१९२|२६] प्रस्यन्दमानस्य हि कायकर्म नो ऽप्रस्यन्दमानस्येति /
5895 SK [१९२|२६] त उच्यन्ते
5896 SK [१९३|०१] न गतिर्यस्मात्संस्कृतं क्षणिकं
5897 SK [१९३|०२] को ऽयं क्षणो नाम / आत्मलाभो ऽनन्त्रविनाशी / सो ऽस्यास्तीति क्षणिकम् /
5898 SK [१९३|०३] दण्डकवत् / सर्व हि संस्कृतमात्मलाभा दूर्ध्वं न भवतीति यत्रैव जातं तत्रैव ध्वस्यते /
5899 SK [१९३|०४] तस्यायुक्ता देशान्तरसंक्रान्तिः / तस्मान्न गतिः कायकर्म /
5900 SK [१९३|०४-१९३|०५] स्यादेतदेव यदि सर्वस्य ष्क्णिकत्वं सिध्येत् /
5901 SK [१९३|०५] सिद्धमेवैतत् विद्धि / कुतः / संस्कृतस्यावश्यं /
5902 SK [१९३|०६] व्ययात् // VAक्K_४.२ //
5903 SK [१९३|०७] अकस्मिको हि भावानां विनाशः / किं कारणम् / कार्यस्य हि कारणं भवति /
5904 SK [१९३|०८] वनाशश्चाभावः / यश्चाभावस्तस्य किं कर्तव्यम् /
5905 SK [१९३|०८-१९३|०९] सो ऽसावाकस्मिकोक् विनाशो यदि भावस्योत्पन्नमात्रस्य न स्यात् पश्चादपि न स्याद्भावस्य तुल्यत्वात् /
5906 SK [१९३|०९-१९३|१०] तथान्यथीभूतः /
5907 SK [१९३|१०] न युक्तं तस्यैव / न्यथात्वम् / न हि स एव तस्माद्विलक्षणो युज्यते /
5908 SK [१९३|१०-१९३|११] दृष्टो वै काष्ठादीनामग्न्यादिसंयोगाद्विनाशः /
5909 SK [१९३|११-१९३|१२] न च दृष्टाद्गरिष्ठं प्रमाणमस्तीति /
5910 SK [१९३|१२-१९३|१३] न च सर्वस्याकस्मिको विनाशः कथं तावत् भवान् काष्ठादीनामग्न्यादिसंयोगाद्विनाशं पश्यामीति मन्यते /
5911 SK [१९३|१३] तेषां पुनरदर्शनात् /
5912 SK [१९३|१३-१९३|१४] संप्रधार्यं तावदेतत् /
5913 SK [१९३|१४-१९३|१५] किमग्निसंयोगात्काष्ठादयो विनष्टा अतो न दृश्यन्ते उताहो स्वयं विनष्टा अन्ये च पुनर्नोत्पन्ना अतो न दृश्यन्ते /
5914 SK [१९३|१५-१९३|१६] यथा वायुसंयोगात्प्रदीपः पाणिसंयोगाद्घण्टाशब्द इति /
5915 SK [१९३|१६] तस्मादनुमानसाध्यो ऽयमर्थः / किं पुनरत्रानुमानम् /
5916 SK [१९३|१६-१९३|१७] उक्तं तावत् अकार्यत्वादभावस्येति /
5918 SK [१९३|१८] न कस्यचिदहेतोः स्यात्
5919 SK [१९३|१९] यदि विनाशो हेतुसामान्यान्न कस्यचिदहेतुकः स्यादुत्पादवत् /
5920 SK [१९३|१९-१९३|२०] क्षणिकानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाश इति नायं हेतुमपेक्षते /
5921 SK [१९३|२०-१९३|२१] यस्तु मन्यते बुद्ध्यन्तराद्बुद्धेर्विनाशः शब्दान्तराच्छब्दस्येति /
5922 SK [१९३|२१] तदयुक्तम् / बुद्ध्योरसमवधानात् /
5923 SK [१९३|२१-१९३|२२] न हि शंसयनिश्चयज्ञानयोर्युक्तं समवधानं सुखदुःखयो रागद्वेषयोर्वा /
5924 SK [१९३|२२-१९३|२४] यदा च पटुबुद्धिशब्दानन्तरमपटुबुद्धिशब्दावुत्पद्येते तदा कथमपटुः समानजातीयो धर्मः पटीयांसं हिंस्यात् /
5925 SK [१९३|२४-१९३|२५] अन्त्ययोश्च कथं यो ऽप्यर्चिषामवस्थानहेत्वभावाद्धर्माधर्मवशाद्वा विनाशं मन्यते तदप्ययुक्तम् /
5926 SK [१९३|२५] न ह्यभावः कारणं भवितुमर्हति /
5927 SK [१९३|२५-१९३|२६] न चाप्युत्पादविनाशहेत्वोर्धर्मार्धर्मयोः क्षणे क्षणे वृत्तिलाभप्रतिबन्धौ भवितुमर्हतः /
5928 SK [१९३|२७] सक्यष्चैष कारण परिकल्पः सर्वत्र सम्स्कृते कर्तुमित्यलं विवादेन /
5929 SK [१९४|०१-१९४|०२] यदि च काष्ठादीनामग्न्यादिसंयोगहेतुको विनाशः स्यादेवं सति पाकजानां गुणानां पक्वतरतमोत्पत्तौ
5930 SK [१९४|०३] हेतुः स्याच्च विनाशकः /
5931 SK [१९४|०४] हेतुरेव च विनाशकः स्यात् / कथं कृत्वा /
5932 SK [१९४|०४-१९४|०६] घासाद्यग्निसंबन्धा गुणाः पाकजा उत्पन्नास्तत एव तादृशाद्वा पुनः पक्वतरतमोत्पत्तौ तेषां विनाश इति हेतुरेव तेषां विनाशकः स्याद्धेत्वविशिष्टो वा /
5933 SK [१९४|०६-१९४|०७] न च युक्तं यत एव तादृशाद्द्वा तेषां भावस्तत एव तादृशाच्च तेषां पुनरभाव इति /
5934 SK [१९४|०७-१९४|०८] ज्वालान्तरेषु तावद्धेतुभेदकल्पनां परिकल्पेयुः /
5935 SK [१९४|०८-१९४|०९] क्षरहिमशुक्तसूर्योदकभूमिसंबन्धात्तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः /
5936 SK [१९४|०९-१९४|१०] यत्तर्ह्यापः क्वाथ्यमानाः क्षीयन्ते किं तत्राग्निसंयोगाः कुर्वन्ति /
5937 SK [१९४|१०-१९४|११] तेजोधातुं प्रभावतो वर्धयन्ति यस्य प्राभावादपां संघातः क्षामक्षामो जायते यावदतिक्षामतां गतो ऽन्ते न पुनः संतानं संतनोति /
5938 SK [१९४|११-१९४|१२] इदमत्राग्निसंयोगाः कुर्वन्ति /
5939 SK [१९४|१२-१९४|१४] तस्मान्नास्ति भावानां विनाशहेतुः स्वयमेव तु भङ्गुरत्वाद्विनश्यन्त उत्पन्नमात्रा विनश्यन्तीति सिद्ध एषां क्षणभङ्गः क्षणभङ्गाच्च गत्यभावः /
5940 SK [१९४|१४] गत्यभिमानस्तु देशान्तरेषु निरन्तरोत्पत्तौ तृणज्वालावत् /
5941 SK [१९४|१५] गत्यभावे च ᳚संस्थानं कायविज्ञप्ति᳚रिति सिद्धम् /
5942 SK [१९४|१५-१९४|१६] नास्ति संस्थानं द्रव्यत इति सौत्रान्तिकाः /
5943 SK [१९४|१६] एकदिङ्मुखे हि भूयसि वर्ण उत्पन्ने दीर्घं रूपमिति प्रज्ञप्यते /
5944 SK [१९४|१६-१९४|१७] तमेवापेक्ष्याल्पीयसि ह्रस्वमिति /
5945 SK [१९४|१७] चतुर्दिशं भूयसि चतुरस्रमिति /
5946 SK [१९४|१७-१९४|२७] सर्वत्र समे वृत्तमिति /
5947 SK [१९४|१८] एवं सर्वम् /
5948 SK [१९४|१८-१९४|१९] तद्यथा ऽलातमेकस्यां दिशि देशान्तरेष्वनन्तरेषु निरन्तरमाशु दृश्यमानं दीर्घमिति प्रतीयते सर्वतो दृश्यमानं मण्डलमिति /
5949 SK [१९४|१९-१९४|२०] न तु खलु जात्यन्तरमस्ति संस्थानम् /
5950 SK [१९४|२०] यदि हि स्यात् [१९४|२१] द्विग्राह्यं स्यात्
5951 SK [१९४|२२-१९४|२३] चक्षुषा हि दृष्ट्वा दीर्घमित्यवसीयते कायेन्द्रियेणापि स्पृष्ट्वेति द्वाभ्यामस्य ग्रहणं प्राप्नुयात् /
5952 SK [१९४|२३] न च रूपायतनस्य द्वाभ्यां ग्रहणमस्ति /
5953 SK [१९४|२३-१९४|२४] यथा वा स्प्रष्टव्ये दीर्घादिग्रहणं तथा वर्णे संभाव्यताम् /
5954 SK [१९४|२४] स्मृतिमात्रं तत्र स्प्रष्टव्यसाहचर्यात् भवति /
5955 SK [१९४|२४-१९४|२५] स तु साहचर्यात् भवति न तु साक्षात् ग्रहणम् /
5956 SK [१९४|२५-१९४|२६] यथा ऽग्निरूपं दृष्ट्वा तस्योष्णतायां स्मृतिर्भवति पुष्पगन्धं च घ्रात्वा तद्वर्ण इति /
5957 SK [१९४|२६-१९५|०१] युक्तमत्राव्यभिचारत्वादन्येनान्यस्य स्मरणं नतु किञ्चित् स्प्रष्टव्यं क्वचित् संस्थाने नियतं यतस्तत्र स्मरणं नियमेन स्यात् /
5958 SK [१९५|०१-१९५|०२] अथासत्यपि साहचर्यनियमे संस्थानस्मरणं नियमेन स्यात् /
5959 SK [१९५|०२] वर्णे ऽपि स्यात् वर्णवद्धा संस्थाने ऽप्यनियमेन स्यात् /
5960 SK [१९५|०२-१९५|०३] नचैवं भवति /
5961 SK [१९५|०३] अयुक्तमस्य स्प्रष्टव्यात्स्मरणं /
5962 SK [१९५|०३-१९५|०४] चित्रास्तरणेवा ऽनेकवर्णसंस्थाने दर्शनाद्बहूनामैकदेश्यं प्राप्नुयात् /
5963 SK [१९५|०४] तच्चायीउक्तं वर्णवत् /
5964 SK [१९५|०४-१९५|०५] तस्मान्नास्ति द्रव्यतः संस्थानम् /
5965 SK [१९४|०६] यच्चापि किञ्चित् सप्रतिघं रूपमस्ति तदवश्यं परमाणौ विद्यते /
5966 SK [१९५|०७] न चाणौ तत्
5967 SK [१९५|०८] न च संस्थानं परमाणौ विद्यते दीर्घादि /
5968 SK [१९५|०८-१९५|०९] तस्माद्बहुष्वेव तथा संनिविष्टेषु दीर्घादिप्रज्ञप्तिः /
5969 SK [१९५|०९-१९५|१०] अथ मत्तं संस्थानपरमाणव एव तथा संनिविष्टा दीर्घादिसंज्ञां लभन्त इति /
5970 SK [१९५|१०] सो ऽयं केवलः पक्षपातस्तेषामसिद्धत्वात् /
5971 SK [१९५|१०-१९५|११] सिद्धस्वलक्षाणानां हि तेषां संचयो युज्यते /
5972 SK [१९५|११] न च संस्थानावयवानां वर्णादिवत् स्वभावः सिद्ध इति कुत एषां संचयः /
5973 SK [१९५|१२] यत्तर्हि वर्णश्चाभिन्नो भवति संस्थानं च भिन्नं दृश्यते मृद्भाजनानाम् /
5974 SK [१९५|१२-१९५|१४] ननु चोक्तं यथा कृत्वा वर्णे दीर्घादिसंज्ञा प्रज्ञप्यते तथा च पिपीलिकादीनामभेदे पङ्क्तिचक्रादीनां भेदः प्रज्ञायते तथा संस्थानस्यापि /
5975 SK [१९५|१४-१९५|१६] यत्तर्हि तमपि दूराद्वा वर्णमपश्यन्तः स्थाण्वादीनां दैर्घ्यादीनि पश्यन्ति वर्णमेव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति /
5976 SK [१९५|१६] पङ्क्तिसेनापरिकल्पवत् / इत्थं चैतदेवम् /
5977 SK [१९५|१७] यत्कदाचिदनिर्धार्यमाणपरिच्छेदं संघातमात्रमव्यक्तं दृश्यते किमप्येतदिति /
5978 SK [१९५|१८-१९५|१९] अथेदानीं कायस्य गतिं निराकृट्य सम्स्थानं च तत्र भवन्तः सौत्रान्तिकाः कां कायविज्ञर्प्तिं प्रज्ञपयन्ति /
5979 SK [१९५|१९] संस्थानमेव हि ते कायविज्ञर्प्ति प्रज्ञपयन्ति / नतु पुनर्द्रव्यतः /
5980 SK [१९५|२०] तां च प्रज्ञपयन्तः कथं कायकर्म प्रज्ञपयन्ति /
5981 SK [१९५|२०-१९५|२१] कायाधिष्ठानं कर्म कायकर्म या चेतना कायस्य तत्र तत्र प्रणेत्री /
5982 SK [१९५|२१] एवं वाङ्मनस्कर्मणी अपि यथायोगं वेदितव्ये /
5983 SK [१९५|२२-१९५|२३] यत्तर्हि ᳚चेतना कर्म चेतयित्वा चे᳚त्युक्तं संकल्पचेतना पूर्वं भवत्येवं संकल्पचेतना पूर्वं भवत्येवं चैवं च करिष्यामीति /
5984 SK [१९५|२३] तथा चेतयित्वा पश्चात् क्रिया चेतनोत्पद्यते /
5985 SK [१९५|२३-१९५|२४] यया कायः प्रेर्यते सा ऽसौ चेतयित्वा कर्मेत्युच्यते /
5986 SK [१९५|२४-१९५|२५] एवं तर्हि विज्ञप्त्यभावादविज्ञप्तिरपि कामावचरी नास्तीति महान्तो दोषा अनुषज्यन्ते /
5987 SK [१९५|२५-१९५|२६] अनुषङ्गानां पुनः प्रत्यनुषङ्गा भविष्यन्ति /
5988 SK [१९५|२६-१९५|२७] यदि तस्मादेव कायकर्मसंशब्दिताच्चेतनाविशेषादविज्ञप्तिः स्यात् /
5989 SK [१९५|२७-१९५|२८] चित्तानुपरिवर्तिनी स्यात्समाहितविज्ञप्तिवत् नै वं भविष्यति /
5990 SK [१९५|२८] चेतनाविशेषेण तदाक्ष्पविशेषात् /
5991 SK [१९५|२८-१९६|०१] सा ऽपि च विज्ञप्तिः सती तदाक्षेपे चेतनाया बलं निभालयते /
5992 SK [१९६|०१] जडत्वात् /
5993 SK [१९६|०१-१९६|०२] द्रव्यमेव तु संस्थानं वैभाषिका वर्णयन्ति संस्थानात्मिकां तु कायविज्ञप्तिम् /
5994 SK [१९६|०३] वाग्विज्ञप्तिस्तु वाग्ध्वनिः // VAक्K_४.३ //
5995 SK [१९६|०४] वाक्स्वभावो यः शब्दः सैव वाग्विज्ञप्तिः / अविज्ञप्तिः पूर्वमेवोक्ता /
5996 SK [१९६|०४-१९६|०५] सा ऽपि द्रव्यतो नास्तीति सौत्रान्तिकाः /
5997 SK [१९६|०५] अभ्युपेत्याकरणमात्रत्वात् /
5998 SK [१९६|०५-१९६|०६] अतीतान्यपि महाभूतान्युपादाय प्रज्ञप्तेस्तेषां चाविद्यमानस्वभावत्वाद्रूपलक्षणाभावाच्च /
5999 SK [१९६|०६-१९६|०७] अस्तीति वैभांषिकाः /
6000 SK [१९६|०७] कथं ज्ञायते /
6001 SK [१९६|०८] त्रिविधामलरूपोक्तिवृद्ध्यकुर्वत्पथादिभिः /
6002 SK [१९६|०९] त्रिविधं रूपमुक्तं सूत्रे / ᳚त्रिभिः स्थानै रूपस्य रूपसंग्रहो भवति /
6003 SK [१९६|०९-१९६|१०] अस्ति रूपं सनिदर्शनं सप्रतिघम् /
6004 SK [१९६|१०] अस्ति रूपमनिदर्शनं सप्रतिघम् /
6005 SK [१९६|१०-१९६|११] अस्ति रूपमनिदर्शनमप्रतिघमि᳚ति /
6006 SK [१९६|११] अनास्रवं च भगवता रूपमुक्तम् / ᳚अनास्रवाः धर्माः कतमे /
6007 SK [१९६|१२-१९६|१३] यस्मिन् रूपे ऽतीतानागतप्रत्युत्पन्नो नोत्पद्यते ऽनुनयो वा प्रतिघो वा यावद्यस्मिन्विज्ञाने /
6008 SK [१९६|१३] इम उच्यन्ते ऽनास्रवा धर्मा᳚ इति /
6009 SK [१९६|१३-१९६|१४] न चा विज्ञप्तिं विरहय्यास्ति रूपमनिदर्शनमप्रतिघं नाप्यना स्रवम् /
6010 SK [१९६|१४] वृद्धिरपि चोक्ता /
6011 SK [१९६|१४-१९६|१७] ᳚एभिः सप्तभिरौपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य कुलदुहितुर्वा चरतो वा स्वपतो वा तिष्ठतो वा जाग्रतो वा सततसमितमभिवर्धत एव पुण्यमुपजायत एव पुण्यम् /
6012 SK [१९६|१७] एवं निरौपधिकैरि᳚ति //
6013 SK [१९६|१७-१९६|१८] न चाविज्ञप्तिमन्तरेणान्यमनसो ऽप्ति पुण्यस्याभिवृद्धिर्युज्यते /
6014 SK [१९६|१८-१९६|१९] अकुर्वतश्च स्वयं परैः कारयतः कर्मपथा न सिध्येयुरसत्यामविज्ञप्तौ /
6015 SK [१९६|१९] नह्याज्ञापनविज्ञप्तिः मौलः कर्मपथो युज्यते /
6016 SK [१९६|२०] तस्य कर्यणो ऽकृतत्वात् / कृते ऽपि च तस्याः स्वभावविशेषादिति /
6017 SK [१९६|२०-१९६|२२] उक्तं च भगवता ᳚धर्मा भिक्षवो बाह्यमायतनमेकादशभिरायतनैरसंगृहीतमनिदर्शनमप्रतिघमि᳚ति /
6018 SK [१९६|२२] न त्वरूपीत्युक्तम् /
6019 SK [१९६|२२-१९६|२३] तत्र किं प्रयोजनं स्याद्यदि धर्मायतनान्तर्गतमविज्ञप्तिरूपं नश्येत /
6020 SK [१९६|२३] अष्टाङ्गश्च मार्गो न स्यादविज्ञप्तिमन्तरेण /
6021 SK [१९६|२३-१९६|२४] समापन्नस्य सम्यग्वाक्कर्मान्ताजीवानामयोगात् /
6022 SK [१९६|२४-१९६|२६] यत्तर्हीदमुक्तं ᳚तस्यैवं जानत एवं पश्यतः सम्यग्दृष्टिर्भावनापरिपूरिं गच्छति सम्यक् संकल्पः सम्यक् व्यायामः सम्यक् स्मृतिः सम्यक् समाधिः /
6023 SK [१९६|२६-१९६|२७] पूर्वमेव चास्य सम्यक् वावक्र्मान्ताजीवाः परिशुद्धा भवन्ति पर्यवदाता᳚ इति /
6024 SK [१९६|२७-१९६|२८] लौकिकमार्गवैराग्यं पूर्वकृतमभिसंधायैतदुक्तम् /
6025 SK [१९६|२८-१९७|०१] प्रातिमोक्षसंवरश्चपि न स्यादसत्यामविज्ञप्तौ /
6026 SK [१९७|०१-१९७|०२] न हि समादानादुर्ध्वं तदस्ति येनान्यमनस्को ऽप्ययं भिक्षुः स्यात् भिक्षुणी वेति /
6027 SK [१९७|०२] सेतुश्च सूत्रे विरक्तिरुक्ता / दौःशील्यविवन्धत्वात् /
6028 SK [१९७|०२-१९७|०३] न वा भवन्ती सेतुर्भवितुमर्हतीत्यस्त्येवाविज्ञप्तिः /
6029 SK [१९७|०३-१९७|०४] अत्र सौत्रान्तिका आहुः बह्वप्येतच्चित्रमप्येतत् /
6030 SK [१९७|०४] नैवं त्वेतत् / किं कारणम् / यत् तावदुक्तं ᳚त्रिविधरूपोक्तेरि᳚ ति /
6031 SK [१९७|०४-१९७|०५] तत्र योगाचारा उपदिशन्ति /
6032 SK [१९७|०५] ध्यायिनां समाधिविषयो रूपं समाधिप्रभावादुत्पद्यते /
6033 SK [१९७|०६] चक्षुरिन्द्रियाविषयत्वात् अनिदर्शनम् / देशानावरणत्वादप्रतिघमिति / अथ मतम् /
6034 SK [१९७|०७] कथमिदानीं तत् रूपम् इति / एतदविज्ञप्तौ समानम् / [१९७|०७-१९७|०८] यदप्युक्तमनास्रवरूपोक्तेरिति तद् एव समाधिप्रभावसंभूतं रूपमनास्रवे समाधावनास्रवं वर्णयन्ति योगाचाराः /
6035 SK [१९७|०९] अर्हतो यद्रूपं बाह्यं चेत्यपरे / आस्रवाणामनिश्रयत्वात् /
6036 SK [१९७|०९-१९७|१०] यत्तर्हि सूत्र उक्तं ᳚सास्रवा धर्माः कतमे /
6037 SK [१९७|१०] यावदेव चक्षुर्यवदेव रूपाणी᳚ति विस्तरः /
6038 SK [१९७|१०-१९७|११] तत्र पुनरास्रवाणामप्रतिपक्षत्वात्सास्रवमुक्तम् /
6039 SK [१९७|११] पर्यायेण तर्हि तदेव सास्रवं चानास्रवं च स्यात् / किं स्यात् /
6040 SK [१९७|१२] लक्षणसंकरः स्यात् /
6041 SK [१९७|१२-१९७|१३] यथा तत् सास्रवं तथा न कदाचिदनास्रवमिति को ऽत्र संकरः /
6042 SK [१९७|१३-१९७|१५] यदि च रूपायतनादीनि एकान्तेन सास्रवाणि स्युरिह सूत्रे किमर्थ विशेषितानि स्यु᳚र्यानि रूपाणि सास्रवाणि सोपादानीयानि चेतःखिलम्रक्षवस्त्वि᳚ति विस्तरः /
6043 SK [१९७|१५-१९७|१९] यदप्युक्तं ᳚पुण्याभिवृद्धिवचनादिति तत्रापि पूर्वाचार्या निर्दिशन्ति ᳚धर्मता ह्येषा यथा दातॄणां दायाः परिभुज्यन्ते तथा तथा भोक्तॄणां गुणविशेषादनुग्रहविशेषाच्चान्यमनसामपि दातॄणां तदालम्बनदानचेतना भाविताः संततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति येनायत्यां बहुतरफलाभिनिष्पत्तये समर्था भवन्ति /᳚
6044 SK [१९७|१९-१९७|२०] ᳚इदमभिसंधायोक्तं᳚ भवेदभिवर्धत एव पुण्यमुपजायत एव पुण्यम् इति /
6045 SK [१९७|२०-१९७|२१] अथ मतं कथमिदानीं संतानान्तरविशेषादन्यमनसो ऽपि संतानान्तरस्य परिणामः सेत्स्यतीति /
6046 SK [१९७|२१] एतदविज्ञप्तौ स्मानम् /
6047 SK [१९७|२१-१९७|२३] कथमिदानीं संतानान्तरविशेषात्संतानान्तरे धर्मान्तरमविज्ञप्तिः सेत्स्यतीति निरूपधिकेष्विदानीं पुण्यक्रियावस्तुषु कथं भविष्यतीति /
6048 SK [१९७|२३-१९७|२४] अभिक्ष्णं तदालम्बनचेतनाभ्यासात्स्वप्नेष्वपि ता अनुषङ्गिन्यो भवन्ति /
6049 SK [१९७|२४-१९७|२५] अविज्ञप्तिवादिनस्तु निरौपधिके यत्र विज्ञप्तिर्नास्ति तत्र कथामविज्ञप्तिः स्यात् /
6050 SK [१९७|२५-१९७|२६] औपधिके ऽप्यभीक्षणं तदालम्बनेचेतनाभ्यासादित्यपरे /
6051 SK [१९७|२६-१९८|०१] यत्तर्हि सूत्र उक्तं ᳚यस्योग्रभिक्षुः शीलवान् कल्याणधर्मा पिण्डकं परिभुज्याप्रमाणं चेतःसमार्धिं कायेन साक्षात्कृत्वोपसंपद्य विहरत्यप्रमाणस्तन्निदानदायकस्य दानपतेः पुण्याभिष्यन्दः कुशलाभिष्यन्दः सुखास्वादधारः प्रतिकाङ्क्षितव्य᳚ इत्यत्र तदानीं दातुः कश्चेतनाविशेषः /
6052 SK [१९८|०१-१९८|०२] तस्मात्संततिपरिणामविशेष एव न्याय्यः /
6053 SK [१९८|०२-१९८|०३] यदप्युक्तं ᳚कारयतः कथं कर्मपथाः सेत्स्यन्ती᳚ति तत्राप्येवं वर्णयन्ति /
6054 SK [१९८|०३-१९८|०५] तत्प्रयोगेण परेषामुपघातविशेषात्प्रयोक्तुः सूक्ष्मः संततिपरिणाम विशेषो जायते यत आयत्यां समन्ते ऽपि बहुतरफलाभिनिर्वर्त्तनसमर्था भवतीति स्वयमपि च कुर्वतः क्रियाफलपरिसमाप्तावेष एव न्यायो वेदितव्यः /
6055 SK [१९८|०५-१९८|०६] सो ऽसौ संततिपरिणामविशेषः कर्मपथ इत्याख्यायते /
6056 SK [१९८|०६] कार्ये कारणोपचारात् /
6057 SK [१९८|०६-१९८|०७] कायिकवाचिकत्वं तु तत्क्रियाफलत्वाद्यथा विज्ञप्तिवादिनामविज्ञप्तेरिति /
6058 SK [१९८|०७-१९८|०८] उपात्तेषु स्कन्धेषु त्रिकालया चेतनया प्राणातिपातावध्वेन स्पृश्यत इति भदन्तः /
6059 SK [१९८|०८-१९८|०९] हनिष्यामि हन्मि हतमिति चास्य यदा भवतीति /
6060 SK [१९८|०९] न त्वियता कर्मपथः परिसमाप्यते /
6061 SK [१९८|१०] मा भूदहते ऽपि मात्रादौ हताभिमानिनामानन्तर्यं कर्मेति /
6062 SK [१९८|११] स्वयं तु घ्नत एतावांश्चेतनासमुदाचार इत्ययमत्राभिप्रायो युक्तरूपः स्यात् /
6063 SK [१९८|११-१९८|१३] क इदानीमेष प्रद्वेषो यदविज्ञप्तिः प्रक्षिप्यते संततिपरिणामविशेषश्चाभ्युपगम्यते तथैवाप्रज्ञायमानः /
6064 SK [१९८|१३] न खलु कश्चित् प्रद्वेषः /
6065 SK [१९८|१३-१९८|१४] किन्तु चित्तान्वयकायप्रयोगेण क्रियापरिसमाप्तौ ताभ्यां पृथग्भूतं धर्मान्तरं प्रयोजयितुरुत्पद्यत इति नोत्पद्यते परितोषः /
6066 SK [१९८|१५-१९८|१६] यत्कृतप्रयोगसंभूता तु क्रियापरिसमाप्तिस्तस्यैव तन्निमित्तः संततिपरिणामो भवतीति भवति परितोषः /
6067 SK [१९८|१६] चित्तचैतसंतानाच्चायत्यां फलोत्पत्तेः / उक्तं चात्र /
6068 SK [१९८|१७] किमुक्तम् / ᳚विज्ञप्त्यभावादि᳚त्येवमादि / तदभावादविज्ञप्तेरभावः /
6069 SK [१९८|१७-१९८|१८] यदप्युक्तं ᳚धर्मायतनस्यारूपित्वं यस्मान्नोक्तमि᳚ति /
6070 SK [१९८|१८-१९८|१९] तद्यदेवात्र रूपमनिदर्शनमप्रतिघं चोक्तं तदेवास्तु धर्मायतनपर्यापन्नम् /
6071 SK [१९८|१९] यदप्युक्तमष्टाङ्ग आर्यमार्गो न स्यादिति /
6072 SK [१९८|१९-१९८|२०] अङ्गं तावदाचक्ष्व /
6073 SK [१९८|२०] कथं मार्गसमापन्नस्य सम्यग्वाक्कर्मान्ताजीवा भवन्तीति /
6074 SK [१९८|२०-१९८|२१] किमसौ वाचं भाष्यते क्रियां वा करोति चीवरादीन् वा पर्येषते /
6075 SK [१९८|२१] नेत्याह / किं तर्हि /
6076 SK [१९८|२२] तद्रूपामनास्रवामविज्ञप्तिं प्रतिलभते /
6077 SK [१९८|२२-१९८|२३] यस्याः प्रतिलम्भाद्व्युत्थितो ऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते /
6078 SK [१९८|२३-१९८|२४] अतो निमित्ते नैमित्तिकोपचारादविज्ञप्तौ तदाख्या क्रियते /
6079 SK [१९८|२४-१९८|२७] यद्येवमिहाप्येवं किं न गृह्यते मार्गसमापन्नो विनाप्यविज्ञप्त्या तद्रूपमाशयं च आश्रयं च प्रतिलभते यस्य प्रतिलम्भात् व्युत्थितो ऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते /
6080 SK [१९८|२७-१९९|०१] अतो निमित्ते नैमित्तिकोपचारं कृत्वा अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्त इति /
6081 SK [१९९|०१] अपरस्त्वाह / तदक्रियामात्रमत्राङ्गमुक्तं स्यात् /
6082 SK [१९९|०१-१९९|०२] यदसावार्यमार्गसामर्थ्यादक्रियानियमं प्रतिलभते तच्चानास्रवमार्गसंनिश्रयलाभादनास्रवं स्यात् /
6083 SK [१९९|०२-१९९|०३] नहि सर्वत्र द्रव्यमन्तो धर्माः परिसंख्यायन्ते /
6084 SK [१९९|०३-१९९|०४] तद्याथा ऽष्टौ लोकधर्माः लाभो ऽलाभः यशो ऽयशः निन्दा प्रशंसा सुखं दुःखमिति /
6085 SK [१९९|०४] नचात्र चीवरादीनामलाभो नामास्ति द्रव्यान्तरम् /
6086 SK [१९९|०५-१९९|०६] प्रातिमोक्षसंवरो ऽपि स्यात् यया चेतनया विधिपूर्वं कृत्वा ऽभ्युपगमः प्रतिषिद्धात्कर्मणः कायवाचौ संवृणोति /
6087 SK [१९९|०६] अन्यचित्तोन संवृतः स्यादिति चेत् / न /
6088 SK [१९९|०७-१९९|०९] तद्भावनया क्रियाकाले स्मरतः तत्प्रत्युपस्थानात् सेतुभावो ऽपि स्यादक्रियां प्रतिज्ञां संस्मृत्य संस्मृत्य लज्जितो दौःशील्याकरणात् इत्यर्थमेव च तस्याः समादानम् /
6089 SK [१९९|०९-१९९|१०] यदि पुनरविज्ञप्तेरेव दौःसील्यं प्रतिबध्नीयात् न कश्चित्मुषितस्मृतिः शिक्षां भिन्द्यात् /
6090 SK [१९९|१०-१९९|११] अलं विस्तरेणास्त्येव द्रव्यान्तरमविज्ञप्तिरूपति वैभाषिकाः /
6091 SK [१९९|१२-१९९|१३] यद्यस्ति तच्च महाभूतान्युपादायेत्युक्तम् तत् किम् विज्ञप्तिमहाभूतान्येवोपादायाविज्ञप्तिरुत्पद्यते अथान्यानि /
6092 SK [१९९|१३] अन्यान्येव सा महाभूतान्युपादायोत्पद्यते /
6093 SK [१९९|१४] न हि सैव सामग्री सुक्ष्मफला चौदारिकफाला च युज्यते /
6094 SK [१९९|१४-१९९|१५] किं खलु यदातनी विज्ञप्तिस्तदातनान्येव सा महाभूतान्युपादाय वर्तते /
6095 SK [१९९|१५-१९९|१६] सर्वमुपादायरूपं प्रायेणैवं किञ्चित्तु वर्तमानमनागतं चातीतानि महाभूतान्युपादाय /
6096 SK [१९९|१६] किं पुनस्तदिति /
6097 SK [१९९|१७] क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा // VAक्K_४.४ //
6098 SK [१९९|१८] प्रथमात् क्षणादूर्ध्वमविज्ञप्तिः कामावचरी अतीतानि महाभूतान्युपादायोत्पद्यते /
6099 SK [१९९|१९] तान्यस्या आश्रयार्थेन भवन्ति / प्रत्युत्पन्नानि शरीरमहाभूतानि संनिश्रयार्थेन /
6100 SK [१९९|२०] प्रवृत्यनुवृत्तिकारणत्वाद्यथाक्रमम् /
6101 SK [१९९|२०-१९९|२१] चक्रस्येव भूमौ सपरिवर्तमानस्य पाण्यावेधभूमिप्रदेशौ /
6102 SK [१९९|२२] अथ कुतस्त्यानि महाभूतान्युपादाय कुतस्त्यं कायवाक्कर्म /
6103 SK [१९९|२३] स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम् /
6104 SK [१९९|२४-१९९|२५] कामावचरं कायवाक्कर्मं कामावचराण्येव महाभूतान्युपादाय एवं यावच्चतुर्थध्यानभूमिकं तद्भूमिकान्येवोपादाय /
6105 SK [१९९|२६] अनास्रवं यत्र जातः
6106 SK [१९९|२७-२००|०१] अस्रवं तु कायवाक्कर्म यस्यां भूमौ जातस्तदुत्पादयति तद्भूमिकान्युपादाय तद्वेदितव्यम् /
6107 SK [२००|०१] धात्वपतितत्वादनास्रवाणां च भूतानामभावात्तद्वलेन चोत्पत्तेः /
6108 SK [२००|०२] तत्र विज्ञप्त्यविज्ञप्त्याख्यकर्मणी वेदितव्ये /
6109 SK [२००|०३] अविज्ञप्तिरनुपात्तिका // VAक्K_४.५ //
6110 SK [२००|०४] नैःष्यन्दिकी च सत्त्वाख्या
6112 SK [२००|०६] निष्यन्दोपात्तभूतजा /
6113 SK [२००|०७] नैःष्यन्दिकान्येव भूतान्युपादाय चित्तचैत्तानि चोपादायाविज्ञप्तिर्भवति /
6114 SK [२००|०७-२००|०८] असमाहितभूमिकाया एष प्रकारः /
6115 SK [२००|०९] समाधिजौपचयिकानुपाताभिन्नभूतजा // VAक्K_४.६ //
6116 SK [२००|१०] ध्यानानास्रवसंवराविज्ञप्तिः समाधिजा /
6117 SK [२००|१०-२००|१२] सा समाधिसंभूतान्यौपचयिकान्यनुपातानि च महाभूतान्युपादायोत्पद्यते अभिन्नानि च यान्येव च भूतान्युपादाय प्राणातिपाताद्विरतिरुत्पद्यते तान्येव यावत् संभिन्नप्रलापात् /
6118 SK [२००|१२] किं कारणम् /
6119 SK [२००|१३] चित्तवत् भूताभेदात् / [२००|१३-२००|१४] प्रातिमोक्षसंवरे त्वन्यान्यानि महाभूतान्युपादाय सप्ताविज्ञप्तयो भवन्ति /
6120 SK [२००|१४] विज्ञप्तिस्तु नैःष्यन्दिकी / उपात्ता तु कायिकी /
6121 SK [२००|१४-२००|१६] किं पुनरियं विज्ञप्तिरुत्पद्यमाना पूर्वकस्य संस्थानस्य संतानं बाधित्वोत्पद्यते उताहो न /
6122 SK [२००|१६] किञ्चातः यदि बाधित्वोत्पद्यते / न /
6123 SK [२००|१६-२००|१७] विपाकरूपस्योच्छिन्नस्य पुनः प्रवन्धादवैभाषिकीयं प्राप्नोति /
6124 SK [२००|१७] अथाबाधित्वा /
6125 SK [२००|१७-२००|१८] कथमेकस्मिन्भूतसंघाते संस्थानद्वयं सिध्यति /
6126 SK [२००|१८-२००|१९] अन्यान्येव तानि नैःष्यन्दिकानि तदानीमुपजायन्ते यान्युपादाय विज्ञप्तिर्भवति /
6127 SK [२००|१९-२००|२०] एवं तर्हि यद्यदेवाङ्गं निश्रित्योत्पद्यते विज्ञप्तिस्तेन तेनाङ्गेन महीयसा भवितव्यम् /
6128 SK [२००|२०] तन्महाभूतैरभिव्यापनात् /
6129 SK [२००|२०-२००|२१] अनभिव्यापने च पुनः कथं कृत्स्नाङ्गेन विज्ञपयेत् /
6130 SK [२००|२१] शुषिरत्वात् कायस्यास्ति तेषामवकाशः /
6131 SK [२००|२२] तत् खल्वेतत् कर्म पर्यायेण द्विविधं त्रिविधं पञ्चविधं चोत्तम् /
6132 SK [२००|२२-२००|२३] चेतना चेतयित्वा चेति /
6133 SK [२००|२३] चेतयित्वा पुनर्द्विधा / कायवाक्कर्म चेतना च /
6134 SK [२००|२३-२००|२४] कायकर्म पुनः द्विविधं विज्ञप्त्याख्यमविज्ञप्त्याख्यं च /
6135 SK [२००|२४-२००|२५] एवं वाक्कर्म चेतना चेति पञ्चविधं भवति /
6136 SK [२००|२५] तत्र पुनरविज्ञप्तिर्द्विधा / कुशला ऽकुशला च /
6137 SK [२००|२६] नाव्याकृतास्त्यविज्ञप्तिः
6138 SK [२००|२७] किं कारणम् /
6139 SK [२००|२७-२००|२८] अव्याकृतं हि चित्तं दुर्बलमतो न शक्तं बलवत्कर्माक्षेप्तुं यन्निरुद्धे ऽपि तस्मिन्ननुवध्नीयात् /
6140 SK [२०१|०१] त्रिधा ऽन्यत्
6141 SK [२०१|०२] अन्यत्कर्म त्रिविधम् / कुशलाकुशलाव्याकृतम् / किं तदन्यत् / विज्ञप्तिश्चेतना च /
6142 SK [२०१|०३] अशुभं पुनः /
6144 SK [२०१|०५] अकुशलं वस्तु कर्म कामहातौ वेदितव्यम् / नान्यत्र /
6145 SK [२०१|०५-२०१|०६] अकुशलमूलानां प्रहीणत्वादाह्रीक्यानपत्राप्ययोश्च /
6146 SK [२०१|०६-२०१|०७] कुशलाव्याकृतं तु सर्वत्रा प्रतिवेधात् /
6148 SK [२०१|०८] रूपे ऽप्यविज्ञप्तिः
6149 SK [२०१|०९] कामे ऽपीत्यपिशब्दात् / आरूप्येषु नास्ति भूताभावात् /
6150 SK [२०१|०९-२०१|१०] यत्र हि कायवाचोः प्रवृत्तिस्तत्र कायवाक्संवरौ /
6151 SK [२०१|१०] इह तर्हि समापन्नस्य स्यादनास्रवा विज्ञप्तिवत् /
6152 SK [२०१|११] न / तस्या धात्वपतितत्वात् /
6153 SK [२०१|११-२०१|१२] आरूप्यावचरी त्वविज्ञप्तिनांर्हति विसभागानि भूतान्युपादाय भवितुम् /
6154 SK [२०१|१२] सर्वरूपवैमुख्याच्चारूप्यसमापत्तुनार्लं रूपोत्पत्तये /
6155 SK [२०१|१३] विभूतरूपसंज्ञत्वात् / दौःशील्यप्रतिपक्षेण शीलम् / तच्च दौःशील्यं कामावचरम् /
6156 SK [२०१|१४] आरूप्याश्च कामधातोराश्रया कारालम्बनप्रतिपक्षदूरताभिर्दूरे /
6157 SK [२०१|१४-२०१|१५] अत एष्वविज्ञप्तिर्नास्तीति वैभाषिकाः
6158 SK [२०१|१६] विज्ञप्तिः सविचारयोः // VAक्K_४.७ //
6159 SK [२०१|१७] विज्ञप्तिस्तु सविचारयोरेव भूम्योः / कामधातौ प्रथमे च ध्याने न तत ऊर्ध्वम् /
6160 SK [२०१|१८] कामे ऽपि निवृता नास्ति
6161 SK [२०१|१९] निवृता तु विज्ञप्तिः कामधातावपि नास्ति / ब्रह्मलोक एवास्ति /
6162 SK [२०१|१९-२०१|२०] महाब्राह्मणो हि शाठ्यसमुत्थितं कायकर्म श्रूयते /
6163 SK [२०१|२०-२०१|२१] स हि स्वपर्षन्मध्ये आयुष्मतो ऽश्वजितः क्षेपार्थमात्मानं क्षिप्तवात् /
6164 SK [२०१|२१-२०१|२२] तत ऊर्ध्वमसत्यां वाग्विज्ञप्तौ कथं तत्र शब्दायतनं बाह्यमहाभूतहेतुकम् /
6165 SK [२०१|२२] अन्ये पुनराहुः /
6166 SK [२०१|२२-२०१|२३] द्वितीयादिष्वपि ध्यानेषु विज्ञप्तिरस्त्यनिवृताव्याकृता /
6167 SK [२०१|२३] न कुशला न क्लिष्टा / किं कारणम् /
6168 SK [२०१|२४-२०१|२५] न हि तेषूपपन्नस्तज्जातीयमधोभूमिकं चित्तं संमुखीकरोति येन तां विज्ञप्तिं समुत्थापयेत् /
6169 SK [२०१|२५] न्यूनत्वात्प्रहीणत्वच्च / पूर्वमेव तु वर्णयन्ति /
6170 SK [२०१|२५-२०१|२६] किं पुनः कारणमूर्ध्वं ब्रह्मलोकान्नास्ति विज्ञप्तिः कामधातौ च निवृक्ताव्याकृता नास्ति /
6171 SK [२०२|०१] समुत्थानमसद्यतः /
6172 SK [२०२|०२] सवितर्कविचारेण हि चित्तेन विज्ञप्तिः समुत्थाप्यते /
6173 SK [२०२|०२-२०२|०३] तच्च द्वितीयादिषु ध्यानेषु नास्ति भावनाप्रहातव्येन चोत्थाप्यते /
6174 SK [२०२|०३] दर्शनप्रहातव्यस्यान्तर्मुखप्रवृत्तत्वात् /
6175 SK [२०२|०४] तच्च कामधातौ निवृतव्याकृतं नास्ति /
6176 SK [२०२|०५] किं खलु समुत्थानवशादेवं धर्माणां कुशलाकुशलत्वं वेदितव्यम् / नेत्याह /
6177 SK [२०२|०६] किं तर्हि / चतुर्भिः प्रकारैः परमार्थतः स्वभावतः संप्रयोगतः समुत्थानतश्च /
6178 SK [२०२|०७] तत्र तावत् /
6179 SK [२०२|०८] परमार्थशुभो मोक्षः
6180 SK [२०२|०९] निर्वाणं हि सर्वदुःखव्युपशमः / ततः परमक्षेमत्वात् परमार्थेन कुशलमारोग्यवत् /
6181 SK [२०२|१०] स्वतो मूलह्यर् पत्रपाः // VAक्K_४.८ //
6182 SK [२०२|११] त्रीणि कुशलमूलानि /
6183 SK [२०२|११-२०२|१२] ह्रिश्चापत्रप्यं च स्वभाएव्न कुशलानि अन्यसंप्रयोगसमुत्थनानपेक्षत्वात् /
6184 SK [२०२|१२] पथ्यौषधवत् /
6185 SK [२०२|१३] संप्रयोगेण तद्युक्ताः
6186 SK [२०२|१४-२०२|१५] तैरेव कुशलमूलह्यर् पत्राप्यैः संप्रयुक्ता धर्माः संप्रयोगेण कुशलास्तैरसंप्रयुक्तानां कुशलत्वाभावादौषधमिश्रपानीयवत् /
6187 SK [२०२|१६] समुत्था नात् क्रियादयः /
6188 SK [२०२|१७-२०२|१८] कायवावक्कर्मणि चित्तविप्रयुक्ताश्च संस्कारजात्यादयः प्राप्तिनिरोधासंज्ञिसमापत्तयस्तैरेव कुशलमूलादिसंप्रयुक्तै धर्मः समुपस्थापिताः समुत्थानेन कुशलाः /
6189 SK [२०२|१९] औषधपानीयसंभूतधात्रीक्षीरवत् /
6190 SK [२०२|१९-२०२|२०] प्राप्तीनां तु विसभागचित्तसमुत्थापितानां कथं कुशलत्वमिति वक्तव्यम् /
6191 SK [२०२|२०-२०२|२१] तद्यथा विचिकित्सया कुशलमूलप्रतिसंधानं धातुप्रत्यागमपरिहाणिभ्यां च /
6192 SK [२०२|२१] यथा च कुशलमुक्तं ततो
6193 SK [२०२|२२] विपर्ययेणाकुशलं
6194 SK [२०२|२३] कथं कृत्वा / संसारः परमार्थेनाकुशलः / सर्वदुःखप्रवृत्त्यात्मकत्वेन परमाक्षेमत्वात् /
6195 SK [२०२|२४] अकुशलमूलाह्रीक्यानपत्राप्याणि स्वभावतः / तत्संप्रयुक्ता धर्माः संप्रयोगतः /
6196 SK [२०२|२४-२०२|२५] तत्समुत्थापिताः कायवाक्कर्मजात्यादिप्राप्तयः समुत्थानतः व्याध्यपथ्यौषधादिभिरूपमेयाः /
6197 SK [२०३|०१] एवं तर्हि न किञ्चित्सास्रवमव्याकृतं भविष्यति कुशलं वा / संसाराभ्यन्तरत्वात् /
6198 SK [२०३|०२] परमार्थत एवमुक्तं विपाकं तु प्रति यत्सास्रवं न व्याक्रियते तदव्याकृतमित्युच्यते /
6199 SK [२०३|०३] इष्टविपाकं च कुक्शलमित्युच्यते / यदि तु परमार्थेनाव्याकृतं मृग्यते तत् / [२०३|०४] परमाव्याकृते ध्रुवे // VAक्K_४.९ //
6200 SK [२०३|०५] द्वे असंस्कृते निष्पर्यायेणानिवृताव्याकृते / आकाशमप्रतिसंख्यानिरोधश्च /
6201 SK [२०३|०५-२०३|०६] इदं विचार्यते /
6202 SK [२०३|०६-२०३|०७] यदि समुत्थानवशात्कुशलाकुशलत्वं कायवाक्कर्मणः किं न महाभूतानाम् /
6203 SK [२०३|०७] कर्मणि हि कर्त्तुरभिप्रायो न महाभूतेषु /
6204 SK [२०३|०७-२०३|०९] समाहितस्याविज्ञप्तौ नास्त्यभिप्रायो न चासमाहितं चित्तं तस्याः समुत्थापकं विसभागभूमिकत्वादिति कथं तस्याः कुशलत्वम् /
6205 SK [२०३|०९-२०३|१०] दिव्ययोरपि वा चक्षुःश्रोत्रयोः कुक्शलत्वप्रसङ्गः /
6206 SK [२०३|१०] कर्त्तव्यो ऽत्र यत्नः / यदुक्तं दर्शनप्रहातव्यं चित्तं विज्ञप्तेरसमुत्थापकमिति /
6207 SK [२०३|११-२०३|१२] किं तर्हि भगवतोक्तं ᳚ततो ऽपि मिथ्यादृष्टेर्मिथ्यासंकल्पः प्रभवति मिथ्या वाग्मिथ्याकर्मान्त᳚ मित्येवमादि /
6208 SK [२०३|१२] अविरुद्धमेतत् /
6209 SK [२०३|१३] समुत्थानं द्विधा हेतुतत्क्षणोत्थानसंज्ञितम् /
6210 SK [२०३|१४] द्विविधं समुत्थानं हेतुसमुत्थानं तत्क्षणसमुत्थानं च / तत्रैव क्षणे तद्भावात् /
6211 SK [२०३|१५] प्रवर्तकं तयोराद्यं द्वितीयमनुवर्तकम् // VAक्K_४.१० //
6212 SK [२०३|१६] हेतुसमुत्थानं प्रवर्तकमाक्षेपकत्वात् / तत्क्षणसमुत्थानमनुवर्तकं क्रियाकालानुवर्तनात् /
6213 SK [२०३|१७] किमिदानीं तस्य तस्यां क्रियायां सामर्थ्यम् /
6214 SK [२०३|१७-२०३|१८] तेन हि विना ऽसौ मृतस्येव न स्यादा क्षिप्ता ऽपि सती /
6215 SK [२०३|१८] अचित्तकस्य तर्हि संवरोत्पत्तौ कथं भवति /
6216 SK [२०३|१८-२०३|१९] स्फुटतरा तर्हि सचित्तकस्य भवतीत्येतत्सामर्थ्यम् /
6218 SK [२०३|२०] प्रवर्तकं दृष्टिहेयं विज्ञानम्
6219 SK [२०३|२१] दर्शनप्रहातव्यं चित्तं विज्ञप्तेः प्रवर्तकम् /
6220 SK [२०३|२१-२०३|२२] तत्समुत्थापकयोर्वितर्कविचारयोर्निदानभूतत्वात् /
6221 SK [२०३|२२] न त्वनुवर्तकम् /
6222 SK [२०३|२२-२०३|२३] बहिर्मुखचित्तस्य क्रियाकाले तदभावात् /
6223 SK [२०३|२३] तत्समुत्थापितं च रूपं दर्शनप्रहातव्यं स्यात् / किं स्यात् /
6224 SK [२०३|२३-२०३|२४] अभिधर्मोबाधितः स्यात् /
6225 SK [२०३|२४] विद्या ऽविद्याभ्यां चाविरोधान्नास्ति रूपं दर्शनप्रहातव्यम् /
6226 SK [२०३|२४-२०३|२५] साध्य एष पक्षः /
6227 SK [२०३|२५] भूतान्यपि तर्हि दर्शनप्रहातव्यानि स्युः / समानचित्तोत्थापितत्वात् /
6228 SK [२०४|०१] नैवं भविष्यति यथा न कुशलाकुशलानि भवन्ति / अथवा पुनर्भवन्तु / नैवं शक्यम् /
6229 SK [२०४|०२] नहि तानि दर्शनप्रहातव्यानि युज्यन्ते नाप्यप्रहातव्यानि / किं कारणम् /
6230 SK [२०४|०२-२०४|०३] अक्लिष्टस्य धर्मस्य विद्या ऽविद्याभ्यामविरोधात् /
6231 SK [२०४|०३-२०४|०४] अतो हेतुसमुत्थानमधिकृत्य सूत्रे पठनान्नास्ति विरोधः /
6232 SK [२०४|०५] उभयं पुनः //
6233 SK [२०४|०६] मानसं भावनाहेयं /
6234 SK [२०४|०७] भावनाहेयं पुनर्मनोविज्ञानमुभयं भवति / प्रवर्त्तकं चानुवर्तकं च /
6235 SK [२०४|०८] पञ्चकं त्वनुवर्तकम् // VAक्K_४.११ //
6236 SK [२०४|०९] पञ्च विज्ञानकाया अनुवर्तका एव / तदिदं चतुष्कोटिकं भवति /
6237 SK [२०४|०९-२०४|१०] प्रवर्तकमेव दर्शनप्रहातव्यं चित्तम् /
6238 SK [२०४|१०] अनुवर्तका एव पञ्च विज्ञानकायाः /
6239 SK [२०४|१०-२०४|११] उभयं भावनाहेयं मनोविज्ञानम् /
6240 SK [२०४|११] नोभयमनास्रवम् / किं खलु यथा प्रवर्तकं तथैवानुवर्तकं भवति /
6241 SK [२०४|१२] नायमेकान्तम् /
6242 SK [२०४|१३] प्रवर्तके शुभादौ हि स्यात्त्रिधा ऽप्यनुवर्तकम् /
6243 SK [२०४|१४] कुशले प्रवर्तके कुशलाकुशलाव्याकृतमनुवर्तकं स्यात् /
6244 SK [२०४|१५] एवमकुशले चाव्याकृते च /
6245 SK [२०४|१६] तुल्यं मुनेः
6246 SK [२०४|१७] बुद्धस्य तु भगवतस्तुल्यं प्रवर्तकेनानुवर्तकम् / कुशले कुशलमव्याकृते चाव्याकृतम् /
6247 SK [२०४|१८] शुभं यावत्
6248 SK [२०४|१९] कुशलं वा भवत्यनुवर्तकमव्याकृते ऽपि प्रवर्तके /
6249 SK [२०४|१९-२०४|२०] न तु कदाचित् कुश्लं प्रवर्तकमनुवर्तकं चाव्याकृतं भवति /
6250 SK [२०४|२०] आम्नायमाना हि बुद्धानां देशनेति /
6251 SK [२०४|२०-२०४|२१] नास्ति बुद्धानामव्याकृतं चित्तमिति निकायान्तरीयाः /
6252 SK [२०४|२१-२०४|२२] कुशलैकताना हि बुद्धानां संततयो नित्यं समाहितत्वात् /
6253 SK [२०४|२२] उक्तं हि सूत्रे
6254 SK [२०४|२३-२०४|२४] ᳚चरन् समाहितो नागस्तिष्ठन्नागः समाहितः / स्वपन् समाहितो नागो निषण्णो ऽपि समाहित᳚ इति /
6255 SK [२०४|२५-२०४|२६] अनिच्छया ऽस्य चित्तस्याविसरणादेवमुक्तं न तु न सन्त्यव्याकृतानि विपाकजैर्या पथिकनिर्माणचित्तानि बुद्धानामिति वैभाषिकाः /
6256 SK [२०४|२६-२०४|२७] मानसं भावनाहेयं प्रवर्तकं चानुवर्तकं चेत्युक्तम् /
6257 SK [२०४|२७] तत्कुशलाकुशलाव्याकृतं सर्वं वेदितव्यम् /
6258 SK [२०५|०१] नोभयं तु विपाप्कजम् // VAक्K_४.१२ //
6259 SK [२०५|०२] विपाकजं तु चित्तं नैव प्रवर्तकं नानुवर्तकं निरभिसंस्कारवाहित्वात् /
6260 SK [२०५|०२-२०५|०३] किमिदानीं यथा प्रवर्तकं तथा विज्ञप्तिराहोस्विद्यथा ऽनुवर्तकम् /
6261 SK [२०५|०३] किं चातः /
6262 SK [२०५|०३-२०५|०४] यथा प्रवर्तकं चेत् /
6263 SK [२०५|०४] इहापि निवृताव्याकृता विज्ञप्तिः प्राप्नोति /
6264 SK [२०५|०५] सत्कायान्तग्राहदृष्टिप्रवर्तितत्वात् /
6265 SK [२०५|०५-२०५|०६] न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति विशेषणं वक्तव्यम् /
6266 SK [२०५|०६-२०५|०७] यथानुवर्तकं चेत् अकुक्शलाव्याकृतचित्तस्य प्रातिमोक्षविज्ञप्तिः कुशला न प्राप्नोति /
6267 SK [२०५|०७] यथा प्रवर्तकं तथा विज्ञप्तिर्नतु यथा दर्शनप्रहातव्यम् /
6268 SK [२०५|०७-२०५|०८] भावना हेयान्तरितत्वात् /
6269 SK [२०५|०८] यदि नानुवर्तकवशाद्विज्ञप्तेः कुशलादित्वं न तर्हीदं वक्तव्यम् /
6270 SK [२०५|०९] हेतुसमुत्थानं संधायोक्तं सूत्रे न तत्क्षणसमुत्थानम् /
6271 SK [२०५|०९-२०५|१०] अतो नास्तीह निवृताव्याकृता विज्ञप्तिरिति /
6272 SK [२०५|१०] एवं वक्तव्यम् / अन्यव्यवहितं हेतुसमुत्थानं संधायोक्तमिति /
6273 SK [२०५|११] अवसितः प्रसङ्गः /
6274 SK [२०५|१२] सा तु पूर्वोक्ता /
6275 SK [२०५|१३] अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा /
6276 SK [२०५|१४] संवरश्चासंवरश्च / ताभ्यां चेतरो नैवसंवरो नासंवरः /
6277 SK [२०५|१४-२०५|१५] दौःशील्यप्रसरस्य संवरणं संरोधः संवरः /
6279 SK [२०५|१६] संवरः प्रातिमोक्षाख्यो ध्यानजो ऽनास्रवस्तथा // VAक्K_४.१३ //
6280 SK [२०५|१७] त्रिविधः संवरः / प्रातिमोक्षसंवर इहत्यानां कामावचरं शीलम् /
6281 SK [२०५|१७-२०५|१८] ध्यानसंवरो रूपावचरं शीलम् /
6282 SK [२०५|१८] अनास्रवसंवरो ऽनास्रवं शीलम् / तत्र पुनः
6283 SK [२०५|१९] अष्टधा प्रातिमोक्षाख्यः
6284 SK [२०५|२०-२०५|२१] भिक्षुसंवरो भिक्षुणीसंवरः शिक्षमाणासंवर श्रामणेरसंवरः श्रामणेरीसंवरः उपासकसंवर उपासिकासंवर उपवाससंवरश्च /
6285 SK [२०५|२१-२०५|२२] एषो ऽष्टविधसंवरः प्रातिमोक्षसंवर इत्याख्यायते /
6286 SK [२०५|२२] नामत एषो ऽष्टविधः /
6287 SK [२०५|२३] द्रव्यतस्तु चतुर्विधः /
6288 SK [२०५|२४] भिक्षुसंवरः श्रमणेरसंवर उपासकसंवर उपवाससंवरश्च /
6289 SK [२०५|२४-२०५|२५] इत्येष चतुर्विधः प्रातिमोक्षसंवरस्तु द्रव्यतः /
6290 SK [२०५|२५] प्रतिनियतलक्षणत्वात् /
6291 SK [२०५|२५-२०५|२६] भिक्षुसंवराद्भिक्षुणीसंवरो नान्यः श्रामणेरसंवराच्च शिक्षमाणाश्रामणेरीसंवरौ /
6292 SK [२०५|२६-२०५|२७] उपासकसंवरादुपासिकासंवरो नान्यः /
6293 SK [२०५|२७] कथं ज्ञायते /
6294 SK [२०६|०१] लिङ्गतो नामसंचारात्
6295 SK [२०६|०२] लिङ्गमिति व्यञ्जनस्याख्या येन स्त्रीपुरुषौ लिङ्ग्येते /
6296 SK [२०६|०२-२०६|०३] लिङ्गतो हि भिक्षुभिक्षुण्यादीनां नामसंचारो भवति /
6297 SK [२०६|०३] कथं कृत्वा /
6298 SK [२०६|०३-२०६|०४] परिवृत्ते हि व्यञ्जने भिक्षुर्भिक्षुणीत्युच्यते भिक्षुणी च पुनर्भिक्षुः /
6299 SK [२०६|०४-२०६|०५] श्रामणेरीत्युच्यते श्रामणेरी च पुनः शिक्षमाणा च श्रामणेरः /
6300 SK [२०६|०५] उपासक उपासिकेत्युच्यते उपासिका च पुनरूपासक इति /
6301 SK [२०६|०५-२०६|०६] न च व्यञ्जनपरिवृत्तौ पूर्वसंवरत्यागे कारणमस्ति नाप्यपूर्वसंवरप्रतिलम्भे /
6302 SK [२०६|०६-२०६|०७] तस्मादभिन्न एषां चतुर्णा संवराणां त्रिभ्यः स्वभावः /
6303 SK [२०६|०८-२०६|१०] य उपासकसंवराच्छ्रामणेरसंवरं समादत्ते तस्माच्च पुनर्भिक्षुसंवरं किं ते संवरा विरतिवृद्धियोगादन्यो ऽन्य उच्यन्ते पञ्चदश विंशतिवत् दीनारशतेरवच्च आहोस्वित् पृथगेव ते सकला जायन्ते /
6306 SK [२०६|१२] अव्यामिश्रा एव ते पृथग्लक्षणा उपजायन्ते /
6307 SK [२०६|१२-२०६|१३] त्रिषु संवरेषु तिस्रः प्राणातिपातविरतयो यावन्मद्यपानविरतयः /
6308 SK [२०६|१३] एवं शेषाः / को नु तासां विशेषः /
6309 SK [२०६|१३-२०६|१४] निदानविशेषाद्विशेषः /
6310 SK [२०६|१४] कथं कृत्वा /
6311 SK [२०६|१४-२०६|१७] यथा यथा हि वहुतराणि शिक्षापदानि समादित्सते तथा तथा बहुतरेभ्यो मद्दप्रमादपदेभ्यो निवर्तमानो बहुतरेभ्यः प्राणातिपातादीनां निदानेभ्यो निवर्तते विरतीनां च निदानेषु प्रवर्तत इति निदानविशेषाद्विरतीनां विशेषः /
6312 SK [२०६|१७-२०६|१८] एवं चासति भिक्षुसंवरं प्रत्याचक्षाणस्त्रीनपि संवरान्विजह्याद्दयोरपि तत्रान्तर्भावात् /
6313 SK [२०६|१८] न चैतदिष्टम् / तस्मात् पृथगेव ते संवराः /
6314 SK [२०६|१९] ते चाविरोधिनः // VAक्K_४.१४ //
6315 SK [२०६|२०] ते च त्रयो ऽपि सह वर्तन्ते / नोत्तरसंवरसमादानात् पुर्वकस्य त्यागः /
6316 SK [२०६|२०-२०६|२१] मा भूत् भिक्षुसंवरपरित्यागादनुपासक एवेति /
6317 SK [२०६|२२] कथं चायमुपासको भवति कथमुपवासस्थो यावत् भिक्षुः /
6318 SK [२०६|२३-२०६|२४] पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् / उपासकोपवासस्थश्रमणोद्देशभिक्षुता // VAक्K_४.१५ //
6319 SK [२०६|२५] यथासंख्यमनुदेशो वेदितव्यः /
6320 SK [२०६|२५-२०७|०१] पञ्च्चभ्यो वर्जनीयेभ्यो धर्मेभ्यो विरतिसमादानादुपासकसंवरस्थो भवति /
6321 SK [२०७|०१-२०७|०२] प्राणातिपाताददत्तादानात्काममिथ्याचारात् मृषावादात्सुरामैरेयमद्यपानाच्च /
6322 SK [२०७|०२-२०७|०३] अष्टाभ्यो विरतिसमादानादुपवासस्थः /
6323 SK [२०७|०३-२०७|०४] प्राणातिपातादत्तादानाब्रह्मचर्यमृषावादमद्यपानेभ्यो गन्धमाल्यविलेपननृत्यगीतवादित्रादुच्चशयनमहाशयनादकालभोजनाच्च /
6324 SK [२०७|०४-२०७|०५] दशभ्यो विरतिसमादानाच्छ्रामणेरो भवति /
6325 SK [२०७|०५] एभ्य एव जातरूपरजतप्रतिग्रहाच्च /
6326 SK [२०७|०५-२०७|०६] नृत्यगितवादित्रगन्धमाल्यविलेपनं चात्र द्वयीकृत्य दश भवन्ति /
6327 SK [२०७|०६-२०७|०७] सर्वेभ्य एव वर्जनीयेभ्यः कायवाक्कर्मभ्यः विरतिसमादानात् भिक्षुरित्युच्यते /
6328 SK [२०७|०७] स एष प्रातिमोक्षसंवरः /
6329 SK [२०७|०८] शीलं सुचरितं कर्म संवरश्चोच्यते
6330 SK [२०७|०९] विषमकर्मणां विरतिसमादानाच्छीलम् / शीतलत्वादिति निरुक्तिः /
6331 SK [२०७|१०] ᳚सुखशीलसमादानं कायो न परिदह्यत᳚ इति
6332 SK [२०७|११] गाथावचनात् / विद्वत्प्रशस्तत्वात्सुचरितम् / क्रियास्वभावत्वात्कर्म /
6333 SK [२०७|११-२०७|१२] ननु चाविज्ञप्तिरक्रियेत्युच्यते /
6334 SK [२०७|१२] सा कथं क्रिया भाति /
6335 SK [२०७|१२-२०७|१३] न कुर्वन्ति तया समात्तया लज्जिनः पापमित्यक्रियेत्युच्यते /
6336 SK [२०७|१३] सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति क्रिया भवति /
6337 SK [२०७|१४] क्रियाहेतुत्वात् क्रियाफलत्वाच्चेत्यपरे / संवर इति कायवाचोः संवरणात् /
6338 SK [२०७|१४-२०७|१५] एवं तावदविशेषेण प्रातिमोक्षसंवरः संशब्द्यते /
6340 SK [२०७|१७] आद्ये विज्ञप्त्यविज्ञप्ती प्रातिमोक्षकियापथः // VAक्K_४.१६ //
6341 SK [२०७|१८] संवरसमादानस्य प्रथमे विज्ञप्त्यविज्ञप्ती प्रातिमोक्ष इत्युच्यते /
6342 SK [२०७|१८-२०७|१९] पापस्य तेन प्रातिमोक्षणादुत्सर्जनादित्यर्थः /
6343 SK [२०७|१९] स्वार्थे वृद्धिविधानाद्वैकृतवैशसवत् /
6344 SK [२०७|१९-२०७|२०] प्रातिमोक्षसंवर इत्यपि कायवाक्संवरणात् कर्मपथ इत्युच्यते /
6345 SK [२०७|२०] मौलसंगृहीतत्वात् /
6346 SK [२०७|२०-२०७|२१] द्वितीयादिषु क्षणेषुइ प्रातिमोक्षसंवर एव न प्रातिमोक्षः /
6347 SK [२०७|२१] पृष्ठं च न मौलः कर्मपथः /
6348 SK [२०७|२२] अथैषां संवराणां केन कः समन्वागतः /
6349 SK [२०७|२३] प्रातिमोक्षान्विता अष्टौ
6350 SK [२०७|२४] प्रातिमोक्षसंवरेणाष्टौ निकायाः समन्वागता भिक्षुर्भिक्षुणी यावदुपवासस्थो ऽष्टमः /
6351 SK [२०८|०१] किं खलु बाह्यकानां समादानशीलं नास्ति / अस्ति नतु प्रातिमोक्षसंवरः /
6352 SK [२०८|०१-२०८|०२] किं कारणम् /
6353 SK [२०८|०२] नहि तदत्यन्तं पापस्य प्रतिमोक्षणाय संवर्तते / भवसंनिश्रितत्वात् /
6354 SK [२०८|०३] ध्यानजेन तदन्वितः /
6355 SK [२०८|०४] ध्यानाद्ध्याने वा जातो ध्यानजः / यो ध्यानेन समन्वागतः सो ऽवश्यं ध्यानसंवरेण /
6356 SK [२०८|०५] सामन्तकमप्यत्र ध्यानं कृत्वोच्यते / यथा ग्रामसामन्तकमपि ग्राम इत्युच्यते /
6357 SK [२०८|०६] अस्त्यस्मिन् ग्रामे शालेयं क्षेत्रमस्ति व्रैहेयमिति /
6358 SK [२०८|०७] अनास्रवेणार्यसत्त्वाः
6359 SK [२०८|०८] आर्यपुद्गला अनास्रवेण संवरेण समन्वागताः / ते पुनः शैक्षाशैक्षाः /
6360 SK [२०८|०८-२०८|०९] यदुक्तं ᳚सहभूहेतावुच्यमाने द्वौ संवरौ चित्तानुवर्तिनावि᳚ति /
6361 SK [२०८|१०] कतमो तौ / एषामेव त्रयाणाम्
6362 SK [२०८|११] अन्त्यौ चित्तानुवर्तिनौ // VAक्K_४.१७ //
6363 SK [२०८|१२] ध्यानसंवरो ऽनास्रवसंवरश्च / न प्रातिमोक्षसंवरः / किं कारणम् /
6364 SK [२०८|१२-२०८|१३] अन्यचित्ताचित्तकस्याप्यनुवृत्तेः /
6365 SK [२०८|१३] पुनस्तावेव ध्यानानास्रवसंवरौ प्रहाणसंवराख्यां लभेते /
6366 SK [२०८|१४] कस्यामवस्थायामित्याह
6367 SK [२०८|१५] अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ /
6368 SK [२०८|१६] अनागम्ये तौ ध्यानानास्रवसंवरौ नवस्वानन्तर्यमार्गेषु प्रहाणसंवरावित्युच्येते /
6369 SK [२०८|१७] ताभ्यां दौःशील्यस्य तत्समुत्थापकानां च क्लेशानां प्रहाणात् /
6370 SK [२०८|१७-२०८|१८] अत एव स्याद्ध्यानसंवरो न प्रहाणसंवर इति चतुष्कोटिकं क्रियते //
6371 SK [२०८|१८-२०८|१९] प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यः सास्रवो ध्यानसंवरः /
6372 SK [२०८|१९] द्वितीया अनागम्यानन्तर्यमार्गेष्वनास्रवः /
6373 SK [२०८|२०] तृतीया अनागम्यानन्तर्यमार्गेषु सास्रवः /
6374 SK [२०८|२०-२०८|२१] चतुर्थी अनागम्यानन्तर्यमार्गवर्ज्यो ऽनास्रवसंवरः /
6375 SK [२०८|२१-२०८|२२] एवं स्यादनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकं यथायोगं वेदितव्यम् /
6376 SK [२०८|२२] यत्तर्हि भगवतोक्तं
6377 SK [२०८|२३-२०८|२४] ᳚कायेन संवरः साधु साधु वाचा ऽथ संवरः / मनसा संवरः साधु साधु सर्वत्र संवरः / इति /
6378 SK [२०८|२५] यच्चोक्तं ᳚चक्षुरिन्द्रियेण संवरसंवृतो विहरती᳚ति /
6379 SK [२०८|२५-२०८|२६] एतौ मनैन्द्रियसंवरौ किंस्वभावौ /
6380 SK [२०८|२६] नैतावविज्ञप्तिशीलस्वभावौ / किं तर्हि /
6381 SK [२०९|०१] संप्रज्ञानस्मृती द्वे तु मनैन्द्रियसंवरौ // VAक्K_४.१८ //
6382 SK [२०९|०२-२०९|०३] प्रत्येकं द्विस्वभावज्ञपनार्थं पुनर्द्विग्रहणं मा यथासंख्यं विज्ञायीति मनःसंवरो ऽपि स्मृतिसंप्रज्ञानस्वभाव इति /
6383 SK [२०९|०३] इन्द्रियसंवरो ऽपि /
6384 SK [२०९|०४] इदं विचार्यते /
6385 SK [२०९|०४-२०९|०५] कः कतमया विज्ञप्त्या ऽविज्ञप्त्या वा कियन्तं कालं समन्वागत इति /
6387 SK [२०९|०६] प्रातिम्मोक्षस्थितो नित्यमत्यागाद्वर्तमानया /
6388 SK [२०९|०७] अविज्ञप्त्या ऽन्वितः
6389 SK [२०९|०८-२०९|०९] यः प्रातिमोक्षासंवरस्थः पुद्गल उक्तः स यावत्तामविज्ञप्तिर् न त्यजति तावत्तया वर्तमानया नित्यं समन्वागतः /
6390 SK [२०९|१०] पूर्वात् क्षणादूर्ध्वमतीतया // VAक्K_४.१९ //
6391 SK [२०९|११][ प्रथमात् क्षणादूर्ध्वमतीतया ऽपि समन्वागतः /
6392 SK [२०९|११-२०९|१२] अत्यागादिति सर्वत्राधिकृतं वेदितव्यम् /
6393 SK [२०९|१२] यथा प्रातिमोक्षसंवरस्थ उक्तः
6394 SK [२०९|१३] तथैवासंवरस्थो ऽपि
6395 SK [२०९|१४-२०९|१५] असंवरस्थो ऽपि यावदसंवरं न त्यजति तावन्नित्यमविज्ञप्त्या वर्तमानया समन्वागतः /
6396 SK [२०९|१५] क्षणादूर्ध्वमतीतया ऽपि /
6397 SK [२०९|१६] ध्यानसंवरवान् सदा /
6398 SK [२०९|१७] अतीताजातया
6399 SK [२०९|१८-२०९|१९] ध्यानसंवरस्य लाभी नित्यमतीतानागताभ्यामविज्ञप्तिभ्यां समन्वागतः आत्यागात् /
6400 SK [२०९|१९] प्रथमे हि क्षणे स जन्मान्तरत्यक्तं ध्यानसंवरमतीतं लभते /
6401 SK [२०९|२०] आर्यस्तु प्रथमे नाभ्यतीतया // VAक्K_४.२० //
6402 SK [२०९|२१] आर्यस्तु पुद्गलो ऽप्येवमनास्रव्या / अयं तु विशेषः /
6403 SK [२०९|२१-२०९|२२] स प्रथमे क्षणे नातीतया समन्वागतो मार्गस्य पूर्वमनुत्पादितत्वात् /
6404 SK [२१०|०१] समाहितार्यमार्गस्थौ तौ युक्तौ वर्तमानया /
6405 SK [२१०|०२-२१०|०३] तौ ध्यानानास्रवसंवरान्वितौ समाहितर्यमार्गसमापन्नौ वर्तमानया अविज्ञप्त्या समन्वागतौ यथाक्रमं न तु व्युत्थितौ /
6406 SK [२१०|०३-२१०|०४] संवरासंवरस्थानां तावदेष वृत्तान्तः /
6407 SK [२१०|०५] अथेदानीं मध्यस्थस्य /
6408 SK [२१०|०६] मध्यस्थस्यास्ति चेदादौ मध्यया
6409 SK [२१०|०७] यो नैव संवरे नासंवरे स्थितः स मध्यस्थः /
6410 SK [२१०|०७-२१०|०८] तस्य नावश्यमविज्ञप्तिरस्ति /
6411 SK [२१०|०८] यस्य त्वस्ति दौःशील्यशीलाङ्गादिसंगृहीता स आदौ मध्यया समन्वागतः /
6412 SK [२१०|०९] वर्तमाना ह्यविज्ञप्तिरतीतानागतयोर्मध्याद्
6413 SK [२१०|१०] ऊर्ध्वं द्विकालया // VAक्K_४.२१ //
6414 SK [२१०|११] प्रथमात् क्षणादूर्ध्वमतीतया वर्तमानया च / आत्यागादिति वर्तते /
6415 SK [२१०|११-२१०|१२] किमसंवरस्थः कदाचित्कुशलया विज्ञप्त्या समन्वागतो भवति संवरस्थो वा पुनरकुशलया भवति /
6416 SK [२१०|१३] भवन् कदा कियन्तं वा कालमित्याह
6417 SK [२१०|१४-२१०|१५] असंवरस्थः शुभया ऽशुभया संवरे स्थितः / अविज्ञप्त्यान्वितो यावत् प्रसादक्लेशवेगवान् // VAक्K_४.२२ //
6418 SK [२१०|१६-२१०|१८] येन प्रसादवेगेनासंवरस्थस्य कुशला ऽविज्ञप्तिरुत्पद्यते स्तववन्दनादिक्रियां कुर्वतः येन च क्लेशवेगेन संवरस्थस्याकुशला ऽविज्ञप्तिरुत्पद्यते वधबन्धनताडनादिक्रियां कुर्वतः तौ यावदनुवर्तेते तावत्ते अप्यविज्ञप्ती /
6419 SK [२१०|१८-२१०|१९] स आद्ये क्षणे वर्तमानयैवाविज्ञप्त्या समन्वागतो भवत्यन्येष्वतीतया ऽपि /
6420 SK [२१०|१९] अविज्ञप्त्यधिकारः समाप्तः /
6421 SK [२१०|२०] विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः /
6422 SK [२१०|२१] सर्वे संवरासंवरमध्यस्था यावदिज्ञप्तिं कुर्वन्ति तावत्तया वर्तमानया समन्वागताः /
6423 SK [२१०|२२] अतीतया क्षणादूर्ध्वमात्यागात्
6424 SK [२१०|२३] प्रथमात् क्षणादूर्ध्वमात्यागादतीतया विज्ञप्त्या समन्वागतो भवति /
6425 SK [२१०|२४] नास्त्यजातया // VAक्K_४.२३ //
6426 SK [२११|०१] अनागतया तु विज्ञप्त्या न कश्चित् समन्वागतः /
6427 SK [२११|०२] निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः /
6428 SK [२११|०३] अतीताभ्यामपि निवृतानिवृताव्याकृताभ्यां विज्ञप्तिभ्यां न कश्चित्समन्वागतः /
6429 SK [२११|०४] दुर्बलस्य हि धर्मस्य प्राप्तिरपि दुर्बला नानुबन्धीभवति / किङ्कृतं तस्या दौर्बल्यम् /
6430 SK [२११|०५] चित्तकृतम् / चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् / नैतदेवम् /
6431 SK [२११|०५-२११|०६] जडा हि विज्ञप्तिः परतन्त्रा च /
6432 SK [२११|०६] न चैवं चित्तम् /
6433 SK [२११|०६-२११|०७] सा हि विज्ञप्तिर्दुर्बलेनोत्थापिता दुर्बलतरा भवति /
6434 SK [२११|०८] असंवरस्थ इत्युक्तम् / को ऽयमसंवरो नाम /
6435 SK [२११|०९] असंवरो दुश्चरितं दौःशील्यं कर्मं तत्पथः // VAक्K_४.२४ //
6436 SK [२११|१०] असंवरस्येमे पर्यायशब्दाः / तत्र कायवाचोरसंवरणादसंवरः /
6437 SK [२११|१०-२११|११] सद्भिः कुत्सितत्वादनिष्टफलत्वाद् दुश्चरितम् /
6438 SK [२११|११] शीलविपक्षाद्दौःशील्यम् / कायवाक्कर्मत्वात्कर्म /
6439 SK [२११|१२] मौलसंगृहीतत्वात्कर्मपथः / स्याद्विज्ञप्त्या समन्वागतो नाविज्ञप्त्येति चतुष्कोटिकम् /
6440 SK [२११|१३] तत्र तावत् /
6441 SK [२११|१४] विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः /
6442 SK [२११|१५-२११|१७] मृद्व्या चेतनया कुशलमकुक्शलं वा कुर्वन्नैवसंवरनासंवरस्थितो विज्ञप्त्यैव समन्वागतो भवति नाविज्ञप्त्या प्रागेवाव्याकृते अन्यत्रौपधिकपुण्यक्रियावस्तुकर्मपथेभ्यः /
6443 SK [२११|१८] त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः // VAक्K_४.२५ //
6444 SK [२११|१९-२११|२०] अविज्ञप्त्यैव समन्वागतो न विज्ञप्त्या येनार्यपुद्गलेन जन्मान्तरपरिवृत्तौ न तावद्विज्ञप्तं वा पुनर्विहीनम् /
6445 SK [२११|२०-२११|२१] उक्तं संवरासंवरमध्यस्थानां विज्ञप्त्यविज्ञप्तिसमन्वागमनव्यवस्थानम् /
6446 SK [२११|२२] अथैते संवराः कथं लभ्यन्ते /
6447 SK [२११|२३] ध्यानजो ध्यनभूम्यैव लभ्यते
6448 SK [२११|२४-२११|२५] यदा ध्यानभूमिकं चित्तं प्रतिलभ्यते मौलीयं सामन्तकीयं वा सास्रवं तदा ध्यानसंवरो ऽपि सहभूतत्वात् /
6449 SK [२११|२६] अनास्रवस्तया / [२११|२७] आर्यया
6450 SK [२११|२८] तयैव ध्यानभूम्या ऽनास्रवया लभ्यमानया ऽनास्रवः संवरो लभ्यते /
6451 SK [२११|२८-२११|३०] तत्र षट् ध्यानभूमयो ऽनास्रवा भवन्ति चत्वारि ध्यानानि अनागम्यस्यानन्तरं चेति पश्चात्प्रवेदयिष्यामः /
6452 SK [२१२|०१] प्रातिमोक्षाख्यः परविज्ञपनादिभिः // VAक्K_४.२६ //
6453 SK [२१२|०२] प्रातिमोक्षसंवरस्तु परविज्ञप्तितो लभ्यते / यद्येनं परो विज्ञपयति असौ च परम् /
6454 SK [२१२|०३] स पुनः संघाद्वा पुद्गलाद्वा / संधाद्भीक्षुभिक्षुणीशिक्षमाणासंवराः पुद्गलाद्दन्ये /
6455 SK [२१२|०४] दशविधा उपसंपदिति विनयविभाषिकाः / तस्य ऊपसंग्रहणार्थमादिशब्दः /
6456 SK [२१२|०४-२१२|०९] स्वयंभूत्वेन बुद्धानां प्रत्येकबुद्धानां च नियामावक्रान्त्या पञ्चकानाम् एहिभिक्षुकया यशःप्रभृतीनाम् शास्तुरभ्युपगमान्महाकाश्यपस्य प्रश्नाराधनेन सोदायिनः गुरुधर्माभ्युपगमेन महाप्रजापत्याः दूतेन धर्मदिन्नायाः विनयद्धरपञ्चमेन प्रत्यन्तिमेषु जनपदेषु दशवर्गेण मध्येषु जनपदेषु शरणगमनं त्रैवाचिकेन षष्टिभद्रवर्गपूगोपसंपादितानामिति तेषां नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवरः /
6457 SK [२१२|०९-२१२|१०] स पुनरेष प्रातिमोक्षासंवरः समादीयमानः कियन्तं कालं समादातव्यः /
6458 SK [२१२|११] यावज्जीवं समादानमहोरात्रं च संवृतेः /
6459 SK [२१२|१२-२१२|१३] सप्तनैकायिकस्य प्रातिमोक्षसंवरस्य यावज्जीवं समादानम् उपवाससंवरस्याहोरात्रमित्येष नियमः /
6460 SK [२१२|१३] किं कारणम् / द्वौ हि कालपर्यन्तौ /
6461 SK [२१२|१३-२१२|१४] अहोरात्रपर्यन्तो जीवितपर्यन्तश्च /
6462 SK [२१२|१४] अहारोत्राणां पौनरुक्त्येन पक्षादयः / कालो नाम क एष धर्मः /
6463 SK [२१२|१५] संस्कारपरिदीपनाधिवचनमेतत् / आलोकावस्था हि द्वीपेषु दिवस इत्युच्यते /
6464 SK [२१२|१६] तमो ऽवस्था रात्रिः / युक्तं तावज्जीवितादूर्ध्वं सत्यपि समादाने संवरस्यानुत्पत्तिः /
6465 SK [२१२|१७] विसभागत्वादाश्रयस्य तेन च तत्राप्रयोगादस्मरणाच्च /
6466 SK [२१२|१७-२१२|१९] अथाहोरात्रादूर्ध्वं पञ्चरात्रं दशरात्रं वा उपवाससमादानस्य कः प्रतिबन्धो बहूनामुपवाससंवराणामुत्पत्तौ /
6467 SK [२१२|१९-२१२|२०] इत्थमस्ति प्रतिबन्धो यद्भगवानहोरात्रिकमेवोपवासं सूत्रे शास्तिस्म /
6468 SK [२१२|२०] इदमिदानीं संप्रधार्यम् /
6469 SK [२१२|२०-२१२|२२] किं तावदहोरात्रादूर्ध्वं संवरस्यानुत्पर्त्ति पश्यता तथागतेनाहोरात्रिक उपवासो देशित उताहो दुर्बलेन्द्रियाणामहोरात्रके ऽपि संवरसमादानेन संनियोजनार्थमिति /
6470 SK [२१२|२२] कुतस्त्वेतदेवं तर्क्यते /
6471 SK [२१२|२२-२१२|२३] अहोरात्रात् परेणापि संवरोत्पत्तौ युक्त्यविरोधात् /
6472 SK [२१२|२३-२१२|२४] तदेतत्कस्यचिदप्यहोरात्रादूर्ध्वमदेशनां नेच्छन्ति वैभाषिकाः /
6473 SK [२१२|२४] असंवरस्येदानीं कः कालनियमः /
6474 SK [२१२|२५] नासंवरो ऽस्त्यहोरात्रं
6475 SK [२१२|२६] यावज्जीवं पापकर्माभ्युपगमादसंवर उपजायते नाहोरात्रं यथोपवासः / किं कारणम् /
6476 SK [२१३|०१] न किलैवं प्रगृह्यते // VAक्K_४.२७ //
6477 SK [२१३|०२-२१३|०३] न किल कश्चिदेवमसंवरं समादत्ते यथोपवासं कच्चिदहमहोरात्रमसंवृतः स्यामिति /
6478 SK [२१३|०३] कुत्सितत्वात्कर्मणः /
6479 SK [२१३|०३-२१३|०४] एवं चैव न कश्चिदादत्ते कच्चिदहं यावजीवमसंवृतः स्यामिति /
6480 SK [२१३|०४] यावज्जीवमप्यस्य लाभो न स्यात् /
6481 SK [२१३|०४-२१३|०६] यद्यपि नैवमादत्ते तथाप्यत्यन्तविपन्नेनाशयेन तां क्रियां प्रकुर्वन्नसंवरं प्रतिलभते न कालान्तरविपन्नेन /
6482 SK [२१३|०६] उपवाससंवरस्तु समादानबलाधानादनात्यन्तिके ऽप्याशये लभ्यत एव /
6483 SK [२१३|०७] संवरार्थित्वात् /
6484 SK [२१३|०७-२१३|०८] यदि पुनः कश्चिदसंवरेणाप्यर्थी कालान्तरमसंवरं समाददीत सो ऽवश्यं लभेत /
6485 SK [२१३|०८] न त्वेददृष्टमिति नैवं व्यवस्थाप्यते /
6486 SK [२१३|०९] अविज्ञप्तिवदसंवरो ऽपि नास्ति द्रव्यत इति सौत्रान्तिकाः /
6487 SK [२१३|०९-२१३|१०] स एव तु पापक्रियाभिसंधिरसंवरः /
6488 SK [२१३|१०] सानुबन्धो यतः कुशलचित्तो ऽपि तद्वानुच्यते /
6489 SK [२१३|१०-२१३|११] तस्यानिराकृतत्वात् /
6490 SK [२१३|१२] अथाहोरात्रं गृह्यमाण उपवासः कथं ग्रहीतव्यः /
6491 SK [२१३|१३-२१३|१४] काल्यं ग्राह्यो ऽन्यतो नीचैः स्थितेनोक्तानुवादिता / उपवासः समग्राङ्गो निर्भुषेणानिशाक्षयात् // VAक्K_४.२८ //
6492 SK [२१३|१५] काल्यं तावत्सूर्योदयकाले अहोरात्रिकत्वात्संवरस्य /
6493 SK [२१३|१५-२१३|१६] यस्तु पूर्वकृतसमादानो नित्यमष्टभ्यामुपचेष्यामीति स भुक्त्वापि गृह्णीयात् /
6494 SK [२१३|१६-२१३|१७] अन्यतश्च ग्रहीतव्यो न स्वयमेवापरापेक्षया सत्स्वपि प्रत्ययेष्वनतिक्रमार्थम् /
6495 SK [२१३|१७-२१३|१८] नीचैः स्थितेनोत्कुट्टकेन वा जानुपातेन वा कपोतकमञ्जलिं कृत्वा ऽन्यत्र स्थास्यात् /
6496 SK [२१३|१८-२१३|१९] अगौरवस्य हि संवरो नोत्पद्यते /
6497 SK [२१३|१९] दातुश्च वचनमनुब्रुवीत / न पूर्वं न युगपत् /
6498 SK [२१३|१९-२१३|२०] एवं ह्यसौ परस्मात् गृहीतो भवति /
6499 SK [२१३|२०] अन्यथा हि दानग्रहणं न सिध्येत् /
6500 SK [२१३|२०-२१३|२१] समग्राङ्गश्चाष्टाङ्ग एव ग्रहीतव्यो न विकलाङ्गः /
6501 SK [२१३|२१] निर्भूषेण च / आजस्रिकमभ्यलङ्कारं मुक्त्वा /
6502 SK [२१३|२२] आजस्रिको ह्यलङ्कारो नात्यर्थं मदमादधाति /
6503 SK [२१३|२२-२१३|२३] आरात्रिपरिक्षयाच्च ग्रहीतव्यो यावत् पुनः सूर्योदयात् /
6504 SK [२१३|२३-२१३|२४] अतो ऽन्यथा गृह्णतः सुचरितमात्रं स्यान्नतूपवाससंवरः /
6505 SK [२१३|२४-२१३|२५] एवं च कृत्वा औरभ्रिकपारदारिकयो रात्रिदिवसोपवासकयोः साफल्यं प्रयुज्यते /
6506 SK [२१३|२५] अर्हतां समीपे वसन्त्यनेनेत्युपवासस्तेषामनुशिक्षणात् /
6507 SK [२१३|२५-२१३|२६] यावज्जीविकसंवरसमीपे वसन्त्यनेने त्यपरे /
6508 SK [२१३|२६-२१३|२७] अल्पकुशलमूलानां कुशलमूलपोषणात् पोषध इति वा /
6509 SK [२१४|०१-२१४|०२] ᳚पोषं दधाति मनसः कुशलस्य यस्मादुक्तस्ततो भगवता किल पोषधो ऽयमि᳚ति /
6510 SK [२१४|०३] किमर्थं पुनरष्टाङ्गन्युपादीयन्ते / यस्मात्
6511 SK [२१४|०४] शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् /
6512 SK [२१४|०५] चत्वार्येकं तथा त्रीणि
6513 SK [२१४|०६] चत्वारि तावच्छीलाङ्गानि यावन्मृषावादविरतिः / प्रकृतिसावद्यविरतित्वात् /
6514 SK [२१४|०७] एकमप्रमादाङ्ग मद्यपानाद्विरतिः / समात्तशीलो ऽपि मद्यपः प्रमाद्येत /
6515 SK [२१४|०७-२१४|०८] त्रीणि वृताङ्गानि यावदकालभोजनाद्विरतिः /
6516 SK [२१४|०८] संवेगानुगुणत्वात् /
6517 SK [२१४|०८-२१४|०९] किं पुनरेभिरप्रमादाङ्गवृताङ्गैरनुपात्तैः स्यात् /
6518 SK [२१४|१०] स्मृतिनाशो मदश्च तैः // VAक्K_४.२९ //
6519 SK [२१४|११] मद्यं हि पिवतः कार्या कार्यस्मृतिरेव नश्येत् /
6520 SK [२१४|११-२१४|१२] उच्चशयनमहाशयननृत्तगीतादिकं प्रतिसेवमानस्य मदः संभवेत् /
6521 SK [२१४|१२] मत्तस्य च दौःशील्यमदूरं भवेत् /
6522 SK [२१४|१२-२१४|१४] काले पुनर्भुञ्जानस्योचितभक्तकालपरिहारादुपवासस्मृतिः संवेगश्चोपतिष्ठेत् /
6523 SK [२१४|१४] तदभावादुभयं न स्यादिति /
6524 SK [२१४|१४-२१४|१५] केचित्तु खल्वकालभोजनात् प्रतिविरतिमेवोपवासं मन्यन्ते /
6525 SK [२१४|१५] तस्य शेषाण्यष्टाङ्गानीति /
6526 SK [२१४|१५-२१४|१६] नृत्यगोतवादित्रं गन्धमाल्यविलेपनं च द्वयं कृत्वा /
6527 SK [२१४|१६] एवं तु सति सूत्रपाठो न युज्येत /
6528 SK [२१४|१६-२१४|१८] अकालभोजनाद्विरति मुक्त्वा ᳚अनेनाहमष्टमाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे अनुविधीय᳚ इति /
6529 SK [२१४|१८] कस्तर्हि सो ऽन्य उपवासो यस्येमान्यङ्गानि / समुदायस्यावयवा अङ्गानि /
6530 SK [२१४|१९-२१४|२०] यथा स्थस्याङ्गानि चतुरङ्गो बलकायः पञ्चाङ्गं तूर्यं तथा ऽष्टाङ्ग उपवासो द्रष्टव्यः /
6531 SK [२१४|२०-२१४|२१] अकालभोजनात् प्रतिविरतिरूपवास उपवासाङ्गं च यथा सम्यग्दृष्टिर्मार्गो मार्गाङ्गं च /
6532 SK [२१४|२१-२१४|२२] धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं समाधिर्ध्यानं ध्यानाङ्गं चेति वैभाषिकाः / [२१४|२२-२१४|२३] नतु तेषामेव सम्यग्दृष्ट्यादीनां त एवाङ्गत्वाय कल्पन्त इति /
6533 SK [२१४|२३-२१४|२४] पूर्वकाः सम्यग्दृष्ट्यादय उत्तरेषामङ्गं यदि स्युः प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टाङ्गः स्यात् /
6534 SK [२१४|२५] किं खल्वयमुपवासकस्यैवोपवास आहोस्विदन्यस्यापि /
6535 SK [२१४|२६] अन्यस्याप्युपवासो ऽस्ति शरणं त्वगतस्य न /
6536 SK [२१४|२७-२१५|०१] अनुपवासको ऽपि यस्तमहोरात्रं बुद्धधर्मसंघान् शरणं गत्वोपवासं गृह्णाति तस्योत्पद्यते उपवाससंवरो नान्यथा /
6537 SK [२१५|०१] अन्यत्राज्ञानात् /
6538 SK [२१५|०१-२१५|०४] सूत्र उक्तं ᳚यतश्च महानामन् गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति वाचं च भाषते उपवासकं च मां धरय /
6539 SK [२१५|०४] इयता उपावासको भवती᳚ति / तत् किं शरणगमनादेवोपवासको भवति /
6540 SK [२१५|०५] भवतीति बहिर्देशकाः / न विना संवरेणेति काश्मीराः / यत्तर्हि सूत्र उक्तम् /
6541 SK [२१५|०६] नास्त्यत्र विरोधः / यस्मादस्योत्पद्यते तत एव
6542 SK [२१५|०७] उपासकत्वोपगमात्संवृत्
6543 SK [२१५|०८] उपासकत्वाभ्युपगमादेवास्योपासकसंवरो जायते /
6544 SK [२१५|०८-२१५|०९] ᳚यदेवाभ्युपगच्छत्युपासकं मां धारयेत्याद्यग्रेण यावज्जीवं प्राणापेतमि᳚ति /
6545 SK [२१५|०९-२१५|१०] प्राणातिपाताद्यपेतमित्यर्थो मध्यपदलोपात् /
6546 SK [२१५|१०] लघुसंवरस्यापि व्युत्पादनार्थं शिक्षापदानाम्
6547 SK [२१५|११] उक्तिस्तु भिक्षुवत् // VAक्K_४.३० //
6548 SK [२१५|१२-२१५|१३] यथैवं भिक्षुर्लब्धसंवरो ऽपि पुनः शिक्षापदानि ग्राह्यते श्रामणेरश्च व्युत्पादनार्थमित श्चामुतश्च ते संवर इति तथोपवासको ऽपि न तु विना संवरेणोपासको ऽस्ति /
6549 SK [२१५|१४] सर्वे चेत् संवृता एकदेशकार्यादयः कथम् /
6550 SK [२१५|१५-२१५|१६] यदि सर्व एवोपासका उपासकसंवरस्थाः कथं भगवता एकदेशकारी प्रदेशकारी यद्भूयःकारी पूरिपूर्णकारी चोपासक उक्तः /
6551 SK [२१५|१७] तत्पालनात् किल प्रोक्ताः
6552 SK [२१५|१८] यो हि यच्छिक्षापदं पालयति स तत्कारीत्युक्तः / सर्वे तु समं संवरस्थाः /
6553 SK [२१५|१९] इदमुत्सूत्रं वर्तते / किमत्रोत्सूत्रम् /
6554 SK [२१५|१९-२१५|२०] उपासकत्वाभ्युपगमादेव संवरलाभो यस्मात् प्राणतिपातमित्याहेति /
6555 SK [२१५|२०] न ह्येवं सूत्रपाठः उक्तो यथा महानामसूत्रे पाठः /
6556 SK [२१५|२१] तत्रैव चोपासकलक्षणोपदेशो नान्यत्र /
6557 SK [२१५|२१-२१५|२२] यत्र त्वेष पाठो ᳚यावज्जीवं प्राणापेतं शरणगतमभिप्रसन्नमि᳚ति /
6558 SK [२१५|२२-२१५|२३] तत्र ते दृष्टसत्या ᳚अवेत्यप्रसादान्वयं प्राणैरपि सद्धर्मोपगमनं दर्शयन्ति स्म /
6559 SK [२१५|२३] जीवितहेतो रप्यभव्या वयमेनं धर्मं परित्यक्तु᳚मिति /
6560 SK [२१५|२३-२१५|२४] न त्वेष लक्षणोपदेशः संवरस्य /
6561 SK [२१५|२४] प्राणापेतं तु न क्वचित् पठ्यते /
6562 SK [२१५|२४-२१६|०१] कश्चैतदपरिस्फुटार्थं पठेत् /
6563 SK [२१६|०१] एकदेशकार्यादींस्तु खण्डितशिक्षानधिकृत्य प्रश्न एव न युज्यते /
6564 SK [२१६|०२] कुतो विसर्जनमावेणिकधर्माणाम् /
6565 SK [२१६|०२-२१६|०३] को ह्यपासकसंवरं जानन् एतन्न ज्ञास्यते यो हि यच्छिक्षापदं न खण्डयति स तत्कारी भवतीति /
6566 SK [२१६|०३-२१६|०४] उपासकसंवरस्य तु परिमाणानभिज्ञांस्तन्मात्रशिक्षाक्षमान् प्रत्येष प्रश्नो युज्यते /
6567 SK [२१६|०४-२१६|०५] ᳚कियता भदन्तोपासक एकदेशकारी भवति यावत् परिपूर्णकारी भवति /᳚
6568 SK [२१६|०५-२१६|०६] यदि तर्हि विना संवरेणोपासकः स्याद्विकलेन वा भिक्षुश्रामणेरावपि स्याताम् /
6569 SK [२१६|०६-२१६|०७] कथं तावदेषामुपासकसंवरादीनामङ्गप्रतिनियमो भवति /
6570 SK [२१६|०७] शास्तृप्रज्ञप्तिवशात् /
6571 SK [२१६|०८] उपासकत्वादिप्रतिनियमो ऽपि शास्तृप्रज्ञप्तिवशादिष्यताम् /
6572 SK [२१६|०८-२१६|०९] विनापि हि संवरेणोपासकः प्रज्ञप्तितो न तु भिक्षुश्रामणेराविति ते त्वेतन्नेच्छन्ति काश्मीराः /
6573 SK [२१६|०९-२१६|१०] सर्वेषां तु संवराणाम् /
6574 SK [२१६|११] मृद्वादित्वं यथा मनः // VAक्K_४.३१ //
6575 SK [२१६|१२] मृदुमध्याधिमात्रत्वं ससंतानचित्तवशात् /
6576 SK [२१६|१२-२१६|१३] एवं च कृत्वा ऽर्हतो ऽपि मृदुः प्रातिमोक्षसंवरः स्यात् पृथग्जनस्याधिमात्रः /
6577 SK [२१६|१३-२१६|१४] किं पुनः संवरग्रहणादेवोपासकः स्याद्विना शरणगमनैः /
6578 SK [२१६|१४] न स्यादन्यत्राज्ञानात् /
6579 SK [२१६|१५] यो बुद्धधर्मसंघाञ्छरणं गच्छति किमसौ शरणं गच्छति /
6580 SK [२१६|१६-२१६|१७] बुद्धसंघकरान्धर्मानशैक्षानुभयांश्च सः / निर्वाणं चेति शरणं यो याति शारणत्रयम् // VAक्K_४.३२ //
6581 SK [२१६|१८-२१६|२०] यो बुद्धं शरणं गच्छति अशैक्षानसौ बुधकरकान्धर्माञ्छरणं गच्छति येषां प्राधान्येन स आत्मभावो बुधा इत्युच्यते येषां वा लाभेन सर्वावबोधसामर्थ्याद्बुद्धो भवति /
6582 SK [२१६|२०] के पुनस्ते / क्षयज्ञानादयः सपरिवाराः /
6583 SK [२१६|२०-२१६|२१] रूपकायस्य पूर्वं पश्चाच्चाविशेषात् /
6584 SK [२१६|२१] किं सर्वबुद्धानथैकम् / लक्षणतः सर्वबुधान् /
6585 SK [२१६|२१-२१६|२२] मार्गस्याविलक्षाणत्वात् /
6586 SK [२१६|२२-२१६|२३] यः संघं शरणं गच्छति शैक्षाशैक्षानसौसंघकरकान्हर्मान् गच्छति येषां लाभेनाष्टौ पुद्गलाः संघीभवन्ति /
6587 SK [२१६|२३] अभेदत्वात् /
6588 SK [२१६|२४] किं सर्वसंघानथैकम् / लक्षणतः सर्वसंघान्मार्गस्याविलक्षणत्वात् /
6589 SK [२१६|२४-२१६|२६] यत्तु सूत्र उक्तं ᳚यो ऽप्यसौ भविष्यत्यनागते ऽध्वनि संघो नाम तमपि शरणं गच्छतमि ᳚ति /
6590 SK [२१६|२६] तत्प्रत्यक्षभाविनः संवरत्वस्योद्भावनार्थम् /
6591 SK [२१६|२६-२१६|२७] यो धर्मं शरणं गच्छति असौ निर्वाणं शरणं गच्छति प्रतिसंख्यानिरोधम् /
6592 SK [२१६|२७-२१६|२८] स्वपरसंतानक्लेल्शानां दुःखस्य च शान्त्येकलक्षणात्वात् /
6593 SK [२१६|२८-२१६|२९] यद्यशैक्षा धर्मा एव बुद्धः कथं तथागतस्यान्तिके दुक्ष्टचित्तरुधिरोत्पादनादानन्तर्यं भवति /
6594 SK [२१६|२९-२१७|०१] आश्रयविपादनात्ते ऽपि विपादिता भवन्तीति वैभाषिकाः /
6595 SK [२१७|०१] शास्त्रं तु नैवं वाचकमशैक्षा धर्मा एव बुद्ध इति /
6596 SK [२१७|०१-२१७|०२] किं तर्हि /
6597 SK [२१७|०२] बुद्धकरका इति / अत आश्रयस्य बुद्धत्वाप्रतिषेधादचोद्यमेवैतत् /
6598 SK [२१७|०२-२१७|०३] अन्यथा हि लौकिकचित्तस्थो न बुद्धः स्यान्न संघः शीलमेव च भिक्षुकरकं भिक्षुः स्यात् /
6599 SK [२१७|०४] यथा तु यो भिक्षून् पूजयति भिक्षुकरकमसौ शीलं पूजयति /
6600 SK [२१७|०४-२१७|०५] एवं यो बुद्धं शरणं गच्छत्यशैक्षानसौ बुद्धकरकान्धर्मान् शरणं गच्छति /
6601 SK [२१७|०५-२१७|०६] यो बुद्धं शरणं गच्छति सो ऽष्टादशावेणिकान्बुद्धर्मानित्यपरे /
6602 SK [२१७|०६-२१७|०७] किंस्वभावानि शरणगमनानि /
6603 SK [२१७|०७] वाग्विज्ञप्तिस्वभावानि / कः पुनः शरणार्थः /
6604 SK [२१७|०७-२१७|०८] त्राणार्थः शरणार्थः /
6605 SK [२१७|०८] तदाश्रयेण सर्वदुःखात्यन्तनिर्मोक्षात् / उक्तं हि भगवता
6606 SK [२१७|०९-२१७|१०] ᳚बहवः शरणं यान्ति पर्वतांश्च वनानि च आरामान्वृक्षांश्चैत्यांश्च मनुष्या भयवर्जिताः //
6607 SK [२१७|११-२१७|१२] न त्वेतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् / नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते //
6608 SK [२१७|१३-२१७|१४] यस्तु बुद्धं च धर्मं च संघं च शरणं गतः / चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा //
6609 SK [२१७|१५-२१७|१६] दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् / आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् //
6610 SK [२१७|१७-२१७|१८] एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् / एतच्छरणमागम्य सर्वदुःखात् प्रमुच्यते //᳚इति /
6611 SK [२१७|१९] एत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि /
6612 SK [२१७|२०-२१७|२१] किं पुनः कारणमन्येषु संवरेष्वब्रह्मचर्याद्विरतिः शिक्षापदं व्यवस्थापितम् उपासकस्य तु काममिथ्याचारात् /
6613 SK [२१७|२२] मिथ्याचारातिगर्ह्यत्वात्सौकर्यादक्रियाप्तितः /
6614 SK [२१७|२३] काममिथ्याचारो हि लोके ऽत्यन्तं गर्हितः / परेषां दारोपघातादापायिकत्वाच्च /
6615 SK [२१७|२४] न तथा ऽब्रह्मचर्यम् /
6616 SK [२१७|२४-२१७|२५] सुकरा च काममिथ्याचाराद्विरतिर्गृहानध्यावसतां दुष्करात्वब्रह्मचर्यादिति दुष्करं कर्त्तुं नोत्सहेरन् /
6617 SK [२१७|२५-२१७|२६] आर्याश्चाकरणसंवरं काममिथ्याचारात् प्रतिलभन्ते /
6618 SK [२१७|२६-२१८|०१] जन्मान्तरेष्वप्यनध्याचरणान्नत्वब्रह्मच्र्यादित्युपासकस्यापि तस्मादेव विरतिः शिक्षापदं व्यवस्थापितं मा भूत् परिवृत्तजन्मान्तरः शैक्ष उपासकसंवराङ्गेष्वसंवृत इति /
6619 SK [२१८|०१-२१८|०२] अक्रियानियमो ह्यकरणसंवरः /
6620 SK [२१८|०२-२१८|०३] य उपासकाः सन्तो भार्याः परिणयन्ति किं तैस्ताभ्यो ऽपि संवरः प्रतिलब्धो ऽथ न /
6621 SK [२१८|०३] प्रतिलब्धो मा भूत् प्रादेशिकसंवरलाभ इति /
6622 SK [२१८|०३-२१८|०४] कथं संवरक्षोभो न भवति /
6624 SK [२१८|०५] यथाभ्युपगमं लाभः संवरस्य न संततेः // VAक्K_४.३३ //
6625 SK [२१८|०६] यथा ह्येषामभ्युपगमस्तथा संवरलाभः / कथं चैषामभ्युपगमः /
6626 SK [२१८|०६-२१८|०७] काममिथ्याचाराद्विरमामीति /
6627 SK [२१८|०७-२१८|०८] न त्वत्र संताने मया ब्रह्मचर्यं न कर्तव्यमित्यत एवैषां तदधिष्ठात्काममिथ्याचाराङ्गादेव संवरलाभो नाब्रह्मचर्यादिति नास्ति भार्यीभूतायां संवरक्षोभः /
6628 SK [२१८|०९-२१८|१०] अथ कस्मात् मृषावादाद् विरतिरेवोपासकसंवरशिक्षापदं न पैशुन्यादिविरतिः /
6629 SK [२१८|१०] एभिरेव च त्रिभिः कारणैः /
6630 SK [२१८|११] ᳚मृषावादातिगर्ह्यत्वात् सौकर्यादक्रियाप्तितः /᳚
6631 SK [२१८|१२] मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे /
6632 SK [२१८|१३-२१८|१५] सर्वत्र हि शिक्षातिक्रमे समनुयुज्यमानस्योपस्थितमिदं भवति नाहमेवमहार्षमिति मृषावादस्य प्रसङ्गो भवत्यतो मृषावादाद्विरतिर्विधीयते कथं कृतातिक्रमो ऽप्यात्मनि माविष्कुर्यादिति /
6633 SK [२१८|१५-२१८|१६] किं पुनः कारणं प्रतिक्षेपणसावद्याच्छिक्षापदस्य न व्यवस्थापितम् /
6634 SK [२१८|१७] प्रतिक्षेपणसावद्यान्मद्यादेव
6635 SK [२१८|१८] किं कारणं मद्यादेव नान्यस्मात् /
6636 SK [२१८|१९] अन्यगुप्तये // VAक्K_४.३४ //
6637 SK [२१८|२०] मद्यं पिवतो ऽन्यान्यप्यङ्गान्यगुप्तानि स्युः /
6638 SK [२१८|२०-२१८|२१] कथं पुनर्मद्यपानं प्रतिक्षेपणसावद्यं गम्यते /
6639 SK [२१८|२१] प्रकृतिसावद्यलक्षणाभावात् /
6640 SK [२१८|२१-२१८|२२] प्रकृतिसावद्यं हि क्लिष्टेनैव चित्तेनाध्याचर्यते /
6641 SK [२१८|२२] शक्यं तु मद्यं प्रतीकारबुद्ध्यैव पातुं यावन्न मदयेत् /
6642 SK [२१८|२२-२१८|२३] क्लिष्टमेव तच्चित्तं यन्मदनीयं ज्ञात्वा पिबति /
6643 SK [२१८|२३-२१८|२४] न तत् क्लिष्टं यदमदनीयमात्रां विदित्वा पिबति /
6644 SK [२१८|२४] प्रकृतिसावद्यं मद्यमिति विनयधराः /
6645 SK [२१८|२४-२१८|२५] ᳚कथं भदन्त ग्लान उपस्थातव्यः /
6646 SK [२१८|२५-२१८|२६] प्रकृतिसावद्यमुपालिन् स्थापयित्वा᳚ इत्युक्तं भगवता /
6647 SK [२१८|२६] शाक्येषु च ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् /
6648 SK [२१८|२७-२१८|२८] इदं चोक्तं मां भिक्षवः शास्तारमुद्दिशद्भिः कुशाग्रेणापि मद्यं न पातव्यमि᳚ त्यतः प्रकृतिसावद्यमिति ज्ञायते /
6649 SK [२१८|२८] आर्यैश्च जन्मान्तरगतैरप्यनध्याचारात् /
6650 SK [२१८|२९] प्राणिवधादिवत् / कायदुश्चरितवचनाद्दुर्गतिगमनाच्चेति / नेत्याभिधार्मिकाः /
6651 SK [२१९|०१-२१९|०२] उत्सर्गविहितस्यापि ग्लानेषु प्रज्ञप्तिसावद्यस्य पुनर्मद्यस्यापवादः प्रसङ्गपरिहारार्थं मद्नीयमात्रानीयमनात्/
6652 SK [२१९|०२] अत एव कुशाग्रपानप्रतिषेधः /
6653 SK [२१९|०३] आर्यैरनध्याचरणं ह्रीमत्त्वात्तेन च स्मृतिनाशात् /
6654 SK [२१९|०३-२१९|०४] अल्पकस्याप्यपानमनियमाद्विषवत् /
6655 SK [२१९|०४] दुश्चरितवचनं प्रमादस्थानत्वात् /
6656 SK [२१९|०४-२१९|०५] अत एवात्र प्रमादस्थानग्रहणं नान्येषु तेषां प्रकृतिसावद्यत्वात् /
6657 SK [२१९|०५] अत्यासेवितेन दुर्गतिगमनाभिधानम् /
6658 SK [२१९|०५-२१९|०६] तत्प्रसङ्गेनाभीक्ष्णमकुशलसंततिप्रवृत्तेरापायिकस्य कर्मण आक्षेपाद्वृत्तिलाभाद्वा /
6659 SK [२१९|०६-२१९|०७] सुरामैरेयमद्यप्रमादस्थानमिति को ऽर्थः /
6660 SK [२१९|०७] सुरा अनासवः / मैरेयं द्रवासवः /
6661 SK [२१९|०७-२१९|०८] ते च कदाचिदप्राप्तच्युतमद्यभावे भवतः इत्यतो मद्यग्रहणम् /
6662 SK [२१९|०८-२१९|०९] पूगफलकोद्रवादयो ऽपि मदयन्तीति सुरामैरेयग्रहणम् /
6663 SK [२१९|०९-२१९|१०] प्रज्ञप्तिसावद्यस्याप्यादरेण प्रहेयत्वे कारणज्ञापनार्थं प्रमादस्थानवचनम् /
6664 SK [२१९|१०] सर्वप्रमादास्पदत्वादिति /
6665 SK [२१९|११-२१९|१२] य इमे त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषौ /
6666 SK [२१९|१२] नेत्याह / किं तर्हि /
6667 SK [२१९|१३] सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते /
6668 SK [२१९|१४] वर्तमानेभ्य एव स्कन्धायतन धातुभ्यः कामाप्त इति प्रातिमोक्षसंवरः /
6669 SK [२१९|१५] सर्वेभ्य इति मौलप्रयोगपृष्ठेभ्यः /
6670 SK [२१९|१५-२१९|१७] उभयेभ्य इति सत्त्वासत्त्वाख्येभ्यः प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च वर्तमानेभ्य एव स्कन्धायतनधातुभ्यो लभ्यते /
6671 SK [२१९|१७] सत्त्वाधिष्टानप्रवृत्तत्वात् नातीतानागतेभ्यः / तेषामसत्त्वसंख्यातत्वात् /
6672 SK [२१९|१८] मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रवसंवरौ // VAक्K_४.३५ //
6673 SK [२१९|१९-२१९|२१] मौलेभ्य एव कर्मपथेभ्यो ध्यानानास्रवसंवरौ लभ्येते न प्रयोगपृष्ठेभ्यः कुत एव प्रज्ञप्तिसावद्येभ्यः सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येते अतीतानागतेभ्यो ऽपि /
6674 SK [२१९|२१] अत एव चतुष्कोटिकं क्रियते /
6675 SK [२१९|२१-२१९|२२] सन्ति तानि स्कन्ध धात्वायतनाति येभ्यः प्रातिमोक्षसंवरः एव लभ्यते न ध्यानानास्रवसंवराविति विस्तरः /
6676 SK [२१९|२२-२१९|२३] प्रथमा कोटिः प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च /
6677 SK [२१९|२३-२१९|२४] द्वितीया ऽतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः /
6678 SK [२१९|२४] तृतीया प्रत्युत्पन्नेभ्यो मौलेभ्यः कर्मपथेभ्यः /
6679 SK [२२०|०१] चतुर्थ्यतीतानागतेभ्यः सामन्तकपृष्ठेम्यः इति /
6680 SK [२२०|०१-२२०|०२] नतु संवरकाले वर्तमानाः कर्मपथाः सन्तीति वर्तमानाधिष्ठानेभ्यः इति वक्तव्यम् /
6681 SK [२२०|०२-२२०|०३] अनागतानामेव संवरणं युज्यते नातीतवर्तमानानाम् /
6682 SK [२२०|०४-२२०|०५] अथ किं संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते सर्वाङ्गेभ्यः सर्वकारणैश्च आहोस्विदस्ति भेदः /
6683 SK [२२०|०५] नियतं तावत् लभ्यते /
6684 SK [२२०|०६] संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः /
6685 SK [२२०|०७] सर्वसत्त्वेभ्य एव संवरो लभ्यते केभ्यश्चित् अङ्गेभ्यस्तु विभाषा /
6686 SK [२२०|०७-२२०|०८] कश्चित् सर्वेभ्यो लभ्यते /
6687 SK [२२०|०८] भिक्षुसंवरः / कश्चिच्चतुर्भ्यः / ततो ऽन्यः /
6688 SK [२२०|०८-२२०|०९] कर्मपथा हि संवरस्याङ्गानि /
6689 SK [२२०|०९] कारणैरपि केनचित् पर्यायेण सर्वैः केनचिदेकेन / केन तावत्सर्वैः /
6690 SK [२२०|१०] यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते / केनै केन /
6691 SK [२२०|१०-२२०|११] यदि म्कृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते /
6692 SK [२२०|११-२२०|१२] पश्चिमं पर्यायं नियमय्योच्यते अस्ति संवरस्थायी सर्वसत्त्वेषु संवृतो न सर्वाङ्गैः न सर्वकारणैः /
6693 SK [२२०|१२-२२०|१३] यो मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोवास श्रामणेरसंवरं समादत्ते /
6694 SK [२२०|१३-२२०|१४] अस्ति सर्वसत्त्वेषु संवृतः सर्वङ्गैश्च न तु सरकारणैः /
6695 SK [२२०|१४] यो मृदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते /
6696 SK [२२०|१५] अस्ति सर्वसत्त्वेषु सर्वङ्गैः सर्वकारणैश्च /
6697 SK [२२०|१५-२२०|१६] यस्त्रिविधेन चित्तेन त्रीन् संवरान् समादत्ते /
6698 SK [२२०|१६] अस्ति सर्वसत्त्वेषु सर्वकारणैश्च न तु सर्वाङ्गैः /
6699 SK [२२०|१६-२२०|१७] य उपासकोपवासश्रामणेरसंवरान्मृदुमध्याधिमात्रैः समादत्ते / [२२०|१७-२२०|१८] यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति /
6700 SK [२२०|१८-२२०|१९] यस्मात्सर्वसत्त्वानुगते कल्याणाशये स्थितः संवरं प्रतिलभते नान्यथा पापाशयस्यानुपरतत्वात् /
6701 SK [२२०|१९-२२०|२०] पञ्च नियमान् कुर्वन् प्रातिमोक्षसम्वरं प्रतिलभते /
6702 SK [२२०|२०] सत्त्वाङ्गदेशकालसमयनियमात् /
6703 SK [२२०|२०-२२०|२१] अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः /
6704 SK [२२०|२१] अमुष्मादङ्गादित्यङनियमः / अमुस्मिन देश इति देशनियमः /
6705 SK [२२०|२२] मासाद्यावदिति कालनियमः / अन्यत्र युद्धादिति समयनियमः /
6706 SK [२२०|२२-२२०|२३] सुचरितमात्रं तु स्यात्तथा गृह्णतः /
6707 SK [२२०|२३] कथमशक्येभ्यः संवरलाभः /
6708 SK [२२०|२३-२२०|२४] सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमात् /
6709 SK [२२०|२४-२२०|२५] यदि पुनः शक्येभ्य एव संवरो लभ्यते चयापचययुक्तः स्यात् /
6710 SK [२२०|२५] शक्याशक्यानामितरेतरसंचारात् /
6711 SK [२२०|२५-२२०|२६] एवं च सति विनापि लाभत्यागकारणाभ्यां संवरस्य लाभत्यागौ स्यातामिति वैभाषिकाः /
6712 SK [२२०|२६] नैवं भविस्यति /
6713 SK [२२०|२६-२२१|०१] यथा ह्यपूर्वतृणाद्युत्पत्तौ शोषे वा संवरस्य वृद्धिह्लासौ न भवतस्तथा शक्याशक्यसंचारे ऽपि न स्याताम् /
6714 SK [२२१|०१] न सत्त्वानां पूर्वं पश्चाच्च भावात्तृणादीनां त्वभावात् /
6715 SK [२२१|०१-२२१|०२] को न्वत्र विशेषो न वा भवेदसत्सु तृणादिषु संवरस्तद्वदशक्यो वा भवेत् /
6716 SK [२२१|०२-२२१|०४] यदा च परिनिर्वृता न भवन्त्येव तदा कथं संवरह्लासो न स्यादिति नैष युक्तः परिहारः /
6717 SK [२२१|०४] तस्मात्पूर्वक एव परिहारः साधुः /
6718 SK [२२१|०४-२२१|०६] एवं तर्हि पूर्वबुद्धपरिनिर्वृतेभ्य उत्तरेषां बुद्धानां प्रतिमोक्षसंवरस्या लाभात्कथं शीलन्यूनता न प्रसज्येत /
6719 SK [२२१|०६] सर्वेषां सत्त्वेभ्यो लाभात् /
6720 SK [२२१|०६-२२१|०७] यदि हि ते ऽप्यभविष्यं स्तेभ्यो ऽपि ते ऽलप्स्यन्त /
6721 SK [२२१|०७] उक्तं यतः संवरो लभ्यते /
6722 SK [२२१|०८] असम्वरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः // VAक्K_४.३६ //
6723 SK [२२१|०९] असंवरस्तु सर्वसत्त्वेभ्यो लभ्यते सर्वकर्मपथेभ्यश्च /
6724 SK [२२१|०९-२२१|१०] नास्ति हि विकलेनासंवरेणासंवरिकः /
6725 SK [२२१|१०] न तु सर्वकारणैर्युगपत् मृद्वादिचित्तासंभवात् /
6726 SK [२२१|१०-२२१|१२] यो मृदुना चित्तेनासंवरं प्रतिलभते सो ऽधिमात्रेणापि चित्तेन प्राणिनं जीविताद्व्यपरोपयन्मृदुनैवा संवरेण समन्वागतो भवत्यधिमात्रया तु प्राणातिपातविज्ञप्त्या /
6727 SK [२२१|१२-२२१|१३] एवं मध्याधिमात्रेण योज्यम् /
6728 SK [२२१|१३-२२१|१५] तत्रेमे आसंवरिकास्तद्यथा औरभ्रिकाः कौक्कुटिकाः सौकरिकाः शाकुनिका मात्सिका मृगलुब्धकाश्चौरा वध्यघातका बन्धनपालका नागबन्धकाः श्वपाका वागुरिकाश्च /
6729 SK [२२१|१५-२२१|१६] राजानो दण्डनेतारो व्यावहारिकाश्चार्थत आसंवरिकाः असंवरे भवत्वात् तत्रस्हतया असंवर एषामस्तीति आसंवरिका वा /
6730 SK [२२१|१६-२२१|१७] उरभ्रान् घ्नन्तीति औरभ्रिकाः /
6731 SK [२२१|१७] एवमन्ये ऽपि योज्याः /
6732 SK [२२१|१७-२२१|१८] युक्तस्तावत् संवरस्य सर्वसत्त्वेभ्यो लाभः /
6733 SK [२२१|१८] सर्वसत्त्वहिताध्याशयेन ग्रहणात् /
6734 SK [२२१|१८-२२१|२०] औरभ्रिकादीनां तु मातापितृपुत्रदारादिष्वविपन्नाशयानां जीवितहेतोरप्यहन्तुकामानां कथमसंवरः सर्वसत्त्वेभ्यो युज्यते /
6735 SK [२२१|२०] मात्रादीनपि हि त उरभ्रीभूतान् हन्युः /
6736 SK [२२१|२०-२२१|२१] न हि तावत्ते त एव इति विद्वांसो हन्युः /
6737 SK [२२१|२१-२१२|२२] आर्यीभूतानां च पुनः पशु भवितुं नास्त्यवकाश इति तेभ्यः कथं स्यात् /
6738 SK [२२१|२२-२२१|२३] यदि चा नागतात्मभावापेक्षया वर्त्तमानादसंवृतः स्यादुरभ्रादीनपि ते पुत्रीभूतात् सर्वथा न हन्युरिति इन स्यात्तेभ्य्यो ऽसंवरः /
6739 SK [२२१|२३-२२२|०१] कथं हि नाम जिघांसतामेव तेभ्यो न स्यादसंवरः /
6740 SK [२२२|०१] एतन्मात्रादिषु समानम् /
6741 SK [२२२|०१-२२२|०२] कथं हि नामाजिघांसतामेव तेभ्यः स्यादसंवर इति /
6742 SK [२२२|०२] यश्चौरभ्रिको जन्मनाप्यादत्ते स्वदारपरितुष्टो मूकश्च /
6743 SK [२२२|०३] कथमस्य पूर्वङ्गेभ्यो ऽसंवरः स्यात् / आशयस्याविपन्नत्वात् /
6744 SK [२२२|०३-२२२|०४] मूको ऽपि च वाक्प्रापणीयमर्थं कायेन प्रापयितुं शक्त इति /
6745 SK [२२२|०४-२२२|०५] यस्तर्हि द्वे त्रीणि वा शिक्षापदानि समादत्ते /
6746 SK [२२२|०५] सर्वथा नास्ति विकलः प्रादेशिकश्चासंवरिक इति वैभाषिकाः /
6747 SK [२२२|०५-२२२|०७] यथा भ्युपगमं विकलो ऽपि स्यात् प्रादेशिको ऽप्यसंवरः संवरश्चान्यत्राष्टविधादिति सौत्रान्तिकाः /
6748 SK [२२२|०७] तन्मात्रशील दौःश्लील्यप्रतिबन्धात् /
6749 SK [२२२|०८] उक्तमिदमसंवरस्य येभ्यो लाभः / कथं तु लाभ इति नोक्तम् / तत इदमुच्यते /
6750 SK [२२२|०९] असंवरस्य क्रियया लाभो ऽभ्युपगमेन वा /
6751 SK [२२२|१०] द्वाभ्यां कारणाभ्यामसंवरो लभ्यते /
6752 SK [२२२|१०-२२२|११] वधप्रयोगक्रियया तत्कुलीनैः तत्कर्माभ्युपगमाच्चान्यत्र कुलीनैः /
6753 SK [२२२|११] वयमप्यनया जीविकया जीविष्याम इति /
6754 SK [२२२|१२] शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात् // VAक्K_४.३७ //
6755 SK [२२२|१३] क्षेत्रं वा तद्रूपं भवति यत्रारामादिप्रदानमात्रेणाविज्ञप्तिरुत्पद्यते /
6756 SK [२२२|१३-२२२|१४] यथौपधिकेषु पुण्यक्रियावस्तुषु /
6757 SK [२२२|१४-२२२|१५] अथवा समादानमादत्ते बुद्धमवन्दित्वा न भोक्ष्ये तिथिमासार्धमासभक्तानि वा नित्यं करिष्यामीत्यादि /
6758 SK [२२२|१५-२२२|१६] आदरेण तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतो ऽस्याविज्ञप्तिरुत्पद्यते /
6759 SK [२२२|१६-२२२|१७] उक्तमेतद्यथा संवरासंवरेतराणां प्रतिलम्भः /
6760 SK [२२२|१८] त्याग इदानीं वक्तव्यः / तत्र तावत्
6761 SK [२२२|१९-२२२|२०] प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः / उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात् // VAक्K_४.३८ //
6762 SK [२२२|२१] दाम्यन्त्यनेनेति दमः संवरो ऽभिप्रेतस्तेनेन्द्रियदमनात् /
6763 SK [२२२|२१-२२२|२२] चतुर्भिः कारणैः प्रातिमोक्षसंवरस्य त्यागः /
6764 SK [२२२|२२] स्थापयित्वोपवासम् /
6765 SK [२२२|२२-२२२|२४] शिक्षापदानां विज्ञपुरुषस्यान्तिके प्रत्याख्यानदाशयतः निकायसभागत्यागात् युगपदु भयव्यञ्जनप्रादुर्भावात् कुशलमूलसमुच्छेदाच्च /
6766 SK [२२२|२४] उपवाससंवरस्य त्वेभिश्चतुर्भिरारात्रिक्षयाच्च /
6767 SK [२२२|२४-२२२|२५] तान्येतान्यभिसमस्य पञ्च त्यागकारणानि भवन्ति /
6768 SK [२२२|२५-२२२|२६] किं पुनः कारणमेभिः कारणैस्त्यागो भवति /
6769 SK [२२२|२६-२२२|२७] समादानविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयविकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च /
6770 SK [२२३|०१] पतनीयेन चेत्येके
6771 SK [२२३|०२] अन्ये पुनराहुश्चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्याग इति /
6772 SK [२२३|०३] सद्धमन्तिर्धितो ऽपरे /
6773 SK [२२३|०४] सद्धर्मस्यान्तर्धानादित्यपरे /
6774 SK [२२३|०४-२२३|०५] यस्मादन्तर्हिते सद्धर्मे सर्वशिक्षासीमाकर्मान्ताः प्रतिप्रस्रभ्यन्त इति /
6775 SK [२२३|०६] धनर्णवत्तु काद्मीरैरापन्नस्येष्यते द्वयम् // VAक्K_४.३९ //
6776 SK [२२३|०७] काश्मीरास्तु खलु वैभाषिकाः एवमिच्छन्ति /
6777 SK [२२३|०७-२२३|०८] न मौलीमध्यापत्तिमा पन्नस्यास्ति भिक्षुसंवरत्यागः /
6778 SK [२२३|०८] किं कारणम् / न ह्येकदेशक्षोभात् कृत्स्न संवरत्यागो युक्त इति /
6779 SK [२२३|०९] नैव चान्यामप्यापत्ति मापन्नस्यास्ति शीलच्छेदः / किं तर्हि /
6780 SK [२२३|०९-२२३|१०] द्वयमस्य भवति शीलं दौःशील्यं च /
6781 SK [२२३|१०] यथा कस्यचिद्धनं स्यादृणं च /
6782 SK [२२३|१०-२२३|११] आविष्कृतायां तु तस्यामापत्तौ शीलवान्भवति न दुःशीलो यथा ऋणं शोधयित्वा धनवान्भवति न त्वृणवानिति /
6783 SK [२२३|१२] यत्तर्हि भगवतोक्तम् ᳚भिक्षुर्भवत्यश्रमणो ऽशाक्यपुत्रीयो ध्वस्यते भिक्षुभावात् /᳚
6784 SK [२२३|१३] कतमस्य भवति श्रामण्यं ध्वस्तं पतितं पराजितमिति /
6785 SK [२२३|१३-२२३|१४] परमार्थभिक्षुत्वं संधायैतदुक्तम् /
6786 SK [२२३|१४] इदमभिसाहसं वर्तते / किमत्राभिसाहसम् /
6787 SK [२२३|१४-२२३|१५] यत् भगवता नीतार्थं पुनरन्यथा नीयते /
6788 SK [२२३|१५] दौःशील्याय च बहुक्लेशेभ्यः प्रत्यया दीयन्ते /
6789 SK [२२३|१५-२२३|१६] कथमेत नीतार्थम् /
6790 SK [२२३|१६] एष हि विनये निर्देषः / ᳚चतुर्विधो भिक्षुः /
6791 SK [२२३|१७] संज्ञाभिक्षुः प्रतिज्ञाभिक्षुर्भिक्षत इति भिक्षुर्भिन्नक्लेशत्वात् भिक्षुः /
6792 SK [२२३|१७-२२३|१८] अस्मिंस्त्वर्थे ज्ञप्तिचतुर्थकर्मोपसंपन्नो भिक्षुरि᳚ति /
6793 SK [२२३|१८-२२३|२१] न चासौ पूर्वं परमार्थभिक्षुरासीद्यतः पश्चादभिक्षुर्भवेत् यच्चोक्तमेकदेशक्षोभादिति अत्र शास्त्रैव दत्तो ऽनुयोग ᳚स्तद्यथा तालो मस्तकाच्छिन्नो ऽभव्यो ऽङ्कुरितत्वाय अभव्यो विरुढिं वृद्धिं विपुलतामाप्तु᳚ मित्युपमां कुर्वता /
6794 SK [२२३|२१] कः पुनरूपमार्थः /
6795 SK [२२३|२१-२२३|२२] एवमेकदेश स्यापि मूलभूतस्य च्छेदादभव्यः संवरशेषो विरोडुमिति /
6796 SK [२२३|२२-२२३|२४] स च गुर्वीं भिक्षुभावमर्यादाभेदिनीं मौलीमापत्तिमापद्यमानस्तीव्रानपत्राप्ययोगात्संवरस्य मूलं च्छिनत्तीति युक्तः कृत्स्नसंवरत्यागः /
6797 SK [२२३|२३-२२४|०२] यस्य चैकग्रासपरिभोगो ऽप्येकपाद पार्ष्णिर्प्रदेशपरिभोगो ऽपि च नाभ्यनुज्ञायते सांघिकयोराहारविहारयोः सर्वभिक्षुसंभोगबहिष्कृतश्च शास्त्रा यं चाधिकृत्योक्तं /
6798 SK [२२४|०३-२२४|०४] ᳚नाशयत कारण्डवकं कशम्बकमपकर्षत / अथोत्प्लाविनं वाहयत अभिक्षुं भिक्षुवादिनम्᳚इति //
6799 SK [२२४|०५] तस्य कीदृशो भिक्षुभावः / यादृशस्तादृशो ऽस्तु / अस्ति तु भिक्षुभावः /
6800 SK [२२४|०५-२२४|०६] तथाहि ᳚चत्वारः श्रमणा न पञ्चमो ऽस्ति चुन्दे᳚ति
6801 SK [२२४|०७] भगवानवोचत्
6802 SK [२२४|०८-२२४|०९] ᳚मार्गजिनो मार्गदेशिको मार्गे जीवति यश्च मार्गदूषी᳚ अस्त्येतदुक्तम् /
6803 SK [२२४|०९-२२४|१०] स त्वेष आकृतिमात्रावशेषत्वाच्छमण उक्तो दग्धकाष्ठशुष्कह्लदशुकनाशा पूतिवीजालातचक्रमृतसत्त्ववत् /
6804 SK [२२४|१०-२२४|११] यदि हि दौःशील्यादभिक्षुः स्यात् शिक्षादत्तको न स्यात् /
6805 SK [२२४|११] न वयं ब्रूमः सहाध्यापत्त्या सर्वः पाराजिकः इति /
6806 SK [२२४|११-२२४|१२] यस्तु पाराजिकः सो ऽवश्यमभिक्षुः /
6807 SK [२२४|१२-२२४|१३] कश्चित्तु संतानविशेषान्न पाराजिक एकचित्तेनाप्यप्रतिच्छादनादिति व्यवस्थापितं धर्मस्वामिना /
6808 SK [२२४|१३-२२४|१४] यदि तर्हि पाराजिको न भिक्षुः किं पुनर्न प्रव्राज्यते /
6809 SK [२२४|१४-२२४|१५] तीव्रानपत्राप्यविपादितत्वात् संततेः संवराभव्यत्वान्न तु खलु भिक्षुभावापेक्षया /
6810 SK [२२४|१५] तथा ह्यसौ निक्षिप्तशिक्षो ऽपि न प्रव्राज्यते /
6811 SK [२२४|१५-२२४|१६] कश्चायमनर्थे निर्बन्धो यद्यसौ तथाभूतो ऽपि भिक्षुर्नमो ऽस्तु तस्मै तादृशाय भिक्षुत्वाय /
6812 SK [२२४|१७] सद्धर्मान्तर्धाने बु विनयकर्माभावादपूर्वसंवरलाभो नास्ति /
6813 SK [२२४|१७-२२४|१८] लब्धस्य तु नास्ति त्यागः /
6814 SK [२२४|१९] अथ ध्यानानास्रवसंवरयोः कथं त्यागः /
6815 SK [२२४|२०] भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम् /
6816 SK [२२४|२१] सर्वमेव ध्यानाप्तं कुशलं द्वाभ्यां कारणाभ्यां परित्यज्यते /
6817 SK [२२४|२१-२२४|२२] उपपत्तितो वा भूमिसंचारादूर्ध्वं चावश्यं परिहाणितो वा समापत्तेर्निकायसभागत्वाच्च किञ्चित् /
6818 SK [२२४|२३] यथा च रूपाप्तं कुशलं भूमिसंचारहानिभ्यां त्यज्यते
6819 SK [२२४|२४] तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः // VAक्K_४.४० //
6820 SK [२२४|२५] अनास्रवं तु कुशलं त्रिभिः कारणैः परित्यक्ष्यते /
6821 SK [२२४|२५-२२५|०१] फलप्राप्तितः पूर्वको मार्गः परित्यक्ष्यते /
6822 SK [२२५|०१] इन्द्रियोत्तापनेन मृद्धिन्द्रियमार्गः / परिहाणित उत्तरो मार्गः /
6823 SK [२२५|०१-२२५|०२] फलं फलविशिष्टो वा /
6824 SK [२२५|०२] एवं तावत् संवरास्त्यज्यन्ते /
6825 SK [२२५|०३] असंवरः संवराप्तिमृत्युद्विव्यञ्जनोदयैः /
6826 SK [२२५|०४] त्रिभिः कारणैरसंवरच्छेदः / संवरप्राप्तितः /
6827 SK [२२५|०४-२२५|०५] यदि संवरं समादत्ते ध्यानसंवरं वा लभते /
6828 SK [२२५|०५] हेतुप्रत्ययबलेन समाधिलाभात् / तेनासंवश्छिद्यते /
6829 SK [२२५|०५-२२५|०६] प्रतिद्वन्द्वबलीयस्त्वात् /
6830 SK [२२५|०६] मरणेनाश्रयत्यागात् / द्विव्यञ्जनोत्पादेनाश्रयविकोपनादिति /
6831 SK [२२५|०६-२२५|०७] शस्त्रजालत्यागे ऽप्यकरणाशयतः /
6832 SK [२२५|०७] संवरमन्तरेणासंवरच्छेदो नास्ति /
6833 SK [२२५|०७-२२५|०८] निदानपरिवर्जने ऽप्यौषधमन्तरेण प्रवृद्धरोगाविनिवृत्तिवत् /
6834 SK [२२५|०९-२२५|१०] य आसंवरिक उपवासं गृह्णाति किमसौ तस्मात्संवरात्पुनरसंवरं गच्छत्याहोस्विन्नैवसंवरं नासंवरम् /
6835 SK [२२५|१०] असंवरमित्येके / त्यागाशयस्यानात्यन्तिकत्वात् /
6836 SK [२२५|१०-२२५|११] प्रदीप्तैवायःपिण्डः पुनः श्यामतां नाप्रयुज्यमानो गच्छतीत्यपरे /
6837 SK [२२५|११-२२५|१२] तल्लाभस्य विज्ञप्त्यधीनत्वात् /
6838 SK [२२५|१३] अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते /
6839 SK [२२५|१४] वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा // VAक्K_४.४१ //
6840 SK [२२५|१५-२२५|१६] येन ह्यसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता भवति तस्य च्छेदात्सा ऽपि च्छिद्यते /
6841 SK [२२५|१६] कुम्भकारचक्रेषुगतिवत् / आदानत्यागादपि च्छिद्यते /
6842 SK [२२५|१७] यदि समादानं त्यजत्यलं समादानेनेति /
6843 SK [२२५|१७-२२५|१८] क्रियाविच्छेदादपि विच्छिद्यते यथासमात्तमकुर्वतः /
6844 SK [२२५|१८] अर्थविच्छेदादपि विच्छिद्यते / कतमस्यार्थस्य /
6845 SK [२२५|१८-२२५|१९] चैत्यारामविहारशयनासन यन्त्रजालादिनो वस्तुनः /
6846 SK [२२५|१९-२२५|२०] आयुषो ऽपि कुशलल्मूलानामपि च्छेदाद्विच्छिद्यते /
6847 SK [२२५|२०-२२५|२१] यदा कुशलमूलानि समुच्छेत्तुमारभत इत्येभिः षद्भिः कारणैरविज्ञप्तिर्मध्यमा त्यज्यते /
6848 SK [२२५|२२] कामाप्तं कुशलारूपं मूलच्छेदोर्ध्वजन्मतः /
6849 SK [२२५|२३] कामावचरं कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां परित्यज्यते /
6850 SK [२२५|२३-२२५|२४] कुशलमूलसमुच्छेदाद्रूपारूप्यधातूपपत्तितो वा /
6851 SK [२२५|२५] प्रतिपक्षोदयात् क्लिष्टमरूपं तु विहीयते // VAक्K_४.४२ //
6852 SK [२२६|०१] क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद्विहीयते /
6853 SK [२२६|०१-२२६|०२] यस्योपक्लेशप्रकारस्य यः प्रहाणमार्गस्तेनासौ सपरिवारः परित्यज्यते नान्यथा /
6854 SK [२२६|०३] अथ केषां सत्त्वानामसंवरो भवति केषां संवरः /
6855 SK [२२६|०४] नृणामसंवरो हित्वा शण्डपण्डद्विधाकृतीन् /
6857 SK [२२६|०६] मनुष्यगतावेवासंवरो नान्यत्र /
6858 SK [२२६|०६-२२६|०७] तत्रापि शण्ढपण्डकोभयव्यञ्जनानुतरकौरवांश्च हित्वा /
6859 SK [२२६|०८] संवरो ऽप्येवं देवानां च
6860 SK [२२६|०९] संवरो हि मनुष्याणामेव यथोक्तं हित्वा देवानां चेति गतिद्वये संवरः /
6861 SK [२२६|०९-२२६|१०] शण्ढादीनां संवरो नास्तीति कथं गम्यते /
6862 SK [२२६|१०] सूत्राद्विनयाच्च /
6863 SK [२२६|१०-२२६|१२] सूत्र उक्तं यतश्च महानाम गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति यावद्वाचं भाषते उपासकं मां धारय इयता चोपासको भवती᳚ति /
6864 SK [२२६|१२-२२६|१३] विनये ऽपि तद्रूपो नाशयितव्य उक्तः /
6865 SK [२२६|१३] किं पुनः कारणमेषां संवरो नास्ति /
6866 SK [२२६|१३-२२६|१४] उभयाश्रयक्लेशाधिमात्रतया प्रतिसंख्यानाक्षमत्वात्तीव्रह्रीव्यपत्राप्याभावाच्च /
6867 SK [२२६|१४] असंवरस्तर्हि कस्मान्नास्ति /
6868 SK [२२६|१४-२२६|१५] पापे ऽप्यस्थिराशयत्वात् /
6869 SK [२२६|१५] यत्रैअव च संवरस्तत्रासंवरो ऽपि प्रतिद्वन्द्वभावात् /
6870 SK [२२६|१५-२२६|१६] उत्तरकोरवाणां समादानसमाध्यभावात् पापक्रियाशयाभावाच्च संवरासंवराभावः /
6871 SK [२२६|१६-२२६|१७] आपायिकानामपि तीव्रं ह्रीव्यपत्राप्यं नास्ति यद्योगाद् यद्विपादनाच्च संवरासंवरौ स्याताम् /
6872 SK [२२६|१८-२२६|२०] अपि खल्वाश्रय एव स तेषां तादृश ऊषरक्षेत्रभूतः शण्डपण्डकोभयव्यञ्जनोत्तरकौरवापायिकानां यत्राश्रये संवरो पि न विरोहत्यसंवरो ऽप्यूषर इव क्षेत्रे सस्यमप्यतिमात्रं कक्वमपीति /
6873 SK [२२६|२०-२२६|२१] यत्तर्हि सूत्र उक्तम् ᳚अण्डजो भिक्षवो नागो ऽष्टम्यां पक्षस्य भावनादभ्युद्गम्याष्टाङ्गसमन्वागतमुपवासमुपवसती᳚ति /
6874 SK [२२६|२२] सुचरितमात्रं तत्तेषां न संवरः / तस्मादेवमनुष्याणामेव संवरः / तत्र पुनः
6875 SK [२२६|२३] नृणां त्रयः // VAक्K_४.४३ //
6876 SK [२२६|२४] मनुष्याणां सर्वे त्रयः प्रातिमोक्षादिसंवराः संविद्यन्ते /
6877 SK [२२६|२५] कामरूपजदेवानां ध्यानजः
6878 SK [२२६|२६] ध्यानसंवरः कामरूपधातूपपन्नानां देवानामुर्ध्वं नास्ति /
6879 SK [२२६|२७] अनास्रवः पुनः /
6880 SK [२२७|०१] ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यरूपिणाम् // VAक्K_४.४४ //
6881 SK [२२७|०२-२२७|०३] अनास्रवसंवरस्तु कामरूपधातूपपन्नानामप्यस्ति ध्यानान्तरिकासंज्ञिसत्वोपपन्नान्वर्जयित्वा /
6882 SK [२२७|०३] आरूप्योपपन्नानामपि तेषां तु समन्वागमतो ऽस्ति न संमुखीभावतः /
6883 SK [२२७|०४] अतः परमिदानीं कर्मनिर्देशाधिकारात्सूत्रीद्दिष्टानां कर्मणां निर्देष आरप्स्यते /
6884 SK [२२७|०५] त्रीणि कर्माणि / कुशलं कर्माकुशलमव्याकृतं कमेति / तत्र
6885 SK [२२७|०६] क्षेमाक्षेमेतरत्कर्म कुशलाकुशलेतरत् /
6886 SK [२२७|०७] इदं कुशलादीनां लक्षणम् /
6887 SK [२२७|०७-२२७|०८] क्षेमं कर्म कुशलं यदिष्टविपाकं निर्वाणप्रापकं च दुःखपरित्राणात् /
6888 SK [२२७|०८-२२७|०९] तत्कालमत्यन्तं च अक्षेममकुशलं क्षेमप्रतिद्वन्द्वभावेन यस्यानिष्टो विपाकः /
6889 SK [२२७|०९-२२७|१०] ताभ्यामितरत्कर्म नैव क्षेमं नाक्षेमं यत्तत्कुशलाकुशलाभ्यामितरत् वेदितव्यम् /
6890 SK [२२७|१०] अव्याकृतमित्यर्थः / पुनः
6891 SK [२२७|११] पुण्यापुण्यमविञ्जं च सुखवेद्यादि च त्रयम् // VAक्K_४.४५ //
6892 SK [२२७|१२] त्रीणी कर्माणि पुण्यमपुण्यमानेञ्जं च / पुनः त्रीणि /
6893 SK [२२७|१२-२२७|१३] सुखवेदनीयं कर्म दुःखवेदनीयमदुःखासुखवेदनीयं च /
6894 SK [२२७|१३] तत्र तावत्
6895 SK [२२७|१४] कामधातौ शुभं कर्म पुण्यमानेञ्जमूर्ध्वजम् /
6896 SK [२२७|१५] शुभमिति वर्तते / रूपारूप्यावचरं कुशलं कर्मानेञ्जम् /
6897 SK [२२७|१५-२२७|१६] ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता /
6898 SK [२२७|१६-२२७|१७] ᳚यदत्र वितर्कितं विचारितमिदमत्रार्या इञ्जितमित्याहुरित्येवमादि /
6899 SK [२२७|१७] समादौ सापक्षालतां तेषामधिकृत्यैवमुक्तम् /
6900 SK [२२७|१८] आनिञ्जान्यपि तु तान्युक्तान्यानिञ्जसूत्रे /
6901 SK [२२७|१८-२२७|१९] आनिञ्जसंप्रेयगामिनीं प्रतिपदमारभ्य /
6902 SK [२२७|१९] किं पुनः कारणं सेञ्जितमेवान्यत्रानिञ्जमुक्तम् /
6903 SK [२२७|२०] तद्भूमिषु यतः कर्मविपाकं प्रति नेञ्जति // VAक्K_४.४६ //
6904 SK [२२७|२१] कामावचरं हि विपाकं प्रति कम्पते / कथं कम्पते / अव्यवस्थानात् /
6905 SK [२२७|२१-२२७|२२] अन्यगति कमपि ह्यन्यस्यां गतौ विपच्यते /
6906 SK [२२७|२२] अन्यदेवनैकायिकं चान्य देवनिकाये /
6907 SK [२२७|२२-२२७|२४] यदेव हि प्रमाणबलवर्णकर्मान्यभूमिक सुखभोगादि संवर्तनीयं कर्म देवेषु विपच्यते तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यकप्रेतेषु विपच्यते /
6908 SK [२२७|२४-२२७|२५] रूपारूप्यावचरं तु कर्मान्यभूमिकमन्यस्यां भूमौ विपक्तुं न जातूत्सहते /
6909 SK [२२७|२५-२२८|०१] तस्माद्व्यवस्थितविपाकत्वादानेञ्जमित्युच्यते /
6910 SK [२२८|०१] अपुण्यं तु कर्माकुशलमिति प्रसिद्धं लोके /
6911 SK [२२८|०२] यश्च लोकतो ऽर्थः प्रसिद्धः किं तत्र यत्नेन / कृतः पुण्यादीनां कर्मणां निर्देशः /
6912 SK [२२८|०३] सुखवेदनीयादीनां कर्तव्यः / स एष क्रियते /
6913 SK [२२८|०४] सुखवेद्यं शुभं ध्यानादातृतीयात्
6914 SK [२२८|०५] कुशलं कर्म सुखवेदनीयं यावत् तृतीयाद्ध्यानात् /
6915 SK [२२८|०५-२२८|०६] एषा हि भूमिः सुखाया वेदनाया यदुत कामधातुस्त्रीणि च ध्यानानि /
6917 SK [२२८|०८] अदुःखासुखवेद्यं तु
6918 SK [२२८|०९] शुभमिति वर्तते /
6919 SK [२२८|०९-२२८|१०] तृतीयध्यानात् परेण कुशलं कर्मादुःखासुखवेदनीयं सुखदुःखवेदना ऽभावात् /
6920 SK [२२८|११] दुःखवेद्यमिहाशुभम् // VAक्K_४.४७ //
6921 SK [२२८|१२] अकुशलं कर्म दुःखवेदनीयम् / इहग्रहणं कामधातावेव तद्भावज्ञापनार्थम् /
6922 SK [२२८|१२-२२८|१३] न चैषां वेदनैव फलम् /
6923 SK [२२८|१३] किं तर्हि / ससंभारा /
6924 SK [२२८|१४] अधो ऽपि मध्यमस्त्येके /
6925 SK [२२८|१५] अन्ये पुनराहुः तदेतन्मध्यमदुःखासुखवेदनीयं कर्मोक्तमेतच्चतुर्थध्यानादधो ऽप्यस्ति /
6926 SK [२२८|१६] किं कारणम् /
6927 SK [२२८|१७] ध्यानान्तरविपाकतः /
6928 SK [२२८|१८] इतरथा हि ध्यानान्तरकर्मणो विपाको न स्याद्ध्यानान्तरं वा कस्यचित्कर्मणः /
6929 SK [२२८|१८-२२८|१९] तत्र सुखदुःखयोरभावात् /
6930 SK [२२८|१९] ध्यानान्तरकर्मणो ध्यान एव सुखेन्द्रीयं विपाक इत्येके /
6931 SK [२२८|१९-२२८|२०] नैव तस्य वेदना विपाक इत्यपरे /
6932 SK [२२८|२०] तदेतदुच्छास्त्रम् /
6933 SK [२२८|२०-२२८|२१] शास्त्रे हि पठितं ᳚स्यात्कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत /
6934 SK [२२८|२१] स्यात्कुशलस्यावितर्कस्य कर्मण᳚ इति /
6935 SK [२२८|२२] अपुर्वाचरमः पाकस्त्रयाणां चेष्यते यतः // VAक्K_४.४८ //
6936 SK [२२८|२३] यतश्चोक्तं सूत्रे ᳚स्यात्त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत /
6937 SK [२२८|२३-२२८|२४] स्यात्सुखवेदनीयस्य रूपं दुःखवेदनीयस्य चित्तचैत्ता धर्माः /
6938 SK [२२८|२४-२२८|२५] अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ता᳚ इत्यतो ऽप्यस्त्यदुःखासुखवेदनीयं कर्माधस्तात् /
6939 SK [२२८|२५-२२९|०१] नहि कामधातोरन्यत्रास्ति युगपत्कर्मत्रयस्य विपाके संयोगः /
6940 SK [२२९|०१] किमिदानीं तत्कुक्शलमाहोस्विदकुशलं /
6941 SK [२२९|०१-२२९|०२] दुर्बलं तु तत् /
6942 SK [२२९|०२-२२९|०३] एवं तर्हि ᳚सुखवेद्यं शुभं ध्यानादातृतीया᳚ ᳚दिष्ट-विपाकं च कुशल᳚ मित्यस्य विरोधः /
6943 SK [२२९|०३] बाहुलिक एष निर्देशो द्रष्टव्यः /
6944 SK [२२९|०३-२२९|०४] कथं पुनरवेदनास्वभावं कर्म सुखादिवेदिनीयमित्युच्यते /
6945 SK [२२९|०४-२२९|०५] सुखवेदनायै हितं सुखवेदनोयं सुखो ऽस्य वेदनीय इति वा /
6946 SK [२२९|०५] कश्च वेदनीयः / यो विपाकः /
6947 SK [२२९|०५-२२९|०६] स ह्यसौ विद्यते सुखस्य वा वेदनीयं येन सुखं वेदयते /
6948 SK [२२९|०६] स्नानीयकपायवत् /
6949 SK [२२९|०६-२२९|०७] एवं दुःखवेदनीयमदुःखासुखवेदनीयं च द्रष्टव्यम् /
6951 SK [२२९|०८-२२९|०९] स्वभावसंप्रयोगाभ्यामालम्बनविपाकतः / संमुखीभावतश्चेति पञ्चधा वेदनीयता // VAक्K_४.४९ //
6952 SK [२२९|१०] स्वभाववेदनीयता वेदनानाम् / स्वभावेनैव वेदनीयत्वात् /
6953 SK [२२९|१०-२२९|११] संप्रयोगवेदनीयता स्पर्शस्य /
6954 SK [२२९|११] ᳚सुखवेदनीयः स्पर्शः᳚ इति / आलम्बनवेदनीयता विषयाणाम् /
6955 SK [२२९|११-२२९|१३] यथोक्तं ᳚चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसंवेदी भवति नोतु रूपरागप्रतिसंवेदी᳚त्येवमादि /
6956 SK [२२९|१३] वेदनया हि तामालम्बमानः प्रतिसंवेदयते /
6957 SK [२२९|१३-२२९|१४] विपाकवेदनीयता कर्मणः /
6958 SK [२२९|१४] ᳚दृष्टधर्मवेदनीयं कर्मे᳚ति विस्तरः / संमुखीभाववेदनीयता /
6959 SK [२२९|१५-२२९|१६] यथोक्तं ᳚यस्मिन् समये सुखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवत᳚ इति /
6960 SK [२२९|१६-२२९|१७] नहि यस्मिन्समये सुखा वेदना वर्तते तस्मिन्पुनरन्या वेदना ऽस्ति स यां तां वेदयते /
6961 SK [२२९|१७] संमुखीकुर्वस्तु तां वेदयत इत्युच्यते /
6962 SK [२२९|१७-२२९|१८] अतो विपाकस्य वेदनीयत्वात् कर्माप्युच्यते सुखवेदनीयमित्येवमादि /
6963 SK [२२९|१९] नियतानियतं तच्च
6964 SK [२२९|२०] तच्चैतत्सुखवेदनीयादि त्रिविधं कर्म नियतं चानियतं च वेदितव्यम् /
6965 SK [२२९|२०-२२९|२१] नावश्यवेदनीयमनियतम् /
6966 SK [२२९|२२] नियतं त्रिविधं पुनः /
6967 SK [२२९|२३] दृष्टधर्मादिवेद्यत्वात्
6968 SK [२२९|२४-२२९|२५] दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयं चेत्येतत्त्रिविधं कर्म नियतमित्येतच्चतुर्विधं कर्म भवति सहानियतवेदनीयेन /
6969 SK [२२९|२६] पञ्चधा कर्म केचन // VAक्K_४.५० //
6970 SK [२२९|२७] अपरे पुनः पञ्चविधं कर्मेच्छन्ति / अनियतवेदनीयं द्विधा कृत्वा /
6971 SK [२२९|२७-२३०|०१] विपाकेन नियतमनियतं चेति /
6972 SK [२३०|०१] तत्र दृष्टधर्मवेदनीयं यत्र जन्मनि कृतं तत्रैव विपच्यते /
6973 SK [२३०|०१-२३०|०२] उपपद्यवेदनीयं द्वितीये जन्मनि /
6974 SK [२३०|०२] अपरपर्यायवेदनीयं तस्मात्परेण /
6975 SK [२३०|०२-२३०|०४] जन्मान्तरे ऽप्यस्ति दृष्टधर्मवेदनीयस्य कर्मणो विपाक आरम्भवशात्तन्नामव्यवस्थानमित्यपरे /
6976 SK [२३०|०४] मा भूद्यदेवमिष्टकर्म तस्याल्पिष्ठो विपाकः इति /
6977 SK [२३०|०४-२३०|०५] तदेवं नेच्छन्ति वैभाषिकाः /
6978 SK [२३०|०५-२३०|०६] अस्ति हि कर्म संनिकृष्टफलं न विप्रकृष्टफलमस्ति विपर्ययाद्बाह्यबीजवत् /
6979 SK [२३०|०६-२३०|०७] यथा त्रिपक्षा सुवर्चला त्रिभिः पक्षैः फलं दधाति यवगोधूमादयः षड्भिर्मासैरिति /
6980 SK [२३०|०८] चतुष्कोटिकमित्यन्ये
6981 SK [२३०|०९] दार्ष्टान्तिकास्तु चतुष्कोटिकं कुर्वन्ति / अस्ति कर्मावस्थानियतं न विपाके नियतम् /
6982 SK [२३०|१०] यत्कर्म दृष्टधर्मादिवेदनीयं विपाके ऽनीयतम् / अस्ति विपाके नियतं नावस्थायाम् /
6983 SK [२३०|११] यत्कर्मानियतवेदनीयं विपाके नियतम् /
6984 SK [२३०|११-२३०|१२] अस्त्युभयनियतं यदृष्टधर्मादिवेदनीयं विपाके नियतम् /
6985 SK [२३०|१२] अस्ति नोभयनियतं यत्कर्मानियतवेदनीयं विपाके अनियतम् /
6986 SK [२३०|१३] तेषां तत्कर्माष्टविधं दृष्टधर्मवेदनीयं नियतमनियतं च / एवं यावदनियतवेदनीयम् /
6987 SK [२३०|१४] नियतमेव तु दृष्टधर्मादिवेदनीयमनियतं चतुर्थमिति वर्णयन्ति /
6988 SK [२३०|१४-२३०|१५] स्यादेकस्मिन् क्षणे चतुर्विधं कर्माक्षिपेत् /
6989 SK [२३०|१५-२३०|१६] स्यात्त्रिषु परं प्रयोज्य काममिथ्याचारे स्वयं प्रयुक्तस्तेषां युगपत्समाप्तौ /
6990 SK [२३०|१६] एषां च पुनश्चतुर्णां कर्मणां /
6991 SK [२३०|१७] निकायाक्षेपणं त्रिभिः /
6992 SK [२३०|१८] नहि दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते /
6993 SK [२३०|१९] कतमस्मिन्धातौ कतिविधं कर्माक्षिप्यते कस्यां वा गतौ /
6994 SK [२३०|२०] सर्वत्र चतुराक्षेपः /
6995 SK [२३०|२१-२३०|२२] सर्वेषु त्रिषु धातुषु सर्वासु च गतिषु चतुर्णां कर्मणामाक्षेपः कुशलानामकुशलानां च यथासंभवम् /
6996 SK [२३०|२२] अस्योत्सर्गस्यायमपवादः /
6997 SK [२३०|२३] शुभस्य नरके त्रिधा // VAक्K_४.५१ //
6998 SK [२३०|२४] नरकेषु कुशलस्य कर्मणस्त्रिविधस्या क्षेपो न दृष्टधर्मवेदनीयस्य /
6999 SK [२३०|२४-२३०|२५] तत्रेष्टविपाकाभावात् /
7000 SK [२३०|२६] यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत् /
7001 SK [२३०|२७-२३०|२८] यतो भूमेः वीतरागपृथग्जनो भवत्यसौ च स्थिरो भवत्यपरिहाणधर्मा स तत्रोपपद्यवेदनीयं कर्म न करोति /
7002 SK [२३०|२८] किमन्यत्करोति /
7003 SK [२३१|०१] नान्यवेद्यकृदप्यार्यः
7004 SK [२३१|०२] थर इति वर्तते /
7005 SK [२३१|०२-२३१|०३] आर्यपुद्गलस्तु यतो वीतरागो न च परिहाणधर्मा स तत्रोपपद्यदनीयं चापरपर्यायवेदनीयं च कर्म न करोति /
7006 SK [२३१|०३-२३१|०४] न ह्यसौ भव्यः पुनराधस्तनीं भूमिमायातुमनियतं कुर्याद्दृष्टधर्मवेदनीयं चात्रोपपन्नः /
7007 SK [२३१|०५] कामे ऽग्रे वा ऽस्थिरो ऽपि न // VAक्K_४.५२ //
7008 SK [२३१|०६-२३१|०७] परिहाणधर्मापि त्वार्यपुद्गलः कामधातोर्भवाग्रा द्वीतरागः तयोरूपपद्यापरपर्यायवेदनीयं कर्माभव्यः कर्त्तुम् /
7009 SK [२३१|०७] किं कारणम् / फलाद्धि स परिहीणो भवति /
7010 SK [२३१|०७-२३१|०८] न चास्ति लपरिहीणस्य कालक्रियेति पश्चात्प्रवेदयिष्यामः /
7011 SK [२३१|०९] किमन्तराभवे ऽप्यस्ति कर्मण आक्षेपः / अस्तीत्याह /
7012 SK [२३१|१०] द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः /
7013 SK [२३१|११] गामावचरो ह्यन्तराभवो द्वाविंशतिविधं कर्माक्षिपति / कथं कृत्वा /
7014 SK [२३१|११-२३१|१२] पञ्च हि गर्भावस्थाः /
7015 SK [२३१|१२] कललार्वुदपेशीघनप्रशाखावस्थाः / पञ्च जातावस्थाः /
7016 SK [२३१|१२-२३१|१३] बालकुमारवमध्यवृद्धावस्थाः /
7017 SK [२३१|१३] तत्रान्तराभवः कललवेदनीयं कर्माक्षिपत्यनियतं नियतं च /
7018 SK [२३१|१४] एवं यावद्वृद्धवेदनीयमन्तराभववेदनीयं च /
7019 SK [२३१|१५] दृष्टधर्म फलं तच्च
7020 SK [२३१|१६] तच्चैतदन्तराभविकं कर्म यन्नियतमेकादशविधमुक्तं दृष्टधर्मवेदनीयं तद्वेदितव्यम् /
7021 SK [२३१|१७] किं कारणम् /
7022 SK [२३१|१८] निकायो ह्येक एव सः // VAक्K_४.५३ //
7023 SK [२३१|१९-२३१|२०] एक एव ह्यसौ निकायसभाग एककर्माक्षिप्तो यश्चान्तराभवो याश्च तदन्वया दशावस्थाः /
7024 SK [२३१|२०] अत एवान्यदन्तराभववेदनीयं कर्म नोक्तम् /
7025 SK [२३१|२०-२३१|२१] उपपद्यवेदनीयेन च तस्याक्षेपात् /
7026 SK [२३१|२२] कीदृशं कर्म नियतं वेदितव्यम् /
7027 SK [२३१|२३-२३१|२४] तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम् / गुणक्षेत्रे च नियतं तत्पित्रोर्घातकं च यत् // VAक्K_४.५४ //
7028 SK [२३१|२५-२३२|०१] यद्धि कर्म तीव्रेण क्लेशेन कृतं यच्च तीव्रेण प्रसादेन यच्च सातत्येन गुनक्षेत्रे च तन्नियतं वेदितव्यम् /
7029 SK [२३२|०१] तत्र गुणक्षेत्रं त्रीणि रत्नानि /
7030 SK [२३२|०१-२३२|०२] पुद्गलविशेषो वा कश्चित्फलसमापत्तिविशेषप्राप्तः /
7031 SK [२३२|०२-२३२|०३] तत्र ह्यन्तरेणापि तीव्रक्लेशप्रसादानां सातत्यं च कुशलमकुशलं च कर्म नियतं संपद्यते /
7032 SK [२३२|०३] पितरौ पुनर्माता च पिता च /
7033 SK [२३२|०४] तयोश्चापि यत्र घातिकं कर्म यथा तथा वा तन्नियतं संपद्यते नान्यत् /
7034 SK [२३२|०५] अथ दृष्टधर्मवेदनीयं कर्म कीदृशं वेदितव्यम् /
7035 SK [२३२|०६] दृष्टधर्मफलं कर्म क्षेत्राशयविशेषतः /
7036 SK [२३२|०७] दृष्टधर्मवेदनीयं कर्म क्षेत्रविशेषाद्वा भवति /
7037 SK [२३२|०७-२३२|०८] यथा संघस्त्रीवादसमुदाचाराद्व्यञ्जनपरिवृत्तिः श्रूयते /
7038 SK [२३२|०८] आशयविशेषाद्वा /
7039 SK [२३२|०८-२३२|०९] यथा शण्ढस्य गवामपुंस्त्वप्रतिमोक्षणात्पुम्भावः /
7041 SK [२३२|१०] तद्भूम्यत्यन्तवैराग्यात्
7042 SK [२३२|११-२३२|१२] तस्य वा कर्मणो या भूमिः कुशलस्याकुशलस्य वा ततो ऽत्यन्तवैराग्यात्तत्कर्म दृष्टधर्मवेदनीयं कर्म संपद्यते /
7043 SK [२३२|१२] तस्यां भूमौ जातस्य कीदृशं कर्मेत्याह
7044 SK [२३२|१३] विपाके नियतं हि यत् // VAक्K_४.५५ //
7045 SK [२३२|१४] यद्धि कर्म नियतं विपाके न त्ववस्थायां नाप्यनियतं तत्यैष नियमः /
7046 SK [२३२|१४-२३२|१५] यत्पुनरवस्थान्तरनियतं तस्य तत्रैव नियतो विपाकस्तद्वतो ऽत्यन्तवैराग्यासंभवात् /
7047 SK [२३२|१५-२३२|१६] यच्चानियतं तस्याविपाक एवात्यन्तवैराग्यात् /
7048 SK [२३२|१७] कीदृशं पुनः क्षेत्रं यत्रावश्यं दृष्टधर्मवेदनीयं कर्म संपद्यते / आह /
7049 SK [२३२|१७-२३२|१८] बुद्धप्रमुखो भिक्षुसंघः पुद्गलास्तु पञ्च /
7050 SK [२३२|१९-२३२|२०] ये निरोधारणामैत्रीदर्शनार्हत्फलोत्थिताः / तेषु कारापकारस्य फलं सद्यो ऽनुभूयते // VAक्K_४.५६ //
7051 SK [२३२|२१] निरोधसमापत्तिव्युत्थितः परां चित्तशान्तिं लभते / निर्वाणसदृशत्वात्समापत्तेः /
7052 SK [२३२|२२] स हि गतप्रत्यागत एव निर्वाणाद्भवति /
7053 SK [२३२|२२-२३२|२३] अरणाव्युत्थितस्याप्रमाणसत्त्वारणाहिताध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिर्वर्तते /
7054 SK [२३२|२३-२३२|२५] मैत्रीव्युत्थितस्याप्रमाणसत्त्वसुखाध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिवर्तते /
7055 SK [२३२|२५-२३२|२६] दर्शनमार्गव्युत्थितस्याशेषदर्शनप्रहातव्यप्रहाणात् प्रत्यग्राश्रयपरिवृत्तिनिर्मला संततिर्वर्तते /
7056 SK [२३२|२६-२३२|२७] अर्हत्फलव्युत्थितस्याशेषभावनाप्रहातव्यप्रहाणात्प्रत्यग्राश्रयपरिवृत्तिशुद्धा संततिर्वर्तते /
7057 SK [२३२|२७-२३३|०१] अत एतेषु कृतानां कारापकाराणां फलं दृष्ट एव धर्मे नियतं प्राप्यते /
7058 SK [२३३|०१-२३३|०३] शेषस्य तु भावनामार्गस्यापरिपूर्णस्वभावफलत्वाच्च तद्व्युत्थितानां न तथा प्रत्यग्राश्रयपरिवृत्तिशुद्धाशयसंततिर्वर्तत इति न ते तथा पुण्यक्षेत्रं भवति /
7059 SK [२३३|०४] विपाकः पुनर्वेदनाप्रधानः / तदिदानीं विचार्यते /
7060 SK [२३३|०४-२३३|०५] स्यात् कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत न कायिकी /
7061 SK [२३३|०५-२३३|०६] स्यात् कायिक्येव न चैतसिकी स्यादित्याह
7062 SK [२३३|०७-२३३|०८] कुक्शलस्यावितर्कस्य कर्मणो वेदना मता / विपाकश्चैतसिक्येव
7063 SK [२३३|०९] अवितर्कं कर्म ध्यानान्तरात् प्रभृति यावत् भवाग्रे /
7064 SK [२३३|०९-२३३|१०] तस्यावितर्कस्य कुशलस्य कर्मणश्चैतसिक्येव वेदना विपाकः /
7065 SK [२३३|१०] कस्मान्न कायिकी /
7066 SK [२३३|१०-२३३|११] तस्या अवश्यं सवितर्कविचारत्वात् /
7067 SK [२३३|१२] कायिक्येवाशुभस्य तु // VAक्K_४.५७ //
7068 SK [२३३|१३] अकुशलस्य कर्मणः कायिक्येव वेदना विपाकः / कस्मान्न चैतसिकी /
7069 SK [२३३|१३-२३३|१५] तस्य हि दुःखा वेदना विपाकश्चैतसिकी च दुःखा वेदना दौर्मनस्यं न च दौर्मनस्यं विपाक इति व्याख्यातमेतत् /
7070 SK [२३३|१६] यत्तर्हि सत्त्वानां चित्तक्षेपो भवति / कतमस्मिन्नसौ चित्ते भवति केन वा कारणेन /
7071 SK [२३३|१७] चित्तक्षेपो मनश्चित्ते /
7072 SK [२३३|१८] मनोविज्ञान इत्यर्थः / नहि पञ्चसु विज्ञानकायेषु चित्तं क्षिप्यते / अविकल्पकत्वात् /
7073 SK [२३३|१९] स च कर्मविपाकजः /
7074 SK [२३३|२०] स चैष चित्तक्षेपः सत्त्वानां कर्मजः /
7075 SK [२३३|२०-२३३|२३] ये हि द्रव्यमन्त्रप्रयोगेण वा परेषां चित्तं क्षेपयन्ति अकामकं वा विषं मद्यं वा पाययन्ति त्रासयन्ति वा मृगयादिष्वग्निम् वा दावेषुत्सृजन्ति प्रपाताद्वा पातयन्त्यन्येन वा केनचित्परेषां स्मृतिं भ्रंशयन्ति तेषां तस्य कर्मणो विपाकेनायत्यां चित्तं क्षिप्यते /
7076 SK [२३३|२४] भयोपघातवैषम्यशोकैश्च
7077 SK [२३३|२५] कथं तावद्भयेन /
7078 SK [२३३|२५-२३३|२६] अमनुष्यादयो मनुष्यान्विरूपेण रूपेणोपसंक्रामन्ति /
7079 SK [२३३|२६] तेभ्यो भीतानां चित्तं क्षीप्यते / कथमुपघातेन /
7080 SK [२३३|२६-२३४|०१] अमनुष्या एव कुपिता मनुष्याणां मर्मसु प्रहरन्ति /
7081 SK [२३४|०१] कथं महाभूतवैषम्येण /
7082 SK [२३४|०१-२३४|०२] वातपित्तश्लेष्माणः प्रकोपमापद्यन्ते /
7083 SK [२३४|०२] कथं शोकेन / यथा वासिष्ठीप्रभृतीनाम् /
7084 SK [२३४|०२-२३४|०३] यदि मनो विक्षिप्यते कर्मविपाकजश्च चित्तक्षेपः /
7085 SK [२३४|०३] कथं न चैतसिकी वेदना विपाकः प्राप्नोति /
7086 SK [२३४|०३-२३४|०४] नहि ब्रूमस्तदेव चित्तविपाक इत्यपि तु यो महाभूतानां प्रकोपः स विपाकः /
7087 SK [२३४|०४-२३४|०५] तस्माज्जातमतो विपाकजम् /
7088 SK [२३४|०५-२३४|०६] कर्मजेन हि धातुना वैषम्येण व्याकुलमवशं भ्रष्टस्मृतिकं चित्तं वर्तत इति क्षिप्तमित्युच्यते /
7089 SK [२३४|०६] एवं चेदं चतुष्कोटिकं युज्यते /
7090 SK [२३४|०६-२३४|०७] अस्ति चित्तं क्षिप्तं न विक्षिप्तमिति विस्तरः /
7091 SK [२३४|०७] क्षिप्तं तावन्न क्षिप्तं विक्षिप्तचित्तस्य /
7092 SK [२३४|०७-२३४|०८] क्लिष्टं चित्तं विक्षिप्तं न क्षिप्तं स्वस्थचित्तस्य क्लिष्टम् /
7093 SK [२३४|०८] उभयं क्षिप्तचित्तस्य क्लिष्टम् /
7094 SK [२३४|०९] नोभयं स्वस्थचित्तस्याक्लिष्टम् /
7095 SK [२३४|१०] कतमेषां पुनः सत्त्वानां चित्तं क्षिप्यते /
7096 SK [२३४|११] अकुरुकामिनाम् // VAक्K_४.५८ //
7097 SK [२३४|१२] अकुरुणां कामिनाम् / देवेष्वपि हि देव / उन्मत्ताः सन्ति प्रागेव मनुष्यतिर्यक्प्रेतेषु /
7098 SK [२३४|१३] नारकास्तु नित्यं क्षिप्तचित्ता एव /
7099 SK [२३४|१३-२३४|१५] ते हि विविधयातनासहस्रव्यतिभिन्नमर्माणस्तीर्वाभिर्वेदनाभिरभितुन्ना आत्मानमपि तावन्नाभिचेतयन्ति किं पुनः कार्यमकार्यं वा /
7100 SK [२३४|१५] हाचित्तपरिदेवकश्चात्र नारक उदाहार्यः /
7101 SK [२३४|१५-२३४|१६] आर्याणामपि चित्तं क्षिप्यते भूतवैषम्येणान्यत्र बुद्धात् /
7102 SK [२३४|१६-२३४|१७] न कर्मणा नियतस्य पूर्वं विपाकादनियतस्याविपाकात् /
7103 SK [२३४|१७] न भयेन / पञ्चभयसमतिक्रमात् / नोपघातेन /
7104 SK [२३४|१७-२३४|१८] मनुष्यप्रकोपकारणस्याप्रासादिकस्याकरणात् /
7105 SK [२३४|१८] न शोकेन / धर्मताभिज्ञत्वात् /
7106 SK [२३४|१९] पुनस्त्रयो वङ्का उक्ताः सूत्रे / कायवङ्कोक् वाग्वङ्को मनोवङ्कः / त्रयो दोषाः /
7107 SK [२३४|२०] कायदोषो वाग्दोषो मनोदोषः / त्रयः कषायाः /
7108 SK [२३४|२०-२३४|२१] कायकषायो वाक्कषायो मनः कषायः इति /
7109 SK [२३४|२१] तत्र यथाक्रमं वेदितव्याः /
7110 SK [२३४|२२] वङ्कदोषकषायोक्तिः शाठ्यद्वेषजरागजे /
7111 SK [२३४|२३] शठ्यजं कायकर्म कायवङ्क इत्युक्तम् / कुटिलान्वयत्वात् / एवं वाङ्मनोवङ्कौ /
7112 SK [२३४|२४] द्वेषजं कायकर्म कायदोष इत्युक्तम् / चित्तप्रदोषान्वयत्वात् / एवं वाङ्मनोदोषौ /
7113 SK [२३४|२५] रागजं कायकर्म कायकषाय इत्युक्तम् / राञ्जनान्वयत्वात् / एवं वाङ्मनःकषायौ /
7114 SK [२३४|२६] कृष्णशुक्लादिभेदेन पुनःः कर्म चतुर्विधम् // VAक्K_४.५९ //
7115 SK [२३५|०१] ᳚अस्ति कर्म कृष्णं कृष्णविपाकम् / अस्ति कर्म शुक्लं शुक्लविपाकम् /
7116 SK [२३५|०१-२३५|०२] अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् /
7117 SK [२३५|०२-२३५|०३] अस्ति कर्माकृष्णमशुक्लमविपाकम् /
7118 SK [२३५|०३] यत्तत्कर्म कर्मक्षयाय संवर्तत᳚ इति / तत्र
7119 SK [२३५|०४-२३५|०५] अशुभं रूपकामाप्तं शुभं चैव यथाक्रमम् / कृष्णशुक्लोभयं कर्म तत्क्षयाय निरास्रवम् // VAक्K_४.६० //
7120 SK [२३५|०६] अशुभं कर्म एकान्तेन कृष्णं क्लिष्टत्वात् कृष्णविपाकं चामनोज्ञविपाकत्वात् /
7121 SK [२३५|०७] रूपाप्तं शुभमेकान्तेन शुक्लमकुशलेनाव्यतिभेदात् /
7122 SK [२३५|०७-२३५|०८] शुक्लविपाकं च मनोज्ञविपाकत्वात् /
7123 SK [२३५|०८] आरुप्याप्तं कस्मान्नोच्यते /
7124 SK [२३५|०८-२३५|०९] यत्र किल द्विविधो ऽस्ति विपाक आन्तराभविक औपपत्तिभविकश्च /
7125 SK [२३५|०९-२३५|१०] त्रिविधस्य कायवाङ्मनस्कर्मणो यत्रैव संभवस्तत्रैवोक्तमिति /
7126 SK [२३५|१०] तदपि तूक्तं सूत्रान्तरे /
7127 SK [२३५|१०-२३५|११] ᳚कामाप्तं शुभं कर्म कृष्णशुक्लमकुशलव्यवकीर्णत्वत् कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात्᳚ /
7128 SK [२३५|११-२३५|१२] संतानत एतद्व्यवस्थापितं न स्वभावतः /
7129 SK [२३५|१२-२३५|१३] न ह्येवञ्जातीयकमेकं कर्मास्ति विपाको वा यत् कृष्णं च स्यात् शुक्लं चान्योन्यविरोधात् /
7130 SK [२३५|१३-२३५|१४] ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात् कृष्णशुक्लत्वं प्राप्नोति /
7131 SK [२३५|१४] नावश्यमकुशलं कुशलेन व्यवकीर्यते /
7132 SK [२३५|१५] कामधातौ तस्य बलवत्त्वात् / कुक्शलं तु व्यवकीर्यते / दुर्बलत्वादिति /
7133 SK [२३५|१६] अनस्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते /
7134 SK [२३५|१६-२३५|१७] तद्ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लता ऽभावात् /
7135 SK [२३५|१७-२३५|१८] आभिप्रायिको ह्येषो ऽशुक्ल शब्दः /
7136 SK [२३५|१८-२३५|१९] उक्तं तु भगवता महत्यां शुन्यताया मशैक्षान् धर्मानारभ्य ᳚इमे ते आनन्द धर्मा एकान्तकुशला एकान्तानवद्या᳚ इति /
7137 SK [२३५|१९] शास्त्रे च /
7138 SK [२३५|१९-२३५|२०] ᳚शुक्ला धर्माः कतमे /
7139 SK [२३५|२०] कुशला धर्मा अनिवृताव्याकृताश्चे᳚ति /
7140 SK [२३५|२०-२३५|२१] अविपाकं धात्वपतितत्वात् प्रवृत्तिविरोधाच्च /
7141 SK [२३५|२२] किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते /
7142 SK [२३५|२३] नेत्युच्यते / किं तर्हि /
7143 SK [२३६|०१-२३६|०२] धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके / या चेतना द्वादशधा कर्म कृष्णक्षयाय तत् // VAक्K_४.६१ //
7144 SK [२३६|०३-२३६|०४] दर्शनमार्गे चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये चाष्टास्वानन्तर्यमार्गेषु या चेतना सेयं द्वादशविधा चेतना कृष्णस्य कर्मणः प्रहाणाय कर्म /
7145 SK [२३६|०५] नवमे चेतना या सा कृष्णशुक्लक्षयाय च /
7146 SK [२३६|०६-२३६|०७] नवमे कामवैराग्यानन्तर्यमार्गे या चेतना सा कृष्णशुक्लस्य कुशलस्य कर्मणः कृष्णस्य चाकुशलस्य नवमस्य प्रकारस्य प्रहाणाय /
7147 SK [२३६|०८] शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा // VAक्K_४.६२ //
7148 SK [२३६|०९-२३६|१०] ध्यानाद्व्यानाद्वैराग्यं कुर्वतो यो ऽन्त्यो नवम आनन्तर्यमार्गस्तत्र या चेतना इयं चतुर्विधा चेतना शुक्लस्य कर्मणः प्रहाणाय /
7149 SK [२३६|१०-२३६|११] किं पुनः कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणं नान्येन /
7150 SK [२३६|११-२३६|१२] नह्हि तस्य स्वभावप्रहाणं प्रहीणस्यापि संमुखीभावात् /
7151 SK [२३६|१२] किं तर्हि / तदालम्बनक्लेशप्रहाणात् /
7152 SK [२३६|१२-२३६|१३] अतो यावदेको ऽपि तदालम्बनक्लेशप्रकार आस्ते तावदस्य प्रहाणं नोपपद्यते /
7153 SK [२३६|१४] अन्ये नरकवेद्यान्यकामवेद्यं द्वयं विदुः /
7154 SK [२३६|१५-२३६|१६] अन्ये पुनराचार्याः पश्यन्ति नरकवेदनीयं नरकाच्चान्यकामधातुवेदनीयं कर्म यथाक्रम कृष्णं कृष्णशुक्लं चेति /
7155 SK [२३६|१६-२३६|१८] नरके ह्यकुशलस्यैव कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णमित्युच्यते अतो ऽन्य कामधातौ कुशलाकुशलस्य कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णशुक्लमित्युक्तम् /
7156 SK [२३६|१९] दृग्धेयं कृष्णमन्ये
7157 SK [२३६|२०] अन्ये पुनराहुर्दर्शनप्रहातव्यं कर्म कृष्ण कुशलेनामिश्रत्वात् /
7158 SK [२३६|२१] अन्यत्कृष्णशुक्लं तु कामजम् // VAक्K_४.६३ //
7159 SK [२३६|२२] अन्यत्तु कामावचरं कर्म कृष्णशुक्लम् / किं तदन्यत् / भावनाप्रहातव्यम् /
7160 SK [२३६|२२-२३६|२३] तद्धि कुशलं चाकुशलं चेति /
7161 SK [२३६|२३-२३६|२४] सूत्र उक्तं त्रीणि मौनेयानि कायमौनेयं वाङ्मौनेयं मनोमौनेयं च /
7163 SK [२३७|०१-२३७|०२] अशैक्षं कायवाक्कर्म मनश्चैव यथाक्रमम् / मौनत्रयम्
7164 SK [२३७|०३] अशैक्षे कायवाक्कर्मणी कायवाङ्मौनेये /
7165 SK [२३७|०३-२३७|०४] अशैक्षं तु मन एव मनोमौनेयं न मनस्कर्मेति /
7166 SK [२३७|०४] किं कारणम् / चित्तं हि परमार्थमुनिः /
7167 SK [२३७|०४-२३७|०५] तत् किल कायवाक्कर्मभ्यामनुमीयत इति /
7168 SK [२३७|०५] अपि खलु कायवाक्कर्मणी विरतिस्वभावेन न मनस्कर्म /
7169 SK [२३७|०५-२३७|०६] चित्ता विज्ञप्त्यभावात् /
7170 SK [२३७|०६] विरमार्थेन च मौनम् / अतो मन एव विरतं मौनमित्युच्यते /
7171 SK [२३७|०७] कस्मादशैक्षमेव नान्यत् / अर्हतः पर्मार्थमुनित्वात् /
7172 SK [२३७|०७-२३७|०८] सर्वक्लेशजल्पोपरतेः /
7173 SK [२३७|०८] त्रीणि शौचेयानि उक्तानि सूत्रे / कायशौचेयं वाक्शौचेयं मनःसौचेयं च /
7175 SK [२३७|१०] त्रिधा शौचं सर्वं सुचरितत्रयम् // VAक्K_४.६४ //
7176 SK [२३७|११] सर्वं कायसुचरितं कायशौचम् / सर्वं वाङ्मनः सुचरितं वाङ्मनः शौचम् /
7177 SK [२३७|११-२३७|१२] दुश्चरितमलापकर्षणात्तावत्कालमत्यन्तं वा /
7178 SK [२३७|१२-२३७|१३] एषा च देशना मिथ्यामौन शौचाधिमुक्तिकानां विवेचानार्थम् /
7179 SK [२३७|१३] त्रीणि दुश्चरितान्युक्तानि / तत्र
7180 SK [२३७|१४] अशुभं कायकर्मादि मतं दुश्चरित त्रयम् /
7181 SK [२३७|१५] अकुशलं कायवाङ्मनस्कर्म यथाक्रमं कायवाङ्मनोदुश्चरितम् /
7182 SK [२३७|१६] अकर्मापि त्वभिध्यादिमनोदुश्चरितं त्रिधा // VAक्K_४.६५ //
7183 SK [२३७|१७-२३७|१८] अकर्मस्वभावमप्यस्ति त्रिविधं मनोदुश्चरितं चेतनार्थान्तरभूतमभिध्या व्यापादो मिथ्यादृष्टिश्च /
7184 SK [२३७|१८] अभिध्यादय एव मनस्कर्मेति दार्ष्टान्तिकाः /
7185 SK [२३७|१८-२३७|१९] संचेतनीयसूत्रे वचनात् /
7186 SK [२३७|१९] एवं तु सति कर्मक्लेशयोरैक्यं स्यात् /
7187 SK [२३७|१९-२३७|२०] किम् स्याद्यदि कश्चित् क्लेशो ऽपि कर्म स्यात् /
7188 SK [२३७|२०] नैतदस्ति / सूत्रं विरुद्धं स्यात् /
7189 SK [२३७|२०-२३७|२१] सूत्रे तु चेतनायास्तन्मुखेन प्रवृत्तेस्तैस्तां दर्शयतीति वैभाषिकाः /
7190 SK [२३७|२१-२३७|२२] अनिष्टफलत्वात्कुट्सितः कायवाङ्मनश्चारो दुश्चरितम् /
7191 SK [२३७|२३] विपर्ययात्सुचरितम्
7192 SK [२३७|२४] इष्टं कुशलं कायवाङ्मनस्कर्मानभिध्या ऽव्यापादसम्यग्दृष्टयश्च /
7193 SK [२३७|२४-२३८|०२] परानुग्रहोपघाताभिसंध्यभावे कथं सम्यग्दृष्टिमिथ्यादृष्टव्योः कुशलाकुशलत्वम् /
7194 SK [२३८|०२] तन्मूलत्वात् / यानि चैतानि दुश्चरितसुचरितान्युक्तानि
7195 SK [२३८|०३-२३८|०४] तदौदारिकसंग्रहात् / दश कर्मपथा उक्ता यथायोगं शुभाशुभाः // VAक्K_४.६६ //
7196 SK [२३८|०५-२३८|०६] तेषामेव सुचरितदुश्चरितानां चौदारिकसंग्रहेण दश कर्मपथाः सूत्र उक्ताः यथायोगं कुशलाः सुचरितेभ्यो ऽकुशला दुश्चरितेभ्यः /
7197 SK [२३८|०६-२३८|०७] किमत्र दुश्चरितमसंगृहीतं किं वा सुचरितम् /
7198 SK [२३८|०७-२३८|०८] अकुक्शलेषु तत्कर्मपथेसु कायदुश्चरितस्य प्रदेशो न संगृहीतः प्रयोगपृष्ठभूतः क्लिष्टश्चान्यो ऽपि बन्धानादिः /
7199 SK [२३८|०८] तस्य नात्यौदारिकत्वात् / [२३८|०८-२३८|०९] यद्धि कायदुश्चरितं परेषां जीवितभोगदारेभ्यश्च्यावकं तत्कर्मपथ उक्तं ततो विवेचनार्थम् /
7200 SK [२३८|१०] वाग्दुश्चरितमपि यदेव प्रशादं तत्कर्मपथ उक्तं तदर्थमेव /
7201 SK [२३८|१०-२३८|११] मनोदुश्चरितस्य च प्रदेशचेतना /
7202 SK [२३८|११-२३८|१२] कुशलेष्वपि कायसुचरितस्य प्रदेशः प्रयोगपृष्ठमद्यादिविरतिदानेज्यादिको वाक्सुचरितस्य प्रियवचनादिको मनः सुचरितस्य चेतना /
7203 SK [२३८|१३] एषां च कर्मपथानाम्
7204 SK [२३८|१४] अशुभाः षडविज्ञप्तिः
7205 SK [२३८|१५-२३८|१६] अकुशलाः षट् कर्मपथा अवश्यमविज्ञप्तिस्वभावाः प्राणातिपातादत्तादानमृषावादपैशुन्यपारुप्यसंभिन्नप्रलापाः /
7206 SK [२३८|१६] परेण कारयतो मौलविज्ञप्त्यभावात् /
7208 SK [२३८|१८-२३८|१९] काममिथ्याचारो नित्यं विज्ञप्त्यविज्ञप्तिस्वभावस्तस्य स्वयेव निष्ठापनात् /
7209 SK [२३८|१९] नहि तं परेण कारयतस्तादृशी प्रीतिर्भवतीति /
7210 SK [२३८|२०] ते ऽपि कुर्वतः /
7211 SK [२३८|२१-२३८|२२] ते ऽपि षट् कर्मपथाः स्वयं कुर्वतो द्विविधा भवन्ति विज्ञप्तिरविज्ञप्तिश्च तत्कालमरणे पश्चात् मरणे त्वविज्ञप्तिरेव /
7212 SK [२३८|२३] कुशलानां पुनः कर्मपथानां
7213 SK [२३८|२४] द्विविधाः सप्त कुशलाः
7214 SK [२३८|२५] कुशलाः सप्त रूपिणः कर्मपथा अवश्यं द्विप्रकारा विज्ञप्तिरविज्ञप्तिश्च /
7215 SK [२३८|२५-२३८|२६] विज्ञप्त्यधीनत्वात्समादानशीलस्य /
7216 SK [२३९|०१] अविज्ञप्तिः समाधिजाः // VAक्K_४.६७ //
7217 SK [२३९|०२] ध्यानानास्रवसंवरसंगृहीताः समाधिजाः उच्यन्ते /
7218 SK [२३९|०२-२३९|०३] ते ह्यविज्ञप्तिरेव चित्तमात्राधीनत्वात् /
7219 SK [२३९|०४] सामन्तकास्तु विज्ञप्तिः
7220 SK [२३९|०५] कर्मपथसामन्तकास्तु विज्ञप्तिस्वभावा अवश्यम् /
7221 SK [२३९|०६] अविज्ञप्तिर्भवेन्न वा /
7222 SK [२३९|०७-२३९|०८] यदि तीव्रेण पर्यवस्थानेन प्रमादेन वा घनरसेन प्रयोगमारभेत स्यादविज्ञप्तिरन्यथा न स्यात् /
7223 SK [२३९|०९] विपर्ययेण पृष्ठानि
7224 SK [२३९|१०] सामन्तकेभ्यो विपर्ययेण कर्मपथानां पृष्ठानि वेदितव्याति /
7225 SK [२३९|१०-२३९|११] तानि अवश्यमविज्ञप्तिस्वभावानि /
7226 SK [२३९|११] विज्ञप्तिस्तु भवेन्न वा /
7227 SK [२३९|११-२३९|१२] यदि कर्मपथं कृट्वा पुनस्तस्यानुधर्मं चेष्टेत तस्य स्यात् विज्ञप्तिरन्यथा न स्यात् /
7228 SK [२३९|१२-२३९|१३] अथ कुतो यावदेषां प्रयोगमौलपृष्ठानां व्यवस्थानम् /
7229 SK [२३९|१३-२३९|१६] यदा तावदिह कश्चित् पशुं हन्तुकामो मञ्चकादुत्तिष्ठति मूल्यं गृह्लाति गच्छत्यामृशति पशुं क्रीणात्यानयति पुष्णाति प्रवेशयति निहन्तुं शास्त्रमादत्ते प्रहारमेकं ददाति द्वौ वा यावन्न जीविता द्वच्यपरोपयति तावत् प्रयोगः /
7230 SK [२३९|१६-२३९|१७] येन तु प्रहारेण जीविताद्व्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वा ऽविज्ञप्तिरयं मौलः कर्मपथः /
7231 SK [२३९|१७-२३९|१८] द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते प्रयोगतः मृते सति फलपरिपूरितश्च /
7232 SK [२३९|१८-२३९|१९] तत ऊर्ध्वमविज्ञप्तिक्षणाः पृष्ठं भवन्ति /
7233 SK [२३९|१९-२३९|२१] यावच्च तं पशुं कुष्णाति शोधयति विक्रीणीते पचति खादयत्यनुकीर्तयति वा तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति /
7234 SK [२३९|२१] एवमन्येष्वपि यथासंभवं योज्यम् /
7235 SK [२३९|२१-२३९|२२] अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रात्कर्मपथः /
7236 SK [२३९|२३] इदमत्र वक्तव्यम् /
7237 SK [२३९|२३-२३९|२४] किं तावत् मरणभवस्थे तस्मिन् प्राणिनि ये विज्ञप्त्यविज्ञप्ती ते कर्मपथ आहोस्विन्मृते /
7238 SK [२३९|२४] किं चातः /
7239 SK [२३९|२४-२३९|२५] यदि तावन्मरणभवस्थे सहमृटस्यापिओ अन्तुर्घातयितुर्वा प्राणातिपातावद्येन योगः प्राप्नोति /
7240 SK [२३९|२५-२४०|०१] न चेष सिद्धान्तः /
7242 SK [२४०|०१-२४०|०२] यदुक्तं ᳚येन तु प्रहारेण जीविताद्वच्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वा ऽविज्ञप्तिरयं मौलः कर्मपथ᳚ इति तना वक्तव्यम् /
7243 SK [२४०|०३] यच्चापीदं शास्त्र उक्तं ᳚स्यात् प्राणी हतः प्राणातिपातश्चानिरुद्धः /
7244 SK [२४०|०३-२४०|०६] स्याद्यथा हि तत्प्राणी जीविताद्व्यपरोपितो भवति प्रयोगश्चाप्रतिप्रस्रग्ध᳚ इत्यत्र पृष्ठं प्रयोगशब्देनोक्तमिति वैभाषिकीयो ऽर्थविरोधो मौलस्यैव तदानीमनिरुद्धत्वात् /
7245 SK [२४०|०६] यथा न दोषस्तथा ऽस्तु / कथं च न दोषः /
7246 SK [२४०|०६-२४०|०७] मौल एवात्र प्रयोगशब्देनोक्त इति /
7247 SK [२४०|०७] विज्ञप्तिस्तर्हि तदा कथं मौलः कर्मपथो भवति /
7248 SK [२४०|०७-२४०|०८] कथं च न भवितव्यम् /
7249 SK [२४०|०८] असामर्थ्यत् / अविज्ञप्तिरिदानीं कथं भवति /
7250 SK [२४०|०८-२४०|१०] तस्मात् प्रयोगफलपरिपूरिकाले तदुभयं कर्मपथः स्यात् कर्मत्पथो ऽप्यन्यस्य प्रयोगः पृष्ठं च भवति /
7251 SK [२४०|१०] प्राणातिपातस्य दशापि कर्मपथाः प्रयोगः /
7252 SK [२४०|१०-२४०|१४] यथा च शत्रोर्वधार्थं कृत्यं समुपस्थापयन् पशुना वलिं कुर्यात् परकीयं कृत्वा दारेषु चास्य विप्रतिपद्येत तैरेव तद्घातनार्थम् अनृतपिशुनपरुषसान्तवैश्चास्य मित्रभेदं कुर्याद्यान्यस्य परित्राणाय कल्पेरन् अभिध्यां च तत्स्व कुर्यात्तत्रैव च व्यापादं तद्वधार्थं च मिथ्यादृष्टिं वृंहयेदिति /
7253 SK [२४०|१४] एवमन्येष्वपि यथायोगं योज्यम् /
7254 SK [२४०|१४-२४०|१५] न त्वभिध्यादयः प्रयोगा युज्यन्ते /
7255 SK [२४०|१५] नहि चित्तोत्पादमात्रेण प्रयुक्तो भवति / क्रियानारम्भात् /
7256 SK [२४०|१६-२४०|१७] सूत्र उक्तं ᳚प्राणातिपातो भिक्षवस्त्रिविधो लोभजो द्वेषजो मोहजो यावन्मिथ्यादृष्टि᳚रिति /
7257 SK [२४०|१७-२४०|१८] तत्र कीदृशः प्राणातिपातो लोभज इत्येवमादि वक्तव्यम् /
7258 SK [२४०|१८] नात्र सर्वेषां कर्मपथानां लोभादिभिर्निष्ठा /
7259 SK [२४०|१९] प्रयोगस्तु त्रिमूलजः // VAक्K_४.६८ //
7260 SK [२४०|२०] प्रयोगस्तेषामकुशलमूलत्रयाज्जात इत्यादिसमुत्थानवचनादेवमुक्तः /
7261 SK [२४०|२०-२४०|२२] तत्र लोभजप्रणातिपातो यथा तच्छरीरावयवार्थमर्थार्थं क्रीतार्थं च प्राणिनं जीविताद्व्यपरोपयति आत्मसुहृत्परित्राणाय /
7262 SK [२४०|२२] द्वेषजो यथा वैरनिपीडनार्थम् /
7263 SK [२४०|२२-२४०|२३] मोहजो यथा याज्ञिकानां धर्मबुद्ध्या राज्ञां च धर्मपाठकप्रामाण्याद्धिंसताम् /
7264 SK [२४०|२३-२४०|२४] दुष्टानां किल निग्रहं कुर्वन्तो राजानः पुण्यभाजो भवन्तीति /
7265 SK [२४०|२४] पारसीकानां च / ते ह्येवमाहुः /
7266 SK [२४०|२५] ᳚मातापितरौ जीर्णौ वा ग्लानौ वा हन्तव्या᳚विति /
7267 SK [२४०|२५-२४१|०१] ये चान्ये ऽप्येवमाहुरहिवृश्चिकत्र्यम्वुकादयो मनुष्याणामुपघातापका हन्तव्याः मृगपशुपक्षिमहिषादयश्चोपभोगार्थत्वादिति /
7268 SK [२४१|०१-२४१|०२] यश्च मिथ्यादृष्टिप्रवर्तितः प्राणातिपातः /
7269 SK [२४१|०२-२४१|०३] लोभजमदत्तादानं यो येनार्थि स तद्वरति अन्यलाभसत्कारयशो ऽर्थं वा आत्मसुकृतपरित्राणाय वा /
7270 SK [२४१|०३] द्वेषजं यद्वैरनिपीडनार्थम् /
7271 SK [२४१|०३-२४१|०४] मोहजं यथा राज्ञां धर्मपाठकप्रामाण्यात् /
7272 SK [२४१|०४-२४१|०५] दुष्टनिग्रहार्थं यथा ब्राह्मणा आहुः ᳚सर्वमिदं ब्रह्मणा ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद्वृष्लाः परिभुञ्जते /
7273 SK [२४१|०५-२४१|०६] तस्मादपहरन् ब्राह्मणः सुमादत्ते स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति चे᳚ ति /
7274 SK [२४१|०७] न चैशामपरस्वसंज्ञा भवति / यच्च मिथ्यादृष्टिप्रवर्त्तितम् /
7275 SK [२४१|०७-२४१|०८] लोभजः काममिथ्याचारः दारादिषु तत्संरागादब्रह्मचर्यं लाभसत्कारार्थमात्मसुहृत्परित्राणाय /
7276 SK [२४१|०८-२४१|०९] द्वेषजो वैरनिपीडनार्थम् /
7277 SK [२४१|०९] मोहजो यथा पारसीकानां मात्रादिगमनं गोसवे च यज्ञे /
7278 SK [२४१|१०] योथोक्तं ᳚ब्राह्मणो गोसवेनेष्ट्या संवत्सरगोव्रती भवति /
7279 SK [२४१|१०-२४१|११] उपहा उदकं चूषति तृणानि च्छिनत्ति उपैति मातरमुपस्वसारमुप सगोत्रा᳚मिति /
7280 SK [२४१|११-२४१|१२] ये चाहु ᳚रुदूखलपुण्यफलपक्वान्नतीर्थमार्गप्रख्यो मातृग्राम᳚ इति /
7281 SK [२४१|१२-२४१|१३] मृषावादादयो लोभजा द्वेषजाश्चपूर्ववत् /
7282 SK [२४१|१३] मोहजो मृषावादो यथाह /
7283 SK [२४१|१४-२४१|१७] ᳚न नर्मयुक्तमनृतं हि नास्ति न स्त्रीषु राजन्न विवाहकाले / प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानी᳚ति /
7284 SK [२४१|१८] यष्च मिथ्यादृष्टिप्रवर्तितो मृषावादः / पैशुन्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजाः / [२४१|१९] यष्चच वेदाद्यसच्छास्त्रप्रलापः /
7285 SK [२४१|२०] अभिध्यादयः कथं लोभजाः /
7286 SK [२४१|२१] तदनन्तरसंभूतेरभिध्याद्यास्त्रिमूलजाः /
7287 SK [२४१|२२] लोभादनन्तरमुत्पन्ना लोभजाः द्वेषादनन्तरं द्वेषजा मोहादनन्तरं मोहजाः /
7288 SK [२४१|२२-२४१|२३] उक्ता कुशलाः कर्मपथाः /
7289 SK [२४१|२४] कुशलाः कथमित्याह
7290 SK [२४१|२५] कुशलाः सप्रयोगान्ता अलोभद्वेषमोहजाः // VAक्K_४.६९ //
7291 SK [२४१|२६] सप्रयोगपृष्ठाः कुशलाः कर्मपथा अलोभद्वेषमोहजाः /
7292 SK [२४१|२६-२४१|२७] कुषलचित्तसमुत्थितत्वात् /
7293 SK [२४१|२७-२४२|०१] तस्य च अवश्य मलोभादिभिः संप्रयोगात् तत्राकुशल कर्मपथप्रयोगाद्विरतिः कुशलकर्मपथप्रयोगः /
7294 SK [२४२|०१] मौलाद्विरतिः मौलः /
7295 SK [२४२|०१-२४२|०२] पृष्ठाद् विरतिः पृष्ठः /
7296 SK [२४२|०२-२४२|०३] तद्यथा श्रामणेर उपसंपाद्यमानो नानावासं प्रविशति भिक्षून्वन्दते उपाध्यायं याचते यावदेकं कर्मवाचनं क्रियते द्वितीयं च /
7297 SK [२४२|०३] अयं प्रयोगः /
7298 SK [२४२|०३-२४२|०४] तृतीय कर्मवाचने या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कर्मपथः /
7299 SK [२४२|०४-२४२|०५] तत ऊर्ध्वं यावन्निश्रया आरोच्यन्ते तदधिष्ठानं च विज्ञपयति अविज्ञप्तिच यावदतुवर्तते इदं पृष्ठम् /
7300 SK [२४२|०६] यदुक्तं ᳚न सर्वेषां कर्मपथानां लोभादिभिर्निष्ठे᳚त्यथ कस्य केन निष्ठा /
7301 SK [२४२|०७] वधव्यापादपारुष्यनिष्ठा द्वेषेण
7302 SK [२४२|०८] एषां प्राणातिपातव्यापादपारुष्पाणां द्वेषेण समाप्तिः /
7303 SK [२४२|०८-२४२|०९] परित्यागपरुषचित्तसंमुखी भावात् /
7305 SK [२४२|११] परस्त्रीगमनाभिध्या ऽदत्तादानसमापनम् // VAक्K_४.७० //
7306 SK [२४२|१२] लोभेन काममिथ्याचाराभिध्या ऽदत्तादानानां समाप्तिः /
7307 SK [२४२|१३] मिथ्यादृष्टेस्तु मोहेन
7308 SK [२४२|१४] अधिमात्रभूतो हि तां निष्ठापयति /
7309 SK [२४२|१५] शेषाणां त्रिभिरिष्यते /
7310 SK [२४२|१६] के पुनः शेषाः / मृषावादपैशुन्यसंभिन्नप्रलापाः /
7311 SK [२४२|१६-२४२|१७] एषां त्रिभिरपि निष्ठा लोभेन द्वेषेण मोहेन वा
7312 SK [२४२|१८-२४२|१९] य एते कर्मपथाश्चतुर्भिः काण्डैरुक्तास्त्रयस्त्रय एकस्त्रयश्च एषां यथाक्रमं
7313 SK [२४२|२०] सत्त्वभोगावधिष्ठानं नामरूपं च नाम च // VAक्K_४.७१ //
7314 SK [२४२|२१] सत्त्वाधिष्ठाना वधादयः / भोगाधिष्ठानां परस्त्रीगमनादयः /
7315 SK [२४२|२१-२४२|२२] नामरूपाधिष्ठामिथ्यादृष्टिः /
7316 SK [२४२|२२] नामकायाधिष्ठाना मृषावादादयः /
7317 SK [२४२|२३-२४२|२४] यः परं मरणान्नियमय्य समं तेन पूर्वं वा म्रियते किमस्य मौलः कर्मपथो भवत्युताहो न /
7318 SK [२४२|२५] समं प्राक् च मृतस्यास्ति न मौलः
7319 SK [२४२|२६-२४२|२७] अत एवोच्यते ᳚स्यात् प्रयोगं कुर्यात् फलं च परिपूरयेन्न च प्राणातिपातावद्येन स्पृश्यते /
7321 SK [२४२|२७-२४३|०२] स्यात् यथापि तद्व्यपरोपवः पूर्वं सह वा कालं कुर्या᳚दिति किं पुनस्तत्कारणम् नहि वध्ये जीवति हन्तुः प्राणातिपातावद्येनास्ति योगो नापि सहमृतस्य हन्तुः /
7322 SK [२४३|०३] अन्याश्रयोदयात् /
7323 SK [२४३|०४] थेनाश्रयेण तत्प्रयोगः कृतः स उच्छिन्नो ऽन्य एवाश्रयो निकायसभागभिन्न उत्पन्नः /
7324 SK [२४३|०५] तस्य प्रयोक्तृत्वात् कर्मपथेन योगो न युक्तः /
7325 SK [२४३|०५-२४३|०६] यत्सेनापातमृगयावस्कन्धेषु परेषां वधार्थं बहवः समग्राः पतन्त्येकश्च प्राणातिपातं करोति कस्तेन समन्वागतो भवति /
7326 SK [२४३|०७] सेनादिष्वेककार्यत्वात् सर्वे कत्तृवदन्विताः // VAक्K_४.७२ //
7327 SK [२४३|०८] यथैव हि कर्त्ता तथा सर्वे समन्वागता भवन्त्येककार्यत्वात् /
7328 SK [२४३|०८-२४३|०९] अर्थतो हि ते ऽयोन्यं पयोक्तारो भवन्ति /
7329 SK [२४३|०९-२४३|११] यस्तर्हि बलान्नीयते सोऽपि समन्वागतो भवत्यन्यत्र य एवं नश्चित्य यायात् यावज्जीवितहेतोरपि प्राणिनं न हनिष्यामीति /
7330 SK [२४३|१२-२४३|१३] कियता पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति कियता यावन्मिथ्यादृष्टिः कर्मपथः इति लक्षणं वक्तव्यं तदुच्यते /
7331 SK [२४३|१४] प्राणातिपातः संचिन्त्य परस्याभ्रान्तिमारणम् /
7332 SK [२४३|१५] यदि मारयिष्याम्येनमिति संज्ञाय परं मारयति तमेव च मारयति नान्यं भ्रमित्वा /
7333 SK [२४३|१६] इयता प्राणातिपातो भवति /
7334 SK [२४३|१६-२४३|१७] यस्तर्हि संदिग्धो मारयति किमयं प्राणी न प्राणीति स एवान्यो वेति सो ऽप्यवश्यमेतं निश्चयं लब्ध्वा तत्र प्रहरति /
7335 SK [२४३|१७-२४३|१८] यो ऽस्तु सो ऽस्त्विति कृतमेवानेन त्यागचित्तं भवति /
7336 SK [२४३|१८] कथं क्षणिकेषु स्कन्धेषु प्राणातिपातो भवति /
7337 SK [२४३|१९] प्राणो नाम वायुः कायचित्तसंनिश्रितो वर्तते / तमभिपातयति /
7338 SK [२४३|१९-२४३|२०] यथा प्रदीपं निरोधयति घण्टास्वनं वा /
7339 SK [२४३|२०] जीवितेन्द्रियं वा प्राणास्तन्निरोधयति /
7340 SK [२४३|२०-२४३|२१] यद्येकस्यापि जीवितक्षणस्योत्पद्यमानस्यान्तरायं करोति प्राणातिपातावद्येन स्पृश्यते नान्यथा /
7341 SK [२४३|२२] कस्य तज्जीवितं यस्तदभावान्मृतो भवति /
7342 SK [२४३|२२-२४३|२३] कस्येति षष्ठीं पुद्गलवादे विचारयिष्यामः /
7343 SK [२४३|२३] उक्तं तु भगवता
7344 SK [२४३|२४-२४३|२५] ᳚आयुरुष्मा ऽथ विज्ञानं यदा कायं जहत्यमी / अपविद्धस्तदा शेते यथा काष्ठमचेतन᳚ // इति /
7345 SK [२४३|२६] तस्मात्सेन्द्रियः कायो जीवतीत्युच्यते अनिन्द्रियो मृत इति /
7346 SK [२४३|२६-२४३|२७] अबुद्धिपूर्वादपि प्राणिवधात् कर्तुरधर्मो यथा ऽग्निसंयोगाद्दाह इति निर्ग्रन्थाः /
7347 SK [२४३|२७-२४४|०१] तेषां परदारदर्शने ऽप्येष प्रसङ्गः /
7348 SK [२४४|०१-२४४|०३] निर्ग्रन्थशिरोलुञ्चने च कष्टतपोदेशने च शास्तुः तद्विसूचिकामरणे च दातुर्वैद्यानां चातुरपीडने मरणे च मातृगभस्थयोश्चान्योन्यं दुःखनिमित्तत्वात् /
7349 SK [२४४|०३] वध्यस्यापि च तत्क्रियासंबन्धादग्निस्वाश्रयदाहवत् /
7350 SK [२४४|०३-२४४|०४] कार्यतश्चाप्रसङ्गस्तदसम्बन्धात् /
7351 SK [२४४|०४] परेणाग्निम् स्पर्शयतस्तेनादाहवत् /
7352 SK [२४४|०४-२४४|०५] अचेतनानां च काष्ठादीनां गृहपाते प्राणिवधात् पापप्रसङ्गो न वा दृष्टान्तमात्रात्सिद्धिरिति /
7353 SK [२४४|०६] उक्तः प्राणातिपातः /
7354 SK [२४४|०७] अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः // VAक्K_४.७३ //
7355 SK [२४४|०८] अभ्रान्त्येति वर्तते /
7356 SK [२४४|०८-२४४|०९] यदि बलाद्वा चौर्येण वा परस्वं स्वीकरोति यत्रैव च बलचौर्याभिप्रायेणान्यत्र संज्ञाविभ्रमात् इयता ऽदत्तादानं भवति /
7357 SK [२४४|०९-२४४|१०] स्तूपादपहरतो बुद्धाद दत्तादानम् /
7358 SK [२४४|१०] सर्वं हि तद्भगवता परिनिर्वाणकाले परिगृथीतमिति /
7359 SK [२४४|१०-२४४|११] येषां सम्रक्ष्यमित्यपरे /
7360 SK [२४४|११-२४४|१२] अस्वामिकं च निधिमुद्धरतो विषयस्वामिकात् परिवर्तकं हरतः कृते कर्मणि सीमाप्राप्तेभ्यः अकृते सर्वबुद्धशैक्ष्येभ्यः /
7361 SK [२४४|१३] अगम्यगमनं काममिथ्याचारश्चतुर्विधः /
7362 SK [२४४|१४] चतुष्प्रकारमगम्यगमनं काममिथ्याचारः /
7363 SK [२४४|१४-२४४|१५] अगम्यां गच्छति परपरिगृहीतां वा मातरं दुहितरं वा मातृपितृसंबन्धिनीं वा /
7364 SK [२४४|१५-२४४|१६] अनङ्गे वा गच्छति स्वामपि भार्याम् अपाने मुखे वा /
7365 SK [२४४|१६] अदेशे वा गच्छति प्रकाशे चैत्ये विहारे वा /
7366 SK [२४४|१७] अकाले वा गच्छति / कः पुनः अकालः /
7367 SK [२४४|१७-२४४|१८] गर्भिणीं वा गच्छति पाययन्तीं वा सनियमां वा /
7368 SK [२४४|१८] यदि भर्तुरनुज्ञया सनियमा भवतीत्येके / अभ्रान्त्येति वर्तते /
7369 SK [२४४|१८-२४४|१९] यदि स्वसंज्ञी परस्त्रियं यायात् न स्यात् कर्मपथः /
7370 SK [२४४|१९-२४४|२०] यद्यन्यः परस्त्रीसंज्ञया ऽन्यामभिगच्छेत् परदारप्रयोगाद्वस्तुपरिभोगाच्च स्यादित्येके / [२४४|२०-२४४|२१] अन्यत्र प्रयोगान्न स्यात् प्राणाति पातवदित्यपरे /
7371 SK [२४४|२१] भिक्षुणीं गच्छतः कस्यान्तिकात् काममिथ्याचारः /
7372 SK [२४४|२१-२४४|२२] विषयस्वामिनः /
7373 SK [२४४|२२] तस्य हि तन्न मर्षणीयम् / तस्यापि सनियमा स्वभार्येव तु सा न गम्या /
7374 SK [२४४|२३] कुमारीं गच्छतो यस्य निसृष्टा नो चेद्यस्य रक्षा ऽन्ततो राज्ञः /
7375 SK [२४४|२४] अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः // VAक्K_४.७४ //
7376 SK [२४४|२५-२४५|०१] यदि यमर्थं ब्रवीति तस्मिन्नन्यथासम्ज्ञी भवति यं चाधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो भवति तद्वाक्यं मृषावादः /
7377 SK [२४५|०१] अनभिज्ञे किं स्यात् /
7378 SK [२४५|०१-२४५|०२] संभिन्नप्रलापः स्यात् /
7379 SK [२४५|०२] वाक्यमित्युच्यते /
7380 SK [२४५|०२-२४५|०३] कदाचिच्च बहवो वर्णा वाक्यं भवन्तीति कतमः तत्र कर्मपथः /
7381 SK [२४५|०३] पश्चिमः सहाविज्ञप्त्या यत्र चार्थाभिज्ञो भवति / पूर्वे तु वर्णाः प्रयोगः /
7382 SK [२४५|०४] अर्थाभिज्ञ इत्युच्यते /
7383 SK [२४५|०४-२४५|०५] कि तावदभिज्ञातार्थे श्रोतरि आहोस्वित् अभिज्ञातुं समर्थे /
7384 SK [२४५|०५] किं चातः /
7385 SK [२४५|०५-२४५|०६] यद्यभिज्ञातार्थे मनोविज्ञानविषयत्वाद्वाक्यार्थस्य श्रोत्रविज्ञानेन सह निरोधाच्च वाग्विज्ञप्तेरविज्ञप्तिरेव स्यात् कर्मपथः /
7386 SK [२४५|०६-२४५|०७] अथाभिज्ञातुं समर्थे /
7387 SK [२४५|०७] एवं दोषो न भवति /
7388 SK [२४५|०७-२४५|०८] कथं चाभिज्ञातुं समर्थो ऽप्युत्पन्नभाव उत्पन्ने श्रोत्रविज्ञाने /
7389 SK [२४५|०८] यथा न दोषस्तथा ऽस्तु /
7390 SK [२४५|०९] षोदश व्यवहाराः सूत्र उक्ताः /
7391 SK [२४५|०९-२४५|११] ᳚अदृष्टे दृष्टवादिता अश्रुते ऽमते ऽविज्ञाते विज्ञातवादिता दृष्टे अदृष्टवादिता यावद् विज्ञाते ऽविज्ञातवादिता इतीमे ऽनार्या अष्टौ व्यवहाराः /
7392 SK [२४५|११-२४५|१२] दृष्टे दृष्टवादिता यावद्विज्ञाते विज्ञातवादिता अदृष्ट् ऽदृष्टवादिता यावदविज्ञाते अविज्ञातवादिता इतीमे आर्या अष्टौ व्यवहाराः /
7393 SK [२४५|१२-२४५|१३] तत्रैषां दृष्टश्रुतमतविज्ञातानां किं लक्षणम् /
7394 SK [२४५|१४-२४५|१५] चक्षुः श्रोत्रमनश्चित्तैरनुभूतं त्रिभिश्च यत् / तद्दृष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम् // VAक्K_४.७५ //
7395 SK [२४५|१६] यच्चक्षुर्विज्ञानेनानुभूतं तद्दृष्टमित्युक्तम् / यच्छ्रोत्रविज्ञानेन तच्छ्रुतम् /
7396 SK [२४५|१६-२४५|१७] यन्मनो विज्ञानेन तत् विज्ञातम् /
7397 SK [२४५|१७] यत् घ्राणजिह्वाकायविज्ञानैस्तन्मतम् / किं कारणम् /
7398 SK [२४५|१८] गन्धरसस्प्रष्टव्यान्यव्याकृतत्वान्मृतकल्पानि / अत एतेषु मताख्येति वैभाषिकाः /
7399 SK [२४५|१९] किमत्र ज्ञापकम् / सूत्रं युक्तिश्च /
7400 SK [२४५|१९-२४५|२१] सूत्रं तावत् ᳚तत्किं मन्यसे माहकीमातः यानि त्वया चक्षुषा रूपाणि न दृष्टानि न दृष्टपूर्वाणि न पश्यसि नापि ते एवं भवति पश्येयमिति /
7401 SK [२४५|२१-२४५|२२] अपि नु ते तन्निदानमुत्पन्नश्छन्दो वा रागो वा स्नेहो वा येन वा आलयो वा नीयतिरध्यवसानं वा /
7402 SK [२४५|२२] नो भदन्त /
7403 SK [२४५|२२-२४५|२४] ये त्वया श्रोत्रेण शब्दा न श्रुता न श्रुतपूर्वा विस्तरेण यावन्मनसा धर्मा न विज्ञाता विस्तरेण यावन्नो भदन्त /
7404 SK [२४५|२४-२४५|२५] अत्र च ते माहकीमातर्दृष्टे दृष्टमात्रं भविष्यति श्रुते मते विज्ञाते विज्ञातपात्रमित्यु᳚क्तम् /
7405 SK [२४५|२५-२४५|२६] अतस्त्रिषु विषयेषु दृष्टश्रुतविज्ञातशब्दापदेशाद्गन्धादिषु मताख्या अम्यते /
7406 SK [२४५|२६-२४५|२७] अत एवं चानिष्यमाणे दृष्टादिभावबाह्यत्वात् गन्धादिषु व्यवहारो न स्यादित्येषा युक्तिः /
7407 SK [२४५|२७] सूत्रं तावज्ज्ञापकमन्यार्थत्वात् /
7408 SK [२४५|२७-२४५|२८] न ह्यत्र सूत्रे भगवान् व्यवहारानां लक्षाणं शास्ति स्म /
7409 SK [२४५|२८] किं तर्हि /
7410 SK [२४५|२८-२४६|०१] अत्र च ते षड्विधे विषये चतुर्षु व्यवहारेषु दृष्टादिव्यवहारमात्रं भविष्यति न प्रियाप्रियनिमित्ताध्यारोप इत्ययमत्र सूत्रार्थो दृश्यते /
7411 SK [२४६|०१] किं पुनर्डृष्टं किं च यावद्विज्ञातम् / केचित्तावदाहुः /
7412 SK [२४६|०१-२४६|०२] ᳚यत् पञ्चभिरिन्द्रियैः प्रत्यक्षं तद्दृष्टम् /
7413 SK [२४६|०२] यत् परत आगमितं तच्छ्रुतम् /
7414 SK [२४६|०२-२४६|०३] यत् स्वयं युक्त्यनुमानतो रुचितं तन्मतम् /
7415 SK [२४६|०३-२४६|०४] यन्मनःप्रत्यक्षभावेनाधिष्टितं प्रत्यात्मवेद्यं तद्विज्ञातमि᳚ति /
7416 SK [२४६|०४] एते च पञ्च विषयाः प्रत्येकं दृष्टा इति वा कृत्वा व्यवह्रिल्यन्ते /
7417 SK [२४६|०५] श्रुता मता विज्ञाता इति वा /
7418 SK [२४६|०५-२४६|०६] षष्ठो ऽन्यत्र दृष्टादिति नास्ति गन्धादिषु व्यवहाराभावप्रसङ्गः /
7419 SK [२४६|०६] तस्माद्युक्तिंरप्येषा युक्तिर्न भवति /
7420 SK [२४६|०६-२४६|०७] पूर्वाचार्या एवमाहुः /
7421 SK [२४६|०७] यद् दृष्टं यत् प्रत्यक्षीकृतं चक्षुषा / श्रुतं यच् छ्रोत्रेण परतश्चाखरितम् /
7422 SK [२४६|०८] मतं यत् स्वयं चिन्तितम् / विज्ञातं यत् प्रत्यात्मप्रतिसंवेदितमधिगतं चोत्पन्नम् /
7423 SK [२४६|०९] प्रसङ्गेन शास्त्रं प्रवर्तयताम् / यः कायेनान्यथात्वं प्राप्येत्स्यान्मृषावादः /
7424 SK [२४६|१०] स्यात् / अत एवोच्यते / ᳚स्यिआन्न कायेन पराक्रमेत प्राणातिपातावद्येन च स्पृश्येत /
7425 SK [२४६|११] स्याद्वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत मृषावादावद्येन च स्पृश्येत /
7426 SK [२४६|११-२४६|१२] स्यात् कायेन पराक्रमेत स्यान्न कायेन न वाचा पराक्रक्मेत उभयावद्येन च स्पृश्येत /
7427 SK [२४६|१३] स्यात् ऋशीणां मनःप्रदोषेण पोषधनिदर्शनं चात्रे᳚ति /
7428 SK [२४६|१३-२४६|१४] यद्युभयथा ऽपि न पराक्रमेत न चाविज्ञप्तिकास्त्यविज्ञप्तिः कामावचरी कथं तयोः कर्मपथः सिद्ध्यति /
7429 SK [२४६|१५] कर्तव्यो ऽत्र यत्नः / गतो मृषावादः /
7430 SK [२४६|१६] पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने /
7431 SK [२४६|१७] यत् क्लिष्टचित्तस्य परेषां भेदाय वचनमप्रीतये तत् पैशुन्यम् /
7432 SK [२४६|१७-२४६|१८] अर्थभिज्ञ इति वर्तते अभ्रान्त्येति च /
7433 SK [२४६|१९] पारुष्यमप्रियं
7434 SK [२४६|२०] वचनत् / क्लिष्टचित्तस्येति वर्तते / अर्थाभिज्ञे अभ्रान्त्येति च /
7435 SK [२४६|२०-२४६|२२] यत् क्लिष्टचित्तस्य परेषामप्रियवचनमर्थाभिज्ञे तत्रैव च यत् विवक्षितं तत् पारुष्यम् /
7436 SK [२४६|२३] सर्वं क्लिष्टं भिन्न प्रलापिता // VAक्K_४.७६ //
7437 SK [२४६|२४] वाक्यमित्यधिकारो वर्तते / सर्वं क्लिष्टं वचनं संभिन्नप्रलापः /
7438 SK [२४६|२४-२४६|२५] सैव संभिन्नप्रलापिता /
7439 SK [२४६|२५] तद्योगेन हि संभिन्नप्रलापी भवति /
7440 SK [२४७|०१] अतो ऽन्यत् क्लिष्टमित्यन्ये
7441 SK [२४७|०२] अतो मृषावादादिकाद्वाक्कर्मणो यदन्यत् क्लिष्टं वचनं तत्संभिन्नप्रलाप इत्यपरे /
7442 SK [२४७|०३] लपनागीतनाट्यवत् /
7443 SK [२४७|०४] कुशास्त्रवच्च
7444 SK [२४७|०५-२४७|०६] तद्यथा भिक्षुर्मिथ्याजीवी लपनां करोति रक्ताश्च केचित् गायन्ति नाटच्ये च नटाः परेषां रञ्जनार्थं प्रलपन्ति /
7445 SK [२४७|०६] कुक्शास्त्राणि च तद्दृष्टयो ऽपि गदन्ति /
7446 SK [२४७|०६-२४७|०७] एवं परिदेवसंगणिकादिकमपि यदन्यन्मृषावादादिभ्यः क्लिष्टं वाक्कर्म तत्संभिन्नप्रलापः /
7447 SK [२४७|०७-२४७|०८] कथं चक्रवर्तिकाले गीतं चास्ति न च संभिन्नप्रलापः /
7448 SK [२४७|०८-२४७|०९] नैष्क्रम्योपसंहितानि हि तदानीं गियन्ते स्म न ग्राम्यरसोपसंहितानि /
7449 SK [२४७|०९-२४७|१०] तदाप्यावाहविवाहद्यभिलापसद्भावादस्ति संभिन्नप्रलापो न कर्मपथ इत्यपरे /
7450 SK [२४७|११] अभिध्या तु परस्वविषमस्पृहा // VAक्K_४.७७ //
7451 SK [२४७|१२-२४७|१३] अहो वत यत् परेषां तन्मम स्यादिति परस्वेभ्यो या विषमेणान्यायेन स्पृहा स्वीकरनेच्छा बलाद्वा चोपायाद्वा सा ऽभिध्या कर्मपथः /
7452 SK [२४७|१३-२४७|१४] सर्वैव कामावचरी तृष्णाभिध्येत्यपरे /
7453 SK [२४७|१४-२४७|१५] तथा हि निवरणाधिकारे कामच्छन्दमधिकृत्योक्तं सूत्रे ᳚सो ऽभिध्यां लोके प्रहाये᳚ त्येवमादि /
7454 SK [२४७|१५-२४७|१६] यद्यपि सर्वाभिध्या नतु सर्वा कर्मपथ औदारिकदुष्चरितसंग्रहादित्यपरे /
7455 SK [२४७|१६-२४७|१७ मा भूच्चक्रवर्तिनामप्युत्तरकौरवानां पाभिध्या कर्मपथ इति /
7456 SK [२४७|१८] व्यापादः सत्त्वविद्वेषः
7457 SK [२४७|१९] सत्त्वेषु विद्वेषो व्यापादः परपीडाकारप्रवृत्तः /
7458 SK [२४७|२०] नास्तिदृष्टिः शुभाशुभे /
7459 SK [२४७|२१] मिथ्यादृष्टिः
7460 SK [२४७|२२] शुभे चाशुभे च कर्मणि या नास्तीति दृष्टिः सा मिथ्यादृष्टिः /
7461 SK [२४७|२२-२४७|२४] तद्यथा ᳚नास्ति दत्तं नास्तीष्टं नास्ति हुतं नास्ति सुचरितं नास्ति दुश्चरितमित्येवमादि यावन्न सन्ति लोके ऽहन्त᳚ इति /
7462 SK [२४७|२४-२४७|२५] सैषा साकल्येन कर्मफलार्यापवादिका मिथ्यादृष्टिर्भवति /
7463 SK [२४७|२५] आदिमात्रं तु श्लोके दर्शितम् / एवंलक्षणा एते दश कर्मपथाः /
7464 SK [२४८|०१] कर्मपथा इति कोऽर्थः /
7465 SK [२४८|०२] त्रयो ह्यत्र पन्थानः सप्त कर्म च // VAक्K_४.७८ //
7466 SK [२४८|०३] अभिध्यादयो हि त्रयः कर्मणः पन्थान इति कर्मपथाः /
7467 SK [२४८|०३-२४८|०४] तत्संप्रयोगिणी हि चेतना तेषां वाहेन वहति तेषां गत्या गच्छति /
7468 SK [२४८|०४] तद्वशेन तथाभिसंस्करणात् /
7469 SK [२४८|०४-२४८|०६] सप्त तु प्राणातिपातादयः कर्म च कायवाक्कर्मत्वात् कर्मणश्च पन्थान इति कर्मपथास्तत्समुत्थानचेतनायास्तानधिष्ठाय प्रवृत्तेरिति /
7470 SK [२४८|०६] कर्मपथाश्चकर्म च कर्मपथाश्चेति कर्मपथाः /
7471 SK [२४८|०७] असरूपाणामप्येकशेषसिद्धेः /
7472 SK [२४८|०७-२४८|०८] एवमनभिध्यादयः प्राणातिपातविरत्यादयश्च ज्ञेयाः /
7473 SK [२४८|०८-२४८|०९] प्रयोगपृष्टानि कर्माणि कर्मपथाः यस्मात्तदर्थं तन्मूलिका च तेषां प्रवृत्तिः /
7474 SK [२४८|०९-२४८|०९-] यथौदारिकं च ग्रहणादित्युक्तं प्राक् /
7475 SK [२४८|०९-२४८|१०] येषां चोत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षापकर्षौ लोके भवतः /
7476 SK [२४८|१०-२४८|११] ये तर्हि दार्ष्टान्तिका अभिध्यादीनेव मनस्कर्मेच्छन्ति तेषां ते कथं कर्मपथाः /
7477 SK [२४८|११] त एव हि प्रष्टव्याः /
7478 SK [२४८|१२] अपि तु शक्यं वक्तुं कर्म च ते पन्थानश्च सुगतिदुर्गतीनामिति कर्मपथाः /
7479 SK [२४८|१२-२४८|१३] इतरेतरावाहनाद्वा /
7480 SK [२४८|१३-२४८|१४] य एते दशाकुशलाः कर्मपथाः सर्वे एते कुशलानां कर्मणां समुदाचारविरोधिनः /
7481 SK [२४८|१५] मूलच्छेदस्त्वसद्दृष्ट्या
7482 SK [२४८|१६] कुशलमूलच्छेदस्तु मिथ्यादृष्ट्या भवत्यधिमात्रपरिपूर्णया /
7483 SK [२४८|१६-२४८|१७] यत्तर्हि शास्त्र उक्तं ᳚कतमान्यधिमात्राण्यकुशलमूलानि /
7484 SK [२४८|१७-२४८|१८] यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति कामवैराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत उपलिखती᳚ति /
7485 SK [२४८|१८-२४८|२०] अकुशलमूलाध्याहृतत्वात् मिथ्यादृष्टेस्तेष्वेव तत्कर्मापदेश एष क्रियते तद्यथाग्निरेव ग्रामं दहनि चौरास्तु तस्याध्याहारका इति चौरैर्ग्रामो दग्ध इत्युच्यते /
7486 SK [२४८|२१] कतमेषां कुशलमूलानां समुच्छेदो भवति /
7487 SK [२४८|२२] कामाप्तोत्पत्तिलाभिनाम् /
7488 SK [२४८|२३] कामावचराणि कुशलमूलानि समुछिद्यन्ते /
7489 SK [२४८|२३-२४८|२४] रूपारूप्यावचरैरसमन्वागतत्वात् /
7490 SK [२४८|२४] प्रज्ञप्तिभाष्यं तर्हि कथं नीयते /
7491 SK [२४८|२४-२४८|२५] ᳚इयता ऽनेन पुद्गलेन त्रैधातुकानि कुशलमूलालि समुच्छिन्नानि भवन्ती᳚ति /
7492 SK [२४८|२५-२४९|०१] तत्प्राप्तिदूरीकरणमभिसंधायैतदुक्तम् /
7493 SK [२४९|०१] संततेस्तदभाजनत्वापादनात् /
7494 SK [२४९|०१-२४९|०२] उपपत्तिप्रतिलाभिकान्येव च समुच्छिद्यन्ते /
7495 SK [२४९|०२] प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् /
7496 SK [२४९|०२-२४९|०३] किमालम्बनया मिथ्यादृष्ट्या समुच्छिद्यन्ते
7497 SK [२४९|०४] फलहेत्वपवादिन्या
7498 SK [२४९|०५-२४९|०६] या च हेतुमपवदते नास्ति सुचरितं नास्ति दुश्चरितमिति या च फलं नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाक इति /
7499 SK [२४९|०६-२४९|०७] आनन्तर्यविमुक्तिमार्गस्थानीये एते इत्यपरे /
7500 SK [२४९|०७-२४९|०८] सास्रवालम्बनयैव नानास्रवालम्बनया सभागधात्वालम्बनयैव च न विसभागधात्वालम्बनया /
7501 SK [२४९|०८] संप्रयोगमात्रानुशायित्वेन दुर्बलत्वादित्येके /
7502 SK [२४९|०८-२४९|०९] एवं तु वर्णयन्ति /
7504 SK [२४९|११] नवप्रकाराण्यपि कुशलमूलानि सकृत्समुच्छिद्यन्ते / दर्शनप्रहातव्यवदित्येके /
7505 SK [२४९|११-२४९|१२] एवं तु वर्णयन्ति /
7507 SK [२४९|१४] नवप्रकारया मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते /
7508 SK [२४९|१४-२४९|१५] भावना हेयक्लेशवत् यावदधिमात्राधिमात्रया मृदुमृदूनीति /
7509 SK [२४९|१५-२४९|१६] एवमयं ग्रन्थः पालितो भवति /
7510 SK [२४९|१६] ᳚कतमान्यणुसहगतानि कुशलमूलानि / आह /
7511 SK [२४९|१६-२४९|१८] यैरकुशलमूलैः कुशलानि समुच्छिन्नानि सर्वपश्चात् विजहाति यैः विकीर्णैः समुच्छिन्न कुशलमूल इति संख्यां गच्छती᳚ति /
7512 SK [२४९|१८] अस्य तर्हि ग्रन्थस्य को नयः /
7513 SK [२४९|१८-२४९|१९] ᳚कतमान्यधिंमात्राधिमात्राण्यकुशलमूलानि /
7514 SK [२४९|१९-२४९|२०] यैरकुक्शलमूलैः कुशलमूलानि समुच्छिनत्ती᳚ति /
7515 SK [२४९|२०] समाप्तिमेतत् संधायोक्तम् / तैनिरवशेषच्छेदात् /
7516 SK [२४९|२०-२४९|२१] एको ऽपि हि प्रकार स्तेषामसमुच्छिन्नः सर्वेषां पुनरुत्पत्तौ हेतुः स्यादिति /
7517 SK [२४९|२१-२४९|२२] दर्शनमार्गवदभ्युत्थानेन च्छिनत्तीत्येके /
7518 SK [२४९|२२] एवं तु वर्णयन्त्युभयथेति /
7519 SK [२४९|२२-२४९|२३] पूर्वं संवरं विजहाति पश्चात् कुशलमूलानि समुच्छिनत्तीत्येके /
7520 SK [२४९|२३] एवं तु वर्णयन्ति /
7521 SK [२४९|२३-२४९|२४] यस्य चित्तस्य फलसंवरस्तत्त्यागात्तस्य त्याग इति /
7522 SK [२४९|२४] अथ कुशलमूलानि समुच्छिद्यन्ते
7523 SK [२४९|२५] नृषु // VAक्K_४.७९ //
7524 SK [२४९|२६] मनुष्येष्वेव नापायेषु / क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृढत्वात् /
7525 SK [२४९|२६-२४९|२७] न देवेषु कर्मफल प्रत्यक्षत्वात् /
7526 SK [२४९|२७] त्रिषु द्वीपेषु नोत्तरकुरौ / अपापाशयत्वात् जम्बूद्वीप एवेत्यपरे /
7527 SK [२४९|२८] तेषामयं ग्रन्थो विरुध्यते / ᳚जाम्बूद्वीपकः सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः /
7528 SK [२५०|०१] एवं पूर्वविदेहको गोदानीयक᳚ इति / तानि पुनः
7529 SK [२५०|०२] छिनत्ति स्त्री पुमान्
7530 SK [२५०|०३] स्त्रि च समुच्छिनत्ति पुरुषश्च मन्दच्छन्दवीर्यप्रज्ञत्वात् न स्त्रीत्यपरे
7531 SK [२५०|०३-२५०|०४] अयं ग्रन्थो विरुध्येत
7532 SK [२५०|०४-२५०|०५] ᳚यः स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभिरिन्द्रियैः समन्वागत᳚ इति
7533 SK [२५०|०५] तेषामपि तृष्णाचरितो न समुच्छिनत्ति
7534 SK [२५०|०५-२५०|०६] चलाशयत्वात्
7536 SK [२५०|०७] दृष्टिचरितः
7537 SK [२५०|०८] दृढगूढपापाशयत्वात् अत एव न शण्डादयस्तृष्णाचरिते पक्ष्यत्वात्
7538 SK [२५०|०८-२५०|०९] आपायिकवच्च
7539 SK [२५०|०९] किंस्वभावः कुशलमूलसमुच्छेदः
7540 SK [२५०|१०] सो ऽसमन्वयः
7541 SK [२५०|११] यदा हि कुशलमूलानां प्राप्तिर्न पुनरुत्पद्यते अप्राप्तिरप्युत्पद्यते /
7542 SK [२५०|११-२५०|१२] तस्मिन्नसमन्वागम उत्पन्ने समुच्छिन्नानि कुशलमूलान्युच्यन्ते /
7543 SK [२५०|१२-२५०|१३] तेषां समुच्छिन्नानां कथं पुनः प्रतिसंधिः
7544 SK [२५०|१४] संधिः काङ्क्षास्तिदृष्टिभ्यां /
7545 SK [२५०|१५] यदा ऽस्य हेतुफले विचिकित्सा चोत्पद्यते / अष्टिदृष्टिर्वा सम्यक् दृष्टिरित्यर्थः /
7546 SK [२५०|१६] तदा पुनः तत्प्राप्तिसमुत्पादात् प्रतिसंधितानि कुशलमूलान्युच्यन्ते /
7547 SK [२५०|१६-२५०|१७] नवप्रकाराणां युगपत् प्रतिसंधानं क्रमेण तु संमुखीभाव आरोग्यबललाभवत् /
7548 SK [२५०|१७-२५०|१८] स पुनस्तेषां प्रतिसंधिः
7549 SK [२५०|१९] नेहानन्तर्यकारिणः // VAक्K_४.८० //
7550 SK [२५०|२०] अन्यस्यैवेह स्यादानन्तर्यकारिणस्तु नेह स्यात् /
7551 SK [२५०|२०-२५०|२२] तमेव संधायोक्तम् ᳚अभव्योऽयं पुद्गलो दृष्ट एव धर्मे कुशलमूलानि प्रतिसंधातुं नियतमयं नवकेभ्यश्च्यवमानो वा उपपद्यमानो वा कुशलमूलानि प्रतिसंधास्यति᳚ इति /
7552 SK [२५०|२२-२५०|२४] उपपद्यमानो ऽन्तराभवस्थश्च्यवमानश्च्युत्यभिमुखस्तत्र पुनर्यो हेतुबलेन समुच्छिनत्ति स च्यवमानः प्रतिसंदधाति यः प्रत्ययबलेन स उपपद्यमानः /
7553 SK [२५०|२४-२५०|२५] एवं यः स्वबलेन परबलेन /
7555 SK [२५०|२५-२५०|२६] य आशयविपन्नः समुच्छिनत्ति स दृष्टे धर्मे प्रतिसंदधाति /
7556 SK [२५०|२६] य आशयप्रयोगविपन्नः स भेदात्कायस्येति /
7557 SK [२५०|२६-२५१|०१] एवं यो दृष्टिविपन्नो दृष्टि शीलविपन्न इति /
7558 SK [२५१|०१] स्यात्समुच्छिन्न कुशलमूलो न मिथ्यात्वनियत इति /
7559 SK [२५१|०२] चतुष्कोटिकम् / प्रथमा कोटिः पूरणादयः / द्वितीया ऽजातशत्रुः / तृतीया देवदत्तः /
7560 SK [२५१|०३] चतुर्थ्येतानाकारान् स्थापयित्वा /
7561 SK [२५१|०३-२५१|०४] कुशलमूलसमुच्छेदिकाया मिथ्यादृष्टेरवीचौ विपाकः /
7562 SK [२५१|०४] आनन्तर्यकारिणां तु तत्र वा ऽन्यत्र वा नरके /
7563 SK [२५१|०५] कर्मपथप्रसङ्ग एवायं वर्तते /
7564 SK [२५१|०५-२५१|०६] तत्र वक्तव्यं कतिभिः कर्मपथैः सह चेतना युगपदुत्पन्ना वर्तत इति /
7565 SK [२५१|०७] युगपद्यावदष्टाभिरशुभैः सह वर्तते /
7567 SK [२५१|०९] एकेन तावत्सह वर्तते /
7568 SK [२५१|०९-२५१|१०] विना ऽन्येनाभिध्यादिसंमुखीभावे अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने /
7569 SK [२५१|१०] द्वभ्यां सह वर्तते /
7570 SK [२५१|१०-२५१|११] व्यापन्नचित्तस्य प्राणिवधे अभिध्याविष्टस्य वा ऽदत्तादाने काममिथ्याचारे संभिन्नप्रलापे वा /
7571 SK [२५१|१२] त्रिभिः सह वर्तते / व्यापन्नचित्तस्य परकीय प्राणिमारणापहरणे युगपत् /
7572 SK [२५१|१२-२५१|१३] न तर्हीदानीमदत्तादानस्य लोभेनैव निष्टा सिध्यति /
7573 SK [२५१|१३-२५१|१४] अनन्यचित्तस्य तत्समाप्तौ स नियमो ज्ञेयः /
7574 SK [२५१|१४-२५१|१५] अभिध्याद्याविष्टस्य च तत्प्रयोगेण रूपिद्वयनिष्ठागमने त्रिभिरेव /
7575 SK [२५१|१५] चतुर्भिः सह वर्तते /
7576 SK [२५१|१५-२५१|१६] भेदाभिप्रायस्यानृत वचने परुषवचने वा /
7577 SK [२५१|१६] तत्र हिमानस एको भवति वाचिकास्त्रयः /
7578 SK [२५१|१६-२५१|१७] अभिध्यादिगतस्य वा तत्प्रयोगेणा न्यरूपित्रय निष्ठागमने /
7579 SK [२५१|१७] एवं पण्चषट्सप्तभिर्यो जयितव्या /
7580 SK [२५१|१७-२५१|१८] अष्टाभिः सह वर्तते /
7581 SK [२५१|१८] षट्सु प्रयोग्गं कृत्वा स्वयं कामभिथ्याचारं कुर्वतः समं निष्ठागमने /
7582 SK [२५१|१९] एवं तावदकुशलैः /
7583 SK [२५१|२०] दशभिर्यावच्छुभैः
7584 SK [२५१|२१] कुशलैः पुनः कर्मपथर्यावत् दशभिः सह चेतना वर्तत इत्युत्सर्गं कृत्वा ऽपवादं करोति
7585 SK [२५१|२२] नैकाष्टपञ्चभिः // VAक्K_४.८१ //
7586 SK [२५१|२३] एकेनाष्टाभि पञ्चभिश्च कर्मपथैः सह न वर्तते / तत्र द्वाभ्यां सह वर्तते /
7587 SK [२५१|२३-२५२|०१] कुशलेषु पञ्चसु विज्ञानेषु /
7588 SK [२५२|०१] आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोः /
7589 SK [२५२|०१-२५२|०२] त्रिभिः सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने /
7590 SK [२५२|०२-२५२|०३] चतुर्भिरकुशलाव्याकृतचित्तस्यो पासकश्रामणेरसंवरसमादाने /
7591 SK [२५२|०३] षड्भिः कुशलेषु पञ्चषु विज्ञानकायेषु तत्समादाने /
7592 SK [२५२|०३-२५२|०४] सप्तभिः कुशले मनोविज्ञाने तत्समादान एव अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने /
7593 SK [२५२|०५] नवभिः कुशलेषु पञ्चषु विज्ञानेषु /
7594 SK [२५२|०५-२५२|०६] तत्समादाने क्षयानुत्पादज्ञानसंप्रयुक्ते च मनोविज्ञाने तस्मिन्नेव च ध्यानसंगृहीते /
7595 SK [२५२|०६-२५२|०७] दशभिस्ततो ऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव /
7596 SK [२५२|०७-२५२|०९] सर्वा च ध्यानानास्रव संवरसहवर्तिनी चेतना ऽन्यत्र क्षयानुत्पादज्ञानाभ्याम् संवरनिर्मुक्तेन त्वेकेनापि सह स्यादन्य चित्तस्यैकाङ्गविरतिसमादाने /
7597 SK [२५२|०९-२५२|१०] पञ्चाष्टाभिरपि स्यात्कुशले मनोविज्ञाने द्विपञ्चाङ्गसमादाने युगपत् /
7598 SK [२५२|११-२५२|१२] कस्यां गतौ कति कर्मपथा अकुशला कुशला वा संमुखीभावतः समन्वागमतो वा /
7599 SK [२५२|१३] भिन्नप्रलापपारुष्यव्यापादा नरके द्विधा /
7600 SK [२५२|१४] इत्येते त्रयः कर्मपथा नरके द्वाभ्यां सप्रकाराभ्यां सन्ति /
7601 SK [२५२|१४-२५२|१५] संमुखीभावतः समन्वागमभावतश्च /
7602 SK [२५२|१५] परिदेवनात्संभिन्नप्रलापः / परस्परपरितापनात्पारुष्यं रुक्षसंतानतया /
7603 SK [२५२|१६] परस्परद्वेषाद्व्यापादः /
7604 SK [२५२|१७] समन्वागमतो ऽभिध्यामिथ्यादृष्टी /
7605 SK [२५२|१८] न संमुखीभावतः / रञ्जनीयवस्त्वभावात्कर्मफलप्रत्यक्षत्वाच्च /
7606 SK [२५२|१८-२५२|१९] कर्मक्षयेण मरणान्न प्राणातिपातः /
7607 SK [२५२|१९-२५२|२०] द्रव्यस्त्रीपरिग्रहाभावान्नदत्तादानकाममिथ्याचारौ प्रयोजनाभावान्न मृषावादः /
7608 SK [२५२|२०] अत एव न पैशुन्यं नित्यभिन्नत्वाच्च /
7609 SK [२५२|२१] कुरौ त्रयः // VAक्K_४.८२ //
7610 SK [२५२|२२] समन्वागमत इति वर्तते / अभिध्याव्यापादमिथ्यादृष्टयो न संमुखीभावतः /
7611 SK [२५२|२३-२५२|२४] अममापरिग्रहत्वात् स्निग्ध संतानत्वादाघातवस्त्वभावादपापाशयत्वाच्च /
7612 SK [२५२|२५] सप्तमः स्वयमप्यत्र
7613 SK [२५२|२६] असंभिन्नप्रलापः संमुखीभावतो ऽप्यस्ति / ते हि क्लिष्टचित्ताः कदाचित् गायन्ति /
7614 SK [२५३|०१] अपापाशयत्वात् न प्राणतिपातादयः /
7615 SK [२५३|०१-२५३|०२] नियतायुष्कत्वाद्द्रव्यस्त्रीपरिग्रहाभावात् प्रयोजनाभावाच्च /
7616 SK [२५३|०२] कथमेषामब्रह्मचर्यम् /
7617 SK [२५३|०२-२५३|०३] ते खलु यया स्त्रिया सार्धं रन्तुकामा भवन्ति तां बाहौ गृहीत्वा वृक्षमूलमुपसर्पन्ति /
7618 SK [२५३|०३-२५३|०४] गम्या चेत् वृक्षश्छादयति तां ते गच्छन्ति /
7619 SK [२५३|०४] अगम्या चेन्न छादयति तां ते न गच्छन्ति /
7620 SK [२५३|०५] कामे ऽन्यत्र दशाशुभाः /
7621 SK [२५३|०६] स्वयमपीति वर्तते /
7622 SK [२५३|०६-२५३|०७] नरकोत्तरकुरुभ्यामन्यत्र कामधातौ दशाकुशलाः कर्मपथाः संमुखीभावतो ऽपि विद्यन्ते /
7623 SK [२५३|०७] तिर्यक्प्रेतदेवेष्वसंवरनिर्मुक्ताः / [२५३|०७-२५३|०८] मनुष्येष्वसंवरसंगृहीता अपि /
7624 SK [२५३|०८] यद्यपि देवो देवं न मारयति अन्यगतिस्थं तु मारयति /
7625 SK [२५३|०८-२५३|०९] देवा अपि शिरोमध्यच्छेदात् भ्रियन्त इत्यपरे /
7626 SK [२५३|०९] उक्ता अशुभाः /
7627 SK [२५३|१०] शुभास्त्रयस्तु सर्वत्र संमुखीभाव लाभतः // VAक्K_४.८३ //
7628 SK [२५३|११-२५३|१२] पञ्चसु गतिषु त्रैधातुके सर्वत्रानभिध्या ऽव्यापादसम्यग्दृष्ट्यः संमुखीभावतः समन्वागमतश्च विद्यन्ते /
7629 SK [२५३|१३] आरुप्यासंज्ञिसत्त्वेषु लाभतः सप्त
7630 SK [२५३|१४] कायिकवाचिकाः सप्त कुशला आरूप्येष्वसंज्ञिसत्त्वेषु समन्वागमत एव /
7631 SK [२५३|१४-२५३|१६] आरूप्योओपपन्नानामार्याणामतीतानागतानास्रवसंवरसमन्वागमात् /
7632 SK [२५३|१६] असंज्ञिसत्त्वानां च ध्यानसंवरसमन्वागमात् /
7633 SK [२५३|१६-२५३|१७] यद्भूम्या श्रयमार्येणानास्रवं शीलमुत्पादितं निरोधितं भवति तेनारूप्येष्वतीतेन समन्वागतो भवति /
7634 SK [२५३|१८] पञ्च भूम्याश्रयेण त्वनागतेन /
7636 SK [२५३|२०] संमुखीभावतश्चापि हित्वा सनरकान् कुरुन् // VAक्K_४.८४ //
7637 SK [२५३|२१] शेसः कृतः शेषितः / यो ऽन्यो धातुः शेषितो गतिर्वा /
7638 SK [२५३|२१-२५३|२२] तत्रैते सप्त कुशलाः कर्मपथाः संमुखीभावतो ऽपि संविद्यन्ते ऽन्यत्र नरकोत्तरकुरुभ्यः /
7639 SK [२५३|२२-२५३|२३] ते पुनस्तिर्यक्प्रेतेषु संवरनिर्मुक्ता रूपधातौ तु संवरसंगृहीता अन्यत्रोभयथा /
7640 SK [२५३|२३-२५३|२४] त एते दशाकुशलाः कर्मपथाः कुशलाश्च
7641 SK [२५३|२५] सर्वे ऽधिपतिनिष्यन्दविपाकफलदा मताः /
7642 SK [२५३|२६] अकुशलैस्तावत्सर्वैरेवासेवितभावितबहुलीकृतैः नरकेष्रपपद्यते / तदेषां विपाकफलम् /
7643 SK [२५४|०१-२५४|०५] स चेदित्थं त्वमागच्छति मनुष्याणां सभागतां प्रणातिपातेनाल्पायुर्भवति अदत्तादानेन भोगव्यसनी भवतिकाममिथ्याचारेन स संपन्नदारः मृषावादेनाभ्याख्यानबहुलः पैशुन्येन मित्रभेदो ऽस्य भवति पारुष्येणामनोज्ञशब्दश्रवणं संभिन्नप्रलापेनानादेयवाक्यः अभिध्यया तीव्ररागः व्यापादेन तीव्रद्वेषः मिथ्यादृष्ट्या तीव्रमोहः /
7644 SK [२५४|०५] तस्या मोहभूयस्त्वात् / इदमेषां निःष्यन्दफलम् /
7645 SK [२५४|०५-२५४|०६] अल्पमप्यायुर्मनुष्येषु कुशलफलम् /
7646 SK [२५४|०६] तत् कथं प्राणातिपातस्य निःष्यन्दफलं भवति /
7647 SK [२५४|०६-२५४|०७] नोच्यते तदेवायुस्तस्य फलम्
7648 SK [२५४|०७] किं तर्हि / तेनाल्पायुर्भवतीति /
7649 SK [२५४|०७-२५४|०८] अतो ऽन्तरायहेतुः प्राणाति पातस्तस्यायुषो भवतीति वेदितव्यम् /
7650 SK [२५४|०८-२५४|०९] प्राणातीपातेनात्यासेवितेन बाह्या भावा अल्पौजसो भवन्तीति /
7651 SK [२५४|०९-२५४|१२] अदत्तादानेनाशनिरजोबहुलाः काममिथ्याचारेण रजो ऽवकीर्णाः मृषावादेन दुर्गन्धाः पैशुन्येनोत्कूलनिकूलाः पारुष्येणोपरजाङ्गला प्रतिकुष्टाः पापभूमयः संभिन्नप्रलापेन विषमर्तुपरिणामाः अभिध्यया शुष्कफलाः व्यापादेन कटुकफला मिथ्यादृष्ट्या ऽल्पफला अफला वा /
7652 SK [२५४|१२] इदमेषामधिपतिफलम् /
7653 SK [२५४|१३] किं तेनैव कर्मणा ऽयमिहाल्पायुर्भवत्यथान्येन / तेनेवेत्येके /
7654 SK [२५४|१३-२५४|१४] तद्विपाकफलमिदं निष्यन्दफलमिति /
7655 SK [२५४|१४] तत्र प्रयोगेणेह मौलेल्नेत्येके /
7656 SK [२५४|१४-२५४|१५] परे सपरिवारग्रहणात्तु प्राणातिपातेनेत्युक्तमिति /
7657 SK [२५४|१५] यदप्येतन्निःष्यन्दफलमुक्तं नैतद्द्वयमतिवर्तते विपाकफलमधिपतिफलं च /
7658 SK [२५४|१६] सादृश्यविशेषात्तु तथोक्तम् /
7659 SK [२५४|१६-२५४|१७] किं पुनः कारणमेषां कर्मपथानामेतत्त्रिविधफलमभिनिवर्तते /
7660 SK [२५४|१७-२५४|१८] प्राणातिपातं हि तावत्कुर्वता मार्यमाणस्य दुःखमुत्पादितं मारितमोजो नाशिमतो ऽस्य
7661 SK [२५४|१९] दुःखनान्मारणादोजोनाशनात्त्रिविधं फलम् // VAक्K_४.८५ //
7662 SK [२५४|२०] परस्य दुःखनाद्विपाकफलेन नरके दुःखितो भवति /
7663 SK [२५४|२०-२५४|२१] मारणन्निःष्यन्दफलेनाल्पायुर्भवति /
7664 SK [२५४|२१] ओजोनाशनादधिपति फलेनाल्पौजसो बाह्या औषधयो भवन्ति /
7665 SK [२५४|२३] एवमन्येष्वपि योज्यम् /
7666 SK [२५४|२३-२५४|२४] एवं कुशलानामपि कर्मपथानां फलत्रयं वेदितव्यम् प्राणातिपातविरत्या आसेवितया भावितया बहुलीकृतया देवेषुपपद्यते /
7667 SK [२५४|२४-२५४|२५] स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवतीत्यकुशलविपर्ययेण सर्वं योजयितव्यम् /
7668 SK [२५४|२५-२५४|२६] यद्भगवता ᳚मिथ्यावांइमथ्याकर्मान्तो मिथ्याजीव᳚ इत्युक्तं को ऽयमन्यस्ताभ्यां मिथ्याजीवः /
7669 SK [२५४|२६] नायमन्यो ऽस्ति / तदेव तु
7670 SK [२५५|०१] लोभजं कायवाक्कर्म मिथ्याजीवः
7671 SK [२५५|०२] द्वेषमोहजौ तु कायवाक्कर्मान्तौ / स चैष ताभ्यां
7672 SK [२५५|०३] पृथक् कृतः /
7673 SK [२५५|०४] दुःशोधत्वात्
7674 SK [२५५|०५] हारी हि लोभधर्मः / तत्समुत्थात् कर्मणश्चित्तं न सुरक्ष्यम् /
7675 SK [२५५|०५-२५५|०६] अत आजीवो दुःखशोध इत्यादरोत्पादनार्थं तत्रासौ पृथग्निर्दिष्टः /
7677 SK [२५५|०७-२५५|०८] ᳚दुःशोधा गृहिणां दृष्टिर्नित्यं विविधदृष्टिना / आजीवो भिक्षुणा चैव परेष्वायत्तदृष्टिने᳚ति //
7678 SK [२५५|०९] परिष्कारलोभोत्थं चेत्
7679 SK [२५५|१०] यो मन्यते जीवित्परिष्कारलोभोत्थमेव कायवाक्कर्म मिथ्याजीवोनान्यत् /
7680 SK [२५५|१०-२५५|११] नह्यात्मरतिनिमित्तं नृत्तगीतादि आजीवयोग इति तत्
7681 SK [२५५|१२] न सूत्रतः // VAक्K_४.८६ //
7682 SK [२५५|१३] शीलस्कन्धिकायां हि भगवता हस्तियुद्ध दर्शनादीन्यपि मिथ्याजीवे न्यस्तानि /
7683 SK [२५५|१४] किं कारणम् / मिथ्यविषयपरिभोगात् / गतमेतत् /
7684 SK [२५४|१५] यानि पूर्वं पञ्च फलान्युक्तानि तेषां कतमत् कर्म कतिभिः फलैः प्रहाणम् /
7685 SK [२५५|१६] प्रहाणमार्गे समले सफलं कर्म पञ्चभिः /
7686 SK [२५५|१७] प्रहाणार्थं मार्गः प्रहीयन्ते वा ऽनेन क्लेशा इति प्रहाणमार्गः आनन्तर्यमार्गः /
7687 SK [२५५|१८] तस्मिन्सास्रवे यत् कर्म तत् पञ्चभिः फलैः सफलम् /
7688 SK [२५५|१८-२५५|१९] तस्य हि विपाकफलं स्वभूमाविष्टो विपाकः /
7689 SK [२५५|१९] निःष्यन्दफलं समाधिजा उत्तरे सदृशा धर्माः /
7690 SK [२५५|१९-२५५|२०] विसंयोगफलं विसंयोग एव /
7691 SK [२५५|२०] यत्तत् प्रहाणम् /
7692 SK [२५५|२०-२५५|२१] पुरुषकारफलं तदाकृष्टा धर्मस्तद्यथा ऽधिमुक्तिमार्गस्तत्सहभुवश्च /
7693 SK [२५५|२१] यच्चानागतं भाव्यते तच्च प्रहाणम् /
7694 SK [२५५|२१-२५५|२२] अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्नवर्ज्याः /
7695 SK [२५५|२३] चतुर्भिरमले
7696 SK [२५५|२४] अनास्रवे प्रहाणमार्गे यत्कर्म तच्चतुर्भिः फलैः सफलं विपाकफलं हित्वा /
7697 SK [२५५|२५] अन्यच्च सास्रवं यच्छुभाशुभम् // VAक्K_४.८७ //
7698 SK [२५६|०१-२५६|०२] यच्चान्यत् प्रहाणमार्गात्सास्रवं कुशलं कर्मं यच्चाकुशलं तदपि चतुर्भिर्विसंयोगफलं हित्वा /
7699 SK [२५६|०३] अनास्रवं पुनः शेषां त्रिभिरव्याकृतं च यत् /
7700 SK [२५६|०४] प्रहाणमार्गादन्यदनास्रवं कर्म अव्याकृतं च कर्म त्रिभिर्विपाकविसंयोगफले हित्वा /
7701 SK [२५६|०५] चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः // VAक्K_४.८८ //
7702 SK [२५६|०६] अनुक्रममिति पश्चाद्वक्ष्यति /
7703 SK [२५६|०६-२५६|०७] कुशल्स्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा /
7704 SK [२५६|०७] अकुशला द्वे पुरुषकाराधिपतिफले /
7705 SK [२५६|०७-२५६|०८] अव्याकृता स्त्रीणि निःष्यन्दविसंयोगफले हित्वा /
7706 SK [२५६|०८] अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम् /
7707 SK [२५६|१०] यथाक्रममित्यर्थः / अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले / [२५६|११] अकुशलास्त्रीणि विपाकविसंयोगफले हित्वा /
7708 SK [२५६|११-२५६|१२] अव्याकृताश्चत्वारि विसंयोगफलं हित्वा /
7709 SK [२५६|१२-२५६|१३] अव्याकृते हि सत्कायान्तग्राहदृष्टी अकुशलानां सर्वत्रगाणां दुःखदर्शन हेयानां च निःष्यन्दफलम् /
7710 SK [२५६|१४] अव्याकृतस्य द्वे त्रीणि त्रीणि चैते शुभादयः // VAक्K_४.८९ //
7711 SK [२५६|१५] अव्याकृतस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफलेल् /
7712 SK [२५६|१५-२५६|१६] अकुशलाः त्रीणि विपाकविसंयोगफले हित्वा /
7713 SK [२५६|१६-२५६|१७] अकुशला हि दुःखदर्शनादिहेया अव्याकृतयोर्दृष्ट्योनिःर्ष्यन्दफलम् /
7714 SK [२५६|१७] अव्याकृता धर्मा एतान्येव त्रीणि /
7715 SK [२५६|१८] सर्वे ऽतीतस्य चत्वारि
7716 SK [२५६|१९] सर्व इति त्रैयध्विकाः /
7717 SK [२५६|१९-२५६|२०] अतीतस्य कर्मणस्त्रैयद्विकाः धर्माश्चत्वारि फलानि /
7718 SK [२५६|२०] विसंयोगफलल्ं हित्वा /
7719 SK [२५६|२१] मध्यमस्याप्यनागताः /
7720 SK [२५६|२२] प्रत्युत्पन्नस्यापि कर्मणो ऽनागता धर्माश्चत्वाति फलान्येतान्येव /
7721 SK [२५६|२३] मध्यमा द्वे
7722 SK [२५६|२४] प्रत्युत्पन्ना धर्माः प्रत्युपन्नस्य द्वे पुरुषकाराधिपतिफले /
7723 SK [२५६|२५] अजातस्य फलानि त्रिण्यनागताः // VAक्K_४.९० //
7724 SK [२५७|०१] अनागतस्यानागतानि त्रीणि फलानि / निःष्यन्दविसंयोगफले हित्वा /
7725 SK [२५७|०२] स्वभूमिधर्माश्चत्वारि
7726 SK [२५७|०३] स्वभूमिकस्य कर्मणः स्वभूमिका धर्माश्चत्वारि फलानि विसंयोगफलं हित्वा /
7727 SK [२५७|०४] त्रीणि द्वे वा ऽन्यभूमिकाः /
7728 SK [२५७|०५] अन्यभूमिका धर्मा अनास्रवाश्चेत् त्रीणि फलानि / विपाकविसंयोगफले हित्वा /
7729 SK [२५७|०६] धात्वपतितत्वात् / सास्रवाश्चेत् द्वे पुरुषकाराधिपतिफले /
7730 SK [२५७|०७] शैक्षस्य त्रीणि शैक्षाद्याः
7731 SK [२५७|०८] शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि विपाकविसंयोगफले हित्वा /
7732 SK [२५७|०८-२५७|०९] अशैक्षा अप्येवम् /
7733 SK [२५७|०९] नैवशैक्षानाशैक्षा अपि विपाकनिःष्यन्दफले हित्वा /
7734 SK [२५७|१०] अशैक्षस्य तु कर्मणः // VAक्K_४.९१ //
7735 SK [२५७|११] धर्माः शैक्षादिका एकं फलं त्रीण्यपि च द्वयम् /
7736 SK [२५७|१२] अशैक्षस्य कर्मणः शैक्षा धर्माः एकमधिपतिफलम् /
7737 SK [२५७|१२-२५७|१३] अशैक्षास्त्रीणि विपाकविसंयोगफले हित्वा /
7738 SK [२५७|१३] नैवशैक्षानाशैक्षा द्वे पुरुषकाराधिपतिफले /
7739 SK [२५७|१४] ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे पञ्च फलानि च // VAक्K_४.९२ //
7740 SK [२५७|१५-२५७|१६] शैक्षाशैक्षाभ्यामन्यस्य कर्मणो नैवशैक्षानाशैक्षस्य शैक्षा धर्मा द्वे पुरुषकाराधिपतिफले /
7741 SK [२५७|१६] अशैक्षा अप्येवम् / नैवशैक्षानाशैक्षाः पञ्च फलानि /
7742 SK [२५७|१७] त्रीणि चत्वारि चैकं च दृग्धेयस्य तदादयः /
7743 SK [२५७|१८] दर्शनहेयस्य कर्मणोदर्शनहेया धर्मास्त्रीणि फलानि विपाकविसंयोगफलेहित्वा /
7744 SK [२५७|१९] भावनाहेयाश्चत्वारि विसंयोगफलं हित्वा / अप्रहेया एकमधिपतिफलम् /
7745 SK [२५७|२०] ते द्वे चत्वार्यथ त्रीणि भावनाहेयकर्मणः // VAक्K_४.९३ //
7746 SK [२५७|२१] भावनाहेयस्य कर्मणो दर्शनहेया धर्मा द्वे पुरुषकाराधिपतिफले /
7747 SK [२५७|२१-२५७|२२] भावनाहेयाश्चत्वारि विसंयोगफलं मुक्त्वा /
7748 SK [२५७|२२] अप्रहेयास्त्रीणि विपाकनिःष्यन्दफले मुक्त्वा /
7749 SK [२५७|२३] अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम् /
7750 SK [२५७|२४] अप्रहेयस्य कर्मणो दर्शनहेया धर्मा एकमधिपतिफलम् /
7751 SK [२५७|२४-२५८|०१] भावनाहेया द्वे पुरुषकाराधिपतिफले /
7752 SK [२५८|०१] अप्रहेयाश्चत्वारि विपाकफलं मुक्त्वा /
7753 SK [२५८|०१-२५८|०२] पुनर्यथाक्रमग्रहणमाद्यन्तवन्मध्ये ऽपि ज्ञापनार्थम् /
7754 SK [२५८|०२] एष हि पेयालधर्मः /
7755 SK [२५८|०३] कर्मनिर्देशप्रसङ्गेनेदमपि परिप्रश्न्यते /
7756 SK [२५८|०३-२५८|०४] शास्त्रेषु अयोगविहितं योगविहितम्, नैवयोगविहितं नायोगविहितं च कर्मोक्तम् /
7757 SK [२५८|०४] तस्य किं लक्षणम् /
7758 SK [२५८|०५] अयोगविहितं क्लिष्टं विधिभ्रष्टं च केचन // VAक्K_४.९४ //
7759 SK [२५८|०६] क्लिष्टं कर्मायोगविहितमयोनिशोमनस्कारसंभूतत्वादित्येके /
7760 SK [२५८|०७] विधिभ्रष्टमपीत्यपरे /
7761 SK [२५८|०७-२५८|०८] येन यथा गन्तव्यं स्थातव्यं भोक्तव्यं प्रविचरितव्यमित्येवमादि /
7762 SK [२५८|०८] तच्चान्यथा विदधाति / तदयुक्तविधानादयोगविहितमिति /
7763 SK [२५८|०८-२५८|०९] कुशलं कर्मं योगविहितमविधिभ्रष्टं चेत्यपरे /
7764 SK [२५८|०९] उभाभ्यामन्यन्नोभयथा /
7765 SK [२५८|०९-२५८|१०] नैवयोगविहितं नायोगविहितम् /
7766 SK [२५८|११] किमेकं कर्म एकमेव जन्माक्षिपति अथ नैकमपि /
7767 SK [२५८|११-२५८|१२] तथा किमेकमपि कर्मैकं जन्माक्षिपत्यथानेकम् /
7768 SK [२५८|१२] एष हि सिद्धान्तः /
7769 SK [२५८|१३] एकं जन्माक्षीपत्येकम्
7770 SK [२५८|१४] एकमेव जन्माक्षिपत्येकमेव च कर्म नानेकं जन्मेति निकायसभागस्याख्या /
7771 SK [२५८|१४-२५८|१५] तत्र हि लब्धे जात इत्युच्यते /
7772 SK [२५८|१५-२५८|१६] यत्तर्हि स्थविरानिरुद्धेनोक्तं ᳚सो ऽहं तस्यैकपिण्डपातस्य विपाकेन सप्तकृत्वस्त्रयस्त्रिंशेषु देवेषूपपन्नो यावदेतह्य्राद्ये शाक्यकुले जात᳚ इति /
7773 SK [२५८|१७] तेन ह्यसौ समृद्विं लब्द्वा जातिस्मरः पुनरन्यत् पुण्यं कृतवान् /
7774 SK [२५८|१७-२५८|१८] तत उत्थानं दर्शयति स्म /
7775 SK [२५८|१८-२५८|१९] यथा मनुष्यो दीनारोत्थो ऽनेन सहस्रं निर्विश्याह एकेन दीनारेणाहमैत दीश्वर्यं प्राप्त इति /
7776 SK [२५८|१९] अपरे त्वाहुः /
7777 SK [२५८|१९-२५८|२०] तस्य तं पिण्डपातमधिष्ठानं कृत्वा दानचेतनानां प्रवाहो महानुत्पन्नः कयाचित् किञ्चित्फलं परिगृहीतमिति /
7778 SK [२५८|२०-२५८|२१] अनेकेनाप्येकमाक्षिप्यते मा भूत् खण्डशो निकायसभागस्याक्षेप इति /
7779 SK [२५८|२२] एकेन तु कर्मणा क्लिष्टस्य निकायसभागस्येष्यते कर्म /
7780 SK [२५८|२३] अनेकं परिपूरकम् /
7781 SK [२५८|२४] यथा चित्रकर एकया वर्त्या रूपमालिख्य वह्वीभिः परिपूरयति /
7782 SK [२५८|२४-२५८|२६] तथा हि तुल्ये मानुष्ये कश्चित् सकलेन्द्रियाङ्गप्रत्यङ्गो भवतिवर्णकृतिप्रमाणबलसंपदा विभ्राजमानः कश्चिदेषां केनचिद्विकलः /
7783 SK [२५८|२६] न च केवलं कर्मैवाक्षेपकं जन्मनः / किं तर्हि /
7784 SK [२५८|२७] अन्यदपि सविपाकम् / सर्वथा तु
7785 SK [२५९|०१] नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च // VAक्K_४.९५ //
7786 SK [२५९|०२] अविपाकाभ्यामप्यचित्तसमापत्तिभ्यां निकायसभागो नाक्षिप्यते /
7787 SK [२५९|०२-२५९|०३] कर्मासहभूतत्वात् /
7788 SK [२५९|०३] प्राप्तिभिश्च कर्मणो ऽनेकफलत्वात् /
7789 SK [२५९|०४] त्रिण्यावरणान्युक्तानि भगवता / कर्मावरणं क्लेशावरणं विपाकावरणं च /
7790 SK [२५९|०४-२५९|०५] तेषां कः स्वभावः /
7791 SK [२५९|०६-२५९|०७] आनन्तर्याणि कर्माणि तीव्रक्लेशो ऽथ दुर्गतिः / कौरवासंज्ञिसत्त्वाश्च मतमावरणत्रयम् // VAक्K_४.९६ //
7792 SK [२५९|०८] पञ्चानन्तर्याणि कर्मावरणम् /
7793 SK [२५९|०८-२५९|०९] तद्यथा मातृवधः पितृवधो ऽर्हद्वधः संघभेदः तथागतश्रीरे दुष्टचित्तरुधिरोत्पादनम् /
7794 SK [२५९|०९] तीव्रक्लेशता क्लेशावरणम् / द्विविधो हि क्लेशः /
7795 SK [२५९|१०] तिव्रश्च य अभिक्ष्णिकः तीक्ष्णश्च यो ऽधिमात्रः / तत्र यस्तीव्रः स आवरणम् /
7796 SK [२५९|११] यथा शण्ठादीनाम् /
7797 SK [२५९|११-२५९|१२] शक्तो ह्यधिमत्रवेगो ऽपि क्लेशः कादाचित्को निहन्तुं नतु समूहो ऽप्याजस्रिकः /
7798 SK [२५९|१२-२५९|१३] आजस्रिके हे क्लेशे तन्निर्घाताय पराक्रमकालं न लभते /
7799 SK [२५९|१३] तस्य मृदुं प्रतीत्य मध्य उपजायते / मध्यं प्रतीत्याधिमात्रः /
7800 SK [२५९|१४-२५९|१५] तस्मात् एवावरणं त्रिविधा दुर्गतिः विपाकावरणं सुगतेश्च प्रदेशः औत्तरकौरवा असंज्ञिसत्त्वाश्च /
7801 SK [२५९|१५] कस्यैतान्यावरणानि /
7802 SK [२५९|१५-२५९|१७] आर्यमार्गस्यार्यमार्गप्रायोगिकाणां च कुशलमूलानाम् अन्यान्यपि ह्यपायादिनियतानि अण्डजसंस्वेदजस्त्रीत्वाष्टमभवयतानि कर्माणि वक्तव्यानि स्युः /
7803 SK [२५९|१७-२५९|१९] यान्येव तु पञ्चभिःकारणैः सुदर्शकानि पज्ञकानि अधिष्ठानतः फलतो गतितः उपपत्तितः पुद्गलतश्च तान्येवोक्तानि नान्यानि /
7804 SK [२५९|१९] क्लेशावरणं चैषां सर्वजघन्यम् / ततः कर्मावरणम् /
7805 SK [२५९|१९-२५९|२०] ताम्यां हि द्वितीये ऽपि जन्मन्यचिकित्सो भवत्युत्तरोत्तरावाहनादिति वैभाषिकाः /
7806 SK [२५९|२१] आनन्तर्याणीति को ऽर्थः /
7807 SK [२५९|२१-२५९|२२] नान्तरायितुं शक्यानि विपाकं प्रति जन्मान्तरफलेन कर्मान्तरेणेत्यानन्तर्याणि /
7808 SK [२५९|२२] न तिरस्कर्तुमित्यर्थः /
7809 SK [२५९|२२-२५९|२३] न वा तत्कारिणः पुद्गलस्येतश्च्युतस्यान्तरमस्ति नरकोपपत्तिगमनं प्रतीत्यनन्तरः /
7810 SK [२५९|२३] तद्भाव आनन्तर्यम् /
7811 SK [२५९|२४] यस्य धर्मस्य योगात्सो ऽनन्तरो भवति / श्रामण्यवत् /
7812 SK [२५९|२५] अथैषामावरणानां कतमत् कस्यां गतौ वेदितव्यम् / एकान्तेन तावत्
7813 SK [२६०|०१] त्रिषु द्वीपेष्वानन्तर्य
7814 SK [२६०|०२] नोत्तरकुरौ नान्यासु गतिषु / कुत एवान्यत्र धातौ / तेत्ष्वपि स्त्रिपुरुषाणामेव /
7815 SK [२६०|०३] शण्डा दीनां तु नेष्यते /
7816 SK [२६०|०४] किं कारणं / तदेवासंवराभावे कारणमुद्दिष्टम् / अपि च
7817 SK [२६०|०५] अल्पोपकारालज्जित्वात्
7818 SK [२६०|०६] यथाक्रमं मातापित्रोस्तेषां च / अल्पोपकारौ किलैषां मातापितरौ /
7819 SK [२६०|०६-२६०|०७] विकलात्मभावाधिपतित्वादल्पस्नेहत्वाच्च /
7820 SK [२६०|०७-२६०|०८] तेषामपि न तीव्रं ह्यपत्राप्यं मातापित्रोरन्तिके प्रत्युपस्थितं यद्विपादनादानन्तर्येण स्पृश्येरन् /
7821 SK [२६०|०८] अत एव तिर्यवप्रेतानामपि नेष्यते /
7822 SK [२६०|०९] पटुबुद्धीनां स्यादश्वाजानेयवदिति भदन्तः /
7823 SK [२६०|०९-२६०|१०] मनुष्यस्याप्यमानुषौ मातापितरौ मारयतो न स्यादानन्तर्यम् //
7824 SK [२६०|१०] उक्तं कर्मावरणम् //
7825 SK [२६०|११] शेषे गतिषु पञ्चसु // VAक्K_४.९७ //
7826 SK [२६०|१२] के पुनः शेषे / क्लेशविपाकावरणे / मनुष्येषु विपाकावरणम् /
7827 SK [२६०|१२-२६०|१३] कौरवा देवेष्वसंज्ञिसत्त्वाः /
7828 SK [२६०|१३] किंस्वभावान्यानन्तर्याणि /
7829 SK [२६०|१३-२६०|१४] चत्वारि कायकर्म एकं वाक्कर्म त्रीणि प्राणातिपात एकं मृषावादः एकं प्राणातिपातप्रयोगः /
7830 SK [२६०|१४-२६०|१५] अनुपक्रमधर्माणो हि तथागताः /
7831 SK [२६०|१५] हेतौ फलोपचारात्संघभेद आनन्तर्यमुक्तम् /
7832 SK [२६०|१५-२६०|१६] भिद्यते वा ऽनेनेति कृत्वा /
7833 SK [२६०|१७] संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तकः /
7834 SK [२६०|१८] अक्लिष्टाव्याकृतो धर्मः
7835 SK [२६०|१९] असामग्री नान चित्तविप्रयुक्तः संस्कारो ऽनिवृताव्याकृतः संघभेदः /
7836 SK [२६०|१९-२६०|२०] स किमानन्तर्यं भविष्यति नैव च तेन भेत्ता समन्वागतः /
7837 SK [२६०|२०] किं तर्हि /
7838 SK [२६०|२१] संघस्तेन समन्वितः // VAक्K_४.९८ //
7839 SK [२६०|२२] यो हि भिन्नस्तस्य भेदो न भेत्तुः / अथ भेत्ता केन समन्वागतः /
7840 SK [२६०|२३] सदवद्यमृषावादस्तेन भेत्ता समन्वितः /
7841 SK [२६०|२४] संघभेदावद्येन भेत्ता समन्वागतः / तत् पुनर्मृषावादः /
7842 SK [२६०|२४-२६०|२५] स पुनः संघभेदसहजे वाग्विज्ञप्त्यविज्ञप्ती /
7843 SK [२६०|२५] स च तेनावद्येन समन्वागतो भेत्ता /
7844 SK [२६१|०१] अवीचौ पच्यते कल्पन्
7845 SK [२६१|०२] अन्तरकल्पमवीचौ महानरके विपच्यते / अन्यैस्तु नावश्यमवीचौ /
7846 SK [२६१|०२-२६१|०३] अथ येन बहुन्यानन्तर्याणि कृतानि भवन्ति अनन्तरमेव तानि विपच्यन्ते /
7847 SK [२६१|०३-२६१|०४] किं तु तैस्तस्य भवति /
7848 SK [२६१|०५] अध्हिकैरधिका रुजः // VAक्K_४.९९ //
7849 SK [२६१|०६-२६१|०७] सहि भूयोभिरानन्तर्यैस्तस्मिन्नवीचौ घनतरं सुकुमारतरं चाश्रयं लभते कारणाश्च बहुतरास्तीव्रतराश्च येन द्वित्रिचतुष्पञ्चगुणां वेदनां वेदयते /
7850 SK [२६१|०७-२६१|०८] कः पुनरेष संघं भनत्ति /
7851 SK [२६१|०९] भिक्षुर्दु क्वचरितो वृत्ती भिनत्ति /
7852 SK [२६१|१०] भिक्षुर्भिनत्ति न गृही न भिक्षुण्यादयः / स च दृष्टिचरित एव न तृष्णाचरितः /
7853 SK [२६१|११] ऋतस्थो न भिन्नवृत्तस्तस्यानादेयवाक्यत्वात् / क्व भिनत्ति /
7854 SK [२६१|१२] अत्र भगवान् संनिहितस्ततः /
7856 SK [२६१|१४] नहि शास्तुरेव संनिधौ शक्यो भेत्तुम् / तथागतानां दुष्प्रसहत्वादादेयवाक्यत्वाच्च /
7857 SK [२६१|१५] कान् भिनत्ति /
7858 SK [२६१|१६] बालिशान् /
7859 SK [२६१|१७] पृथग्जनानेव नार्यान् प्रत्यक्षधर्मत्वात् / तानपि न क्षान्तिलाभिन इत्यपरे /
7860 SK [२६१|१७-२६१|१८] कियता भिन्नः संघो भवति /
7861 SK [२६१|१९] शास्तृमार्गान्तरक्षान्तौ भिन्नः
7862 SK [२६१|२०-२६१|२१] यदा तेभ्यस्तथागतादन्यः शास्ता क्षमते तदुपदिष्टाच्च मार्गादन्यो मार्ग इयता भिन्नः संघो वक्तव्यः /
7863 SK [२६१|२१] कियन्तं कालं भिन्न आस्ते / तामेव रात्रिं
7864 SK [२६१|२२] न विवसत्यसौ // VAक्K_४.१०० //
7865 SK [२६१|२३] अपर्युषित एव हि संघभेदे संघो ऽवश्यं प्रतिसंधीयते / यो ऽयं संघभेद उक्तः
7866 SK [२६१|२४] चक्रभेदः स च मतः
7867 SK [२६१|२५] धर्मचक्रं हि तदा भगवतो भिन्नं भवति / मार्गप्रवृत्तिविष्ठापनात् /
7868 SK [२६१|२५-२६१|२६] अत एव चक्रादश्चोच्यते संघभेदश्च /
7869 SK [२६१|२६] क्व पुनश्चक्रभेदो भवति /
7870 SK [२६२|०१] जम्बूद्वीपे
7871 SK [२६२|०२] नान्येषु द्वीपेषु / कतिभिर्भिक्षुभिः /
7872 SK [२६२|०३] नवादिभिः /
7873 SK [२६२|०४] नवादिं कृत्वा / परेणानियमः / अष्टौ भिक्षयः संघो भवति / नवमो भेत्ता /
7874 SK [२६२|०४-२६२|०५] अवश्यं हि संघेन द्वयोःपक्षयोः स्थातव्यम् /
7875 SK [२६२|०५] एवं भिन्नो भवति /
7876 SK [२६२|०५-२६२|०६] अन्यस्तु संघभेदः कर्मभेदाद् भवति /
7877 SK [२६२|०६] यद्येकसीमायां व्यग्राः कर्म कुर्वन्ति / स चैष
7878 SK [२६२|०७] कर्मभेदस्त्रिषु द्वीपेषु
7879 SK [२६२|०८] येष्वेव शासनम् / कतिभिर्भिक्षुभिः
7880 SK [२६२|०९] अष्टाभिरधिकैश्च सः // VAक्K_४.१०१ //
7881 SK [२६२|१०] चक्रभेदस्तु षट्सु कालेषु न भवति / कतमेषु /
7882 SK [२६२|११-२६२|१२] आदावन्ते ऽर्बुदात् पूर्वं युगाच्चोपरते मुनौ / सीमायां चाप्यबद्धायां चक्रभेदो न जायते // VAक्K_४.१०२ //
7883 SK [२६२|१३] आदावचिरप्रवर्तिते धर्मचक्रे / अन्ते परिनिर्वाणकाले भगवतः /
7884 SK [२६२|१३-२६२|१४] एतयोर्हि द्वयोरवस्थयोः संघ एकरसो भवति /
7885 SK [२६२|१४-२६२|१५] मध्ये ऽप्यर्बुदात् पूर्वं न भिद्यते यावच्छासने शीलार्बुदं दृष्ट्यर्बुदं च नोत्पन्नं भवति /
7886 SK [२६२|१५-२६२|१६] युगाच्च पूर्वं न भिद्यते यावच्छ्रावकाग्रयुगं नोत्पन्नं भवति /
7887 SK [२६२|१६] भिन्नन्यायपरिवासात्तेन च प्रतिसंधानीयत्वात् /
7888 SK [२६२|१६-२६२|१७] उपरते मुनौ शास्तरि परिनिर्वृते प्रतिद्वन्द्वाभावात् /
7889 SK [२६२|१७-२६२|१८] सीमायामबद्धायां यावत् सीमा न बद्धा भवति /
7890 SK [२६२|१८-२६२|१९] एकसीमायां हि पक्षद्वयावस्थानात्संघभेद इत्येषु कालेसु चक्रभेदोन भवति /
7891 SK [२६२|१९] न च पुनः सर्वेषां बद्धानां चक्रभेदः / कर्माधीनत्वात् /
7892 SK [२६२|२०] कस्मात् मातृवधादिष्वानन्तर्यं नान्यत्र /
7893 SK [२६२|२१] उपकारियुणक्षेत्रनिराकृतिविपादनात् /
7894 SK [२६२|२२] मातापितृवधे तावदुपकारिणो निराकरणात् / कथं तावुपकारिणौ /
7895 SK [२६२|२२-२६२|२३] आत्मभावस्य तत्प्रभवत्वात् /
7896 SK [२६२|२३] किं तयोर्निराकरणम् / परित्यागः / गुणक्षेत्रत्वादर्हद्वधाद् आनन्तर्यम् /
7897 SK [२६२|२४-२६२|२५] यदि पुनर्मातुर्व्यञ्जनं परिवृत्तं स्यात् पितुर्वा तत्रैकस्मिन्नाम्नायो
7898 SK [२६३|०१] व्यञ्जनान्तरितो ऽपि स्यात्
7899 SK [२६३|०२] अत एवोच्यते ᳚स्यात् पुरुषं जीविताद्वच्यपरोपयेन्न पितरं नार्हन्तम् /
7900 SK [२६३|०२-२६३|०३] आनन्तर्यावद्येन च स्पृश्येत /
7901 SK [२६३|०३] स्यान्मातुर्व्यञ्जनं परिवृत्तं स्यादिति /
7902 SK [२६३|०३-२६३|०४] स्यात् स्त्रीं जीविताद्व्यपरोपयेन्न मातरं नार्हन्तीम् आनन्तर्यावद्येन च स्पृश्येत /
7903 SK [२६३|०४-२६३|०५] स्यात् पितुर्व्यञ्जनं परिवृत्तं स्यादि᳚ति /
7904 SK [२६३|०५] अन्यस्याः स्त्रियाः कललं प्रस्रुतमन्यया योन्या पीतम् /
7905 SK [२६३|०५-२६३|०६] कतरा तस्य माता यां घ्नतः स्यादानन्तर्यम् /
7906 SK [२६३|०७] माता यच्छोणितोद्भवः // VAक्K_४.१०३ //
7907 SK [२६३|०८] यस्याः शोणितादसावुद्भूतः सत्त्वः सा ऽस्य माता द्वितीया तु सर्वकृत्येष्ववलोक्या /
7908 SK [२६३|०९] सा ह्यापायिका पोषिका संवर्धिका च /
7909 SK [२६३|०९-२६३|१०] यदि मातरि प्रयोगं कृत्वा ऽन्यां मारयेन्न स्यादानन्तर्यम् /
7910 SK [२६३|१०] अमातृप्रयोगेण मारयेत्तथापि न स्यात् /
7911 SK [२६३|१०-२६३|११] मञ्चतलावलीनमातृमारणं चात्रोदाहार्य धावकस्य च पुत्रेण मसक प्रयोगेण पितुर्मारणं च /
7912 SK [२६३|११-२६३|१२] एकेन प्रहारेण मातरमन्यां च मारयतो द्वे अविज्ञप्ती भवतः /
7913 SK [२६३|१२] विज्ञप्तिस्त्वानन्तर्यमेव /
7914 SK [२६३|१३] तस्य कर्मणो बलीयस्त्वात् / परमाणुसंचितत्वाद्विज्ञप्तिरपि द्विधेति भदन्तघोषकः /
7915 SK [२६३|१४-२६३|१५] अनर्हत्संज्ञया ऽपि अर्हद्घाते भवत्यानन्तर्यम् अहम् हन्मीत्याश्रयावधारणात् /
7916 SK [२६३|१५] यः पितरमर्हन्तं हिंस्यात्तस्याप्येकमेव स्यादानन्तर्यमाश्रयैकत्वात् /
7917 SK [२६३|१६] इदमवदानं कथं नीयते ᳚गच्छ शिखण्डिनं ब्रूहि द्वे आनन्तर्ये भवता कृते /
7918 SK [२६३|१६-२६३|१७] यच्च पिता जीविताद्व्यपरोपितो यच्चार्हन्नि᳚ति /
7919 SK [२६३|१७] द्वाभ्यां कारणाभ्यामिति वक्तव्यम् /
7920 SK [२६३|१८] द्वाभ्यां वा मुखाभ्यां परिभाषितः /
7921 SK [२६३|१८-२६३|१९] किमवश्यं तथागतस्यास्ति कुटुष्टचित्तरुधिरोत्पादनादानन्तर्यम् /
7922 SK [२६३|१९] वधाभिप्रायस्य स्यात् /
7923 SK [२६३|२०] बुद्धे न ताडनेच्छस्य
7924 SK [२६३|२१] यदि ताडनाभित्राय उत्पादयेन्न स्यात् / यद्यनर्हति प्रहरेत्स च प्रहारादूर्ध्वमर्हन् स्यात्
7925 SK [२६३|२२] प्रहारान्नोर्ध्वमर्हति /
7926 SK [२६३|२३] स्यादानन्तर्यमिति वर्तते / नहि तेन तत्र प्रयोगः कृतः /
7927 SK [२६३|२३-२६३|२४] किमानन्तर्ये प्रयोगं कृत्वा तस्मिन्नव्यावर्तिते वैराग्यं फलं वा न प्राप्नुयात् /
7928 SK [२६३|२५] नानन्तर्यप्रयुक्तस्य वैराग्यफलसंभवः // VAक्K_४.१०४ //
7929 SK [२६४|०१-२६४|०२] अन्यकर्मफलपथप्रयोगं तु कृत्वार्यमार्गोत्पत्तौ न पुनः कर्मपथोत्पत्तिराश्रयस्यात्यन्तं तद्विरुद्धत्वात् /
7930 SK [२६४|०३] एषामानन्तर्याणां कतमत् महासावद्यम् /
7931 SK [२६४|०४] संघमेदे मृषावादो महावद्यतमो मतः /
7932 SK [२६४|०५-२६४|०६] यः संघभेदनिमित्तं मृषावादो धर्माधर्मज्ञस्य विपर्ययद्योतनात् स सर्वेषां दुश्चरितानां महावद्यतमः /
7933 SK [२६४|०६] किं कारणम् /
7934 SK [२६४|०६-२६४|०७] तथागतधर्मशरीरप्रहारितत्वात् लोकानां च स्वर्गापवर्गमार्गान्तरायकत्वात् /
7935 SK [२६४|०७-२६४|१०] संघे हि भिन्ने लोकस्य नियामावक्रन्तिफलप्राप्तिवैराग्यास्रवक्षयाः प्रतिबध्यन्ते ध्यानाध्ययनस्वाध्यायचिन्ताकर्माण्यपि न प्रवर्तन्ते सदेवनागमनुष्यं जगच्चाकुलं विमनस्कं वर्तते यावत् पुनर्न प्रतिसंधितो भवतियस्माच्चाविचौ कल्पं विपाकः /
7936 SK [२६४|१०-२६४|११] शेषाणामानन्तर्याणां यथाक्रमं पञ्चमतृतीयप्रथमानि गुरुतराणि सर्वलघुः पितृवधः /
7937 SK [२६४|११-२६४|१३] यत्तर्हि भगवता त्रयाणां दण्डानां मनोदण्डो महासावद्य उक्तः पुनर्मिथ्यादृष्टिः परमवद्यानामित्युक्तम् आनन्तर्याणि नियमस्य संघभेदो महासावद्य उक्तः /
7938 SK [२६४|१३-२६४|१४] त्रीणि कर्माणि नियमय्य मनोदण्दः दृष्टीर्नियमय्य मिथ्यादृष्टिः /
7939 SK [२६४|१४-२६४|१५] अथवा विपाकविस्तरं महाजनव्यापादनं कुशलमूलसमुच्छेदं चाधिकृत्य यथाक्रमम् /
7940 SK [२६४|१६] सुचरितानां पुनः कतमत् महाफलतमम् /
7941 SK [२६४|१७] भवाग्रचेतना लोके महाफलतमा शुभे // VAक्K_४.१०५ //
7942 SK [२६४|१८] कुशले पुनः कर्मणि भवाग्रचेतना सर्वेषां महाफलतमा /
7943 SK [२६४|१८-२६४|१९] तस्या अशीतिकल्पसहस्राण्यतिप्रशान्तो विपाकः /
7944 SK [२६४|१९] विपाकफलं चाधिकृत्यैतदुक्तम् /
7945 SK [२६४|१९-२६४|२१] विसंयोगफलं त्वधिकृत्य वज्रोपमसमाधिचेतना सर्वेषां महाफला सर्वसम्योजनपर्यादानफलत्वात् /
7946 SK [२६४|२१] अत एव लोक इत्युक्तम् /
7947 SK [२६४|२२] किमानन्तर्यैरेवावश्यं नरकेषूपपद्यते / आनन्तर्यसभागैरप्यवश्यमुपपद्यते /
7948 SK [२६४|२३] नत्वनन्तरमेवेत्यपरे / कतमानि तानीत्याह
7949 SK [२६४|२४-२६४|२५] दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम् / बोधिसत्त्वस्य शैक्षस्य संघायद्वारहारिका // VAक्K_४.१०६ //
7950 SK [२६५|०१] आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम् /
7951 SK [२६५|०२] एतानि पञ्च पञ्चानामानत्नर्याणां यथाक्रमम् सभागानि /
7952 SK [२६५|०२-२६५|०४] यदि मातरमर्हन्तीं दूषयत्यब्रह्मचर्यकरणात् नियतिपतीतं बोधिसत्त्वं मारयति शैक्षं मारयति संघस्य सुखायद्वारिकं हरति स्तूपभेदं करोति /
7953 SK [२६५|०४-२६५|०५] अन्यदपि तु कर्म सविपाकं त्रिषु कालेष्वत्यर्थं विघ्नयति /
7954 SK [२६५|०५] कतमेषु त्रिसु /
7955 SK [२६५|०६] क्षान्त्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृत् // VAक्K_४.१०७ // [२६५|०७] मूर्धभ्यः क्षान्तिमाकिरत आपायिकानि कर्माणि विघ्नायोपतिष्ठन्ते /
7956 SK [२६५|०७-२६५|०८] तद्विपाकभूम्यतिक्रमात् /
7957 SK [२६५|०८] यथा पुरुषस्य देशत्यागं कुर्वतो धनिका उपतिष्ठन्ते /
7958 SK [२६५|०८-२६५|१०] अनागामिफलं प्राप्नुवतः कामावचराणि विघ्नायोपतिष्ठन्ते तथैव स्थापयित्वा दृष्टधर्मवेदनीयं कर्म /
7959 SK [२६५|१०] अर्हत्त्वं प्राप्नुवतो रूपारूप्यावचराणि तथैव /
7960 SK [२६५|१०-२६५|११] यदुक्तं ᳚बोधिसत्त्वस्य मारण᳚मिति
7961 SK [२६५|१२] बोधिसत्त्वः कुतो यावत्
7962 SK [२६५|१३] कुत उपादाय बोधिसत्त्वोवक्तव्यः /
7963 SK [२६५|१४] यतो लक्षण कर्मकृत् /
7964 SK [२६५|१५-२६५|१६] यतः प्रभृति लक्षणविपाकानि कर्माण्यारभते कर्तुं स हि तदानीं नियतिपतितो भवति /
7965 SK [२६५|१६] कथं कृत्वा / स हि तस्मात् कालात् प्रभृति नित्यं भवति /
7966 SK [२६५|१७] सुगतिः कुलजो ऽव्यक्षः पुमान् जातिस्मरो ऽनिवृत् // VAक्K_४.१०८ //
7967 SK [२६५|१८] प्रशस्ता गतिरस्येति सुगतिर्देवमनुष्योपपत्तेः /
7968 SK [२६५|१८-२६५|१९] तस्यां च सुगतौ क्षत्रियब्राह्मणगृहपतिमहाशालकुलजो भवति नान्यः कुलीनः /
7969 SK [२६५|१९] विकलान्यक्षाण्यस्येति व्यक्षः /
7970 SK [२६५|२०] न व्यक्षो ऽव्यक्षः अविकलेन्द्रियः इत्यर्थः / पुरुष एव न स्त्री कुत एव शण्ढादिः /
7971 SK [२६५|२१] जातिस्मरश्च भवति / सर्वस्यां जातौ निवर्तत इति निवृत् / न निवृदनिवृत् /
7972 SK [२६५|२२] अनिवर्तक इत्यर्थः /
7973 SK [२६५|२२-२६५|२३] सत्त्वहितार्थं सर्वदुःखप्रकारैः सर्वसत्त्वविप्रतिपत्तिभिश्चाखेदितत्वात् /
7974 SK [२६५|२३] यत्तल्लोक उच्यते ᳚अपणक्रीतो दास᳚ इति /
7975 SK [२६५|२३-२६५|२६] बोधिसत्त्वास्ते ते हि महात्मानः सर्वसंपत्प्रकर्षविशेषप्राप्ता अपि सन्तो निष्कारणकरुणापारतन्त्र्यात्सर्वसत्त्वेषु चण्डालकुमारकसदृशमात्मानं निर्मानतया व्यवस्थाप्य सत्त्वेभ्यः सर्वकदर्थानां सोढारो भवन्ति सर्वश्रमयन्त्रणानां चोद्वोढारः /
7976 SK [२६५|२६-२६५|२७] यच्चैतल्लक्षणविपाकं कर्मेत्युक्तम् /
7977 SK [२६६|०१-२६६|०२] जम्बूद्वीपे पुमानेव संमुखं बुद्धचेतनः / चिन्तामयं कल्पशते शेष आक्षिपते हि तत् // VAक्K_४.१०९ //
7978 SK [२६६|०३] जम्बूद्वीप एव बोधिसत्त्वो लक्षणविपाकं कर्माक्षिपति / नान्यत्र /
7979 SK [२६६|०३-२६६|०४] जाम्बूद्वीपकानां तीक्ष्णबुद्धित्वात् /
7980 SK [२६६|०४] पुरुष एव न स्त्री /
7981 SK [२६६|०४-२६६|०५] संमुखीभूत एव शास्तरि बुद्धालम्बनयैव चेतनया चिन्तामयं तत्कर्म न श्रुतमयं न भावनामयम् /
7982 SK [२६६|०५-२६६|०६] कल्पशते च शेष आक्षिपति न बहुभवेसु /
7983 SK [२६६|०६-२६६|०७] भगवता तु शाक्यमुनिनोत्तप्तवीर्यतया नव कल्पा अपावर्तिता एकनवत्या कल्पैराक्षिप्तम् /
7984 SK [२६६|०७-२६६|०९] अत एव चोक्त ᳚मितो ऽहं ग्रामणीरेकनवतं कल्पमुपादाय न समनुस्मरामि नाभिजानामि यदेककुलमपि पक्षभिक्षाप्रदानहेतोः क्षतं वा स्यादुपहतं वे᳚ति /
7985 SK [२६६|०९-२६६|११] ततः प्रभृति प्रकृतिजातिस्मरत्वात् प्रथमकल्पासंख्येयनिर्यात एव बोधिसत्त्व एतांश्चतुरो दोषान् व्यावर्तयति द्वौ च गुणो प्रतिलभत इति पूर्वाचार्याः /
7986 SK [२६६|११] तेषां च लक्षणानाम्
7987 SK [२६६|१२] एकैकं पुण्यशतजम्
7988 SK [२६६|१३] किं पुण्यस्य परिमाणम् /
7989 SK [२६६|१३-२६६|१४] संनिकृष्टबोधिसत्त्वं स्थापयित्वा यावत् सर्वसत्त्वानां भोगफलमित्येके /
7990 SK [२६६|१४-२६६|१५] यावत् सर्वसत्त्वानां कर्माधिपत्येन त्रिसाहस्रमहासाहस्रको लोको ऽभिनिवर्तत इत्यपरे /
7991 SK [२६६|१५] बुद्धा एव च तत्परिमाणज्ञा इत्यपरे /
7992 SK [२६६|१५-२६६|१६] अथ बोधिसत्त्वभूतो भगवान् कियतो बुद्धान् पर्युपासयामास /
7993 SK [२६६|१६-२६६|१७] प्रथेमे कल्पासंख्येये पञ्चसप्ततिसहस्राणि द्वितीये षट्सप्ततिं तृतीये सप्तसप्ततिम् /
7994 SK [२६६|१८] अथ कस्य कल्पासंख्येयस्यान्ते कतमो बुद्ध आसीत् /
7995 SK [२६६|१८-२६६|१९] प्रतिलोमानुक्रमेण यथाक्रमम् /
7996 SK [२६६|२०] असंख्येयत्रयान्त्यजाः /
7997 SK [२६६|२१] विपश्यी दीपकृद्रत्नशिखी
7998 SK [२६६|२२] रत्नशिखिनि सम्यक्संबुद्धे प्रथमो ऽसंख्येयः समाप्तः / दीपङ्करे भगवति द्वितीयः /
7999 SK [२६६|२३] विपश्यिनि तथागते तृतीयः / सर्वेषां तु तेषां
8000 SK [२६६|२४] शास्यमुनिः पुरा // VAक्K_४.११० //
8001 SK [२६६|२५] शाक्यमुनिर्नाम सम्यक्संबुद्धः पूर्वं वभूव /
8002 SK [२६६|२५-२६७|०२] यत्र भगवता बोधिसत्त्वभूतेनाद्यं प्रणिधानं कृतम् एवंप्रकार एवाहं बुद्धो भवेयमिति नो ऽप्येवं कलियुग एवोत्पन्नवानार्यवत्तस्याप्येवं वर्ष सहस्रान्तं शासनं बभूव /
8003 SK [२६७|०३] अथ कस्यामवस्थावां बोधिसत्त्वः कां पारमितां परिपूरयते /
8004 SK [२६७|०४] सर्वत्र सर्वं ददतः कारुण्याद्दानपूरणम् /
8005 SK [२६७|०५-२६७|०६] यदा सर्वस्मै सर्वं ददाति आ अक्ष्णः आ मज्जायाः कारुण्यान्नाभ्युदयविशेषं लिप्समानः इयता दानपारमिता परिपूर्णा भवति /
8006 SK [२६७|०७] अङ्गच्छेदे ऽप्यकोपात्तु रागिणः क्षान्तिशीलयोः // VAक्K_४.१११ //
8007 SK [२६७|०८-२६७|०९] यदा ऽयमवीतरागो ऽपि च्छिद्यमानेष्वङ्गेषु नाल्पमपि कुप्यति तदा ऽस्य क्षान्तिशीलपारमिते परिपूर्णे भवतः /
8008 SK [२६७|१०] तिष्यस्तोत्रेण वीर्यस्य
8009 SK [२६७|११-२६७|१२] तिष्यं तथागतरत्नगुहायां तेजोधातुसमापन्नदृष्ट्या भगवान् बोधिसत्त्वभूत एकेन पादेन स्थित्वा सप्त दिवसान् स्तुतवानेकगाथया
8010 SK [२६७|१३-२६७|१६] ᳚न दिवि भुवि वा नास्मिन् लोके न वैश्रवणालये / न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा //
8011 SK चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननाम् / पुरुषवृषभस्त्वत्तुल्यो ऽन्यो महाश्रमणः कुत᳚ इति //
8012 SK [२६७|१७] तदा किल वीर्यपारमिता परिपूर्णा नव च कल्पाः प्रत्युदावर्तिताः /
8013 SK [२६७|१८] धीसमाध्योरनन्तरम् /
8014 SK [२६७|१९-२६७|२०] बोधेः पूर्वसमनन्तरं ध्यानप्रज्ञापारमितयोः परिपूरिर्वज्रोपमसमाधौ स्वस्याः संपदः पारगमनात् पारमिताः /
8015 SK [२६७|२१] सूत्र उक्तं ᳚त्रीणि पुण्यक्रियावस्तूनि /
8016 SK [२६७|२१-२६७|२२] दानमयं पुण्यक्रियावस्तु शीलमयं भावनामयमि᳚ति /
8017 SK [२६७|२२] कथमेतत्त्रयं पुण्यक्रियावस्तु /
8018 SK [२६७|२३] पुण्यं क्रिया ऽथ तद्वस्तु त्रयं कर्मपथा यथा // VAक्K_४.११२ //
8019 SK [२६७|२४] पुण्यमप्येतत्त्रयं क्रिया ऽपि वस्त्वपि यथायोगमिति पुण्यक्रियावस्तु /
8020 SK [२६७|२४-२६८|०१] तद्यथा कर्म च ते पन्थानश्च पन्थान एव च कर्मण इति कर्मंपथा उक्ताः /
8021 SK [२६८|०१-२६८|०२] तत्र दानमये तावत् पुण्यक्रियावस्तुनि कायवाक्कर्म त्रिधा भवति /
8022 SK [२६८|०२-२६८|०३] तत्समुत्थापिका चेतना पुण्यं च क्रिया च /
8023 SK [२६८|०३] तत्सहभुवो धर्माः पुण्यमेव / शीलमयं तु कायवाक्कर्मैवेति त्रिधा भवति /
8024 SK [२६८|०४] भावनामयो मैत्री पुण्यं च पुण्यक्रियायाश्च वस्तु /
8025 SK [२६८|०४-२६८|०६] तत्संप्रयुक्तायाश्चेतनाया मैत्रीमुखेनाभिसंस्करणात् तत्सहभुवश्चेतना शीलं च पुण्यं च क्रिया च /
8026 SK [२६८|०६-२६८|०७] अन्ये तत्सहभुवः पुण्यमेव पुण्यस्य वा कारणं पुण्यक्रिया पुण्यप्रयोगस्तस्या एतानि त्रीणि वस्तूनि /
8027 SK [२६८|०७] एषां संपादनार्थं पुण्यप्रयोगारम्भादिति /
8028 SK [२६८|०७-२६८|०८] कुशलचेतनापरमार्थेन पुण्यक्रिया /
8029 SK [२६८|०८] तस्या एतानि वस्तूनीत्यपरे /
8030 SK [२६८|०९] किमिदं दानं नाम / यदपि दीयते दद्दानम् / इह तु
8031 SK [२६८|१०] दीयते येन दद्दानं
8032 SK [२६८|११] भवति स्म / रागादिभिरपि दीयते / न चात्र तदिष्टम् / अतो विशेषणार्थमाह
8033 SK [२६८|१२] पूजानुग्रहकाम्यया /
8034 SK [२६८|१३] परेषां पूजानुग्रहकामताभ्यां येन दीयते / किं पुनस्तत्स्याद्येन दीयते /
8035 SK [२६८|१४] कायवाक्कर्म सोत्थानं
8036 SK [२६८|१५] किं पुनस्तदुत्थानम् / येन कलापेन तदुत्थाप्यते / आह चात्र
8037 SK [२६८|१६-२६८|१७] शुभेन मनसा द्रव्यं स्वं ददाति यदा पुमान् / तत् क्षणं कुशलाः स्कन्धाः दानमित्यभिधीयते //᳚ इति / [२६८|१८] महाभोग्यफलं च तत् // VAक्K_४.११३ //
8038 SK [२६८|१९] तच्चैतद्दानमयं पुण्यक्रियावस्तु महाभोग्यफलम् / स्वभावे चैष मयड्वेदितव्यः /
8039 SK [२६८|२०] तद्यथा तृणमयं गृहं पर्णमयं भाजनमिति / तत् खल्वेतद्दानं
8040 SK [२६८|२१] स्वपरार्थोभयार्थाय नोभयार्थाय दीयते /
8041 SK [२६८|२२-२६८|२३] तत्र यदवीतरागः आर्यः पृथग्जनो वा वीतरागश्चैत्ये दानं ददाति तदस्यात्मन एवार्थाय /
8042 SK [२६८|२३] परेषां तेनानुग्रहाभावात् /
8043 SK [२६८|२३-२६९|०१] यदार्यो वीतरागः परसत्त्वेभ्यो दानं ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तत्र दानं परेषामर्थाय /
8044 SK [२६९|०१-२६९|०२] तेन तेषामनुग्रहात् /
8045 SK [२६९|०२] नात्मनो ऽर्थाय / तद्विपाकभूमेरत्यन्तसमतिक्रान्तत्वात् /
8046 SK [२६९|०२-२६९|०३] यदवीतरागः पृथग्जनो वा वीतरागः परसत्त्वेभ्यो ददाति तद्दानमुभयेषामर्थाय /
8047 SK [२६९|०३-२६९|०४] यदार्यो वीतरागश्चैत्ये ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तद्दानमुभयेषां नार्थाय /
8048 SK [२६९|०४-२६९|०५] तद्धि केवलं गौरवं कृत्ज्ञाभ्यां दीयते /
8049 SK [२६९|०५] सामान्येन दानं महाभोग्यफलमुक्तम् /
8050 SK [२६९|०६] तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः // VAक्K_४.११४ //
8051 SK [२६९|०७] तत्र तावत्
8052 SK [२६९|०८] दाता विशिष्टः श्रद्धाद्यैः
8053 SK [२६९|०९] श्रद्धाशीलश्रुतादिगुणयुक्तो दाता विशिष्टो भवति /
8054 SK [२६९|०९-२६९|१०] तस्य तद्दानदातृविशेषेण फलदानं प्रतिविशिष्यते /
8055 SK [२६९|१०] स च तादृशो दाता
8056 SK [२६९|११] सत्कृत्यादि ददाति
8057 SK [२६९|१२] सत्कृत्य स्वहस्तं काले परानुपहत्य ददाति /
8059 SK [२६९|१४] सत्कारोदाररुचिता कालानाच्छेद्यलाभिता // VAक्K_४.११५ //
8060 SK [२६९|१५] अतो ऽस्य दातुस्तत्तादृशं दानं दत्त्वा यथाक्रमं चत्वारो विशेषा भवन्ति /
8061 SK [२६९|१५-२६९|१६] सत्कारलाभी भवति /
8062 SK [२६९|१६] उदारेषु च भोगेषु रुचिं लभते /
8063 SK [२६९|१६-२६९|१७] कालेल्न च भोगान् लभते नातिक्रान्तिकालेन /
8064 SK [२६९|१७] अनाच्छेद्यांश्च भोगान् लभते /
8065 SK [२६९|१७-२६९|१८] नास्य भोगाः परैराच्छाद्यन्ते नाप्यग्न्यादिभिर्विनाश्यन्ते /
8066 SK [२६९|१८-२६९|१९] उक्तं यथा दाता विशिष्यते तद्विशेषाच्च दानविशेषः /
8067 SK [२६९|२०] अथ वस्तु कथं विशिष्यते /
8068 SK [२६९|२१] वर्णादिसम्पदा वस्तु
8069 SK [२६९|२२] विशिष्टमिति वर्तते /
8070 SK [२६९|२२-२६९|२३] यदि यद्दीयते दद्वर्णगन्धरसस्पर्शानामन्यतमेनापि संपन्नं भवति /
8071 SK [२६९|२३] एवं वस्तु विशिष्यते / तादृशं वस्तु दत्त्वा किं भवति / यथाक्रमम्
8072 SK [२६९|२४-२६९|२५] सुरूप्त्वं यशस्वि वा / प्रियता सुकुमारर्तुसुखस्पर्शाङ्ता ततः // VAक्K_४.११६ //
8073 SK [२६९|२६] वर्णसम्पन्नं दत्त्वा सुरूपो भवति / गन्धसंपन्नं दत्त्वा यशस्वी भवति /
8074 SK [२६९|२६-२७०|०१] गन्धवद्यशसो दिक्षु विधारणात् /
8075 SK [२७०|०१] रससंपन्नं दत्त्वा प्रियो भवति / रस इव स्वादुः /
8076 SK [२७०|०१-२७०|०३] स्पर्शसंपन्नं दत्त्वा सुकुमाराङ्गाश्च भवति ऋतुसुखस्पर्शानि चास्याङ्गानि भवन्ति यथा स्त्रीरत्नस्य /
8077 SK [२७०|०४] अथ क्षेत्रं कथं विशिप्यते /
8078 SK [२७०|०५] गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते /
8079 SK [२७०|०६] गतिविशेषातावद्विशिष्यते /
8080 SK [२७०|०६-२७०|०७] तथा ह्युक्तं भगवता ᳚तिर्यग्योनिगताय दानं दत्त्वा शतगुणो विपाकः प्रतिकाङ्क्षितव्यः /
8081 SK [२७०|०७-२७०|०८] दुःशीलाय मनुष्यभूताय दानं दत्त्वा सहस्रगुण᳚ इति /
8082 SK [२७०|०८] दुःखविशेषा द्विशिष्यते / तथा ह्यौपधिकेषु पुण्यक्रियावस्तुषु /
8083 SK [२७०|०९] ग्लाने दानं ग्लानोपस्थापके दानम् /
8084 SK [२७०|०९-२७०|११] शीतलिकादिषु च दानमुक्त्वोक्तमे᳚ भिः सप्तभिः औषधिकैः पुण्यक्रियावस्तुभिःसमन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा न लभ्यं पुण्यानां प्रमाणमुद्ग्रहीतुमि᳚ति /
8085 SK [२७०|१२-२७०|१३] उपकारित्वविशेषाद्यथा मातापित्रोरन्येषां चोपकारिणाम् ऋष्यमृगजातकाद्युदाहरणात् /
8086 SK [२७०|१३] गुणविशेषाद्यथा᳚ शीलवते दत्त्वा शतसहस्रगुणो विपाक᳚ इत्येवमादि /
8087 SK [२७०|१४] सर्वेषां तु दानानाम्
8088 SK [२७०|१५] अग्रं मुक्तस्य मुक्ताय
8089 SK [२७०|१६] ᳚यद्वीतरागो वीतरागाय दत्त्वा ऽतिदानमिदं श्रेष्ठमामिषदानेषु दानमित्युक्तं भगवता /
8090 SK [२७०|१७] बोधिसत्त्वस्य च
8091 SK [२७०|१८] यद्वा दानं बोधिसत्त्वे ददाति सर्वसत्त्वहितहेतोस्तदमुक्तस्याप्यमुक्ते ऽभ्यादानमग्रम् /
8092 SK [२७०|१९] तत् स्थापयित्वा यानि भगवतो ऽन्यान्यष्टौ दानान्युक्तानि तेषाम्
8093 SK [२७०|२०] अष्टमम् // VAक्K_४.११७ //
8094 SK [२७०|२१] अग्रमिति वर्तते / कतमान्यष्टौ /
8095 SK [२७०|२१-२७०|२४] आसाद्य दानं भयदानम् अदान्मे दानं दास्यति मे दानं दत्त्पूर्वं मे दानं पितृभिश्च पितामहैश्चेति दानं ददाति स्वर्गार्थं दानं कीर्त्यर्थं दानं चित्तालङ्कारार्थं दानं चित्तपरिष्कारार्थं यिओगसंभारार्थमुत्तमार्थस्य प्राप्तये दानं ददाति /
8096 SK [२७०|२४] तत्रासाद्य दानं यत् आसन्नेभ्य उपगतेभ्यो दानं ददातीति पौराणाः /
8097 SK [२७०|२५] भयदानं यद्विनाशाभिमुखं दृष्ट्वा वरं ददामीति ददाति /
8098 SK [२७०|२५-२७०|२६] शेषं सुगमत्वान्न विभक्तम् /
8099 SK [२७०|२६] स्रोत आपत्तिफलप्रतिपन्नकाय दानं दत्त्वा ऽप्रमेयविपाकः /
8100 SK [२७०|२७] ततो ऽप्रमेयतरः स्रोत आपन्नायेति विस्तरेणोक्तं सूत्रे / अपितु
8101 SK [२७१|०१-२७१|०२] मातृपितृग्लानधार्मकथिकेभ्यो ऽन्त्यजन्मने / बोधिसत्त्वाय चामेया अनार्येभ्यो ऽपि दक्षिणा // VAक्K_४.११८ //
8102 SK [२७१|०३] एभ्यः पञ्चभ्यः पृथग्जनभूतेभ्यो ऽप्यप्रमेया फलतो दक्षिणा भवति /
8103 SK [२७१|०३-२७१|०४] तत्रान्त्यजन्मा बोधिसत्त्वश्चरमभविकः /
8104 SK [२७१|०४-२७१|०५] धर्मकथिकश्चतुर्विधे क्षेत्रविशेषे कतमस्मिन् पक्षे दिक्षेप्तव्यः /
8105 SK [२७१|०५] उपकारिपक्षे /
8106 SK [२७१|०५-२७१|०७] स हि महाकल्याणमित्रम् अविद्यान्धायां प्रजायां प्रज्ञाचक्षुषो दाता समविषमस्य प्रकाशयिता अनास्रवस्य धर्मकायस्यातिनिवर्तयिता समासतो बुद्धकृत्यस्य कर्ता /
8107 SK [२७१|०८] कर्मणां तु गुरुलघुत्वं ज्ञातुकामेन समासतः षट् कारणानि ज्ञेयानि / तद्यथा
8108 SK [२७१|०९-२७१|१०] पृष्ठं क्षेत्रमधिष्ठानं प्रयिओगश्चेतनाशयः / एषां मृद्वधिमात्रत्वात् कर्ममृद्वधिमात्रता // VAक्K_४.११९ //
8109 SK [२७१|११] पृष्ठं नाम यत्कृतस्य पुनरनुक्रिया / क्षेत्रं नाम यत्र कारापकाराः क्रियन्ते /
8110 SK [२७१|१२] अधिष्ठानं कर्मपथः / प्रयोगस्तदर्थं कायवाक्कर्म /
8111 SK [२७१|१२-२७१|१३] चेतना यया कर्मपथं निष्ठापयति /
8112 SK [२७१|१३-२७१|१४] आशयस्तदभिप्राय एवं चैवं च कुर्यामेवं चैवं च न करिष्यामीति /
8113 SK [२७१|१४] कस्यचित् पृष्ठपरिग्रहेणैव तत्कर्म गुरु संपद्यते /
8114 SK [२७१|१४-२७१|१५] विपाकनैयम्येनावस्थानात् /
8115 SK [२७१|१५] कस्यचित् क्षेत्रवशेनैव /
8116 SK [२७१|१५-२७१|१६] तत्रैव क्षेत्रे पुनरधिष्ठानवशात् गुरु संपद्यते नान्यथा /
8117 SK [२७१|१६] यथा माताइत्रोः प्राणातिपातात् न त्वेवमदत्तादानादिकात् /
8118 SK [२७१|१६-२७१|१७] एवमन्यदपि योज्यम् /
8119 SK [२७१|१७-२७१|१८] यस्य तु सर्वाण्यधिमात्राणि भवन्ति तस्यात्यर्थमधिमात्रं गुरु कर्म वेदितव्यम् /
8120 SK [२७१|१८] यस्य मृदूनि तस्यात्यर्थं मृदु वेदितव्यम् //
8121 SK [२७१|१९] कृतं चोपचितं च कर्मोच्यते / कथं कर्मोपचितं भवति / पञ्चभिः करणैः /
8122 SK [२७१|२०-२७१|२१] संचेतनसमाप्तिभ्यां निष्कौकृत्य विपक्षतः / परिवाराद्विपाकाच्च कर्मोपचितमुच्यते // VAक्K_४.१२० //
8123 SK [२७१|२२] कथं संचेनतः / संचिन्त्य कृतं भवति नाबुद्धिपूर्वं न सहसा कृतम् /
8124 SK [२७१|२२-२७१|२३] कथं समापत्तितः /
8125 SK [२७१|२३] कश्चिदेकेन दुश्चरितेनापायान्यातिकश्चिद्यावत्त्रिभिः /
8126 SK [२७१|२३-२७१|२४] कश्चिदेकेन कर्मपथेन कश्चिद्यावद्दशभिः /
8127 SK [२७१|२४-२७१|२५] तत्र यो यावता गच्छति तस्मिन्नसमाप्ते कृतं तत्कर्म नोपचितम् समाप्ते तूपचितम् /
8128 SK [२७१|२५] कथं निष्कौकृत्यविपक्षतः /
8129 SK [२७१|२५-२७२|०१] निर्विप्रतिसारं च तत् कर्म भवति निष्प्रतिपक्षं च /
8130 SK [२७२|०१] कथं परिवारतः /
8131 SK [२७२|०१-२७२|०२] अकुशलं चाकुशलपरिवारं च भवति /
8132 SK [२७२|०२] कथं विपाकतः / विपाकदान नियतं भवति /
8133 SK [२७२|०३] एवं कुशलमपि योज्यम् / अतो ऽन्यथा कर्म कृतं भवति नोपचितम् /
8134 SK [२७२|०४] चैत्ये सरागस्यात्मार्थं दानमित्युक्तम् /
8135 SK [२७२|०४-२७२|०५] तत्रासत्युपभोक्तरि कथं पुण्यं भवति /
8136 SK [२७२|०५-२७२|०६] द्विविधं हि पुण्यं त्यागान्वयं त्यागादेव यदुपपद्यते परिभोगान्वयं च देयधर्मपरिभोगाद्यदुत्पद्यते /
8137 SK [२७२|०७] चैत्ये त्यागान्वयं पुण्यं
8138 SK [२७२|०८] परिभोगान्व्यं पुण्यं नास्ति / कथं तत्राप्रतिगृह्णति कस्मिंश्चित् पुण्यम् /
8139 SK [२७२|०८-२७२|०९] किं पुनः कारणं सति प्रतिग्रहीतरि भवितव्यं नासतीति /
8140 SK [२७२|०९] कस्यचिदप्यनुग्रहाभावात् / इदमकारणम् /
8141 SK [२७२|१०] यदि हि पुण्यं परानुग्रहादेव स्यात् मैत्र्याद्यप्रमाणसम्यग्दृष्टिभावनायां न स्यात् /
8142 SK [२७२|११] तस्मादेष्टव्यं चैत्यै ऽपि पुण्यम् /
8143 SK [२७२|१२] मैत्र्यादिवदगृह्णति /
8144 SK [२७२|१३-२७२|१४] यथा मैत्र्यादिष्वन्तरेणापि प्रतिग्राहकं परानुग्रहं वा पुण्यं भवति स्वचित्तप्रभवं तथाभ्यतीते ऽपि गुणवति तद्भक्तिकृतं स्वचित्तात् पुण्यं भवति /
8145 SK [२७२|१४-२७२|१५] दानमानक्रिया तर्हि व्यर्था प्राप्नोति /
8146 SK [२७२|१५] न / तत्कर्मसमुत्थापिकाया भक्तेः प्रकृष्टतरत्वात् /
8147 SK [२७२|१५-२७२|१६] यथा हि शत्रुवधाभिप्रायस्य तत्समुत्थापितं कायवाक्कर्म /
8148 SK [२७२|१६-२७२|१७] शत्रुसंज्ञया तस्मिन्मृते ऽपि कुर्वतो बहुतरमपुण्यं जायते /
8149 SK [२७२|१७] नाभिप्रायमात्रेण /
8150 SK [२७२|१७-२७२|१८] तथाभ्यतीते शास्तरि तद्भक्तिसमुत्थां दानमानक्रियां कुर्वतो बहुतरं पुण्यं जायते /
8151 SK [२७२|१९] न भक्तिमात्रेण /
8152 SK [२७२|१९-२७२|२०] यदि स्वक्षेत्रे दानक्रियावीजमिष्टफलं भवति तत्क्षेत्रे तर्ह्यनिष्टफलं भविष्यति /
8153 SK [२७२|२१] कुक्षेत्रे ऽपीष्टफलता फलबीजाविपर्ययात् // VAक्K_४.१२१ //
8154 SK [२७२|२२-२७२|२३] कुक्षेत्रे ऽपि फलस्य बीजादविपर्ययो दृष्टो मृद्वीकाबीजान्मृद्वीकाफलमेवोत्पद्यते मधुरं निम्बवीजान्निम्बमेव तिक्तम् /
8155 SK [२७२|२३-२७२|२४] एवं कुक्षेत्रे ऽपि परहिताध्याशयप्रवृत्तस्य दानबीजस्येष्टमेव फलं निर्वर्तते नानिष्टम् /
8156 SK [२७२|२४-२७३|०१] क्षेत्रदोषात्तु तद्वीजमल्पफलं वा भवत्यफलं वा /
8157 SK [२७३|०१] गतं दानमयपुण्यक्रियावस्तु सप्रसङ्गम् //
8158 SK [२७३|०२] शीलमयं वक्तव्यम् / तदुच्यते
8159 SK [२७३|०३] दौःशीत्लमशुभं रूपं शीलं तद्विरतिः
8160 SK [२७३|०४] अकुशलं हि रूपं दौःशील्यमुच्यते / तस्माद्विरतिः शीलम् / सा पुनर्विरतिः
8162 SK [२७३|०६] यया च विरम्यते विज्ञप्त्या यच्च तद्विरमणम् अविज्ञप्तिः /
8163 SK [२७३|०६-२७३|०७] न च केवलं दौःशील्याद्विरतिः शीलम् /
8164 SK [२७३|०७] किं तर्हि /
8165 SK [२७३|०८] प्रतिक्षिप्ताच्च बुद्धेन
8166 SK [२७३|०९-२७३|१०] यदपि न प्रकृत्या दौःशीलयं भगवता च बुद्धेन प्रतिक्षिप्तमकालभोजनादिकं तस्मादपि द्विधा विरतिः शीलम् /
8167 SK [२७३|१०] समात्तशिक्षस्य तु तदध्याचाराद्दौःशील्यं जायते //
8168 SK [२७३|१०-२७३|११] उक्तं तमासेन शीलम् //
8169 SK [२७३|१२] विशुद्धं तु चतुर्गुणम् // VAक्K_४.१२२ //
8170 SK [२७३|१३] तत्तु शीलं चतुर्गुणं भवति / विपर्ययादविशुद्धम् / अथ कथं चतुर्गुणमित्याह
8171 SK [२७३|१४] दौःशील्यतद्धेत्वहतं तद्विपक्षशमाश्रितम् /
8172 SK [२७३|१५] दौःशीत्येन तावदनुपहतं भवति यथोक्तेन दौःशील्येन / हेतुना ऽप्यनुपहतं भवति /
8173 SK [२७३|१६] लोभादिभिः क्लेशोपक्लेशैः दौःशील्यविपक्षाश्रितं च भवति /
8174 SK [२७३|१६-२७३|१७] स्मृत्युपस्थानसंनिश्रितत्वात् समाश्रितं च भवति /
8175 SK [२७३|१७] नोपपत्तिविशेषाश्रितम् /
8176 SK [२७३|१७-२७३|१८] निर्वाणपरिणामितवात् /
8177 SK [२७३|१८] पञ्चभिः कारणैः इत्यपरे /
8178 SK [२७३|१८-२७३|१९] मौलैः कर्मपथैर्विशुद्धं भवति सामन्तकैर्विशुद्धं वितर्कैरनुपहतं स्मृत्या ऽनुपरिगहीतं निर्वाणपरिणामितं चेति /
8179 SK [२७३|१९-२७३|२०] चतुर्विधं शीलमित्यपरे /
8180 SK [२७३|२०] भयशीलं यदा जीविकाश्लोकदण्डदुर्गतिभयात् पाल्यते /
8181 SK [२७३|२०-२७३|२१] आशास्तिशीलं यद्भवभोगसत्कारतृष्णाकृतम् /
8182 SK [२७३|२१-२७३|२२] बोध्यङ्गानुलोमं शीलं यन्मोक्षार्थं सम्यग्दृष्टिकाणाम् /
8183 SK [२७३|२२] परिशुद्धं शीलमनास्रवशीलं निर्मलत्वादिति //
8185 SK [२७३|२३] समाहितं तु कुशलं भावना
8186 SK [२७३|२४] किमिदं समाहितं नाम / समाधिस्वभावं सहभू यत् / किमर्थमेतत् भावनेत्युच्यते /
8187 SK [२७४|०१] चित्तवासनात् // VAक्K_४.१२३ //
8188 SK [२७४|०२] तद्धि समाहितं कुशलमत्यर्थं चित्तं वासयति / गुणैस्तन्मयीकरणात्संततेः /
8189 SK [२७४|०२-२७४|०३] पुष्पैस्तिलभावनावत् /
8190 SK [२७४|०३] दानं तावन्महाभोगतायै संवर्तत इत्युक्तम् /
8191 SK [२७४|०३-२७४|०४] अथ शीलं भावना च
8192 SK [२७४|०५] स्वर्गाय शीलं प्राधान्यात् विसंयोगाय भावना /
8193 SK [२७४|०६] दानमपि स्वर्गाय शीलं प्राधान्यात् / शीलमपि विसंयोगाय / भावना तु प्राधान्यात् /
8194 SK [२७४|०७] सुत्र उक्तं ᳚चत्वारः पुद्गला ब्राह्मण्यं पुण्यं प्रसवन्ती᳚ति /
8195 SK [२७४|०७-२७४|०८] कतमत् तद् ब्राह्मपुण्यम् /
8196 SK [२७४|०८] यत्तल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तम् इति वैभाषिकाः /
8197 SK [२७४|०९] पूर्वाचार्यास् तु व्याचक्षते /
8198 SK [२७४|१०] चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात् // VAक्K_४.१२४ //
8199 SK [२७४|११] यावता पुण्येन कल्पं स्वर्गेषु मोदते इदं ब्राह्मं पुण्यम् /
8200 SK [२७४|११-२७४|१२] ब्रह्मपुरोहितानां कल्पायुष्कत्वात् /
8201 SK [२७४|१२] निकायान्तरे गाथां पठन्ति
8202 SK [२७४|१३] ᳚ब्राह्मं पुण्यं प्रसवति कल्पं स्वर्गेषु मोदत᳚ इति /
8203 SK [२७४|१४] आमिषदानमुक्तम् / धर्मदानं वक्तव्यम् / तदिदमुच्यते /
8204 SK [२७४|१५] धर्मदानं यथाभूत सूत्राद्यक्लिष्टदेशना /
8205 SK [२७४|१६] सूत्रादीनां यथाभूतमक्लिष्टदेशना धर्मदानम् /
8206 SK [२७४|१६-२७४|१७] अतो महतीं त आत्मनः पुण्यज्यानिं कुर्वन्ति ये विपरीतधर्मं देशयन्ति /
8207 SK [२७४|१७-२७४|१८] क्लिष्टचित्ता वा लाभसत्कार यशांसि वाञ्छन्तः /
8208 SK [२७४|१८] उक्तं पुण्यक्रियावस्तुभेदेन त्रिविधं कुशलं पुनः
8209 SK [२७४|१९] पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा // VAक्K_४.१२५ //
8210 SK [२७४|२०-२७४|२१] पुण्यभागीयं यदिष्टविपाकं मोक्षभागीयं यस्मिन्नुत्पन्ने नियतं परिनिर्वाणधर्मा भवति /
8211 SK [२७४|२१-२७४|२३] यस्य संसारादीनवनैरात्म्यनिर्वाणगुणद्योतिकां कथां श्रुत्वा रोमहर्षाश्रूपातौ भवतस्तस्यास्ति मोक्षभागीयं कुशलमूलमित्यवसेयं प्रवृषीवाङ्कुरप्ररोहात् खलविलेषु बीजास्तित्वम् /
8212 SK [२७४|२३-२७४|२४] निर्वेधभागीयमुष्मादि चतुर्विधं पश्चाद्व्याख्यास्यामः /
8213 SK [२७५|०१] यदिदं लोक उच्यते लिपिमुद्रागणना काव्यं संख्येति क एषां स्वभावः /
8214 SK [२७५|०२-२७५|०३] योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा / लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम् // VAक्K_४.१२६ //
8215 SK [२७५|०४] योगप्रवर्तितमिति उपायविशेषप्रवर्तितम् / त्रिधा कर्मेति कायवाङ्मनस्कर्म /
8216 SK [२७५|०४-२७५|०५] तत्र लिपिमुद्रे तावद्योगप्रवर्तितं कायकर्म समुत्थापनम् /
8217 SK [२७५|०५] गणना काव्यं च वाक्कर्म /
8218 SK [२७५|०६] इत्येतानि पञ्चस्कन्धस्वभावानि / संख्या मनस्कर्म / यन्मनसा संकलनं धर्माणाम् /
8219 SK [२७५|०७] धर्माणामिदानीं केचित् पर्याया उच्यन्ते /
8220 SK [२७५|०८] सावद्या निवृता हीनाः क्लिष्टा धर्माः
8221 SK [२७५|०९] क्लिष्टानां धर्माणां सावद्या निवृता हीना इति पर्यायाः /
8222 SK [२७५|१०] शुभामलाः /
8224 SK [२७५|१२] कुशलानास्रवाणां प्रणीता इति पर्यायः /
8225 SK [२७५|१२-२७५|१३] हीनप्रणीतेभ्यो ऽन्ये मध्या इति सिद्धं भवति /
8226 SK [२७५|१४] संस्कृतशुभाः सेव्याः
8227 SK [२७५|१५] कुसलसंस्कृतानां सेवितव्या इति पर्यायः / शेषा असेवितव्या इति सिद्धं भवति /
8228 SK [२७५|१६] कस्मादसंस्कृतं न सेव्यम् / अनभ्यसनीयत्वादफलत्वाच्च / फलर्थं हि सेवा भवति /
8229 SK [२७५|१७] सोत्तरा अन्ये सर्वधर्माः /
8230 SK [२७५|१८] मोक्षस्त्वनुत्तरः // VAक्K_४.१२७ //
8231 SK [२७५|१९] नहि निर्वाणाद्विशिष्टतरमस्ति / तच्च सर्वेभ्यो विशिष्टं कुशलनित्यत्वात् /
8232 SK =====================================================================
8233 SK [२७५|२०-२७५|२१] अभिधर्मकोशभाष्ये कर्मनिर्द्देशो नाम चतुर्थं कोशस्थानमिति //
8235 SK =====================================================================
8237 SK =====================================================================
8238 SK [२७७|०३] ᳚कर्मजं लोकवैचित्र्य᳚ मित्युक्तम् /
8239 SK [२७७|०३-२७७|०४] तानि कर्माण्यनुशयवशादुपचयं गच्छन्ति अन्तरेण चानुशयान् भवाभिनिर्वर्त्तने न समर्थानि भवन्ति /
8240 SK [२७७|०४] अतो वेदितव्याः
8241 SK [२७७|०५] मूलं भवस्यानुशयाः
8242 SK [२७७|०६] क्लेशो हि प्रवर्तमानो दश कृत्यानि करोति /
8243 SK [२७७|०६-२७७|०९] मूलं च दृढीकरोति संततिमवस्थापयति क्षेत्रमापादयति निःष्यन्दं निर्वर्तयति कर्मभवमभिनिर्हरति स्वसंभारं अरिगृह्णाति आलम्बने संमोहयति विज्ञानस्रोतो नमयति कुशलपक्षाद्व्युत्क्रामति पन्धनार्थं च स्फरति धात्वनतिक्रमयोगेनेति /
8244 SK [२७७|१०] कति चेमे ऽनुशयाः / समासेन षट् / कतमे
8245 SK [२७७|११] षड्रागः प्रतिघस्तथा /
8246 SK [२७७|१२] मानो ऽविद्या च दृष्टिश्च विचिकित्सा च
8247 SK [२७७|१३] अथाग्रहणं रागवशेनान्येषामालम्बनानुशायितज्ञापनार्थम् /
8248 SK [२७७|१३-२७७|१४] एतच्च पश्चात् प्रवेदयिष्यामः /
8249 SK [२७७|१५] ते पुनः // VAक्K_५.१ //
8250 SK [२७७|१६] षड्रागभेदात्सप्तोक्ताः
8251 SK [२७७|१७] त एते षड्नुशयाः सूत्रे रागस्य द्विधा भेदं कृत्वा सप्तोक्ताः /
8252 SK [२७७|१७-२७७|१९] कामरागानुशयः प्रतिघानुशयो भवरागानुशयो मानानुश्यः अविद्यानुशयो दृष्ट्यनुशयो विचिकित्सानुशय इति /
8253 SK [२७७|१९-२७८|०१] कथमिदं ज्ञातव्यं कामराग एवानुशयः कामरागानुशयः आहोस्वित् कामरागस्यानुशयः कामरागनुशयः /
8254 SK [२७८|०१] किं चातः /
8255 SK [२७८|०१-२७८|०२] कामराग एवानुशयश्चेत् सूत्रविरोधः /
8256 SK [२७८|०२] ᳚इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरति /
8257 SK [२७८|०२-२७८|०३] उत्पन्नस्य कामरागपर्यवस्थानस्योत्तरि निःसरणं यथाभूतं प्रजानाति /
8258 SK [२७८|०३-२७८|०४] तस्य तत्कामरागपर्यवस्थानं स्थामशः सम्यक्त्वसमवहतं सानुशयं प्रहीयत᳚इति /
8259 SK [२७८|०४-२७८|०६] कामरागस्यानुशयश्चेद्विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः ᳚कामरागानुशयस्त्रिभिरिन्द्रियैः संप्रयुक्त᳚ इति /
8260 SK [२७८|०६] कामराग एवानुश्य इति वैभाषिकाः /
8261 SK [२७८|०६-२७८|०७] एवं यावद्विचिकित्सैवानुशय इति /
8262 SK [२७८|०७] ननु चोक्तमेवं सूत्रविरोध इति / नास्ति विरोधः / सानुशयं सानुबन्धमित्यर्थः /
8263 SK [२७८|०८] औपचारिको वा सूत्रे ऽनुशयशब्दः प्राप्तौ / यथा दुःखो ऽग्निरिति /
8264 SK [२७८|०८-२७८|०९] लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयशब्दः /
8265 SK [२७८|०९] तस्मात्संयुक्ता एवानुशयाः / कथमिदं गम्यते /
8267 SK [२७८|११] ᳚चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात्᳚ /
8268 SK [२७८|१२-२७८|१३] यस्मादनुशयैः क्लिष्टं चित्तं भवत्यपूर्वं कुशलं नोत्पद्यते उत्पन्नाच्च परिहीयते तस्मान्न विप्रयुक्ताः /
8269 SK [२७८|१३] अथ विप्रयुक्तैरप्येवं स्यात् /
8270 SK [२७८|१३-२७८|१४] कुशलं न कदाचिदुपलभ्येत /
8271 SK [२७८|१४] तेषां नित्यं संनिहितत्वात् / उपलभ्यते च / अतः
8272 SK [२७८|१५-२७८|१६] ᳚कुशलस्य चोपलम्भादविप्रयुक्ताः अथ इहानुशयाः᳚ इति /
8273 SK [२७८|१७-२७८|१८] तदिदमज्ञापकं यस्माद्यो विप्रयुक्तमनुशयमिच्छति स एतत्सर्वमनुशयकृतं नेच्छति /
8274 SK [२७८|१८] क्लेशकृतमेवेच्छति / एवं तु साधु यथा सौत्रान्तिकानाम् /
8275 SK [२७८|१९] कथं च सौत्रान्तिकानाम् / कामरागस्यानुशयः कामरागानुशय इति /
8276 SK [२७८|१९-२७८|२०] न चानुशयः संप्रयुक्तो न विप्रयुक्तस्तस्याद्रव्यान्तरत्वात् /
8277 SK [२७८|२०] प्रसुप्तो हि क्लेशो ऽनुशय उच्यते /
8278 SK [२७८|२१] प्रबुद्धः पर्यवस्थानम् / का च तस्य प्रसुप्तिः / असंमुखीभूतस्य बीजभावानुबन्धः /
8279 SK [२७८|२२] कः प्रबोधः / संमुखीभावः / को ऽयं वीजभावो नाम /
8280 SK [२७८|२२-२७८|२३] आत्मभावस्य क्लेशजा क्लेशोत्पादनशक्तिः /
8281 SK [२७८|२३-२७८|२४] यथानुभवज्ञानजा स्मृत्युत्पादनशक्तिर्यथा चाङ्कुरादीनां शालिफलजा शालिफलोत्पादनशक्तिरिति /
8282 SK [२७८|२४-२७९|०१] यस्तु क्लेशानां बीजार्थमर्थान्तरं वीप्रयुक्तमनुशयं कल्पयति तेन स्मृतिबीजमप्यर्थान्तरं कल्पयितव्यं जायते /
8283 SK [२७९|०१-२७९|०३] यत्तर्हि सूत्रे क्लेश एवानुशय उक्तः षट्षट्के ᳚सो ऽस्य भवति सुखायां वेदनायां रागानुशय᳚ इति /
8284 SK [२७९|०३] भवतीति वचनान्नासौ तदैवानुशयः / कदा तर्हि भवति /
8285 SK [२७९|०३-२७९|०४] यदा प्रसुप्तो भवति /
8286 SK [२७९|०४] हेतौ वा तदुपचार एष द्रष्टव्यः / तिष्ठतु प्रसङ्गः / शास्त्रं प्रवर्त्तताम् /
8287 SK [२७९|०५] य एष सूत्रे रागस्य भेदः कृतः कामरागो भवराग इति /
8288 SK [२७९|०६] को ऽयं भवरागः /
8289 SK [२७९|०७] भवरागो द्विधातुजः /
8290 SK [२७९|०८] रूपारूप्यधातुजो रागो भवरागः कृटः / किं कारणमेवं कृतः /
8291 SK [२७९|०९] अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः // VAक्K_५.२ //
8292 SK [२७९|१०] समापत्तिरागो हि तेषां प्रायेण / स चान्तर्मुखप्रवृत्तस्तस्मात् भवरागः /
8293 SK [२७९|११] उक्तस्तयोः किल धात्वोर्मोक्षसंज्ञाव्याव्यवर्त्तनार्थमेकेषामिति /
8294 SK [२७९|११-२७९|१२] आत्मभाव एव तु भवः /
8295 SK [२७९|१२-२७९|१३] ते च सत्त्वाः समापत्तिं साश्रया मास्वादयन्त आत्मभावमेवास्वादयन्ति कामवीतरागत्वात् /
8296 SK [२७९|१३] अतः स रागो भवराग इत्युक्तः /
8297 SK [२७९|१३-२७९|१४] पुनरेते षडनुशया अभिधर्मे दश क्रियन्ते /
8298 SK [२७९|१४] कथं कृत्वा /
8299 SK [२७९|१५-२७९|१६] दृष्टयः पञ्च सत्कायमिथ्यान्तग्राहदृष्टयः / दृष्टिशीलवृतपरामर्शाविति पुनर्दश // VAक्K_५.३ //
8300 SK [२७९|१७] षण्णामनुशयानां दृष्टिं पञ्चधा कृत्वा दश भवन्ति /
8301 SK [२७९|१७-२७९|१८] पञ्च दृष्टिस्वभावाः सत्कायदृष्टिरन्तग्रहदृष्टिर्मिथ्यादृष्टिर्दृष्टिपरामर्शः शीलवृतपरामर्शश्च /
8302 SK [२७८|१८-२७८|१९] यथा दृष्टिस्वभावाः रागह्प्रतिध्हो मानो ऽविद्या विचिकित्सा /
8303 SK [२७९|१९-२७९|२०] एते पुनरेते दशानुशया अभिधर्मे ऽष्टानवतिः क्रियन्ते /
8304 SK [२७९|२०-२७९|२१] कामावचराः षट्त्रिंशद् रूपावचरा एकत्रिंशत् आरूप्यावचरा एकत्रिंशत् /
8305 SK [२७९|२१] कथं कृत्वा /
8306 SK [२७९|२१-२७९|२२] समासतो ह्येते ऽनुशयास्त्रैधातुका दर्शनप्रहातव्या भावनाप्रहातव्याश्च /
8307 SK [२७९|२२-२७९|२३] तत्र तावत् कामावचरा दर्शनप्रहातव्या द्वात्रिंशत् /
8308 SK [२७९|२३] कतमे त इत्याह
8309 SK [२८०|०१-२८०|०२] दशैते सप्तसप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः / यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः // VAक्K_५.४ //
8310 SK [२८०|०३] य एते दशानुशया उक्ता एते कामधातौ दशापि दुःखदर्शनहेयाः सन्ति /
8311 SK [२८०|०४] एभ्य एव सप्त समुदयदर्शनप्रहेयाः /
8312 SK [२८०|०४-२८०|०५] सप्त निरोधदर्शनहेयाः सत्कायदृष्टिमन्तग्राहदृष्टिं शीलव्रतपरामर्शं च वर्जयित्वा /
8313 SK [२८०|०५] अष्टौ मार्गदर्शनहेयाः /
8314 SK [२८०|०५-२८०|०६] सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वा /
8315 SK [२८०|०६] इत्येते कामावचरा द्वात्रिंशदनुशया दर्शनप्रहातव्याः /
8316 SK [२८०|०७] सत्यानां दर्शनमात्रेण प्रहाणात् /
8317 SK [२८०|०८] चत्वारो भावनाहेयाः
8318 SK [२८०|०९] तद्यथा रागः प्रतिघो मानो ऽविद्या च /
8319 SK [२८०|०९-२८०|१०] दृष्टसत्यस्य पश्चात् मार्गाभ्यासेन प्रहाणात् /
8320 SK [२८०|१०] तदेवं सत्कायदृष्टिरेकप्रकारा भवति दुःखदर्शनहेया /
8321 SK [२८०|१०-२८०|११] एवमन्तग्राहदृष्टिः मिथ्यादृष्टिश्चतुष्प्रकारा भवति /
8322 SK [२८०|११] दुःखसमुदयनिरोधमार्गदर्शनहेया /
8323 SK [२८०|११-२८०|१२] एवं दृष्टिपरामर्शो विचिकित्सा च /
8324 SK [२८०|१२] शीलव्रतपरामऋशो द्विप्रकारः दुःखमार्गदर्शनहेयः /
8325 SK [२८०|१३-२८०|१४] रागप्रतिघमानाविद्याः पञ्चप्रकाराश्चतुःसत्यदर्शनहेया भावनाहेयाश्च /
8326 SK [२८०|१४] कीदृशा एते दुःखदर्शनहेयाः कीदृशा यावद् भावनाहेयाः /
8327 SK [२८०|१४-२८०|१५] ये यद्दर्शनहेयालम्बनास्ते तद्दर्शनहेया अवशिष्टा भावनाहेयाः /
8328 SK [२८०|१५-२८०|१७] ता एव द्वादश दृष्टयो भवन्ति चतस्रो विचिकित्साः पञ्च रागाः पञ्च प्रतिघाः पञ्च मानां पञ्चाविद्या इत्येते कामावचराः षट्त्रिंशदनुशया भवन्ति /
8329 SK [२८०|१८] त एवाप्रतिघाः पुनः /
8331 SK [२८०|२०] पञ्चप्रकारं प्रतिघमपहाय त एव रूपावचरा एकत्रिंशदनुशया भवन्ति /
8332 SK [२८०|२१] यथा रूपधातौ
8334 SK [२८०|२३] एकत्रिंशदनुशया भवन्ति /
8335 SK [२८०|२४] इत्यष्टानवतिर्मताः // VAक्K_५.५ //
8336 SK [२८०|२४-२८०|२५] त एवमेते षडनुशया आकारप्रकारधातुभेदैरष्टानवतिर्मताः आमिधार्मिकाणाम् /
8337 SK [२८१|०१] य इमे दर्शनप्रहातव्यानुशया उक्ताः किमेते नियतं दर्शनेनैव प्रहीयन्ते /
8338 SK [२८१|०२] नेत्याह / किं तर्हि /
8339 SK [२८१|०३] भवाग्रजाः क्षान्तिवध्या दृग्घेया एव
8340 SK [२८१|०४] ये भवाग्रभूमिजा अन्वयज्ञानक्षान्तिहेया अनुशयास्ते दर्शनहेया एव न भावनाहेयाः /
8342 SK [२८१|०६] दृग्भावनाभ्याम्
8343 SK [२८१|०७] क्षान्तिवध्या इति वर्तते /
8344 SK [प्२८|१०७-२८१०८] शेषासु भूमिषु यथायोगं धर्मान्वयज्ञानक्षान्तिहेया अनुशया आर्याणां दर्शनहेयाः पृथग्जनानां भावनाहेयाः /
8345 SK [२८१|०९] अक्षान्तिवध्या भावनयैव तु // VAक्K_५.६ //
8346 SK [२८१|१०] सर्वासु भूमिषु ये ऽनुशया ज्ञानवध्यास्ते उभयेषां नित्यं भावनाहेयाः /
8347 SK [२८१|१०-२८१|११] नैव हि बाह्यकानां दर्शनप्रहातव्याः प्रहीयन्त इत्यपरे /
8348 SK [२८१|१२-२८१|१४] तथाहि महाकर्मविभागसूत्रे पूर्वान्तकल्पकानां च शाश्वतवादिनामेकत्यशाश्वतिकानाम् अहेतुसमुत्पत्तिकानां च वीतरागाणां च कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः /
8349 SK [२८१|१३-२८१|१४] न च रूपावचराणां क्लेशानां कामधातुरालम्बनं वीतरागत्वात् /
8350 SK [२८१|१४-२८१|१५] तस्मात् कामप्रतिसंयुक्ता एव ता अप्रहीणा इति /
8351 SK [२८१|१५-२८१|१६] दृष्ट्युत्पादसमकालं ते परिहीणा देवदत्त इवेति वैभाषिकाः /
8352 SK [२८१|१७] दृष्टयः पण्च नामतो निर्दिष्टा न तु स्वभावतस्तत् कस्तासां स्वभावः /
8353 SK [२८१|१८-२८१|१९] आत्मात्मीयद्रुवोच्छेदनास्तिहीना ग्रदृष्टयः / अहेत्वमार्गे तद्दृष्टिरेतास्ताः पञ्च दृष्टयः // VAक्K_५.७ //
8354 SK [२८१|२०] आत्मदृष्टिरात्मीयदृष्टिर्वा सत्कायदृष्टिः / सीदतीति सत् /
8355 SK [२८१|२०-२८१|२१] चयः कायः संघातः स्कन्ध इत्यर्थः /
8356 SK [२८१|२१] सच्चायं कायश्चेति सत्कायः पञ्चोपादानस्कन्धाः /
8357 SK [२८१|२२] नित्यसंज्ञां पिण्डसंज्ञां च त्याजयितुमेवं द्योतिता / एतत्पूर्वको हि तेष्वात्मग्रहः /
8358 SK [२८१|२३] सत्काये दृष्टिः सत्कायदृष्टिः /
8359 SK [२८१|२३-२८१|२४] सर्वैव सास्रवालम्बना दृष्टिः सत्काये /
8360 SK [२८१|२४] आत्मात्मीयदृष्टिरेव तु सत्कायदृष्टिरुक्ता /
8361 SK [२८१|२४-२८२|०१] यथा गम्येत सत्कायदृष्टिरियं नात्मनि नात्मीये वेति /
8362 SK [२८२|०१-२८२|०३] यथोक्तं ᳚ये केचिद् भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानि᳚ति /
8363 SK [२८२|०३] तस्यैवात्माभिमतस्य वस्तुनो ध्रुवदृष्टिरुच्छेददृष्टिर्वा ऽन्तग्राहदृष्टिः /
8364 SK [२८२|०४] शाश्वतोच्छेदान्तग्रहणात् / सति दुःखादिसत्ये नास्तीति दृष्टिर्मिथ्यादृष्टिः /
8365 SK [२८२|०४-२८२|०५] सर्वैव हि विपरीतस्वभावप्रवृट्ता दृष्टिर्मिथ्यादृष्टिः एकैव तूक्ता /
8366 SK [२८२|०५-२८२|०६] अतिशयवत्त्वात् दुर्गन्धक्षतवत् /
8367 SK [२८२|०६] एषा ह्यपवादिका अन्यास्तु समारोपिकाः / हीने अग्रदृष्टिर्दृष्टिपरामर्शः /
8368 SK [२८२|०७] किं हीनम् / सर्वं सास्रवम् / आर्यैः प्रहीणत्वात् / तस्याग्रतो ग्रहणं दृष्टिपरामर्शः / [२८२|०८] दृष्ट्यादिपरामर्श इति वक्तव्ये आदिशब्दलोपः कृतः /
8369 SK [२८२|०८-२८२|०९] अहेतौ हेतुदृष्टिरमार्गे मार्गदृष्टिः शीलवृतपरामर्शः /
8370 SK [२८२|०९] तद्यथा महेश्वरो न हेतुर्लोकानाम् /
8371 SK [२८२|०९-२८२|१०] तं च हेतुं पश्यति प्रजापतिमन्यं वा /
8372 SK [२८२|१०-२८२|११] अग्निजलप्रवेशादयश्च न हेतुः स्वर्गस्य तांश्च हेतुं पश्यति /
8373 SK [२८२|११-२८२|१२] शीलव्रतमात्रकं सांख्ययोगज्ञानादयश्च न मार्गो मोक्षास्य तांश्च मार्गं पश्यति /
8374 SK [२८२|१२-२८२|१३] अत्रापि किलादिशब्दलोपः कृत इत्येतास्ताः पञ्च दृष्टयो वेदितव्याः /
8375 SK [२८२|१३] सत्यकारणे कारणदृष्टिः शिलव्रतपरामर्शः /
8376 SK [२८२|१३-२८२|१४] कस्मादयं न समुदयदर्शनप्रहातव्यः /
8377 SK [२८२|१४-२८२|१५] यो हि कश्चिदीश्वरः प्रजापतिमन्यं वा कारणं पश्यति स तन्नित्यमेकं चात्मानं कर्तारमभिनिविश्य /
8378 SK [२८२|१५] तद्यस्मात् स
8379 SK [२८२|१६-२८२|१७] ईश्वरादिषु नित्यात्मविपर्यासात् प्रवर्तते / कारणाभिनिवेशो ऽतो दुःखदृग्घेय एव सः // VAक्K_५.८ //
8380 SK [२८२|१८] दुःखदर्शनादेव हि तेषु तौ नित्यात्मग्राहौ प्रहीयेते /
8381 SK [२८२|१८-२८२|१९] तस्मात्तत्कृतो ऽपि कारणाभिनिवेशस्तत एव प्रहीयते /
8382 SK [२८२|१९-२८२|२०] यस्तर्हि जलाग्निप्रवेशादिभिः स्वर्गोपपत्तिं पश्यति शीलवृतेन वा शुद्धिं सो ऽपि दुःखदर्शनप्रहातव्य एव /
8383 SK [२८२|२०] एष हि शास्त्रपाठः /
8384 SK [२८२|२०-२८२|२२] ᳚ये चैवं दृष्टय एवंवादिनो यदयं पुरुषपुद्गलो गोशीलं समादाय वर्तते मृगशीलं कुक्कुरशीलं, स तेन शुध्यति मुच्यते सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति /
8385 SK [२८२|२२-२८२|२३] अकारणं कारणतः प्रत्येति शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यः᳚ इति विस्तरः /
8386 SK [२८२|२३-२८२|२४] किं पुनः कारणमसौ दुःखदर्शनप्रहातव्यः /
8387 SK [२८२|२४] दुःखे विप्रतिपन्नत्वात् /
8388 SK [२८२|२४-२८२|२५] सर्वेषां सास्रवालम्बनानां दुःखे विप्रतिपन्नत्वात् /
8389 SK [२८२|२५-२८२|२६] कीदृशो वा ऽन्यः शीलवृतपरामर्शो मार्गेदर्शनप्रहात्व्यः /
8390 SK [२८२|२६] यो मार्गदर्शनप्रहातव्यालम्बनः /
8391 SK [२८२|२६-२८२|२७] सो ऽपि हि नाम दुःखे विप्रतिपन्नः /
8392 SK [२८२|२७-२८२|२८] यस्य च मार्गालम्बना मिथ्यादृष्टिर्विचिकित्सा वा ऽस्ति स नास्ति मोक्षमार्ग इति पश्यन् विचिकित्सन् वा कथं तया शुद्धिं प्रत्येष्यति /
8393 SK [२८३|०१] अथान्यं मोक्षमार्गं परामृश्य एष मोक्षमार्गो नास्तीत्याह /
8394 SK [२८३|०१-२८३|०२] सो ऽपि तेनैवान्येन शुद्धिं प्रत्येति न तया मिथ्यादृष्ट्येति /
8395 SK [२८३|०२-२८३|०३] तस्याप्यसौ मार्गदर्शनप्रहातव्यालम्बनो न सिध्यति /
8396 SK [२८३|०३-२८३|०४] यश्चापि समुदयनिरोधदर्शनप्रहातव्यालम्बनया मिथ्यादृष्ट्या शुद्धिं प्रत्येति स कस्मान्न तद्दर्शनहेयः /
8397 SK [२८३|०४] तस्मात् परीक्ष्य एषो ऽर्थः /
8398 SK [२८३|०५] यदुक्तं ᳚नित्यात्मविपर्यासादि᳚ति / किमेतावेव द्वौ विपर्यासौ /
8399 SK [२८३|०५-२८३|०६] चत्वारो विपर्यासाः /
8400 SK [२८३|०६] अनित्ये नित्यमिति / दुःखे सुखमिति / अशुचौ शुचीति /
8401 SK [२८३|०६-२८३|०७] अनात्मन्यात्मेति /
8402 SK [२८३|०७] अथैतद्विपर्यासचतुष्कं किंस्वभावम् /
8403 SK [२८३|०८] दृष्टित्रयाद्विपर्यासचतुष्कं
8404 SK [२८३|०९] अन्तग्राहदृष्टेः शाश्वतदृष्टिर्नित्यविपर्यासः /
8405 SK [२८३|०९-२८३|१०] दृष्टिपरामर्शात्सुखशुचिविपर्यासौ /
8406 SK [२८३|१०] सत्कायदृष्टेरात्मदृष्टिरात्मविपर्यासः / सकलेत्यपरे /
8407 SK [२८३|१०-२८३|११] कथमात्मीयदृष्टिर्विपर्यासः /
8408 SK [२८३|११] कथं च न विपर्यासः / विपर्याससूत्राद् /
8409 SK [२८३|११-२८३|१३] आत्मानमेव तत्र वशिनं पश्येन्नात्मीयं पश्यतीत्यात्मदृष्टिरेवासौ द्विमुखी अथाहमित्येतस्मात् ममेति दृष्ट्यन्तरं स्यात् /
8410 SK [२८३|१३] मया मह्यमित्येतदपि स्यात् /
8411 SK [२८३|१४] कस्मादन्ये क्लेशा न विपर्यासाः /
8412 SK [२८३|१४-२८३|१५] यस्मात् त्रिभिः कारणैर्विपर्यासानां व्यवस्थानम् कतमैस्त्रिभिः /
8413 SK [२८३|१६] वीपरीततः /
8414 SK [२८३|१७] नितीरणात् समारोपात्
8415 SK [२८३|१८] एकान्तविपर्यस्तत्वादालम्बने नितीरकत्वात्समारोपणाच्च /
8416 SK [२८३|१८-२८३|१९] उच्छेददृष्टिर्मिथ्यादृष्टिश्च न समारोपिके /
8417 SK [२८३|१९] अभावमुखप्रवृत्तत्वात् /
8418 SK [२८३|१९-२८३|२०] शीलव्रतपरामर्शो नैकान्तविपर्यस्तस्तन्मात्रशुद्ध्यालम्बनत्वात् /
8419 SK [२८३|२०-२८३|२१] अन्ये क्लेशा न सन्तीरका अतो न विपर्यासाः /
8420 SK [२८३|२१-२८३|२२] यत्तर्हि सूत्रे उक्त ᳚मनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिविपर्यास᳚ इति /
8421 SK [२८३|२२] दृष्टिरेवात्र विपर्यासः /
8422 SK [२८४|०१] संज्ञाचित्ते तु तद्वशात् // VAक्K_५.९ //
8423 SK [२८४|०२] दृष्टिविपर्यासवशादेव तत्संप्रयुक्ते संज्ञाचित्ते विपर्यासावुक्तौ /
8424 SK [२८४|०२-२८४|०३] वेदनादयो ऽपि कस्मान्नोक्ताः /
8425 SK [२८४|०३] लोकप्रसिद्ध्या /
8426 SK [२८४|०३-२८४|०४] लोके हि विपर्यस्तसंज्ञो विपर्यस्तचित्त इति प्रसिद्धं न पुनर्विपर्यस्तवेदन इति /
8427 SK [२८४|०४-२८४|०५] त एते विपर्यासाः सर्वे ऽपि स्रोत आपन्नस्य प्रहीणा भवन्ति /
8428 SK [२८४|०५] दर्शनप्रहेयत्वात् दृष्टीनां ससंप्रयोगाणाम् / द्वादश विपर्यासाः /
8429 SK [२८४|०५-२८४|०६] अनित्ये नित्यमिति संज्ञादृष्टिचित्तविपर्यासास्त्रयः /
8430 SK [२८४|०६] एवं यावदनात्मन्यात्मेति /
8431 SK [२८४|०६-२८४|०७] तत्राष्टौ दर्शनप्रहातव्याश्चत्वारो भावनाप्रहातव्याः /
8432 SK [२८४|०७-२८४|०८] दुःखे च संज्ञा चित्तविपर्यासावशुचौ चेति निकायान्तरीयाः /
8433 SK [२८४|०८-२८४|०९] इतरथा हि कथमन्तरेण सुखशुचिसंज्ञामवीतरागस्यार्यस्य कामरागः संभवेदिति /
8434 SK [२८४|०९] तदेतन्नेच्छन्ति वैभाषिकाः /
8435 SK [२८४|१०] यदि हि सुखशुचिसंज्ञाचित्तसमुदाचारादार्यस्य तद्विपर्यासावीक्ष्येते /
8436 SK [२८४|१०-२८४|११] सत्त्वसंज्ञाचित्तसमुदाचारात्तद्विपर्यासावपि किं नेष्येते /
8437 SK [२८४|११-२८४|१२] न हि स्त्रियामात्मनि च विना सत्त्वसंज्ञाया कामरागो युक्त इति /
8438 SK [२८४|१२-२८४|१३] सूत्रे ऽपि चोक्तं ᳚यतश्च श्रुतवानार्यश्रावक इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति /
8439 SK [२८४|१३-२८४|१४] यावत् तस्य तस्मिन् समये यो ऽनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिवीपर्यासः स प्रहीयत᳚ इति विस्तरः /
8440 SK [२८४|१४-२८४|१६] तस्माद् दृष्टिसमुत्ये एव संज्ञाचित्ते विपर्यासौ नान्ये तत्काल भ्रान्तिमात्रत्वादलातचक्रचित्र यक्षभ्रान्तिवत् /
8441 SK [२८४|१६] यत्तर्हि स्थविरानन्देनार्थं वागीशमधिकृत्योक्तं
8442 SK [२८४|१७-२८४|१८] ᳚विपर्यासे च संज्ञानां चित्तं ते परिदह्यते᳚ / निमित्तं वर्ज्यतां तस्माच्छुभं रागोपसंहितम् //
8443 SK [२८४|१९] तस्मात् सर्व एवाष्टौ संज्ञाचित्तविपर्यासाः शैक्षस्याप्रहीणा इत्यपरे /
8444 SK [२८४|१९-२८४|२०] ते ऽपि चार्यसत्यानां यथाभूतपरिज्ञानात् प्रहीयन्ते /
8445 SK [२८४|२०-२८४|२१] न विना तेनेत्युपायसमा ख्यानान्नास्ति सूत्रविरोधः /
8446 SK [२८४|२२] अथ किं दृष्ट्यनुशयस्य एव भेदो नान्यस्य / मानस्याप्यस्ति / कथमित्याह
8447 SK [२८४|२३] सप्त मानाः
8448 SK [२८४|२४] मानो ऽतिमानो मानातिमानो ऽस्मिमानो ऽभिमान ऊनमानो मिथ्यामानश्च /
8449 SK [२८४|२५] अभेदेन चित्तस्योन्नतिर्मान उक्ताः / स प्रवृत्तिभेदात् सप्तधा भवति /
8450 SK [२८४|२५-२८५|०१] हीनाद्विशिष्टः समेन वा समो ऽस्मीति मन्यमानस्योन्नतिर्मानः /
8451 SK [२८५|०१] समाद्विशिष्टो ऽस्मीत्यभिमानः /
8452 SK [२८५|०२] विशिष्टाद्विशिष्टो ऽस्मीति मानातिमानः /
8453 SK [२८५|०२-२८५|०३] पञ्चोपादानस्कन्धानात्मत आत्मीयतो वा मन्यमानस्यास्मिमानः /
8454 SK [२८५|०३] अप्राप्ते विशेषाधिगमे प्राप्तो मयेत्यभिमानः /
8455 SK [२८५|०३-२८५|०४] बह्वन्तरविशिष्टादल्पान्तरहीनो ऽस्मीत्यूनमानः /
8456 SK [२८५|०४] अगुणवतो गुणवानस्मीति मिथ्यामानः /
8457 SK [२८५|०५] यत्तर्हि शास्त्रे नव मानविधा उक्ताः / ᳚श्रेयानस्मीति मानविधा /
8458 SK [२८५|०५-२८५|०६] सदृशो ऽस्मीति मानविधा /
8459 SK [२८५|०६] हीनो ऽस्मीति मानविधा /
8460 SK [२८५|०६-२८५|०७] अस्ति मे श्रेयानस्ति मे सदृशो ऽस्ति मे हीनः /
8461 SK [२८५|०७] नास्ति मे श्रेयान्नास्ति मे सदृशो नास्ति मे हीन᳚ इति /
8462 SK [२८५|०७-२८५|०८] एभ्य एव मानेभ्य एताः /
8463 SK [२८५|०९] नवविधास्त्रिभ्यः
8464 SK [२८५|१०] कतमेभ्यस्त्रिभ्यः मानातिमानोनमानेभ्यः /
8465 SK [२८५|१०-२८५|११] तत्र प्रथमं त्रयं दृष्टिसंनिश्रितास्त्रयो मानाः /
8466 SK [२८५|११] अतिमानमानोनमानाः / द्वितीयं त्रयमूनमानमानातिमानाः /
8467 SK [२८५|११-२८५|१२] तृतीयं त्रयं मानातिमानोनमानाः /
8468 SK [२८५|१२-२८५|१३] युक्तस्तावद् बह्वन्तरविशिष्टादल्पान्तरहीनो ऽस्मीत्यूनमान उन्नतिस्थानत्वात् /
8469 SK [२८५|१३-२८५|१४] नास्ति मे हीन इत्यत्र किमुन्नति स्थानम् /
8470 SK [२८५|१४] अस्ति सदृशो यो ऽभिप्रेते वरे सत्त्वराशौ निहीनमप्यात्मानं बहु मन्यते /
8471 SK [२८५|१५] अपि चास्त्येव ज्ञानप्रस्थानविहितो विधिः /
8472 SK [२८५|१५-२८५|१७] प्राकरणं तु निर्देशं परिगृह्य श्रेयानस्मीत्येकेषु मानो ऽपि स्यादति मानो ऽपि मानातिमानो ऽपि हीनसमविशिष्टापेक्षया /
8473 SK [२८५|१८] अथैते सप्त मानाः किंप्रहातव्या इत्याह
8474 SK [२८५|१९] दृग्भावनाक्ष्याः /
8475 SK [२८५|२०] दृग्भावनाभ्यामेषां क्षयः /
8476 SK [२८५|२०-२८५|२१] एतदुक्तं भवति सर्वे दर्शनभावनाप्रहातव्या इति यद्भावनाहेयमप्रहीणं किमवश्यं तदार्याणां समुदाचरति /
8477 SK [२८५|२१] नावश्यं तद्यथा
8478 SK [२८५|२२] वधादिपर्यवस्थानं हेयं भावनया
8479 SK [२८५|२३-२८५|२४] येन क्लेशपर्यवस्थानेन संचिन्त्य प्राणिवधं कुर्याद्यावन्मृषावादं तद् भावनाहेयं भावनाहेयधर्मालम्बनत्वात् /
8480 SK [२८५|२५] तथा // VAक्K_५.१० //
8482 SK [२८६|०२] विभवतृष्णा ऽपि भावनाहेया / विभवो नाम क एष धर्मः / त्रैधातुकी अनित्यता /
8483 SK [२८६|०३] तत्र प्रर्थना विभवतृष्णा / तथाशब्देन भवतृष्णायाः प्रदेशो गृह्यते /
8484 SK [२८६|०३-२८६|०४] ᳚अहो वताहमैरावणः स्यां नागराज᳚ इत्येवमादि /
8485 SK [२८६|०४-२८६|०५] मानविधा अपि भावनाप्रहातव्याः सन्तीत्युक्तमस्मिममानश्च /
8486 SK [२८६|०६] न चार्यस्य संभवन्ति विधादयः /
8488 SK [२८६|०८] आदिग्रहणेन यावद्विभवतृष्णाया ग्रहणम् /
8489 SK [२८६|०८-२८६|०९] किं कारणमप्रहीणा अप्येते न समुदाचरन्ति /
8490 SK [२८६|१०] दृष्टिपुष्टत्वात्
8491 SK [२८६|११] सत्कायदृष्टिपुष्टा हि मानविधा अस्मिमानश्च /
8492 SK [२८६|११-२८६|१२] अतो भग्नपृष्ठत्वात् नोत्थातुम् पुनरुत्सहन्ते /
8493 SK [२८६|१२] वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टत्वात् /
8494 SK [२८६|१२-२८६|१३] विभवतृष्णा उच्छेद्दृष्टिपुष्टत्वात् /
8495 SK [२८६|१३] भवतृष्णायाः प्रदेशः शाश्वतदृष्टिपुष्टत्वात् /
8496 SK [२८६|१४] कौकृत्यं नापि चाशुभम् // VAक्K_५.११ //
8497 SK [२८६|१५] अकुक्शलं चापि कौकृत्यं भावनाप्रहातव्यम् /
8498 SK [२८६|१५-२८६|१६] न चार्यस्य तत्संभवति विचिकित्सा समुत्थितत्वात् /
8499 SK [२८६|१७] अथैषामष्टानवतेरनुशयानां कति सर्वत्रगाः कत्यसर्वत्रगाः /
8500 SK [२८६|१८-२८६|१९] सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा / विमतिः सह ताभिश्च या ऽविद्या ऽवेणिकी च या // VAक्K_५.१२ //
8501 SK [२८६|२०-२८६|२१] दुःखसमुदयदर्शनप्रहातव्या दृष्टयो विचिकित्सा च ताभिश्च संप्रयुक्ता अविद्या आवेणिकी च दुःखसमुदयप्रहातव्ये चाविद्या /
8502 SK [२८६|२०-२८७|०१] इतीमे एकादशानुशयाः सभागधातुसर्वत्रगाः /
8503 SK [२८७|०१] सप्त दृष्टयो द्वे विचिकित्से द्वे अविद्ये सकलस्वधात्वालम्बनत्वात् /
8504 SK [२८७|०२] किमेभिर्युगपदालम्बते आहोस्वित् क्रमेण / यदि क्रमेण अन्येषामपि प्रसङ्ग /
8505 SK [२८७|०२-२८७|०४] अथ युगपत् कः सकलेन कामधातुना शुद्धिं प्रत्येत्यकारणं वा कारणतः /
8506 SK [२८७|०४] सकलं नोच्यते सकलं युगपदालम्बन्त इति /
8507 SK [२८७|०४-२८७|०५] अपि तु पञ्चप्रकारमपि सर्वं युगपत् /
8508 SK [२८७|०५-२८७|०६] एवमपि यत्रात्मदृष्टिस्तत्रात्मतृष्णा यत्राग्रशुद्धिदृष्टी तत्र तत्प्रार्थना तेन च मान इति तृष्णामानयोरपि सर्वत्रगत्वं प्राप्नोति /
8509 SK [२८७|०६-२८७|०७] एवं सति दर्शनभावनाहेयालम्बनत्वादेतदुभयं किंप्रहातव्यं स्यात् /
8510 SK [२८७|०७-२८७|०८] भावनाप्रहातव्यं व्यामिश्रालम्बनत्वात् /
8511 SK [२८७|०८] अथवा पुनरस्तु दर्शनप्रहातव्यं दृष्टिबलाधानवर्तित्वात् /
8512 SK [२८७|०८-२८७|०९] स्वलक्षणक्लेशावेतौ न सामान्यक्लेशौ /
8513 SK [२८७|०९] तस्मान्न सर्वत्रगाविति वैभाषिकाः /
8514 SK [२८७|१०] व एते सभागधातुसर्वत्रगा एकादशानुशया उक्ताः
8515 SK [२८७|११] नवोध्र्वालम्बना एषां दृष्टिद्वयविवर्जिताः /
8516 SK [२८७|१२] सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वा ऽन्ये नवानुशया विसभागधातुसर्वत्रगाः /
8517 SK [२८७|१३] कदाचित्तु विसभागमेकं धातुमालम्बन्ते कदाचित् द्वौ /
8518 SK [२८७|१३-२८७|१४] ᳚ये ऽनुशयाः कामप्रतिसंयुक्ता रूपप्रतिसंयुक्तालम्बनाः /
8519 SK [२८७|१४-२८७|१५] कामप्रतिसंयुक्ता आरूप्यप्रतिसंयुक्तालम्बनाः कामप्रतिसंयुक्ता रूपारूप्यप्रतिसंयुक्तालम्बना᳚ इति वचनात् /
8520 SK [२८७|१५-२८७|१७] यदा कामधातौ स्थितो ब्रह्मणि सत्त्वदृष्टिं नित्यदृष्टिं चोज्त्पादयति तदा कथं सत्कायान्त ग्राहदृष्टी विसभागधात्वालम्बने न भवतः /
8521 SK [२८७|१७-२८७|१८] आत्मात्मीयत्वेनाग्रहणादन्तग्राहदृष्टिश्च तत्समुत्थितत्वात् /
8522 SK [२८७|१८] का तर्हीयं दृष्टिः /
8523 SK [२८७|१८-२८७|१९] नेयं दृष्टिर्मिथ्याज्ञानं पुनः एतदित्याभिधार्मिकाः /
8524 SK [२८७|१९-२८७|२०] कुतो नु खल्वेतदन्या तदालम्बना दृष्टिरेषा न दृष्टिरिति सिद्धान्तस्तु प्रमाणयितयः /
8525 SK [२८७|२१] किं खल्वनुशयाः एव सर्वत्रगाः / नेत्याह /
8526 SK [२८७|२२] प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्ते ऽपि सर्वगाः // VAक्K_५.१३ //
8527 SK [२८७|२३] सर्वत्रगैरनुशयैः सहभुवो ये ऽप्यन्ये धर्मास्ते ऽपि सर्वत्रगाः प्राप्तयस्तु नैवम् /
8528 SK [२८७|२३-२८८|०१] अनेक फलत्वात् /
8529 SK [२८८|०१-२८८|०२] अत एव स्युः सर्वत्रगानुशया न सर्वत्रहेतुना हेतुरिति चतुष्कोटिकं क्रियते /
8530 SK [२८८|०२] प्रथमा कोटिरनागताः सर्वत्रगा अनुशयाः /
8531 SK [२८८|०२-२८८|०३] द्वितीया ऽतीतप्रत्युपन्नास्तत्सहभुवः /
8532 SK [२८८|०३] तृतीयाचतुथौ योज्ये /
8533 SK [२८८|०४] एषामष्टानवतेरनुशयानां कति सास्रवालम्बनाः कत्यनास्रवालम्बनाः /
8534 SK [२८८|०५-२८८|०६] मिथ्यादृग्विमती ताभ्यां युक्ता ऽविद्या ऽथ केवला / निरोधमार्गदृग्घेयाः षडनास्रवगोचराः // VAक्K_५.१४ //
8535 SK [२८८|०७-२८८|०८] निरोधदर्शनप्रहातव्यास्त्रयो ऽनुशया मिथ्यादृष्टिर्विचिकित्सा ऽविद्या च ताभ्यां संप्रयुक्ता ऽ; ऽवेणिकी च /
8536 SK [२८८|०८] मार्गदर्शनप्रहातव्या अप्येत एव त्रयः /
8537 SK [२८८|०८-२८८|०९] इत्येते षडनास्रवालम्बनाः /
8538 SK [२८८|०९] शेषां सास्रवालम्बना इति सिद्धम् / तत्र पुनः
8539 SK [२८८|१०-२८८|११] स्वभूम्युपरमो मार्गः षड्भूमिनवभूमिकः / तद्गोचराणां विषयो मार्गो ह्यन्यो ऽन्यहेतुकः // VAक्K_५.१५ //
8540 SK [२८८|१२-२८८|१३] निरोधालम्बनानां मिथ्यादृष्ट्यादीनां स्वभूमिनिरोध एवालम्बनं कामावचराणां कामधातोरेव यावत् भवाग्रभूमिकानां भवाग्रस्यैव /
8541 SK [२८८|१३-२८८|१४] मार्गालम्बनानां कामावचराणां षड्भूमिको धर्मज्ञानपक्षो मार्गः सर्व एवालम्बनम् /
8542 SK [२८८|१४-२८८|१५] यो ऽपि रूपारूप्यप्रतिपक्षः रूपारुप्यावचराणामप्यदृष्टभूमिकानां नवभूमिकः /
8543 SK [२८८|१५-२८८|१६] स एवान्वयज्ञानपक्ष्यो मार्ग आलम्बनं मार्गस्यान्यो ऽन्यहेतुकत्वात् /
8544 SK [२८८|१६-२८८|१७] यद्यपि धर्मज्ञानान्वयज्ञाने अप्यन्योन्यहेतुके नत्वन्वयज्ञानं कामधातुप्रतिपक्ष इति /
8545 SK [२८८|१७-२८८|१८] न कामावचरा मार्गालम्बना अन्वयज्ञानपक्षानालम्बन्ते /
8546 SK [२८८|१८-२८८|१९] धर्मज्ञानं तर्हि रूपारूप्यप्रतिपक्षत्वात्तद्भूमिकानां मार्गलम्बनानामालम्बनं भविष्यति /
8547 SK [२८८|१९-२८८|२०] न तत् सकलं प्रतिपक्षो दुःखसमुदयधर्मज्ञानयोरतत्प्रतिपक्षत्वात् /
8548 SK [२८८|२०-२८८|२१] नापि सकलयो रूपारूप्यय्योर्दर्शनप्रहातव्यानामप्रतिपक्षत्वादित्याद्याभावान्न भवत्यालम्बनम् /
8549 SK [२८८|२२] अथ कस्माद्रागप्रतिघमाना दृष्टिशीलवृअतपरामर्शौ चानास्रवालम्बना नेष्यन्ते /
8550 SK [२८८|२३] न रागस्तस्य वर्ज्यत्वात्
8551 SK [२८९|०१-२८९|०२] वर्जनीयो हि रागः यदि चानास्रवालम्बनः स्यान्न वर्जनीयः स्यात्कुशलधर्मच्छन्दवत् /
8552 SK [२८९|०३] न द्वेषो ऽनपकारतः /
8553 SK [२८९|०४] अपकारवस्तुनि हि प्रतिघ उत्पद्यते / न चैवं निरोधमागौं /
8554 SK [२८९|०५] न मानो न परामर्शौ शान्तशुद्धयग्रभावतः // VAक्K_५.१६ //
8555 SK [२८९|०६] निरोधमार्गयोः शान्तत्वान्न ताभ्यामुन्नतिर्भवितुमर्हति /
8556 SK [२८९|०६-२८९|०७] भूतार्थशुद्धित्वान्न तयोः शुद्धिग्राहः शीलव्रतपरामर्शः /
8557 SK [२८९|०७] अग्रौ च तौ / हीने चाग्रग्राहो दृष्टिपरामर्शः /
8558 SK [२८९|०८] तस्मादयुक्तमेषामनास्रवालम्बनत्वम् /
8559 SK [२८९|०९] एषामष्टानवतेरनुशयानां कत्यालम्बनतो ऽनुशेरते कति संप्रयोगत एव /
8560 SK [२८९|१०-२८९|११] सर्वत्रगा अनुशयाः सकलामनुशेरते / स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः // VAक्K_५.१७ //
8561 SK [२८९|१२-२८९|१३] ये सर्वत्रगा अनुशयास्ते सकलां पञ्चप्रकारामपि स्वां भूमिमालम्बनतो ऽनुशेरते /
8562 SK [२८९|१३] असर्वत्रगास्तु स्वस्यां भूमौ स्वमेव निकायमालम्बनतो ऽनुशेरते नान्यम् /
8563 SK [२८९|१४] तद्यथा दुःखदर्शनप्रहातव्या दुःखदर्शनप्रहातव्यमेव निकायम् /
8564 SK [२८९|१४-२८९|१५] एवं यावद्भावनाप्रहातव्या भावनाप्रहातव्यमेव नान्यम् /
8565 SK [२८९|१५] उत्सर्गं कृत्वा ऽपवादं करोति
8566 SK [२८९|१६] नानास्रवोर्ध्वविषयाः
8567 SK [२८९|१७] अनास्रवालम्बना अनुशया नैवालम्बनतो ऽनुशेरते / नाप्यूर्ध्वभूम्यालम्बनाः /
8568 SK [२८९|१७-२८९|१८] किं कारणम् /
8569 SK [२८९|१८] तदालम्बनस्य वस्तुनः
8570 SK [२८९|१९] अस्वीकाराद्विपक्षतः /
8571 SK [२८९|२०-२८९|२१] यद्धि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं भवति तत्रान्ये ऽप्यनुशया अनुगमयितुमुत्सहन्ते /
8572 SK [२८९|२१] आर्द्र इव पटे रजांसि संस्थातुम् /
8573 SK [२८९|२१-२८९|२२] न चैवमनास्रवा नाप्येवमूर्ध्वा भूमिः /
8574 SK [२८९|२२] अतो न तदालम्बनास्तेष्वनुशेरते / यस्त्विहस्थस्तां भूमिं प्रार्थयते /
8575 SK [२८९|२३-२९०|०१] कुशलो ऽसौ धर्म्मच्छन्दः विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां क्लेशानामूर्ध्वा च भूमिरधराणाम् /
8576 SK [२९०|०१] अतो न तेषु प्रतिष्ठां लभन्ते /
8577 SK [२९०|०१-२९०|०२] तप्त इवोपले तलानि पादानाम् /
8578 SK [२९०|०२] आनुगुण्यार्थो ऽत्रानुशयार्थः / न च ते तदनुगुणा इत्यपरे /
8579 SK [२९०|०२-२९०|०३] वातिकस्य रुक्षाननुशयनवत् /
8580 SK [२९०|०३] अत उक्ता आलम्बनतो ऽनुशेरते /
8581 SK [२९०|०४] येन यः संप्रयुक्तस्तु स तस्मिन् संप्रयोगतः // VAक्K_५.१८ //
8582 SK [२९०|०५] अनुशरेत इति वर्तते /
8583 SK [२९०|०५-२९०|०६] यो ऽनुशयो येन धर्मेण संप्रयुक्तस्तस्मिन् संप्रयोगतो ऽनुशेते /
8584 SK [२९०|०६] यावदप्रहीण इति विशेषणार्थस्तुशब्दः /
8585 SK [२९०|०६-२९०|०७] स्युरनुशया नानास्रवालम्बना न विसभागधातुसर्वत्रगाः /
8586 SK [२९०|०७-२९०|०८] ते चानुशयाः संप्रयोगतो ऽनुशयीरन्नालम्बनतः न स्युर्विसभागभूमिसर्वत्रगा अनुशयाः /
8587 SK [२९०|०९] एषामष्टानवतेरनुशयानां कत्यकुशलाः कत्यव्याकृताः /
8588 SK [२९०|१०] ऊर्ध्वमव्याकृताः सर्वे
8589 SK [२९०|११] रूपारुप्यावचरास्तावत्सर्व एवाव्याकृताः / किं कारणम् /
8590 SK [२९०|१२] क्लिष्टानां धर्माणां दुःखविपाकः स्यात् / तच्च तयोइर्नास्ति परव्याबाधहेत्वभावात् /
8591 SK [२९०|१३] कामे सत्कायदर्शनम् /
8592 SK [२९०|१४] अन्तग्राहः सहाभ्यां च मोहः
8593 SK [२९०|१५] कामधातौ सत्कायान्तग्राहदृष्टी तत्संप्रयुक्ता चाविद्या अव्याकृताः /
8594 SK [२९०|१५-२९०|१६] किं कारणम् /
8595 SK [२९०|१६] दानादिभिरविरुद्धत्वात् /
8596 SK [२९०|१६-२९०|१७] अहं प्रेत्य सुखी भविष्यामीति दानं ददाति शीलं रक्षति /
8597 SK [२९०|१७] उच्छेददृष्टिरपि मोक्षानुकूला /
8598 SK [२९०|१७-२९०|१९] अत एवोक्तं भगवता ᳚एतदग्रं बाह्यकानां दृष्टिगतानां यदुत नो च स्यां नो च मे स्यात् न भविष्यामि न मे भविष्यती᳚ति /
8599 SK [२९०|१९] अपि चानयोर्दृष्ट्योः स्वद्रव्यसंमूढत्वादपरपीडाप्रवृत्तत्वाच्च /
8600 SK [२९०|१९-२९०|२०] स्वर्गतृष्णा ऽस्मिमानयोरप्येवं प्रसङ्गः /
8601 SK [२९०|२०] सहजा सत्कायदृष्टिरव्याकृता /
8602 SK [२९०|२०-२९०|२१] या मृगपक्षिणामपि वर्त्तते /
8603 SK [२९०|२१] विकल्पिता त्वकुशलेति पूर्वाचार्याः /
8604 SK [२९१|०१] शेषस्त्विहाशुभाः // VAक्K_५.१९ //
8605 SK [२९१|०२] शेषास् त्वशुभा अनुशयाः कामधातावकुशलाः /
8606 SK [२९१|०३] कत्यकुशलमूलानि कति न /
8607 SK [२९१|०४] कामे ऽकुशलमूलानि रागप्रतिघमूढयः /
8608 SK [२९१|०५-२९१|०६] कामधातौ सर्वरागः सर्वप्रतिघः सर्वो मोहो ऽन्यत्र सत्कायान्तग्राहदृष्टिसंप्रयुक्ताद्यथाक्रमम् /
8609 SK [२९१|०७] त्रीण्यकुशलमूलानि
8610 SK [२९१|०८] लोभो ऽकुशलमूलं द्वेषो मोहो ऽकुशलमूलम् /
8611 SK [२९१|०८-२९१|०९] यद्ध्यकुशलं चाकुशलस्य च मूलं तदेवाकुशलमूलमिष्टम् /
8612 SK [२९१|०९-२९१|१०] शेषा अनुशया नाकुशलमूलानीति सिद्धम् /
8613 SK [२९१|११] कत्यव्याकृतमूलानि कति न / त्रीण्यव्याकृत मूलानि / कतमानि त्रीणि /
8614 SK [२९१|१२] तृष्णा ऽविद्या मतिश्च सा // VAक्K_५.२० //
8615 SK [२९१|१३-२९१|१४] सेत्यव्याकृततां दर्शयति या काचिदव्याकृता तृष्णा अविद्या प्रज्ञा चान्ततो विपाकजा अपि सर्वा ऽसावव्याकृतमूलमिति काश्मीराः /
8616 SK [२९१|१५] द्वैधोर्ध्ववृत्तेर्नातो ऽन्यौ
8617 SK [२९१|१६] विचिकित्सा किल द्वैधवृत्तेर्न मूलं भवितुमर्हति / चलत्वात् /
8618 SK [२९१|१६-२९१|१७] उन्नतिलक्षणेनोर्ध्ववृत्तेर्न मानो मूलम् /
8619 SK [२९१|१७-२९१|१८] विविधस्मृतिमूलानि हि स्थिराण्यधोवृत्तीनि च लोके दृष्टान्नीति /
8620 SK [२९२|०१] चत्वार्येवेति बाह्यकाः /
8621 SK [२९२|०२] बाह्यका श्चत्वार्यव्याकृतमूलानीच्छन्ति /
8622 SK [२९२|०३] तृष्णादृङ् मानमोहास्ते
8623 SK [२९२|०४] स इत्यव्याकृता इति दर्शयति / अव्याकृता तृष्णा दृष्टिर्मानो ऽविद्या च /
8624 SK [२९२|०४-२९२|०५] किं कारणमेतान्यव्याकृतमूलानीच्छन्ति /
8625 SK [२९२|०६] ध्यायित्रित्वादविद्यया // VAक्K_५.२१ //
8626 SK [२९२|०७] यस्मात्त्रयो ध्यायिनः / तृष्णादृष्टिमानोत्तरध्यायिनः / ते चाविद्यावशाद्भवन्तीति /
8627 SK [२९२|०८] यानि सूत्रे चतुर्दशाव्याकृतवस्तूनि किं तानि अव्याकृतत्वात् / नेत्याह /
8628 SK [२९२|०९] किं तर्हि / स्थापनीयः प्रश्नो ऽव्याकृत इत्युक्तम् / चतुर्विधो हि प्रश्नः /
8629 SK [२९२|०९-२९२|१०] एकांशव्याकरणीयो विभज्यव्याकरणीयः परिपृच्छय्य व्याकरणीयः स्थापनीयश्च /
8630 SK [२९२|१०-२९२|११] तत्र यथाक्रमं वेदितव्यम् /
8631 SK [२९२|१२-२९२|१४] एकांशतो व्याकरणं विभज्य परिपृच्छय च / स्थाप्यं च मरणोत्पत्ति विशिष्टात्मा ऽन्यतादिवत् // VAक्K_५.२२ //
8632 SK [२९२|१५] किं सर्वसत्त्वा मरिष्यन्तीत्येकांशेन व्याकर्त्तव्यं मरिष्यन्तीति /
8633 SK [२९२|१५-२९२|१६] किं सर्वे जनिष्यन्त इति विभज्य व्याकर्त्तव्यं संक्लेशा जनिष्यन्ते न निःक्लेशा इति /
8634 SK [२९२|१६-२९२|१७] किं मनुष्यो विशिष्टो हीन इति परिपृच्छय्य व्याकत्तेव्यम् /
8635 SK [२९२|१७] कानधिकृत्य प्रश्नयसीति /
8636 SK [२९२|१७-२९२|१८] यदि ब्रूयाद् देवानिति /
8637 SK [२९२|१८] हीन इति व्याकर्त्तव्यम् / अथ ब्रूयादपायानिति /
8638 SK [२९२|१८-२९२|१९] विशिष्ट इति व्याकर्त्तव्यम् /
8639 SK [२९२|१९] किमन्यः स्कन्धेभ्यः सत्त्वो ऽनन्य इति स्थापनीयः /
8640 SK [२९२|१९-२९२|२०] सत्त्वद्रव्यस्याभावात् वन्ध्यापुत्रश्यामगौरतादिवत् /
8641 SK [२९२|२१] कथमेतद्व्याकरणं भवति अव्याकृतमेतदिति / एवं व्याकरणात् /
8642 SK [२९२|२२] अपर आह / इदमप्येकांशव्याकरणं यन्न सर्वे जनिष्यन्त इति /
8643 SK [२९२|२३-२९२|२४] यस्तु पृच्छेद्ये मरिष्यन्ति किं ते जनिष्यन्त इत्येतद्विभज्यव्याकरणीयं स्यात् /
8644 SK [२९२|२४-२९३|०१] मनुष्येषु चोभयमस्ति हीनत्वं विशिष्टत्वं चापेक्षिकमित्युभयमेकांशेन व्याकर्त्तव्यम् /
8645 SK [२९३|०१-२९३|०२] तद्यथा विज्ञानं कार्यं कारणं चेति एकान्तेन तु पृच्छतो नैकान्तव्याकरणात् विभज्यव्याकरणं युज्यते /
8646 SK [२९३|०२-२९३|०३] स्कन्धेभ्यो ऽन्यः सत्त्व इत्येतदव्याकृतमेव /
8647 SK [२९३|०३] न चाव्याकरणमेव व्याकरणं युज्यत इति /
8648 SK [२९३|०३-२९३|०४] यस्तु स्थापनीयः प्रश्नः स्थापनीयत्वेन व्याक्रियते /
8649 SK [२९३|०४] कथं न व्याकृतो भवति /
8650 SK [२९३|०५] आभिधर्मिका आहुः /
8651 SK [२९३|०५-२९३|०७] ᳚तथागतो भगवानर्हन् सम्यक्संबुद्धः स्वाख्यातो ऽस्य धर्मः सुप्रतिपन्नः श्रावकसंघः रूपमनित्यं यावद्विज्ञान दुःखप्रज्ञप्तिर्यावन्मार्गप्रज्ञप्तिरेकांशेन व्याकर्त्तव्यमर्थोपसंहितत्वात् /
8652 SK [२९३|०७-२९३|०८] विभज्जव्याकरणं नाम यदि कश्चिद् ब्रूयाद्धर्मान् वदेति स वक्तव्यो बहवो धर्मा अतीता अनागताः प्रत्युत्पन्नाः कतमान् वदामीति /
8653 SK [२९३|०९] यदि ब्रू यादतीतानिति / स व्यक्तव्यो ऽतीता अपि बहवो रूपं यावद्विज्ञानमिति /
8654 SK [२९३|१०] अथं ब्रूयाद्रूपमिति / स वक्तव्यो रूपमपि त्रिविधं कुशलमकुशलमव्याकृतं च /
8655 SK [२९३|११] यद्याह कुशलमिति /
8656 SK [२९३|११-२९३|१२] तदपि सप्तप्रकारं प्राणातिपाताद्विरतिर्यावत्संभिन्नप्रलापादिति /
8657 SK [२९३|१२] यद्याह प्राणातिपाताद्विरतिमिति /
8658 SK [२९३|१२-२९३|१३] सा ऽपि त्रिप्रकारा अलोभजा ऽद्वेषजा ऽमोहजा /
8659 SK [२९३|१३] यद्याहालोभजामिति /
8660 SK [२९३|१३-२९३|१४] अलोभजा ऽपि द्विविधा विज्ञाप्त्यविज्ञप्तिभेदादित्येवं विभज्य वक्तव्यमिति /
8661 SK [२९३|१४] एतदेव च शठस्य परिपृच्छ्य व्याकरणम् /
8662 SK [२९३|१४-२९३|१५] तस्य वक्तव्यं धर्मा बहव इति /
8663 SK [२९३|१५] न तु विभक्तव्या यावत्तूष्णिम् वा तिष्ठति स्वयं वा व्याकरोतीति /
8664 SK [२९३|१६-२९३|१७] यदा तौ न किञ्चित् पृच्छतः केवलमध्येषयतः तयोश्च न किञ्चित् व्याक्रियते केवलं परिप्रश्न्येते तत् कथमनयोः प्रश्नो भवति कथं वा व्याकरणम् /
8665 SK [२९३|१८] यो ह्हि पन्थानं ब्रूहीत्याह किम् तेन पन्था न पृष्टो भवति /
8666 SK [२९३|१८-२९३|१९] परिपृच्छयैव व्याकरणात् कथं न परिपृच्छाव्याकरणं भवति /
8667 SK [२९३|१९-२९३|२०] स्थापनीयस्तु यथा अन्तवान् लोको ऽनन्तवानित्येवमादि सूत्रान्तादेव तु प्रश्नव्याकरणानां लक्षणं द्रष्टव्यम् /
8668 SK [२९३|२०-२९३|२१] भदन्तमहासाङ्घिकाः सूत्रं पठन्ति /
8669 SK [२९३|२१] ᳚चत्वारीमानि भिक्षवः प्रश्नव्याकरणानीति /
8670 SK [२९३|२१-२९३|२२] कतमानि चत्वारि /
8671 SK [२९३|२२] अस्ति भिक्षव एकांशव्याकरणीयः प्रश्नः / अस्ति यावत् स्थापनीयः /
8672 SK [२९३|२३] कतमश्च भिक्षवः एकांशव्याकरणीयः प्रश्नः /
8673 SK [२९३|२३-२९३|२४] सर्वे संस्कारा अनित्या इत्ययं भिक्षव एकांशव्याकरणीयः प्रश्नः /
8674 SK [२९३|२४] कतमश्च भिक्षवो विभज्यव्याकरणीयः प्रश्नः /
8675 SK [२९३|२४-२९३|२५] संचेतनीयं कर्म कृत्वा किं प्रतिवेदयत इत्ययम् विभज्यव्याकरणीयः प्रश्नः /
8676 SK [२९३|२५-२९३|२६] कतमश्च भिक्षवः परिपृच्छ्यव्याकरणीयः प्रश्नः /
8677 SK [२९३|२६-२९३|२७] संज्ञासु पुरुषस्यात्मा उताहो ऽन्यासंज्ञा अन्य आत्मेति पृष्टेन सता परिप्रष्टव्यः कतमं पुनरायुष्मानात्मानं प्रत्येति /
8678 SK [२९३|२७-२९३|२८] स चेदेवं वदेदौ दारिकं खल्वहयायुष्मन्नात्मानं प्रत्येमि /
8679 SK [२९३|२८-२९३|२९] एवं सत्यन्या संज्ञा अन्य आत्मेत्येवं वचनीयः /
8680 SK [२९३|२९] अयं हि परिपृच्छ्य व्याकरणीयः प्रश्नः /
8681 SK [२९३|२९-२९४|०१] कतमश्च भिक्षवः स्थापनीयः प्रश्नः /
8682 SK [२९४|०१] तद्यथा शाश्वतो लोको ऽशाश्वतः /
8683 SK [२९४|०१-२९४|०२] शाश्वतश्चाशाश्वतश्च /
8684 SK [२९४|०२] नैव शाश्वतो नाशाश्वतः / अन्तवानन्ततः / अन्तवांश्चानन्तश्च /
8685 SK [२९४|०२-२९४|०३] नैवान्तवान्नानन्तवान् /
8686 SK [२९४|०३-२९४|०४] भवति तथागतः परं मरणान्न भवति तथागतः परं मरणात् यावदन्यो जीवो ऽन्यच्छरीरमित्ययं भिक्षवः स्थापनीयः प्रश्न᳚ इति /
8687 SK [२९४|०४-२९४|०५] यस्य पुद्गलस्य यो ऽनुशयो यस्मिन्नालम्बने ऽनुशेते स तेन तस्मिन् संप्रयुक्तः /
8688 SK [२९४|०५-२९४|०६] इदं तु वक्तव्यमतीते न कस्मिन् यावत् प्रत्युपन्ने न कस्मिन्निति /
8689 SK [२९४|०७] समासत इमे द्विविधाः क्लेशाः / स्वलक्षणक्लेशाश्च रागप्रतिवमानाः /
8690 SK [२९४|०८] सामान्यक्लेशाश्च दृष्टिविचिकित्साद ऽविद्याः / तत्र तावत् /
8691 SK [२९४|०९-२९४|१०] रागप्रतिघमानैः स्यादतीतप्रत्युपस्थितैः / यत्रोत्पन्ना ऽप्रहीणास्ते तस्मिन् वस्तुनि संयुतः // VAक्K_५.२३ //
8692 SK [२९४|११-२९४|१२] अतीताः प्रत्युत्पन्नाश्च रागप्रतिघमाना यस्मिन् वस्तुन्युत्पन्ना न च प्रहीणास्तस्मिन् वस्तुनि तैः संयुक्तः /
8693 SK [२९४|१२] एते हि स्वलक्षणक्लेशत्वान्न सर्वस्यावश्यं सर्वत्रोत्पद्यन्ते /
8694 SK [२९४|१३] सर्वत्रानागतैरेभिर्मानसैः
8695 SK [२९४|१४] यत्राप्रहीणास्ते इति वर्त्तते /
8696 SK [२९४|१४-२९४|१५] अनागतैरेभिरेव रागप्रतिघमानैर्मनोभूमिकैः सर्वत्र वस्तुनि संयुतस्त्रैयध्विके /
8697 SK [२९४|१५] मानसानां त्र्यध्वविषयत्वात्
8698 SK [२९४|१६] स्वाध्विके परैः /
8699 SK [२९४|१७] अन्यै रागप्रतिघैरनागतैरनागत एव वस्तुनि संयुक्तः / के पुनरन्ये /
8700 SK [२९४|१७-२९४|१८] ये पञ्च विज्ञानकायिका रागाश्च प्रतिघाश्च /
8701 SK [२९४|१८] उत्पत्तिधर्मभिरेव / तैरेव तु
8702 SK [२९४|१९] अजैः सर्वत्र
8703 SK [२९४|२०] अनुत्पत्तिधर्मभिः पञ्चविज्ञानकायिकैरपि सर्वत्र वस्तुनि संयुक्तः / त्रैयध्विके ऽपि
8704 SK [२९४|२१] शेषैस्तु सर्वैः सर्वत्र संयुतः // VAक्K_५.२४ // [२९५|०१] के पुनः शेषाः / दृष्टिविचिकित्सा ऽविद्यास्त्रैयध्विकाः /
8705 SK [२९५|०१-२९५|०२] तैः सर्वैरपि सर्वस्मिन्वस्तुनि संयुक्तः /
8706 SK [२९५|०२] सामान्यक्लेशत्वात् / यावदप्रहीणा इत्यधिकारो ऽनुवर्त्तत एव /
8707 SK [२९५|०२-२९५|०३] किं पुनरिदमतीतानागतमुच्यते ऽस्त्यथ न /
8708 SK [२९५|०३-२९५|०४] यद्यस्ति सर्वकालास्तित्वात्संस्काराणां शाश्वतत्वं प्राप्नोति /
8709 SK [२९५|०४] अथ नास्ति / कथं तत्र तेन वा संयुक्तो भवति विसंयुक्तो वा /
8710 SK [२९५|०४-२९५|०५] न संस्काराणां शाश्वतत्वं प्रतिज्ञायते वैभाषिकैः संस्कृतलक्षणयोगात् /
8711 SK [२९५|०५-२९५|०६] प्रतिज्ञायते तु विशदं
8712 SK [२९५|०७] सर्वकालास्तिता
8713 SK [२९५|०८] किं कारणम् /
8714 SK [२९५|०९] उक्तत्वात्
8715 SK [२९५|१०-२९५|११] उक्तं हि भगवता ऽ᳚तीतं चेद् भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावको ऽतीते रूपे ऽनपेक्षो ऽभविष्यत् /
8716 SK [२९५|११-२९५|१२] यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावको ऽतीते रूपे ऽनपेक्षो भवति /
8717 SK [२९५|१२-२९५|१३] अनागतं चेद्रूपं नाभविष्यत् न श्रुतवानार्यश्रावको ऽनागतं रूपं नाभ्यनन्दिष्यत् /
8718 SK [२९५|१३-२९५|१४] यस्मात्तर्ह्यस्त्यनागतं रूपमिति᳚ विस्तरः /
8720 SK [२९५|१६] ᳚द्वयं प्रतीत्य विज्ञानस्योत्पाद᳚ इत्युक्तम् / द्वयं कतमत् /
8721 SK [२९५|१६-२९५|१७] चक्षू रूपाणि यावत् मनो धर्मा इति /
8722 SK [२९५|१७] असति वा ऽतीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यात् /
8723 SK [२९५|१८] एवं तावदागमतो ऽस्त्यतीतानागतं युक्तितो ऽपि /
8724 SK [२९५|१९] सद्विषयात्
8725 SK [२९५|२०] सति विषये विज्ञानं प्रवर्तते नासति /
8726 SK [२९५|२०-२९५|२१] यदि चातीतानागतं न स्यादसदालम्बनं विज्ञानं स्यात् /
8727 SK [२९५|२१] ततो विज्ञानमेव न स्यादालम्बनाभावात् /
8729 SK [२९५|२३] यदि चातीतं न स्यात् शुभाशुभस्य कर्मणः फलमायत्यां कथं स्यात् /
8730 SK [२९५|२३-२९६|०१] न हि फलोत्पत्तिकाले वर्त्तमानो विपाकहेतुरस्तीति /
8731 SK [२९६|०१-२९६|०२] तस्मादस्त्येवातीतानागतमिति वैभाषिकाः /
8732 SK [२९६|०२] अवश्यं च किलैतत्सर्वास्तिवादेन सता ऽभ्युपगन्तव्यम् / यस्मात्
8733 SK [२९६|०३] तदस्तिवादात् सर्वास्तिवादा इष्टाः
8734 SK [२९६|०४] ये हे सर्वमस्तीति वदन्ति अतीतमनामतं प्रत्युत्पन्नं च ते सर्वास्तिवादाः /
8735 SK [२९६|०४-२९६|०६] ये तु केचिदस्ति यत् प्रत्युत्पन्नमदत्तफलं चातीतं कर्म किञ्चिन्नास्ति यद्दत्तफलमतीतमनागतं चेति विभज्य वदन्ति ते विभज्यवादिनः /
8736 SK [२९६|०६-२९६|०७] कति चैते सर्वास्तिवादा इत्याह
8737 SK [२९६|०८] चतुर्विधाः // VAक्K_५.२५ //
8738 SK [२९६|०९] ते भावलक्षणावस्था ऽन्यथा ऽन्यथिकसंज्ञिताः /
8739 SK [२९६|१०] भावान्यथिको भदन्तधर्मत्रातः / स किलाह /
8740 SK [२९६|१०-२९६|११] धर्मस्याध्वसु, प्रवर्तमानस्य भावान्यथात्वं भवति न द्रव्यान्यथात्वम् /
8741 SK [२९६|११-२९६|१२] यथा सुवर्णभाजनस्य भित्त्वा ऽन्यथा क्रियमाणस्य संस्थानान्यथात्वं भवति न वर्णान्यथात्वम् /
8742 SK [२९६|१२-२९६|१३] यथा च क्षीरं दधित्वेन परिणमद्रसवीर्यविपाकान् परित्यजति न वर्णम् /
8743 SK [२९६|१३-२९६|१४] एवं धर्मो ऽप्यनागतादध्वनः प्रत्युत्पन्नमध्वानमागच्छन्ननागतभावं जहाति न द्रव्यभावम् /
8744 SK [२९६|१४-२९६|१५] एवं प्रत्युत्पन्नादतीतमध्वानं गच्छन् प्रत्युत्पन्नभावं जहाति न द्रव्यभावमिति /
8745 SK [२९६|१६] लक्षाणान्यथिको भदन्तघोषकः / स किलाह /
8746 SK [२९६|१६-२९६|१७] धर्मो ऽध्वसु प्रवर्त्तमानो ऽतीतो ऽतीतलक्षणयुक्तो ऽनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्तः /
8747 SK [२९६|१७-२९६|१८] अनागतो ऽनागतलक्षणयुक्तो ऽतीतप्रत्युत्पन्नाभ्यामवियुक्तः /
8748 SK [२९६|१८-२९६|१९] एवं प्रत्युत्पन्नो ऽप्यतीतानागताभ्यामवियुक्तः /
8749 SK [२९६|१९] तद्यथा पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्त इति /
8750 SK [२९६|२०] अवस्था ऽन्यथिको भदन्तवसुमित्रः / स किलाह /
8751 SK [२९६|२०-२९६|२१] धर्मो ऽध्वसु प्रवर्तमानो ऽवस्थामवस्थां प्राप्यान्यो ऽन्यो निदिश्यते अवस्थान्तरतो न द्रव्यान्तरतः /
8752 SK [२९६|२१-२९६|२३] यथैका वर्तिका एकाङ्के निक्षिप्ता एकमित्युच्यते शताङ्के शतं सहस्राङ्के सहस्रमिति /
8753 SK [२९७|०१] अन्यथान्यथिको भदन्तबुद्धदेवः / स किलाह /
8754 SK [२९७|०१-२९७|०२] धर्मो ऽध्वसु प्रवर्तमानः पूर्वापरमपेक्ष्यान्यो ऽन्य उच्यते अवस्थान्तरतो न द्रव्यान्तरतः /
8755 SK [२९७|०२-२९७|०३] यथैका स्त्री माता वोच्यते दुहिता वेति /
8756 SK [२९७|०३] इत्येते चत्वारः सर्वास्तिवादाः /
8757 SK [२९७|०४] एषां तु प्रथमः परिणामवादित्वात् सांख्यपक्षे निक्षेप्तव्यः /
8758 SK [२९७|०४-२९७|०५] द्वितीयस्याध्वसंकरः प्राप्नोति /
8759 SK [२९७|०५] सर्वस्य सर्वक्षणयोगात् /
8760 SK [२९७|०५-२९७|०६] पुरुषस्य तु कस्याञ्चित् स्त्रियां रागः समुदाचरति कस्याञ्चित् केवलं समन्वागम इति किमत्र साम्यम् /
8761 SK [२९७|०६-२९७|०७] चतुर्थस्याप्येकस्मिन्नेवाध्वनि त्रयो ऽध्वानः प्राप्नुवन्ति /
8762 SK [२९७|०७-२९७|०८] अतीते ऽध्वनि पूर्वपश्चिमौ क्षणावतीतानागतौ मध्यमः क्षणः प्रत्युत्पन्न इति /
8763 SK [२९७|०८] एवमनागते ऽपि / अत एषां सर्वेषां
8764 SK [२९७|०९] तृतीयः शोभनः
8765 SK [२९७|१०] यो ऽयमवस्था ऽन्यथिकः / तस्य किल
8766 SK [२९७|११] अध्वानः कारित्रेण व्यवस्थिताः // VAक्K_५.२६ //
8767 SK [२९७|१२] यदा स धर्मः कारित्रं न करोति तदा ऽनागतः / यदा करोति तदा प्रत्युत्पन्नः /
8768 SK [२९७|१३] यदा कृत्वा निरुद्धस्तदा ऽतीत इति / परिगतमेतत्सर्वम् / इदं तु वक्तव्यम् /
8769 SK [२९७|१३-२९७|१४] यद्यतीतमपि द्रव्यतो ऽस्त्यनागतमिति /
8770 SK [२९७|१४] कस्मात्तदतीतमित्युच्यते ऽनागतमिति वा /
8771 SK [२९७|१४-२९७|१५] ननु चोक्तमध्वानः कारित्रेण व्यवस्थिता इति /
8772 SK [२९७|१५-२९७|१६] यद्येवं प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषः किं कारित्रम् /
8773 SK [२९७|१६] फलदानप्रतिग्रहणम् /
8774 SK [२९७|१६-२९७|१७] अतीतानामपि तर्हि सभागहेत्वादीनां फलदानात् कारित्रप्रसङ्गो ऽर्धकारित्रस्य वेति लक्षणसंकरः /
8775 SK [२९७|१८] इदं च वक्तव्यम् / तेनैवात्मना सतो धर्मस्य नित्यं कारित्रकरणे
8776 SK [२९७|१९] किं विघ्नं
8777 SK [२९७|२०] येन कदाचित् कारित्रं करोति कदाचिन्नेति / प्रत्ययानामसामग्रयमिति चेत् / न /
8778 SK [२९७|२१] नित्यमास्तित्वाभ्युपगमात् / यच्च तत् कारित्रमतीतानागतं प्रत्युत्पन्नं चोच्यते
8780 SK [२९८|०१] किं कारित्रस्याप्यन्यदस्ति कारित्रम् /
8781 SK [२९८|०१-२९८|०२] अथ तन्नैवातीतं नाप्यनागतं न प्रत्युत्पन्नमस्ति च /
8782 SK [२९८|०२] तेनासंस्कृतत्वान्नित्यमस्तीति प्राप्तम् /
8783 SK [२९८|०२-२९८|०३] अतो न वक्तव्यं यदा करित्रं न करोति धर्मस्तदा ऽनागत इति /
8784 SK [२९८|०४] स्यादेष दोषो यदि धर्मात् कारित्रमन्यत्स्यात् / तत्तु खलु
8786 SK [२९८|०६] अतो न भवत्येष दोषः / एवं तहि स एव
8788 SK [२९८|०८-२९८|०९] यदि धर्म एव कारित्रं कस्मात्स एव धर्मस्तेनैवात्मना विद्यमानः कदाचिदतीत इत्युच्यते कदाचिदनागत इत्यध्वनां व्यवस्था न सिध्यति /
8789 SK [२९८|०९] किमत्र न सिध्यति /
8790 SK [२९८|१०] यो ह्यजातो धर्मः सो ऽनागतः / यो जातो भवति न च विनष्टः स वर्त्तमानः /
8791 SK [२९८|११] यो विनष्टः सो ऽतीतः इति / एतदेवात्र वक्तव्यम् /
8792 SK [२९८|११-२९८|१२] यदि यथा वर्त्तमानं द्रव्यतो ऽस्ति तथा ऽतीतमनागतं चास्ति /
8795 SK [२९८|१४] अजातनष्टता केन
8796 SK [२९८|१५] तेनैव स्वभावेन सतो धर्मस्य कथमिदं सिध्यत्यजात इति यो विनष्टः इति वेति /
8797 SK [२९८|१६] किमस्य पूर्वं नासीद्यस्याभावादजात इत्युच्यते /
8798 SK [२९८|१६-२९८|१७] किं च पश्चान्नास्ति यस्याभावा द्विनष्ट इत्युच्यते /
8799 SK [२९८|१७] तस्मान्न सिध्यति सर्वथा ऽप्यत्राध्वत्रयम् /
8800 SK [२९८|१७-२९८|१८] यद्यभुत्वा भवतीति नेष्यते भूत्वा च पुनर्न भवतीति /
8801 SK [२९८|१८-२९८|१९] यदप्युक्तं ᳚संस्कृतलक्षणयोगान्न शाश्वतत्वप्रसङ्ग᳚ इति /
8802 SK [२९८|१९] तदिदं केवलं वाङ्मात्रमुत्पादविनाशयोरयोगात् /
8803 SK [२९८|१९-२९८|२०] नित्यं च नामास्ति स धर्मो न च नित्य इत्यपूर्वैषा वाचो युक्तिः /
8805 SK [२९८|२१-२९८|२२] ᳚स्वभावः सर्वदा चास्ति भावो नित्यश्च नेष्यते / न च स्वभावाद् भावो ऽन्यो व्यक्तमीश्वरचेष्टितम् /᳚
8806 SK [२९९|०१] यत्तूक्तमुक्तत्वादिति / वयमपि ब्रूमो ऽस्त्यतीतानागतमिति /
8807 SK [२९९|०१-२९९|०२] अतीतं तु यद् भूतपूर्वम् /
8808 SK [२९९|०२] अनागतं यत्सति हेतौ भविष्यति /
8809 SK [२९९|०२-२९९|०३] एवं च कृत्वा ऽस्तीत्युच्यते न तु पुनर्द्रव्यतः /
8810 SK [२९९|०३] कश्चैवमाह / वर्तमानवत्तदस्तीति / कथमन्यथा ऽस्ति /
8811 SK [२९९|०३-२९९|०४] अतीता नागतात्मना /
8812 SK [२९९|०४] इदं पुनस्तवोपस्थितम् /
8813 SK [२९९|०४-२९९|०५] कथं तदतीतमनागतं चोच्यते यदि नित्यमस्तीति /
8814 SK [२९९|०५-२९९|०७] तस्मात् भूतपूर्वस्य च हेतोर्भाविनश्च फलस्य भूतपूरतां भावितां च ज्ञापयितुं हेतुफलापवाददृष्टिप्रतिषेधार्थमुक्तं भगवता ᳚अस्त्यतीतमस्त्यनागतमि᳚ति /
8815 SK [२९९|०७] अस्तिशब्दस्य निपातत्वात् /
8816 SK [२९९|०७-२९९|०९] यथा ऽस्ति दीपस्य प्रागभावो ऽस्ति पश्चादभाव इति वक्तारो भवन्ति यथा चास्ति निरुद्धः स दीपो न तु मया निरोधित इति /
8817 SK [२९९|०९] एवमतीतानागतमप्यस्तीत्युक्तम् /
8818 SK [२९९|०९-२९९|१०] अन्यथा ह्यतीतानागतभाव एव न सिध्येत् /
8819 SK [२९९|१०-२९९|११] यत्तर्हि लगुडशिखीयकान्परिव्राजकानधिकृट्योक्तं भगवता ᳚यत्कर्माभ्यतीतं क्षीणं निरुद्धं विगतं विपरिणतं तदस्ती᳚ति /
8820 SK [२९९|११-२९९|१२] किं ते तस्य तस्य कर्मणो भूतपूर्वत्वं नेच्छन्ति स्म /
8821 SK [२९९|१२-२९९|१३] तत्र पुनस्तदाहितं तस्यां संततौ फलदानसामर्थ्यं संधायोक्तम् /
8822 SK [२९९|१३] अन्यथा हि स्वेन भावेन विद्यमानमतीतं न सिध्येत् /
8823 SK [२९९|१३-२९९|१५] इत्थं चैतदेवं यत् परमार्थशून्यतयामुक्तं भगवता ᳚चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुध्यमानं न क्वचित्संनिचयं गच्छति /
8824 SK [२९९|१५-२९९|१६] इति हि भिक्षवश्चक्षुरभूत्वा भवति भूत्वा च प्रतिगच्छती᳚ति
8825 SK [२९९|१६-२९९|१७] यदि चानागतं चक्षुः स्यान्नोक्तं स्याद् भूत्वा न भवतीति /
8826 SK [२९९|१७] वर्त्तमाने ऽध्वन्यभूत्वा भवतीति चेत् न /
8827 SK [२९९|१७-२९९|१८] अध्वनो भावादनर्थान्तरत्वात् /
8828 SK [२९९|१८] अथ स्वात्मन्यभूत्वा भवति / सिद्धमिदमनागतं चक्षुर्नास्तीति /
8829 SK [२९९|१८-२९९|१९] यदप्युक्तं ᳚द्वयं प्रतीत्य विज्ञानस्योत्पादादिति इदं तावदिह संप्रधार्यम् /
8830 SK [२९९|२०-२९९|२१] यन्मनः प्रतीत्य धर्मश्चोत्पद्यते मनोविज्ञानं किं तस्य यथा मनोजनकः प्रत्यय एवं धर्मा आहोस्विदालम्बनमात्रं धर्मा इति /
8831 SK [२९९|२१-२९९|२२] यदि तावत् जनकः प्रत्ययो धर्माः कथं यदनागतं कल्पसहस्रेण भविष्यति वा न वा तदिदानीं विज्ञानं जनयिष्यति /
8832 SK [२९९|२३] निर्वाणं च सर्वप्रवृत्तिनिरोधाज्जनकं नोपपद्यते / अथालम्बनमात्रं धर्मा भवन्ति /
8833 SK [२९९|२४] अतीतानागतमप्यालम्बनं भवतीति ब्रूमः / यदि नास्ति कथमालम्बनम् /
8834 SK [२९९|२४-२९९|२५] अत्रेदानीं ब्रूमः /
8835 SK [२९९|२५] यदा तदालम्बनं तथास्ति कथं तदालम्बनम् अभूत् भविष्यति चेति /
8836 SK [२९९|२५-२९९|२६] न हि कश्चिदतीतं रूपं वेदनां वा स्मरन्नस्तीति पश्यति /
8837 SK [२९९|२६] किं तर्हि / अभूदिति /
8838 SK [२९९|२६-२९९|२७] यथा खल्वपि वर्त्तमानं रूपमनुभूतं तथा तदतीतं स्मर्यते /
8839 SK [२९९|२७-२९९|२८] यथा चानागतं वर्त्तमानं भविष्यति तथा बुद्ध्या गृह्यते /
8840 SK [२९९|२८] यदि च तत्तथैवास्ति वर्तमानं प्राप्नोति /
8841 SK [२९९|२८-२९९|२९] अथ नास्ति /
8842 SK [२९९|२९] असदप्यालम्बनं भवतीति सिद्धम् / तदेव तद्विकीर्णमिति चेत् / न /
8843 SK [३००|०१] विकीर्णस्याग्रहणात् / यदि च तत्तदेव रूपं केवलं परमाणुशो विभक्तम् /
8844 SK [३००|०१-३००|०२] एवं सति परमाणवो नित्याः प्राप्नुवन्ति /
8845 SK [३००|०२-३००|०३] परमाणुसंचर्यावभागमात्रं चैवं सति प्राप्नोति /
8846 SK [३००|०३-३००|०४] न तु किञ्चिदुत्पद्यते नापि निरुध्यत इत्याजीविकवाद आलम्बितो भवति /
8847 SK [३००|०४-३००|०५] सूत्रं चापविद्धं भवति ᳚चक्षुरुत्पद्यमानं न कुतश्चिदागच्छती᳚ति विस्तरः /
8848 SK [३००|०५] अपरमाणुसंचितानां वेदनादीनां कथं विकीर्णत्वम् /
8849 SK [३००|०५-३००|०६] ते ऽपि च यथोत्पन्नानुभूताः स्मर्यन्ते /
8850 SK [३००|०६] यदि च ते तथैव सन्ति नित्याः प्राप्नुवन्ति /
8851 SK [३००|०६-३००|०७] अथ न सन्ति /
8852 SK [३००|०७] असदप्यालम्बनमिति सिद्धम् /
8853 SK [३००|०७-३००|०८] यद्यसदप्यालम्बनं स्यात् त्रयोदशमप्यायतनं स्यात् /
8854 SK [३००|०८] अथ त्रयोदशमायतनं नास्तीत्यस्य विज्ञानस्य किमालम्बनम् /
8855 SK [३००|०९] एतदेव नामलम्बनम् / एवं तर्हि नाम एव नास्तीति प्रतीयेत /
8856 SK [३००|०९-३००|१०] यश्च शब्दस्य प्रागभावमालम्बते किं तस्यालम्बनम् /
8858 SK [३००|१०-३००|११] एवं तर्हि यः शब्दाभावं प्रार्थयते तस्य शब्द एव कर्तव्यः स्यात् /
8859 SK [३००|११] अनागतावस्य इति चेत् /
8860 SK [३००|११-३००|१२] सति कथं नास्तिबुद्धिः /
8861 SK [३००|१२] वर्तमानो नास्तीति चेत् / न / एकत्वात् /
8862 SK [३००|१२-३००|१३] यावता तस्य विशेषस्तस्याभूत्वाभावसिद्धिः /
8863 SK [३००|१३] तस्मादुभयं विज्ञानस्यालम्बनम् भावश्चाभावश्च /
8864 SK [३००|१४-३००|१५] यत्तर्हि बोधिसत्त्वेनोक्तम् ᳚यत्तत् लोके नास्तितदहं ज्ञास्यामि वा द्रक्ष्यामि वा नेदं स्थानं विद्यत᳚ इति /
8865 SK [३००|१५-३००|१६] अपरे आभिमानिका भवन्त्यसन्तमप्यवभासं सन्तं पश्यन्ति /
8866 SK [३००|१६] अहं तु सन्तमेवार्स्तीति पश्यामीत्ययं तत्राभिप्रायः /
8867 SK [३००|१६-३००|१८] इतरथा हि सर्वबुद्धीनां सदालम्बनत्वे कुतो ऽस्य विमर्शः स्यात् को वा विशेषः /
8868 SK [३००|१८] इत्थं चैतदेवम् /
8869 SK [३००|१८-३००|१९] यदन्यत्र भगवतोक्तम् ᳚एतत् भिक्षुर्मम श्रावको यावत्स मया कल्पमवोदितः सायं विशेषाय परैष्यति /
8870 SK [३००|१९-३००|२०] सायमवोदितः कल्पं विशेषाय परैष्यति /
8871 SK [३००|२०-३००|२१] सच्च सतो ज्ञास्यति असच्चासतः सोत्तरञ्च सोत्तरतः अनुत्तरं चानुरत्तरत᳚ इति /
8872 SK [३००|२१] तस्मादयमप्यहेतुः / सदालम्बनत्वाद्विज्ञानस्येति /
8873 SK [३००|२१-३००|२२] यदष्युक्तं फलादिति /
8874 SK [३००|२२] नैव हि सौत्रान्तिका अतीतात् कर्मणः फलोत्पत्ति वर्णयन्ति /
8875 SK [३००|२३] किं तर्हि / तत्पूर्वकात्संतानविशेषादित्यात्मवादप्रतिषेधे संप्रवेदयिष्यामः /
8876 SK [३००|२४-३००|२५] यस्य त्वतीतानागतं द्रव्यतो ऽस्ति तस्य फलं नित्यमेवास्तीति किं तत्र कर्मणः सामर्थ्यम् /
8877 SK [३००|२५] उत्पादने सामर्थ्यम् / उत्पादस्तर्ह्यभूत्वा भवतीति सिद्धम् /
8878 SK [३०१|०१] अथ सर्वमेव चास्ति / कस्येदानीं क्व सामर्थ्यम् /
8879 SK [३०१|०१-३०१|०२] वार्षगण्यवादश्चैवं द्योतितो भवति /
8880 SK [३०१|०२] ᳚यदस्त्यस्त्येव तत् / यन्नास्ति नास्त्येव तत् / असतो नास्ति संभवः /
8881 SK [३०१|०३] सतो नास्ति विनाश᳚ इति / वर्तमानीकरणे तर्हि सामर्थ्यम् /
8882 SK [३०१|०३-३०१|०४] किमिदं वर्त्तमानीकरणं नाम /
8883 SK [३०१|०४] देशान्तराकर्षणम् चेत् / नित्यं प्रसक्तम् / अरूपिणां च कथं तत् /
8884 SK [३०१|०४-३०१|०५] यच्च तदाकर्षणं तदभूत्वा भूतम् /
8885 SK [३०१|०५-३०१|०६] स्वभावविशेषणं चेत् सिद्धमभूत्वा भवनम् /
8886 SK [३०१|०६] तस्मान्नैवं सर्वास्तिवादः शासने साधुर्भवति /
8887 SK [३०१|०६-३०१|०७] यदतीतानागतं द्रव्यतो ऽस्तीति वदति /
8888 SK [३०१|०७] एवं तु साधुर्भवति / यथा सूत्रे सर्वमस्तीत्युक्तं तथा वदति /
8889 SK [३०१|०८] कथं च सूत्रे सर्वमस्तीत्युक्तम् / ᳚सर्वमस्तीति ब्राह्मण यावदेव द्वादशायतनानी᳚ति /
8890 SK [३०१|०९] अध्वत्रयं वा /
8891 SK [३०१|०९-३०१|१०] यथा तु तदस्ति तथोक्तं अथासत्यतीतातानागते कथं तेन तस्मिन्वा संयुक्तो भवति /
8892 SK [३०१|१०-३०१|११] तज्जतद्धेत्वनुशयभावात् क्लेशेन तदालम्बने क्लेशानुशयभावाद्वस्तुनि संयुक्तो भवति /
8893 SK [३०१|११] अस्त्येव त्वतीतानागतमिति वैभाषिकाः /
8894 SK [३०१|११-३०१|१२] यत्र नेतुम् शक्यते तत्रात्मकात्मनैवं वेदितव्यम् /
8895 SK [३०१|१३] गम्भीरा खलुधर्मता // VAक्K_५.२७ //
8896 SK [३०१|१४] नावश्यं तर्ह्यसाध्या भवतीति / अस्ति पर्यायो यदुत्पद्यते तन्निरुध्यते /
8897 SK [३०१|१५] रूपमुत्पद्यते रूपं निरुध्यते / अस्ति पर्यायो ऽन्यदुत्पद्यते ऽन्यन्निरुध्यते /
8898 SK [३०१|१५-३०१|१६] अनागतमुत्पद्यते वर्त्तमानं निरुध्यते /
8899 SK [३०१|१६] अध्वा ऽप्युत्पद्यते / उत्पद्यमानस्याध्वसंगृहीतत्वात् /
8900 SK [३०१|१७] अध्वनो ऽप्युत्पद्यते / अनेकक्षणिकत्वादनागतस्याध्वनः /
8901 SK [३०१|१७-३०१|१८] गतमेतत् यत्प्रसङ्गेनागतम् /
8902 SK [३०१|१९] इदानीमिदं विचार्यते / यद्वस्तु प्रहीणं विसंयुक्तः स तस्मिन्वस्तुनि /
8903 SK [३०१|१९-३०१|२०] यत्र वा विसं युक्तः प्रहीणं तस्य तद्वस्त्विति /
8904 SK [३०१|२०-३०१|२१] यत्र तावद्विसंयुक्तः प्रहीणं तस्य तद्वस्तु /
8905 SK [३०१|२१] स्यातु प्रहीणं न च तत्र विसंयुक्तस्तद्यथा
8906 SK [३०१|२२-३०१|२३] प्रहीणे दुःखदृग्घेये संयुक्तः शेषसर्वगैः / प्राक् प्रहीणे प्रकारे च शेषैस्तद्विषयैर्मलैः // VAक्K_५.२८ //
8907 SK [३०१|२४-३०२|०१] दुःखज्ञाने समुत्पन्ने समुदयज्ञाने ऽनुत्पन्ने दुःखदर्शनप्रहातव्यो निकायः प्रहीणो भवति /
8908 SK [३०२|०१] तस्मिन् प्रहीणे तदालम्बनैः समुदयदर्शनप्रहातव्यैः सर्वत्रगैः संयुक्तः /
8909 SK [३०२|०२-३०२|०३] भावनाप्रहातव्ये ऽपि निकाये नवानां प्रकाराणां यः प्रकारः प्राक् प्रहीणस्तस्मिन् प्रहीणे ऽपि शेषैस्तदालम्बनैः क्लेशैः संयुक्तो वेदितव्यः /
8910 SK [३०२|०४-३०२|०५] कस्मिन्वस्तुनि कत्यनुशया अनुशेरत इति एतत्प्रतिपदमभिधीयमानं बहुतरं वक्तव्यं जायते /
8911 SK [३०२|०५] तस्मात् पिण्डविभाषां कुर्वन्ति /
8912 SK [३०२|०५-३०२|०६] कथमल्पेनाल्पेन यत्नेन महतो महतः प्रश्नौघान् प्रतिपाद्येमहीति /
8913 SK [३०२|०६-३०२|०७] समासत इमे षोडश धर्माः कामरूपारुप्यावचराः पञ्चप्रकाराः अनास्रवाश्च /
8914 SK [३०२|०७] चित्तान्यपि षोडश एतान्येव /
8915 SK [३०२|०७-३०२|०९] तत्र कतमो धर्मः कस्य चित्तस्यालम्बनमिति ज्ञात्वा अमुष्मिन्नियन्तो ऽनुशया अनुशेरत इत्येतदभ्यूहितव्यम् /
8916 SK [३०२|०९] तत्र तावत्
8917 SK [३०२|१०-३०२|११] दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजाः / स्वकत्रयैकरूपाप्तामलविज्ञानगोचराः // VAक्K_५.२९ //
8918 SK [३०२|१२] स्वकं च तत्त्रयं च स्वकत्रयम् /
8919 SK [३०२|१२-३०२|१३] एकं च तद्रूप्राप्तं च एकरूपाप्तम् /
8920 SK [३०२|१३] एषा विग्रहजातिः /
8921 SK [३०२|१३-३०२|१४] कामावचरास्तावद् दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः पञ्चानां चित्तानामालम्बनम् /
8922 SK [३०२|१४-३०२|१५] स्वधातुकानां त्रयाणां तेषामेव ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव अनास्रवस्य चेति /
8923 SK [३०२|१६] स्वदाधरत्रयोर्ध्वैकामलानां रूपधातुजाः /
8924 SK [३०२|१७] रूपावचरास्त एव त्रिप्रकारा धर्मा अष्टानां चित्तानामालम्बनम् /
8925 SK [३०२|१७-३०२|१८] स्वधातुकानां त्रयाणां तेषामेव /
8926 SK [३०२|१८] अधरधातुकानां त्रयाणां तेषामेव /
8927 SK [३०२|१८-३०२|१९] ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव /
8928 SK [३०२|१९] अनास्रवस्य चेति /
8929 SK [३०२|२०] आरुप्यजास्त्रिधात्वाप्तत्रयानास्रवगोचराः // VAक्K_५.३० //
8930 SK [३०२|२१] आरूप्यावचरास्त एव त्रिप्रकारा धर्मा दशानां चित्तानामालम्बनम् /
8931 SK [३०२|२१-३०२|२२] त्रैधातुकानां त्रिप्रकाराणां तेषामेव /
8932 SK [३०२|२२] अनास्रवस्य चेति /
8933 SK [३०२|२२-३०२|२३] उक्तास्त्रैधातुका दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः /
8934 SK [३०२|२४] निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः /
8935 SK [३०३|०१] निरोधमार्गदर्शनहेयानां स्वं चित्तं निरोधमार्गदर्शनहेयमेव /
8936 SK [३०३|०१-३०३|०२] तस्याधिकस्य ते धर्मा आलम्बनं ज्ञेयाः /
8937 SK [३०३|०२] कथं कृत्वा /
8938 SK [३०३|०२-३०३|०३] कामावचरा हि निरोधदर्शनहेया धर्माः षण्णां विज्ञानानामालम्बनम् /
8939 SK [३०३|०३-३०३|०४] पूर्वोक्तानां पञ्चानां तस्यैव च निरोधदर्शनप्रहातव्यस्याधिकस्य /
8940 SK [३०३|०४] मार्गदर्शनहेया अप्येवम् /
8941 SK [३०३|०४-३०३|०५] पञ्चानां पूर्वोक्तानां तस्यैव च मार्गदर्शनप्रहातव्यस्याधिकस्य /
8942 SK [३०३|०५] एवं रूपारूप्यावचराणि /
8943 SK [३०३|०५-३०३|०७] निरोधमार्गदर्शनप्रहातव्यास्तस्यैव निरोधमार्गदर्शनप्रहातव्यस्याधिकस्य चित्तस्यालम्बनमिति नवानामेकादशानां च चित्तानामालम्बनं भवन्ति /
8944 SK [३०३|०७-३०३|०८] उक्तास्त्रैधातुकाः पञ्चप्रकाराः धर्माः /
8945 SK [३०३|०९] अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः // VAक्K_५.३१ //
8946 SK [३०३|१०] अनास्रवा धर्मा दशानां चित्तानामालम्बनम् /
8947 SK [३०३|१०-३०३|११] त्रैधातुकानामन्त्यानां त्रिप्रकाराणां निरोधमार्गदर्शनभावनाहेयानामनास्रवस्येति /
8948 SK [३०३|११-३०३|१२] पुनरस्यैवार्थस्याध्यर्धेन श्लोकेन संग्रहो भवति /
8949 SK [३०३|१३-३०३|१५] ᳚दुःखहेतुदृगभ्यासहेया धातुत्रये ऽमलाः पञ्चाष्टदशविज्ञानदशविज्ञानगोचराः निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः᳚ / इति /
8950 SK [३०३|१६-३०३|१७] एवमेषां षोडशानां चित्तानां षोडशधर्मालम्बनव्यवस्थां विदित्वा कथमनुशयकार्यां योजयितव्यम् /
8951 SK [३०३|१७] दिङमात्रं दर्शयिष्यामः /
8952 SK [३०३|१८-३०३|१९] सुखेन्द्रियालम्बने विज्ञाने कत्यनुशयाः अनुशेरत इति प्रश्न आगते विचारयितव्यम् /
8953 SK [३०३|१९-३०३|२०] सुखेन्द्रियं सप्तविधं कामावचरं भावनाप्रहातव्यं रूपावचरं च पञ्चप्रकारमनास्रवं चेति /
8954 SK [३०३|२०-३०३|२१] तदेतत्समासतो द्वादशधर्मस्य विज्ञानस्यालम्बनं भवति /
8955 SK [३०३|२१] कामावचरस्य चतुष्प्रकारस्यान्यत्र निरोधदर्शनहेयात् /
8956 SK [३०३|२२-३०३|२३] रूपावचरस्य पञ्चप्रकारस्यारूप्यावचरस्य द्विप्रकारस्य मार्गदर्शनभावनाहेयस्यानास्रवस्य च /
8957 SK [३०३|२३] इदं द्वादशविधं सुखेन्द्रियालम्बनं विज्ञानम् /
8958 SK [३०३|२३-३०३|२५] तत्र यथासंभवं कामावचराश्चत्वारो निकाया रूपावचराश्च संस्कृतालम्बना आरूप्यावचरौ च द्वौ निकायौ सर्वत्रगाश्चानुशया अनुशेरत इति ज्ञातव्यम् /
8959 SK [३०३|२५-३०३|२६] सुखेन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते /
8960 SK [३०३|२६-३०४|०१] तत् पुनः सुखेन्द्रियालम्बनालम्बनं द्वादशविधं विज्ञानं कतमस्य विज्ञानस्यालम्बनम् /
8961 SK [३०४|०१-३०४|०२] तस्यैव द्वादशविधास्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य /
8962 SK [३०४|०२-३०४|०५] इदं चतुर्दशविधं सुखेन्द्रियालम्बनालम्बनं विज्ञानं तत्रारूप्यावचरौ द्वौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्चत्वारो निकाया रूपावचराः संस्कृतालम्बना अनुशया अनुशेरत इति ज्ञातव्यम् /
8963 SK [३०४|०५] अनया वर्तन्या ऽन्यदप्यनुगन्तव्यम् /
8964 SK [३०४|०५-३०४|०६] यैरनुशयैर्यच्चित्तं सानुशयं ते ऽनुशयास्तस्मिश्चित्ते ऽनुशेरते /
8965 SK [३०४|०६] स्युरनुशेरते /
8966 SK [३०४|०६-३०४|०७] ये ऽनुशयास्तेन चित्तेन संप्रयुक्ता अप्रहीणास्तदालम्बनाश्चाप्रहीणां /
8967 SK [३०४|०७] स्युर्नानुशेरते /
8968 SK [३०४|०७-३०४|०८] ये ऽनुशयास्तेन चित्तेन संप्रयुक्ताः प्रहीणास्तदालम्बनाश्च /
8969 SK [३०४|०८] तदेवं कृत्वा भवति /
8970 SK [३०४|०९] द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः /
8971 SK [३०४|१०-३०४|११] क्लिष्टं चित्तमनुशयानैश्चानुशयैः सानुशयं तत्संप्रयुक्ततदालम्बनैरप्रहीणैरननुशयानैश्च तत्संप्रयुक्तैः प्रहीणैस्तत्सहितत्वात् /
8972 SK [३०४|११-३०४|१२] अक्लिष्टं तु चित्तमनुशयानैरेव तदालम्बनैरप्रहीणैरिति /
8973 SK [३०४|१३] अथैषां दशानामनुशयानां कथं प्रवृत्तिरिति /
8974 SK [३०४|१३-३०४|१४] आदित एव तावदविद्याय्योगात्सत्येषु स मुह्यति /
8975 SK [३०४|१४] दुःखमस्मै न रोचते यावत् मार्गस्ततः
8976 SK [३०४|१५] मोहाकाङ्क्षा
8977 SK [३०४|१६] मूढस्य पक्षद्वयं श्रुत्वा विचिकित्सोत्पद्यते / दुःखं न्विदं नत्विदं दुःखमित्येवमादि /
8978 SK [३०४|१७] ततो मिथ्यादृष्टिः
8979 SK [३०४|१८] विचिकित्साया मिथ्यादृष्टिः प्रवर्तते /
8980 SK [३०४|१८-३०४|१९] संशयितस्य मिथ्याश्रमणचित्तानां मिथ्यानिश्चयोत्पत्तेः /
8981 SK [३०४|१९] नास्ति दुःखमित्येव्मादि /
8982 SK [३०४|२०] सत्कायदृक्ततः // VAक्K_५.३२ //
8983 SK [३०४|२१] मिथ्यादृष्टेः किल सत्कायदृष्टिः प्रवर्तते / दुःखतः स्कन्धानपोह्यात्मतो ऽभिनिवेशात् /
8984 SK [३०४|२२] ततो ऽन्तग्रहणं
8985 SK [३०५|०१] सत्कायदृष्टेरन्तग्राहदृष्टिः प्रवर्तते / आत्मनः शाश्वतोच्छेदान्तग्रहणात् /
8986 SK [३०५|०२] तस्माच्छ्हीलामर्शः
8987 SK [३०५|०३] अन्तग्रहाच्छीलव्रतपरामर्शः /
8988 SK [३०५|०३-३०५|०४] यमेवान्तं गृह्णाति तेन शुद्धिप्रत्यागमनात् /
8989 SK [३०५|०५] ततो दृशः /
8990 SK [३०५|०६] आमर्श इति वर्तते / शीलव्रतपरामर्शाद्दृष्टिपरामर्शः प्रवर्तते /
8991 SK [३०५|०६-३०५|०७] येन शुद्धिं प्रत्येति तस्याग्रतो ग्रहणात् /
8993 SK [३०५|०८] रागः स्वदृष्टौ मानश्च
8994 SK [३०५|०९] तस्यामभिष्वङ्गात् तया चोन्नतिगमनात् /
8995 SK [३०५|१०] द्वेषो ऽन्यत्र
8996 SK [३०५|११] स्वदृष्ट्यध्यवसितस्य तत्प्रत्यनीकभूतायां परदृष्टौ द्वेषः प्रवर्तते /
8997 SK [३०५|११-३०५|१३] अपरे स्वदृष्टावेवान्यत्र गृहीते त्यक्तायां द्वेषमिच्छन्ति दर्शनहेयानां रागादीनां स्वासान्तानिकदृष्ट्यालम्बनत्वात् /
8998 SK [३०५|१४] इत्यनुक्रमः // VAक्K_५.३३ //
8999 SK [३०५|१५] एष एषां दशानां क्लेशानां प्रवृत्तिक्रमः /
9000 SK [३०५|१६] उत्पद्यमानस्तु त्रिभिः कारणैरुत्पद्यते /
9001 SK [३०५|१७-३०५|१८] अप्रहीणादनुशयाद्विषयात् प्रत्युपस्थितात् अयोनिशो मनस्कारात् क्लेशः
9002 SK [३०५|१९-३०५|२०] तद्यथा रागानुशयो ऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार एवं कामराग उत्पद्यते /
9003 SK [३०५|२०-३०५|२१] तान्येतानि यथाक्रमं हेतुविषयप्रयोगबलानि /
9004 SK [३०५|२१] एवमन्यो ऽपि क्लेश उत्पद्यत इति वेदितव्यो यः
9005 SK [३०५|२२] संपूर्णकारणः // VAक्K_५.३४ //
9006 SK [३०६|०१] कदाचित्किअल् विषयबलेनैवोत्पद्यन्ते / न हेतुबलेन /
9007 SK [३०६|०१-३०६|०२] यथा परिहाणधर्मकस्यार्हत इति /
9008 SK [३०६|०२-३०६|०३] एत एवानुशयाः सूत्रे भगवता त्रय आस्रवा उक्ताः कामस्रवो भवास्रवो ऽविद्यास्रव इति /
9009 SK [३०६|०३-३०६|०४] चत्वार ओघाः कामौघो भवौघो दृष्ट्योभो ऽविद्यौघश्च /
9010 SK [३०६|०४] चत्वारो योगा एत एव /
9011 SK [३०६|०४-३०६|०५] चत्वार्युपादानानि कामोपादानं दृष्ट्युपादानं शीलवृतोपादानमात्मवादोपादानमिति /
9012 SK [३०६|०५] तत्र तावत्
9013 SK [३०६|०६] कामे सपर्यवस्थानाः क्लेशाः कामास्रवो विना /
9015 SK [३०६|०८-३०६|०९] अविद्यां वर्जयित्वा ऽन्ये कामावचराः क्लेशाः सह पर्यवस्थानैः कामास्रवो वेदितव्य एकचत्वारिंशद्द्रव्याणि /
9016 SK [३०६|०९-३०६|१०] एकत्रिंशदनुशयाः पञ्चप्रकारामविद्यां हित्वा दश पर्यवस्थानानि /
9017 SK [३०६|११] अनुशया एव रूपारूप्ये भवास्रवः // VAक्K_५.३५ //
9018 SK [३०६|१२] विना मोहेनेति वर्तते /
9019 SK [३०६|१२-३०६|१३] रूपारूप्यावचरा अविद्यावर्ज्या अनुशया भवास्रवो द्वापञ्चाशद्द्रव्याणि /
9020 SK [३०६|१३] रूपावचराः षड्विंशतिरनुशयाः पञ्चप्रकारामविद्यां हित्वा /
9021 SK [३०६|१४] आरूप्यावचराः षड्विंशतिः / ननु च तत्राप्यस्ति पर्यवस्थानद्वयं स्त्यानमौद्धत्यं च /
9022 SK [३०६|१५] प्रकरणेषु चोक्तं ᳚भवास्रवः कतमः /
9023 SK [३०६|१५-३०६|१६] अविद्यां स्थापयित्वा यानि तदन्यानि रूपारूप्यप्रतिसंयुक्तानि /
9024 SK [३०६|१६] संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानी᳚ति /
9025 SK [३०६|१६-३०६|१७] कस्मा दिह तस्याग्रहणम् /
9026 SK [३०६|१७] अस्वातन्त्र्यादिति काश्मीराः /
9027 SK [३०६|१८] किं पुनः कारणं रूपारूप्यावचरा अनुशयाः समस्यैको भवाग्र उक्तः /
9028 SK [३०६|१९] अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः /
9029 SK [३०६|२०] अत एकीकृताः /
9030 SK [३०६|२१-३०६|२२] ते ह्यूभये ऽप्यव्याकृता अन्तर्मुखप्रवृत्ताः समाहितभूमिकाश्चेति त्रिविधेन साधम्येर्णैकताः /
9031 SK [३०६|२२-३०६|२३] येनैव च कारणेन भवराग उक्तस्तेनैव भवास्रवः इत्यविद्येदानीं त्रैधातुक्यविद्यास्रव इति सिद्धम् /
9032 SK [३०६|२३] तानि पञ्चदश द्रव्याणि /
9033 SK [३०६|२३-३०६|२४] किं कारणमसौ पृथग्व्यवस्थाप्यते /
9034 SK [३०६|२४] सर्वेषां हि तेषां
9035 SK [३०७|०१] मूलमविद्येत्यास्रवः पृथक् // VAक्K_५.३६ //
9036 SK [३०७|०२] यथा चैते आस्रवा उक्ता वेदितव्याः
9037 SK [३०७|०३] तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात् / [३०७|०४] कामास्रव एव कामौघः कामयोगश्च /
9038 SK [३०७|०४-३०७|०५] एवं भवास्रव एव भवौघो भवयोगश्चान्यत्र दृष्टिभ्यः /
9039 SK [३०७|०५] ताः किल पटुत्वादोघयोगेषु पृथक् स्थापिताः /
9040 SK [३०७|०६] नास्रवेष्वसहायानां न किलास्यानुकूलता // VAक्K_५.३७ //
9041 SK [३०७|०७] आसयन्तीत्यास्रवाणां निर्वचनं पश्चाद्वक्ष्यते /
9042 SK [३०७|०७-३०७|०८] न च किल केवला दृष्ट्य आस्यानुकूलाः पटुत्वात् /
9043 SK [३०७|०८] अत आस्रवेषु न पृठक् स्थापिताः /
9044 SK [३०७|०८-३०७|०९] मिश्रीकृत्य स्थापिता इति तदेवं कामौघ एकान्नत्रिंशद्द्रव्याणि /
9045 SK [३०७|०९-३०७|१०] रागप्रतिघमानाः पञ्चदश विचिकित्साश्चतस्रो दश पर्यवस्थानानीति /
9046 SK [३०७|१०] भवौघो ऽष्टाविंसतिद्रव्याणि /
9047 SK [३०७|१०-३०७|११] रागमाना विंशतिर्विचिकित्सा ऽष्टौ /
9048 SK [३०७|११] दृष्ट्योघः षट्त्रिंशद्द्रव्याणि /
9049 SK [३०७|११-३०७|१२] अविद्यौघः पञ्चदश द्रव्याणि /
9050 SK [३०७|१२] ओघवद् योगा वेदितव्याः /
9051 SK [३०७|१३] यथोक्ता एव सा ऽविद्या द्विधा दृष्टिविवेचनात् /
9053 SK [३०७|१५] कामयोग एवसहाविद्यया कामोपादानं चतुस्त्रिंशद्द्रव्याणि /
9054 SK [३०७|१५-३०७|१६] रागप्रतिघमाना ऽविद्याविंशतिर्विचिकित्साश्चतस्रो दश पर्यवस्थानानि /
9055 SK [३०७|१६-३०७|१७] भवयोग एव सहाविद्यया आत्मवादोपादानमष्टत्रिंशद्द्रव्याणि /
9056 SK [३०७|१७] रागमानाविद्यास्त्रिंशद्विचिकित्सा अष्टौ /
9057 SK [३०७|१८] दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्ट्यु पादानं त्रिंशद्द्रव्याणि /
9058 SK [३०७|१८-३०७|१९] शीलव्रतोपादानं षड्द्रव्याणि कर्मदृष्टिभ्यो निष्कृष्टम् /
9059 SK [३०७|१९] मार्गप्रतिद्वन्द्वित्वा दुभयपक्षविप्रलम्भनाच्च /
9060 SK [३०७|२०-३०७|२१] गृहिणो ऽप्यनेन विप्रलब्धा अनशनादिभिः स्वर्गमार्गसंज्ञया प्रव्रजिता अपीष्टविषयपरिवर्जनेन शुद्धिप्रत्यागमनादिति /
9061 SK [३०७|२१-३०७|२२] किं कारणमविद्यां मिश्रयित्वोपादानमुक्तं न पृथक् /
9062 SK [३०७|२२] भवग्रहणादुपादानानि /
9063 SK [३०७|२३] अविद्या तु ग्राहिका नेति मिश्रिता // VAक्K_५.३८ //
9064 SK [३०८|०१] असंप्रख्यानलक्षणतया ऽपटुत्वादविद्या न ग्राहिका भवत्यतः किल मिश्रिता /
9065 SK [३०८|०१-३०८|०२] सूत्रे तु भगवतोक्तं ᳚कामयोगः कतमः /
9066 SK [३०८|०२-३०८|०४] विस्तरेण यावद्यो ऽस्य भवति कामेषु कामरागः कामच्छन्दः कामस्नेहः कामप्रेम कामेच्छा काममूर्च्छा कामगृद्धः कामपरिगर्द्धः कामनन्दी कामनियन्तिः कामाध्यवसानं तदन्यचित्तम् पर्यादाय तिष्ठति /
9067 SK [३०८|०४-३०८|०५] अयमुच्यते कामयोगः /
9068 SK [३०८|०५] एवं यावद्भवयोगः᳚ /
9069 SK [३०८|०५-३०८|०६] च्छन्दरागश्चोपादानमुक्तं सुत्रान्तरेष्वतो विज्ञायते काम ह्युपादानमपि कामादिषु च्छन्दराग इति /
9070 SK [३०८|०७] उक्तमिदमनुशया एवास्रवौघयोगोपादानसंशब्दिताः सूत्रेष्विति /
9071 SK [३०८|०८] अथ को ऽयमनुशयार्थः कश्च यावदुपादानार्थः /
9072 SK [३०८|०९-३०८|१०] अणवो ऽनुगताश्चैते द्विधा चाप्यनुशेरते / अनुबध्नन्ति यस्माच्च तस्मादनुशयाः स्मृताः // VAक्K_५.३९ //
9073 SK [३०८|११] तत्राणवः सूक्ष्मप्रचारत्वात् दुर्विज्ञानतया / अनुगताः प्राप्त्यनुषङ्गतः /
9074 SK [३०८|११-३०८|१२] अनुशेरते द्वाभ्यां प्रकाराभ्यामालम्बनतः संप्रयोगतश्च /
9075 SK [३०८|१२-३०८|१३] अनुबध्नन्त्यप्रयोगेण प्रतिवारयतो ऽपि पुनः पुनः संमुखीभावात् /
9076 SK [३०८|१३] एभिः कारणैरनुशया उच्यन्ते /
9077 SK [३०८|१४-३०८|१५] आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ / उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः // VAक्K_५.४० //
9078 SK [३०८|१६] आसयन्ति संसारे आस्रवन्ति भवाग्राद्यावदवीचिं षङ्भिरायतनव्रणैर् इत्यास्रवाः /
9079 SK [३०८|१७] हरन्तीत्योघाः / श्लेषयन्तीति योगाः / उपगृह्णन्तीति उपदानानि /
9080 SK [३०८|१७-३०८|१८] एवं तु साधीयः स्याद् /
9081 SK [३०८|१८] आस्रवत्येभिः संततिर्विषयेष्वित्यास्रवाः /
9082 SK [३०८|१८-३०८|१९] ᳚तद्यथा आयुष्मन्तो नौर्महद्भिरभिसंस्कारैः प्रतिस्रोतो नीयते /
9083 SK [३०८|१९-३०८|२०] सा तेषामेव संस्काराणां ग्रतिप्रस्रव्ध्या ऽल्पकृच्छ्रेणानुस्रोत उह्यतऽऽ; इति सूत्रवादानुसारात् /
9084 SK [३०८|२१] अधिमात्रवेगत्वादोघाः / तर्हि तद्वानुह्यते तदनुविधानात् /
9085 SK [३०८|२१-३०८|२२] नातिमात्रसमुदाचारिणो ऽपि योगा विविधदुःखसंयोजनात् /
9086 SK [३०८|२२-३०८|२३] आभीक्ष्ण्यानुषङ्गतो वा कामाद्युपादानादुपादानानीति /
9087 SK [३०८|२४] संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः /
9088 SK [३०९|०१-३०९|०२] त एवानुशयाः पुनः संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा भित्त्वोक्ताः /
9089 SK [३०९|०२-३०९|०३] तत्र नव संयोजनान्यनुन्वयप्रतिघमानाविद्यादृष्टिपरामर्शविचिकित्सेर्ष्या मात्सर्यसंयोजनानि /
9090 SK [३०९|०३] तत्रानुनयसंयोजनं त्रैधातुको रागः /
9091 SK [३०९|०३-३०९|०४] एवमन्यानि यथासंभवम् योज्यानि /
9092 SK [३०९|०४] दृष्टिसंयोजनं तिस्रो दृष्टयः / परामर्शसंयोजनं द्वे दृष्टी /
9093 SK [३०९|०५-३०९|०६] अत एवोच्यते स्यात् द्ष्टिसंप्रयुक्तेषु धर्मेष्वनुनयसंयोजनेन संयुक्तो न दृष्टिसंयोजनेन न च तत्र दृष्ट्यनुशयो नानुशयीत /
9094 SK [३०९|०६-३०९|०७] आह स्यात् समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शानप्रहातव्येषु दृष्टिशीलव्रतपरामर्शसंप्रयुक्तेषु धर्मेषु /
9095 SK [३०९|०८] तेष्वनुनयसंयोजनेन संयुक्तस्तदालम्बनेन दृष्टिसंयोजनेनासंयुक्तः /
9096 SK [३०९|०९-३०९|१०] सर्वत्रगस्य प्रहीणत्वादसर्वत्रगस्य च तदालम्बनसंप्रयोगिणो दृष्टिसंयोजनस्याभावात् /
9097 SK [३०९|१०] दृष्ट्यनुशयश्च तेष्वनुशेते /
9098 SK [३०९|१०-३०९|११] ते एव परामर्शडृष्टी संप्रयोगतः /
9099 SK [३०९|१२-३०९|१३] किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंप्रयोजनं पृथगुक्तं द्वे पुनर्दृष्टी परामर्शासंयोजनं पृथक् /
9100 SK [३०९|१४] द्रव्यामर्शन सामान्याद्दृष्टी संयोजनान्तरम् // VAक्K_५.४१ //
9101 SK [३०९|१५] अष्टादश द्रव्याणि तिस्रो दृष्टयः / अष्टादशैव द्वे परामर्शदृष्टी /
9102 SK [३०९|१५-३०९|१६] अतः किल द्रव्य सामान्यादेते संयोजनान्तरम् कृते /
9103 SK [३०९|१६-३०९|१७] एते च द्वे परामर्शस्वभावेन शेषाइति परामर्शनसामान्यादप्येते पृथग्विहिते ग्राह्यग्राहकभेदात् /
9104 SK [३०९|१८-३०९|१९] अथ कस्मादीष्र्यामात्सर्ये संयोजने पृथक्संयोजनद्वयमुक्तं नान्यत् पर्यवस्थानम् /
9105 SK [३०९|२०-३०९|२१] एकान्ताकुशलं यस्मात् स्वतन्त्रं चोभयं यतः / ईष्र्यामात्सर्यमेषूक्तं पृथक् संयोजनद्वयम् // VAक्K_५.४२ //
9106 SK [३०९|२२-३०९|२३] नह्यन्यत्पर्यवस्थानमेवञ्जातीयकमस्ति यत्रैतदुभयं स्यादेकान्ताकुशलत्वं स्वतन्त्रत्वं चेति /
9107 SK [३०९|२३] यस्याष्टौ पर्यवस्थानानि तस्येवं स्यात् /
9108 SK [३०९|२३-३०९|२४] यस्य पुनर्दश तस्य क्रोधम्रक्षावप्युभयप्रकारौ /
9109 SK [३०९|२४] तस्मान्न भवत्ययं परिहार इत्यपरे /
9110 SK [३०९|२४-३०९|२५] पुनरन्यत्र भगवता संयोजनमुक्तम्
9111 SK [३१०|०१] पञ्चधा ऽवरभागीयं
9112 SK [३१०|०२] तद्यथा सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति /
9113 SK [३१०|०३] कस्मादेतान्ववरभागीयान्युच्यन्ते / अवरभागहितत्वात् /
9114 SK [३१०|०३-३१०|०४] अवरो हि भागः कामधातुरेतानि च तस्यानुगुणानि /
9116 SK [३१०|०५] द्वाभ्यां कामानतिक्रमः /
9117 SK [३१०|०६] त्रिभिस्तु पुनरावृत्तिः
9118 SK [३१०|०७] कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति /
9119 SK [३१०|०७-३१०|०८] सत्कायदृष्ट्यादिभिरतिक्रान्तो ऽपि पुनरावर्त्यते दौवारिकानुचरसाधर्म्यात् /
9120 SK [३१०|०८-३१०|०९] त्रिभिः सत्त्वावरतां नातिक्रामति पृथग्जनत्वं द्वाभ्यां धात्ववरतां कामधातुम् /
9121 SK [३१०|०९-३१०|१०] अत एव तान्यवरभागीयानीत्यपरे /
9122 SK [३१०|१०-३१०|१२] यदा स्रोत आपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणात् षट्क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयमेवाह सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च /
9123 SK [३१०|१२] सर्वमेतद्वक्तव्यं स्यात् / किं तूक्तं
9124 SK [३१०|१३] मुखमूलग्रहात्त्रयम् // VAक्K_५.४३ //
9125 SK [३१०|१४] त्रिप्रकाराः किल क्लेशा एकप्रकारा द्विप्रकाराक्श्चतुप्रकाराक्श्च /
9126 SK [३१०|१४-३१०|१५] तेषामेभिस्त्रिभिर्मुखं गृहीतमिति /
9127 SK [३१०|१५] अपिचान्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तिता /
9128 SK [३१०|१५-३१०|१६] दृष्टिपरामर्शः शीलव्रतपरामर्शप्रवर्तितः मिथ्यादृष्टिर्विचिकित्साप्रवतिता /
9129 SK [३१०|१६] मूलं गृहीतमिति /
9130 SK [३१०|१७] अपरे पुनराहुः /
9131 SK [३१०|१८-३१०|१९] अगन्तुकामतामार्गविभ्रमो मार्गसंशयः / इत्यन्तराया मोक्षस्य गमने ऽतस्त्रिदेशना // VAक्K_५.४४ //
9132 SK [३११|०१] त्रयो ऽन्तराया देशान्तरगमने भवन्ति /
9133 SK [३११|०१-३११|०२] अगन्तुकामता मार्गविभ्रमो ऽन्यमार्गसंश्रयणात् मार्गसंशयश्च /
9134 SK [३११|०२] एवं मोक्षगमने ऽप्येत एव त्रयोन्तरायाः /
9135 SK [३११|०२-३११|०३] तत्र सत्कायदृष्ट्या मोक्षादुत्रासमापन्नस्यागन्तुकामता भवति /
9136 SK [३११|०३-३११|०४] शीलव्रतपरामर्शेनान्यमार्गसंश्रयणान्मोक्षविभ्रमः /
9137 SK [३११|०४] विचिकित्सया मार्गसंशयः /
9138 SK [३११|०४-३११|०६] एषां मोक्षगमनान्तरायाणां प्रहाणं द्योतयन् भगवान् क्लेशत्रयस्यैव प्रहाणं देशितवान् /
9139 SK [३११|०६] यथा भगवता पञ्चविधमवरभागीयं संयोजनमुक्तम् / एवं पुनः
9140 SK [३११|०७] पञ्चधैवोर्ध्वभागीयं
9142 SK [३११|०९] द्वौ रागौ रूप्यरूपिजौ
9144 SK [३११|११] औद्धत्यमानमोहाश्च
9145 SK [३११|१२] इत्येतानि पञ्चोर्ध्वभागीयानि संयोजनानि /
9146 SK [३११|१२-३११|१३] तद्यथा रूपराग आरूप्यराग औद्धत्यं मानो ऽविद्या च /
9147 SK [३११|१३] एषामप्रहाणेनोर्ध्वधात्वनतिक्रमात् / समाप्तः संयोजनप्रसङ्गः /
9148 SK [३११|१४] बन्धनानि कतमानि / त्रीणि बन्धनानि /
9149 SK [३११|१४-३११|१५] रागो बन्धनं सर्वः द्वेषो बन्धनं सर्वः मोहो बन्धनं सर्वः /
9150 SK [३११|१५] कस्मादेतदेव त्रयं बन्धनमुक्तं भगवता /
9151 SK [३११|१६] विद्वशाद् बन्धनत्रयम् // VAक्K_५.४५ //
9152 SK [३१२|०१] त्रिवेदनावशार्त्तीणि बन्धनानि /
9153 SK [३१२|०१-३१२|०२] सुखायां हि वेदनायां रागो ऽनुशेते आलम्बनसंप्रयोगाभ्याम् /
9154 SK [३१२|०२] दुःखायां द्वेषः / अदुःखासुखायां मोहो न तथा रागद्वेषौ /
9155 SK [३१२|०२-३१२|०३] स्वासांतनिकालम्बनतो वा नियमः /
9156 SK [३१२|०३] अनुशयाः पूर्वमेवोक्ताः /
9157 SK [३१२|०४] उपक्लेशाः वक्तव्याः / तत्र ये यावत् क्लेशा उपक्लेशा अपि ते /
9158 SK [३१२|०४-३१२|०५] चित्तोपक्लेशनात् /
9159 SK [३१२|०६-३१२|०७] ये ऽप्यन्ये चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः / क्लेशेभ्यस्ते ऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः // VAक्K_५.४६ //
9160 SK [३१२|०८-३१२|०९] ये ऽप्यन्ये क्लेशेभ्यः क्लिष्टा धर्माः संस्कारस्कन्धसंगृहीताश्चैतसिकास्त उपक्लेशास्ते पुनर्ये क्षुद्रवस्तुके पठिताः /
9161 SK [३१२|०९-३१२|१०] इह तु पर्यस्थानक्लेशमलसंगृहीतानेव निर्देक्ष्यामः /
9162 SK [३१२|१०] कानि पुनः पर्यवस्थानानीत्याह /
9163 SK [३१२|१०-३१२|११] क्लेशा अपीहिपर्यवस्थानं कामरागपर्यवस्थानप्रत्ययदुःखमिति सूत्रे वचनात् /
9164 SK [३१२|११] प्रकरणशास्त्रे तु
9165 SK [३१२|१२-३१२|१३] आह्लीक्यमनपत्राप्यमीर्ष्यामात्सर्यमुद्धवः / कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा // VAक्K_५.४७ //
9166 SK [३१२|१४] वैभाषिकन्यायेन पुनर्दश पर्यवस्थानान्येतानि चाष्टौ
9167 SK [३१२|१५] क्रोधभ्रक्षौ च
9168 SK [३१२|१६] तत्राह्लीक्यानपत्राप्ये व्याख्याते / परसंपत्तौ चेतसो व्यारोष ईर्ष्या /
9169 SK [३१२|१६-३१२|१७] धर्मामिषकौशलप्रदानविरोधी चित्ताग्रहो मात्सर्यम् /
9170 SK [३१२|१७] औद्धत्यं चेतसो ऽव्युपशमः /
9171 SK [३१२|१७-३१२|१८] कौकृत्यं स्त्यानं च व्याख्याते /
9172 SK [३१२|१८] कायसंधारणासमर्थश्चित्ताभिसंक्षेपो मिद्धम् /
9173 SK [३१२|१८-३१२|१९] तत्तु क्लिष्टमेव पर्यवस्थानम् /
9174 SK [३१२|१९] कौकृत्यं च व्यापाद विहिंसावर्जितः सत्त्वासत्त्वयोराघातः क्रोधः /
9175 SK [३१२|२०] अवद्यप्रच्छादनं भ्रक्षः / एषां च दशानां पर्यवस्थानानां
9176 SK [३१२|२१] रागोत्था आह्लीक्यौद्धत्यमत्सराः /
9177 SK [३१२|२२] एते त्रय उपक्लेशा रागनिःष्यन्दाः /
9178 SK [३१३|०१] भ्रक्षे विवादः
9179 SK [३१३|०२] तृष्णानिःष्यनद इत्येके / अविद्यानिःष्यन्द इत्यपरे / उभयोरित्यन्ये /
9180 SK [३१३|०२-३१३|०३] यथा क्रमं ज्ञाताज्ञातानामिति /
9181 SK [३१३|०४] अविद्यातः स्त्यानमिद्धानपत्रपाः // VAक्K_५.४८ //
9182 SK [३१३|०५] एते त्रयो ऽविद्यानिःष्यन्दाः /
9183 SK [३१३|०६-३१३|०७] कौकृत्यं विचिकित्सातः कोधेर्ष्ये प्रतिघान्वये /
9184 SK [३१३|०८] प्रतिघसमुत्थे इत्येते च दश क्लेशनिःष्यन्दा उपक्लेशाः /
9185 SK [३१३|०९] अन्ये च षट्क्लेशमलाः
9187 SK [३१३|११] माया शाठ्यं मदस्तथा // VAक्K_५.४९ //
9188 SK [३१३|१२] प्रदाश उपनाहश्च विहिंसा चेति
9189 SK [३१३|१३] तत्र परवञ्चना माया /
9190 SK [३१३|१३-३१३|१४] चित्तकौटिल्यं शाठ्यं येन यथाभूतं नाविष्करोति विक्षिपत्य परिस्फुटं वा प्रतिपद्यते /
9191 SK [३१३|१४] मदः पूर्वोक्तः /
9192 SK [३१३|१४-३१३|१५] सावद्यवस्तुदृढग्राहिता प्रदाशो येन न्यायसंज्ञप्तिं न गृह्णाति /
9193 SK [३१३|१५] आघातवस्तुवहुलीकार उपनाहः /
9194 SK [३१३|१६] विहेठ्नं विहिंसा येन प्रहारपारुष्यादिभिः परान् विहेठ्यते /
9195 SK [३१३|१६-३१३|१७] एषां पुनः षण्णां क्लेशमलानां
9197 SK [३१३|१९] मायामदौ प्रतिघजे उपनाहविहिंसने // VAक्K_५.५० //
9198 SK [३१४|०१] दृष्ट्यामर्शात् प्रदाशस्तु शाठ्यं दृष्टिसमुत्थितम् /
9199 SK [३१४|०२] ᳚किं कुटिलं पापिका दृष्टिरिति᳚ गाथावचनाद् युज्यते /
9200 SK [३१४|०२-३१४|०३] शाठ्यं दृष्टिनिःष्यन्दः /
9201 SK [३१४|०४] क एषां किंप्रहातव्यः / यानि तावत् दश पर्यवस्थानान्युक्तानि
9202 SK [३१४|०५] तत्राह्लीक्यानपत्राप्यस्त्यानमिद्धोद्धवा द्विधा // VAक्K_५.५१ //
9203 SK [३१४|०६] एते पञ्च धर्मा द्विविधा दर्शनभावनाप्रहातव्या उभयप्रकारक्लेशसंप्रयोगात् /
9204 SK [३१४|०६-३१४|०७] यश्च यद्दर्शनहेयसंप्रयुक्तः स तद्दर्शनप्रहातव्यः /
9205 SK [३१४|०८] तदन्ये भावनाहेयाः
9206 SK [३१४|०९] तेभ्यो ऽन्ये पर्यवस्थानसंगृहीता उपक्लेशा भावनाहेया एव /
9207 SK [३१४|०९-३१४|१०] इर्ष्यामात्सर्यकौकृत्यक्रोधभ्रक्षाः स्वतन्त्राश्च /
9208 SK [३१४|१०-३१४|११] स्वतन्त्राश्चैते पञ्चोपक्लेशा अधिमात्रसंप्रयोगित्वात् /
9209 SK [३१४|११] यथैते ईर्ष्यादयः पञ्चोपक्लेशा भावनाहेयाः
9210 SK [३१४|१२] स्वतन्त्राश्च तथा मलाः /
9211 SK [३१४|१३] षट्क्लेशमलास्तथैव / एते पुनर्यथोक्ता उपक्लेशाः
9212 SK [३१४|१४] कामे ऽशुभाः
9213 SK [३१४|१५] कामधातावकुशलाः / तत्रापि
9214 SK [३१४|१६] त्रयो द्विधा
9215 SK [३१४|१७] स्त्यानौद्धत्यमिद्धान्यकुशलाव्याकृतानि /
9216 SK [३१४|१८] परेणाव्याकृतास्ततः // VAक्K_५.५२ //
9217 SK [३१४|१९] कामधातोरुर्ध्वमव्याकृताः उपक्लेशा यथासंभवम् /
9218 SK [३१५|०१] कति पुनरेषां कुतस्त्या वेदितव्याः /
9219 SK [३१५|०२] माया शाठ्यं च कामाद्यध्यानयोः
9220 SK [३१५|०३] एतौ द्वौ कामधातौ प्रथमे च ध्याने / कथं ब्रह्मलोके मायाः /
9221 SK [३१५|०४] ब्रह्मवञ्चनात् /
9222 SK [३१५|०५-३१५|०६] स हि तत्र महाब्रह्मा वितथात्मसंदर्शनतया आयुष्मन्तमश्वजितं वञ्चयितुं प्रवृत्तः /
9223 SK [३१५|०६] उक्तमपि शाठ्यं प्रसङ्गागतं पुनरेवोक्तम् /
9224 SK [३१५|०७] स्त्यानौद्धत्यमदा धातुत्रये
9225 SK [३१५|०८] एते त्रयस्त्रैधातुकाः /
9226 SK [३१५|०९] अन्ये कामधातुजाः // VAक्K_५.५३ //
9227 SK [३१५|१०] षोडशभ्यः पञ्चापनीयान्य एकादशोपक्लेशाः कामावचरा एव /
9228 SK [३१५|१०-३१५|११] उक्ता क्लेशाः उपक्लेशाश्च /
9229 SK [३१५|१२] अथैषामनुशयानां कति मनोभूमिकाः कति षड्विज्ञानकायिकाः / संक्षेपतः
9230 SK [३१५|१३] समानसिद्धा दृग्घेया मनोविज्ञानभूमिकाः /
9231 SK [३१५|१४-३१५|१५] दर्शनप्रहातव्याः सर्वे मनोभूमिकाः सह मानसिद्धाभ्यां भावनाहेयाभ्यामपि /
9232 SK [३१५|१५] ते हि सकले मनोभूमिके /
9233 SK [३१५|१६] उपक्लेशाः स्वतन्त्राश्च
9234 SK [३१५|१७-३१५|१८] ये च केचिदुपक्लेशाः स्वतन्त्रास्ते भावनाहेया अपि सन्तो मनोभूमिका एव द्रष्टव्याः /
9235 SK [३१५|१९] षड्विज्ञानाश्रयाः परे // VAक्K_५.५४ //
9236 SK [३१५|२०] अन्ये क्लेशोपक्लेशाः षड्विज्ञानभूमिकाः वेदितव्याः / के पुनरन्ये /
9237 SK [३१६|०१] भावनाप्रहातव्या रागप्रतिघाविद्या उपक्लेशाश्च तत्संप्रयुक्ताः /
9238 SK [३१६|०१-३१६|०२] आह्लीक्यानपत्राप्यस्त्यानौद्धत्यानि /
9239 SK [३१६|०२] ये च क्लेशमहाभूमिकेषूक्ताः /
9240 SK [३१६|०३-३१६|०४] यानीमानि सुखादीनि पञ्चेन्द्रियाणि एषां कतमेनेन्द्रियेण कतमः क्लेश उपक्लेशो वा संप्रयुक्तः /
9241 SK [३१६|०५] सुखभ्यां संप्रयुक्तो हि रागः
9242 SK [३१६|०६] सुखसौमनस्याभ्यां रागः संप्रयुक्तः /
9243 SK [३१६|०७] द्वेषो विपर्ययात् /
9244 SK [३१६|०८] दुःखाभ्यामित्यर्थः / दुःखेन दौर्मनस्येन च /
9245 SK [३१६|०८-३१६|०९] हर्षदैन्याकारवर्तित्वात् षङ्विज्ञानभूमिकत्वाच्च रागद्वेषयोः /
9246 SK [३१६|१०] मोहः सर्वैः
9247 SK [३१६|११] अविद्यायाः सर्वक्लेशसंप्रयोगित्वात् पञ्चभिरपीन्द्रियैः संप्रयोगः /
9248 SK [३१६|१२] असद्दृष्टिर्मनोदुःखसुखेन तु // VAक्K_५.५५ //
9249 SK [३१६|१३] मनोदुःखं दौर्मनस्यं मनःसुखं सौमनस्यं च /
9250 SK [३१६|१३-३१६|१४] ताभ्यं मिथ्यादृष्टिः संप्रयुक्ता पुण्यकर्मणां पापकर्मणां च यथाक्रमम् /
9251 SK [३१६|१५] दौर्मनस्येन काङ्क्षा
9252 SK [३१६|१६] संशयितो हि निश्चयेनार्थी दुर्मनायते /
9253 SK [३१६|१७] अन्ये सौमनस्येन
9254 SK [३१६|१८] अन्ये ऽनुशयाः सौमनस्येनैव संप्रयुक्ताः / के पुनरन्ये / चतस्रो दृष्टनो मानश्च /
9255 SK [३१६|१९] हर्षाकारवर्तित्वात् / किंप्रतिसंयुक्ता इमे ऽनुशया निर्दिष्टाः / आह /
9257 SK [३१७|०१] एवं प्रतिनियतं संप्रयोगमुक्त्वा सामान्येनाह
9258 SK [३१७|०२] सर्वे ऽप्युपेक्षया
9259 SK [३१७|०३] सर्वे ऽप्येते ऽनुशया उपेक्षेन्द्रियेण संप्रयुक्ताः /
9260 SK [३१७|०३-३१७|०४] प्रवाहच्छेदकाले किल क्लेशानामवश्यमुपेक्षा संतिष्ठते /
9261 SK [३१७|०४] अधोभूमिकाः कथमित्याह
9262 SK [३१७|०५] स्वैः स्वैर्यथाभुम्यूर्ध्वभूमिकाः // VAक्K_५.५६ //
9263 SK [३१७|०६] स्वैः स्वैरिन्द्रियैरुर्ध्वभूमिका अनुशयाः संप्रयुज्यन्ते / यस्यां भूमौ यावन्तीन्द्रियाणि /
9264 SK [३१७|०७-३१७|०८] तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैर्मनोभूमिका मनोभूमिकैरेव यथासंभवम् /
9265 SK [३१७|०८] उक्तः क्लेशानामिन्द्रियसंप्रयोगः /
9266 SK [३१७|०९] उपक्लेशानां पुनः
9267 SK [३१७|१०] दौर्मनस्येन कौकृत्यमीर्ष्या क्रोधो विहिंसनम् /
9268 SK [३१७|११] उपनाहं प्रदाशश्च
9269 SK [३१७|१२] संप्रयुक्तानीति वर्तते / दैन्याकारवर्तित्वादेषां मनोभूमिकत्वाच्च /
9270 SK [३१७|१३] मात्सर्यं तु विपर्ययात् // VAक्K_५.५७ //
9271 SK [३१७|१४] सौमनस्येनेत्यर्थः / लोभान्वयत्वेन हर्षाकारवर्तित्वात् /
9272 SK [३१७|१५] माया शाठ्यमथी भ्रक्षो मिद्धं चोभयथा
9273 SK [३१७|१६] सौमनस्यदौर्मनस्याभ्यां संप्रयुज्यन्ते / कदाचिद्धि सुमनाः परं वञ्चयते /
9274 SK [३१७|१६-३१७|१७] कदाचिद्दुर्मनाः /
9275 SK [३१७|१७] एवं यावत् स्वपिति /
9277 SK [३१७|१९] सुखाभ्याम्
9278 SK [३१८|०१] तृतीये ध्याने सुखेनाधस्तात्सौमनस्येन ऊर्ध्वमुपेक्षया / यस्मात्
9279 SK [३१८|०२] सर्वगोपेक्षा
9280 SK [३१८|०३] अतस्तया सर्वे ऽनुशयाः संप्रयुज्यन्ते /
9281 SK [३१८|०३-३१८|०४] न हि तस्याः क्वचित् प्रतिषेधो यथा ऽविद्यायाः /
9282 SK [३१८|०५] चात्वार्यन्यानि पञ्चभिः // VAक्K_५.५८ //
9283 SK [३१८|०६-३१८|०७] आह्लीक्यमनपत्राप्यं स्त्यानमौद्धत्यं चैतानिचत्वारि पर्यवस्थानानि पञ्चभिरपीन्द्रियैः संप्रयुज्यन्ते /
9284 SK [३१८|०७] अकुशलमहाभूमिकत्वात् क्लेशमहाभूमिकत्वाच्च /
9285 SK [३१८|०८-३१८|०९] यानि सूत्रे पञ्च निवरणानि उक्तानि कामच्छन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च /
9286 SK [३१८|०९-३१८|१०] तत्र किं त्रैधातुक्यः स्त्यानौद्धत्यविचिकित्सा गृह्यन्ते /
9287 SK [३१८|१०] अथ कामप्रतिसंयुक्ता एव /
9288 SK [३१८|१०-३१८|११] ᳚केवलो ऽयं परिपूर्णोऽकुशल राशिर्यदुत पञ्च निवरणानी᳚त्येकान्ताकुशलत्ववचनात्सूत्रे /
9289 SK [३१८|१२] कामे निवरणानि
9290 SK [३१८|१३] नान्यत्र धातौ /
9291 SK [३१८|१३-३१८|१४] किं पुनः कारणं द्वे स्त्यानमिद्धे एकं निवरणमुक्तं द्वे चौद्धत्यकौकृत्ये एकम् /
9292 SK [३१८|१५] एकविपक्षाहारकृत्यतः /
9294 SK [३१८|१७] द्वयोरेकता द्व्येकता / विपक्षः प्रतिपक्षो ऽनाहार इत्येको ऽर्थः /
9295 SK [३१८|१७-३१८|१८] स्त्यानमिद्धयोरेक आहारः सूत्रे ऽनाहारश्च /
9296 SK [३१८|१८] कः स्त्यानमिद्धनिवरणस्याहारः / पञ्च धर्माः /
9297 SK [३१८|१९] तन्द्रा अरतिर्विजृम्भिका भक्ते ऽसमता चेतसो लीनत्वमिति /
9298 SK [३१८|१९-३१८|२०] अथ स्त्यानमिद्धनिवरणस्यानाहारः आलोकसंज्ञेति /
9299 SK [३१८|२०] कृत्यमनयोरप्येकम् /
9300 SK [३१८|२०-३१९|०१] उभे अपि ह्येते चित्तं लयं चोदयतः /
9301 SK [३१९|०१] औद्धत्यकौकृत्ययोरप्येक आहार उक्तः एकोनाहारः /
9302 SK [३१९|०२] कश्चौद्धत्यकौकृत्यनिवरणस्याहारः / चत्वारो धर्माः /
9303 SK [३१९|०२-३१९|०३] ज्ञातिवितर्को जनपदवितर्को ऽमरवितर्कः पौराणस्य च हसितक्रिडितरमितपरिभावितस्यानुस्मर्ता भवतीति /
9304 SK [३१९|०४] कश्चौद्धत्यकौकृत्यनिवरणस्यानाहारः / शमथ इति / कृत्यमप्यनयोरेकम् /
9305 SK [३१९|०४-३१९|०५] उभे अपि ह्येते चित्तमव्युपशान्तं वर्तयतः /
9306 SK [३१९|०५-३१९|०६] अत एकविपक्षाहारकृत्यत्वात् द्वयोरप्येकत्वमुक्तम् /
9307 SK [३१९|०६] यदि सर्वक्लेशा निवरणं कस्मात् पञ्चैवोक्तानि /
9308 SK [३१९|०७] पञ्चता स्कन्धविधातविचिकित्सनात् // VAक्K_५.५९ //
9309 SK [३१९|०८] कामच्छन्दव्यापादाभ्यां शीलस्कन्धविधातः /
9310 SK [३१९|०८-३१९|१०] स्त्यानमिद्धेन प्रज्ञास्कन्धस्यौद्धत्यकौकृत्येन समाधिस्कन्धस्य समाधिप्रज्ञयोरभावे सत्येषु विचिकित्सको भवतीत्यतः पञ्चोक्तानि /
9311 SK [३१९|१०-३१९|११] एतस्यां तु कल्पनायां समाधिस्कन्धविरोधिन औद्धत्यकौकृत्यनिवरणस्य पूर्व ग्रहणं प्राप्नोति /
9312 SK [३१९|११] अतो यथासंख्यमेताभ्यां समाधिप्रज्ञास्कन्धोपघात इत्यपरे /
9313 SK [३१९|१२] समाधिप्रयुक्तस्य हि स्त्यानमिद्धाद्भयम् / धर्मप्रविचयप्रयुक्तस्यौद्धत्यकौकृत्यादिति /
9314 SK [३१९|१३] अन्ये त्वन्यथा वर्णयन्ति / कथं वर्णयन्ति /
9315 SK [३१९|१३-३१९|१५] चारगतस्य प्रियाप्रियरूपेषु विषयेषु निमित्तग्राहाद्विहारगतस्य तत्पूर्वकौ कामच्छन्दव्यापादौ समाधिप्रवेशस्यादितो ऽन्तरायं कुरुतः /
9316 SK [३१९|१५-३१९|१७] ततः समाधिप्रविष्टस्याप्रयोगेण शमथविपश्यना सेवनात् स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च यथाक्रमं शमथविपश्यनयोरन्तरायं कुरुतः /
9317 SK [३१९|१७] व्युत्थितस्यापि धर्मनिध्यानकाले विचिकित्सान्तरायं करोति /
9318 SK [३१९|१८] अतः पञ्च निवरणान्युक्तानि /
9319 SK [३१९|१९] इदं विचार्यते /
9320 SK [३१९|१९-३१९|२०] विसभागधातुसर्वत्रगाणां निरोधमार्गदर्शनप्रहातव्यानां च सास्रवालम्बनानां यदालम्बनं परिज्ञायते तदा न प्रहीयन्ते /
9321 SK [३१९|२०-३१९|२१] यदा प्रहीयन्ते तदालम्बनं न परिज्ञायते इति कथमेषां प्रहाणम् /
9322 SK [३१९|२१-३१९|२२] नावश्यमालम्बनपरिज्ञानात् क्लेशानां क्षयो भवति /
9323 SK [३१९|२२] किम् तर्हि / चतुर्भिः प्रकारैः / कतमैश्चतुर्भिः /
9324 SK [३१९|२२-३१९|२३] दर्शनहेयानां तावत्
9325 SK [३१९|२४] आलम्बनपरिज्ञानात्तदालम्बनसंक्षयात् /
9326 SK [३१९|२५] आलम्बनग्रहाणाच्च
9327 SK [३१९|२६-३१९|२७] तत्रालम्बनपरिज्ञानाद् दुःखसमुदयदर्शनहेयानां स्वभूम्यालम्बनानामनास्रवालम्बनानां च /
9328 SK [३१९|२७] तदालम्बनसंक्षयाद् विसभागधातुसर्वत्रगाणाम् /
9329 SK [३१९|२७-३२०|०१] तदालम्बना हि सभागधातुसर्वत्रगाः /
9330 SK [३२०|०१] तेषु प्रहीणेषु ते ऽपि प्रहीणा भवन्ति /
9331 SK [३२०|०१-३२०|०२] आलम्बनप्रहाणान्निरोधमार्गहेयानां सास्रवालम्बनानाम् /
9332 SK [३२०|०२-३२०|०३] ते ह्यनास्रवालम्बनास्तेषामालम्बनम् /
9333 SK [३२०|०३] अतस्तेषु प्रहीणेषु ते ऽपिप्रहीणा भवन्ति / भावनाहेयानां पुनः
9334 SK [३२०|०४] प्रतिपक्षोदयात् क्षयः // VAक्K_५.६० //
9335 SK [३२०|०५] यस्य हि क्लेशप्रकारस्य प्रतिपक्षो मार्ग उत्पद्यते स प्रहीयते /
9336 SK [३२०|०५-३२०|०६] कस्य पुनः कः प्रतिपक्षः /
9337 SK [३२०|०६] अधिमात्राधिमात्रस्य मृदुमृदुरिति विस्तारेण पश्चात् प्रवेदयिष्यामः /
9338 SK [३२०|०७] कतिविधश्च प्रतिपक्ष इत्याह
9339 SK [३२०|०८] प्रहाणाधारभूतत्वदूषणारुयश्चतुर्विधः /
9340 SK [३२०|०९] प्रतिपक्षः
9341 SK [३२०|१०] प्रहाणप्रतिपक्षः आनन्तर्यमार्गः /
9342 SK [३२०|१०-३२०|११] आधारप्रतिपक्षस्तस्मात्परेणार्यो मार्गो येन तत्प्रापितं प्रहाणमाधार्यते /
9343 SK [३२०|११-३२०|१२] दूरीभावप्रतिपक्षो विमुक्तिमार्गात्परेण यो मार्गश्छिन्नप्राप्तिदूरीकरणात् /
9344 SK [३२०|१२] विमुक्तिमार्गो ऽपीत्यपरे / सो ऽपि हि तां प्राप्ति दूरीकरोति /
9345 SK [३२०|१३] विदूषणाप्रतिपक्षो येन मार्गेण तं धातुम् दोषतो दर्शनाद्विदूषयति /
9346 SK [३२०|१३-३२०|१४] अपि त्वेषामियमातुपूर्वीं साध्वी भवेत् /
9347 SK [३२०|१४] विदूषणाप्रतिपक्षो दुःखसमुदयालम्बनः प्रयोगमार्गः /
9348 SK [३२०|१५] प्रहाणप्रतिपक्षः सर्व आनन्तर्यमार्गः / आधारप्रतिपक्षो विमुक्तिमार्गः /
9349 SK [३२०|१५-३२०|१६] दूरीभावप्रतिपक्षो विशेषमार्ग इति /
9350 SK [३२०|१७] प्रहीयमाणः क्लेशः कुतः प्रहातव्यः /
9351 SK [३२०|१८] प्रहातव्यः क्लेश आलम्बनात् मतः // VAक्K_५.६१ //
9352 SK [३२०|१९] न हि संप्रयोगात् क्लेशो विवेचयितुं शक्यते आलम्बनाच्च शक्यते /
9353 SK [३२०|१९-३२०|२०] यस्मान्न पुनस्तदालम्ब्योत्पद्यते /
9354 SK [३२०|२०-३२०|२१] अनागतस्तावच्छक्येतालम्बनाद्विवेचयितुम् /
9355 SK [३२०|२१] अतीतस्तु कथम् / अथालम्बन परिज्ञानात्प्रहातव्य इत्ययमस्यार्थः /
9356 SK [३२१|०१] एषो ऽपि नैकान्तः / तस्माद्वक्तव्यमेतत् / कियता क्लेशः प्रहीणो वक्तव्यः /
9357 SK [३२१|०१-३२१|०२] स्वासंतानिकः प्राप्तिच्छेदात् /
9358 SK [३२१|०२-३२१|०३] पारसांतानिकस्तु क्लेशः सर्वं च रूपमक्लिष्टश्च धर्मस्तदालम्बनस्वासांतानिकक्लेशप्रहाणात् /
9359 SK [३२१|०४] दूरीभाव इत्युच्यते / कतिविध्हो दूरीभावः / चतुर्विधा किल दूरता /
9360 SK [३२१|०५-३२१|०६] वैलक्षण्याद्विपक्षत्वाद्देशविच्छेदकालतः / भूतशीलप्रदेशाध्वद्वयानामिव दूरता // VAक्K_५.६२ //
9361 SK [३२१|०७] विलक्षणदूरता यथा महाभूतानाम् / वैलक्षण्यात्सहजानामपि दूरता /
9362 SK [३२१|०७-३२१|०८] विपक्षदूरता यथा शीलस्य दौःशील्यम् /
9363 SK [३२१|०८-३२१|०९] देशविच्छेददूरता यथा विप्रकृष्टदेशानां देशविच्छेदात् पूर्वपश्चिमसमुद्रवत् /
9364 SK [३२१|०९] कालदूरता यथा अतीतानागतदूरमुच्यते / दुतस्तद्दूरम् /
9365 SK [३२१|१०] वर्तमानात् / यदनन्तरातमुत्पद्यमानं वा तत् कथं दूरम् /
9366 SK [३२१|१०-३२१|११] अध्वनानात्वेन तद्दूरं न चिरभूतभावित्वेन /
9367 SK [३२१|११] वर्तमानमप्येवं दूरं प्राप्नोति / अकारित्रा त्तर्हि तद्दूरम् /
9368 SK [३२१|१२] असंस्कृतस्य कथमन्तिकत्वं सिध्यति / सर्वत्र तत्प्राप्तेः /
9369 SK [३२१|१२-३२१|१३] अतीतानागते ऽपि तत्प्रसङ्गः /
9370 SK [३२१|१३] आकाशं च कथम् /
9371 SK [३२१|१३-३२१|१४] एवं तर्ह्यतीतानागतमन्यो ऽन्यं वर्त्तमानव्यवहितत्वाद् दूरम् /
9372 SK [३२१|१४] वर्त्तमानमुभयो रासन्नत्वादन्तिकम् /
9373 SK [३२१|१४-३२१|१५] असंस्कृतं चाप्यव्यवहितत्वादिति /
9374 SK [३२१|१५] एवमप्यतीतानागतं वर्त्तमानस्यान्तिकत्वादुभयं प्राप्नोति /
9375 SK [३२१|१५-३२१|१६] एवं तु युक्तं स्यात् /
9376 SK [३२१|१६] धर्मस्वलक्षणादनागतं दूरमसंप्राप्तत्वात् / अतीतं च प्रच्युतत्वादिति /
9377 SK [३२१|१७] किम् मार्गविशेषगमनात् क्लेशानां पुनः प्रहाणविशेषो भवति / नैतदस्ति /
9378 SK [३२१|१८] सर्वेषां हि क्लेशानां
9379 SK [३२१|१९] सकृत् क्षयः
9380 SK [३२१|२०] यस्य यः प्रहाणमार्गस्तेनैव तस्य क्षयः /
9381 SK [३२१|२१] विसंयोगलाभस्तेषां पुनः पुनः /
9382 SK [३२२|०१] कतिषु कालेष्वित्याह षट्सु कालेषु /
9383 SK [३२२|०२] प्रतिपक्षोदयफलप्राप्तीन्द्रियविवृद्धिषु // VAक्K_५.६३ //
9384 SK [३२२|०३] प्रतिपक्षो विमुक्तिमार्ग एतस्मिन्नभिप्रेतः / फलानि चत्वारि श्रामण्यफलानि /
9385 SK [३२२|०४] इन्द्रियविवृद्धिरिन्द्रियसंचारः / एतेषु कालेषु क्लेशस्य विसंयोगलाभः /
9386 SK [३२२|०४-३२२|०५] स पुनरेष यथायोगं द्रष्टव्यः /
9387 SK [३२२|०५] केषाञ्चित् षट्सु कालेषु केषाञ्चिद् यावद्द्वयोः /
9388 SK [३२२|०६] स एव विसंयोगस्तासु तास्ववस्थासु परिज्ञासंज्ञां लभते /
9389 SK [३२२|०६-३२२|०७] द्वे हि परिज्ञे ज्ञानपरिज्ञा प्रहाणपरिज्ञा च /
9390 SK [३२२|०७] तत्र ज्ञानपरिज्ञा सास्रवं ज्ञानम् /
9391 SK [३२२|०७-३२२|०८] प्रहाणपरिज्ञा तु प्रहाणमेव /
9392 SK [३२२|०८] फले हेतूपचारात् / किमेकैव परिज्ञा सर्वप्रहाणम् / नेत्याह / किं तर्हि /
9393 SK [३२२|०९] परिज्ञा नव
9394 SK [३२२|१०] तत्र तावत्
9395 SK [३२२|११] कामाद्यप्रकारद्वयसंक्षयः /
9397 SK [३२२|१३-३२२|१४] कामधातावाद्यस्य प्रकारद्वयस्य दुःखसमुदयदर्शनहेयस्य प्रहाणमेका परिज्ञा /
9398 SK [३२२|१५] द्वयोः क्षये द्वे ते
9399 SK [३२२|१६] कामधातावेव निरोधदर्शनहेयस्य प्रकारस्यप्रहाणमेका परिज्ञा /
9400 SK [३२२|१६-३२२|१७] मार्गदर्शनहेयस्यैका /
9401 SK [३२२|१७] यथा कामावचराणां दर्शनप्रहातव्यानां प्रहाणं तिस्रः परिज्ञाः
9402 SK [३२२|१८] तथोर्ध्वं निस्र एव ताः // VAक्K_५.६४ //
9403 SK [३२२|१९] रूपारूप्यावचराणां दर्शनप्रहातव्यानां प्रहाणं तथैव तिस्रः परिज्ञा भवन्ति /
9404 SK [३२२|१९-३२२|२१] दुःखसमुदयदर्शनप्रहातव्यानां प्रहाणमेका निरोधदर्शनहेयानां प्रहाणं द्वितीया मार्गदर्शनहेयानां प्रहाणं तृतीयेति त्रैधातुकानां दर्शनहेयानां प्रहाणं षट् परिज्ञा भवन्ति /
9405 SK [३२३|०१] अन्या अवरभागीयरूपसर्वास्रवक्षयाः /
9406 SK [३२३|०२] तिस्रः परिज्ञाः
9407 SK [३२३|०३] अवरभागीयप्रहाणमेका परिज्ञा / रूपास्रवप्रहाणमेका रूपरागक्षयपरिज्ञा /
9408 SK [३२३|०४] आरूप्याप्तानां सर्वास्रवप्रहाणमेका सर्वसंयोजनपर्यादान परिज्ञा /
9409 SK [३२३|०४-३२३|०५] कस्माद्रूपारूप्यावचराणां भावनाहेयानां प्रहाणं पृथक् परिज्ञा न दर्शनहेयानाम् /
9410 SK [३२३|०५-३२३|०६] भावनाहेयानामतुल्यप्रतिपक्षत्वात् /
9411 SK [३२३|०६] इत्येता नव परिज्ञाः / आसां पूर्विकाः
9412 SK [३२३|०७] षट् क्षान्तिफलं
9413 SK [३२३|०८] या एव दर्शनहेयप्रहाणस्वभावाः /
9414 SK [३२३|०९] ज्ञानस्य शेषिताः // VAक्K_५.६५ //
9415 SK [३२३|१०] अवरभागीयप्रहाणादिपरिज्ञा भावनामार्गफलत्वात् /
9416 SK [३२३|११] कथं क्षान्तिफलं परिज्ञा भवन्ति / क्षान्तीनां ज्ञानपरिवारत्वात् /
9417 SK [३२३|११-३२३|१२] राजपरिवारे राजोपचारवत् /
9418 SK [३२३|१२] ज्ञानैकफलत्वाच्च /
9419 SK [३२३|१३] अनागम्यफलं सर्वा ध्यानानां पञ्च वाथवा /
9421 SK [३२३|१५-३२३|१६] वैभाषिकमतेन मौलध्यानफलं पञ्च परिज्ञा या रूपारूप्यावचरक्लेशप्रहाण स्वभावाः /
9422 SK [३२३|१६] कामावचरक्लेशप्रहाणस्यानागम्यफलत्वात् भदन्तघोषकस्य मतेनाष्टौ /
9423 SK [३२३|१७] स हि वीतरागस्यापि कामावचराणां दर्शनहेयानां प्रहाणं दर्शनमार्गफलमिच्छन्ति /
9424 SK [३२३|१८] अनास्रवविसंयोगप्राप्तिलाभात् / अवरभागीयप्रहाणपरिज्ञा त्वनागम्यफलमेव /
9425 SK [३२३|१९] ध्यानान्तरं ध्यानवद्द्रष्टव्यम् / आरुप्याणां तु
9426 SK [३२३|२०] सामन्तकस्यैका
9427 SK [३२३|२१] आकाशानन्त्यायतनसामन्तकस्यैका रूपरागक्षयपरिज्ञा फलम् /
9428 SK [३२४|०१] मौलारूप्यत्रयस्य च // VAक्K_५.६६ //
9429 SK [३२४|०२] मौलानां च त्रयाणामारूप्याणामेकैव सर्वसंयोजनपर्यादानपरिज्ञा फलम् /
9430 SK [३२४|०३] आर्यमार्गस्य सर्वाः
9431 SK [३२४|०४] नव परिज्ञाः फलम् /
9432 SK [३२४|०५] द्वे लौकिकस्य
9433 SK [३२४|०६] लौकिस्य मार्गस्य द्वे अवरभागीयरूपरागक्षयपरिज्ञे फलम् /
9434 SK [३२४|०७] अन्वयस्य च /
9435 SK [३२४|०८] अन्वयज्ञानस्यापि द्वेपरिज्ञे फलं पश्चिमे /
9436 SK [३२४|०९] धर्मज्ञानस्य तिस्रस्तु
9437 SK [३२४|१०] पश्चिमा एव त्रिधातुकभावनाहेय प्रतिपक्षत्वात् /
9438 SK [३२४|११] षट् तत्पक्षस्य पञ्च च // VAक्K_५.६७ //
9439 SK [३२४|१२] धर्मज्ञानपक्षस्य षट् परिज्ञाः फलं या एव धर्मज्ञान क्षन्तिज्ञानानाम् /
9440 SK [३२४|१२-३२४|१३] अन्वयज्ञानपक्षस्य पञ्च या एवान्वयक्षान्तिज्ञानानाम् /
9441 SK [३२४|१३] पक्षग्रहणेन हि क्षान्तिज्ञानानि गृह्यन्ते /
9442 SK [३२४|१४] कस्मान्नैकैकं प्रहाणं परिज्ञा व्यवस्थाप्यते /
9443 SK [३२४|१४-३२४|१५] यस्मात् क्षान्तिफलं तावत् प्रहाणं व्यवस्थाप्यते /
9444 SK [३२४|१६] अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः /
9445 SK [३२४|१७] हेतुद्वयसमुद्घातात् परिज्ञा
9446 SK [३२४|१८] यत्रैतानि त्रीणि कारणानि भवन्ति तत् प्रहाणं परिज्ञोच्यते /
9447 SK [३२४|१८-३२५|०१] पृथग्जनस्य तावदनास्रवा विसंयोगप्राप्तिर्नास्ति भवाग्रविकलीकरणं चेति नास्य प्रहाणं परिज्ञाख्यां लभते /
9448 SK [३२५|०१] आर्यस्यापि यत् क्षान्तिफलं तावत् प्रहाणम् /
9449 SK [३२५|०१-३२५|०२] तत्र यावत् दुःखे ऽन्वयज्ञानक्षान्तावनास्रवा विसंयोगप्राप्तिरस्ति न तु भवाग्रविकलीकृटम् /
9450 SK [३२५|०२-३२५|०३] दुःखे ऽन्वयज्ञाने उभयमस्ति न तु हेतुद्वयसमुद्घातः /
9451 SK [३२५|०३-३२५|०४] समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतोरप्रहीणत्वात् /
9452 SK [३२५|०४] अन्येषु धर्मान्वयज्ञानेषु सर्वं त्रयमस्ति /
9453 SK [३२५|०४-३२५|०५] अतस्तास्ववस्थासु प्रहाणं परिज्ञाख्यां लभते /
9454 SK [३२५|०५] ज्ञानफलं तु प्रहाणम् / अतश्च कारणत्रयात् परिज्ञाख्यां लभते /
9455 SK [३२५|०६] चतुर्थाच्च
9456 SK [३२५|०७] धात्वतिक्रमात् // VAक्K_५.६८ //
9457 SK [३२५|०८] यदा धातुं समतिक्रामति /
9458 SK [३२५|०८-३२५|०९] कृत्स्नधातुवेराग्यात् उभयसंयोगवियोगं पञ्चमं कारणमाहुरपरे /
9459 SK [३२५|०९-३२५|१०] यः प्रकारः प्रहीणो यदि तत्रान्येन तदालम्बनेन क्लेशेन विसंयुक्तो भवतीति /
9460 SK [३२५|१०-३२५|११] स तु नास्य उभयहेतुसमुद्घातात् धातुसमतिक्रमाच्चेति न ब्रूमः /
9461 SK [३२५|१२] कः कतिभिः परिज्ञाभिः समन्वागतः /
9462 SK [३२५|१३] नैकया पञ्चभिर्यावद्दर्शनस्थः समन्वितः /
9463 SK [३२५|१४] पृथग्जनस्तावन्नैव समन्वागतः /
9464 SK [३२५|१४-३२५|१५] आर्यो ऽपि दर्शनमार्गस्थो यावत्समुदयधर्मज्ञानक्षान्तिं नैव समन्वागतः /
9465 SK [३२५|१५] समुदये धर्मज्ञान एकया समन्वागतः /
9466 SK [३२५|१५-३२५|१६] समुदये ऽन्वयज्ञाने द्वाभ्याम् /
9467 SK [३२५|१६-३२५|१७] निरोधे धर्मज्ञाने तिसृभ्हिर्निरोधान्वयज्ञाने चतसृभिर्मार्गधर्मज्ञाने पञ्चभिः /
9468 SK [३२५|१८] भवनास्थः पुनः षङ्भिरेकया वा द्वयेन वा // VAक्K_५.६९ //
9469 SK [३२५|१९-३२५|२०] भावनामार्गस्थः पुनरार्यपुद्गलो मार्गान्वयज्ञाने षडिभिः परिज्ञाभिः समन्वागतो यावत् कामवैराग्यं न प्राप्तः /
9470 SK [३२५|२०-३२५|२१] परिहीणो वा ततः कामवैराग्यं प्राप्तः पूर्वं पश्चाद् वा एकया ऽवरभागीयप्रहाणपरिज्ञया /
9471 SK [३२५|२१-३२५|२२] अर्हत्त्वं प्राप्त एकयैव सर्वसंयोजनपर्यादानपरिज्ञया /
9472 SK [३२५|२२-३२५|२३] परिहीणो ऽपि रूपावचरेण पर्यवस्थानेनैकया ऽवरभागीयप्रहाणपरिज्ञया /
9473 SK [३२५|२३-३२५|२४] रूपवैराग्यं प्राप्तो द्वभ्यामवरभागीयप्रहाणरूपरागक्षयपरिज्ञाभ्याम् /
9474 SK [३२५|२४] प्रहीणो ऽप्यारूप्यावचरेण पर्यवस्थानेनाभ्यामेव /
9475 SK [३२५|२४-३२५|२५] किं पुनः कारणमनागाम्यर्हतोरेकैव परिज्ञा व्यवस्थाप्यते न भूयस्यः /
9476 SK [३२५|२५-३२५|०१] यस्मात्
9477 SK [३२६|०१] तासां संकलनं धातुवैराग्यफललाभतः /
9478 SK [३२६|०२-३२६|०३] द्वाभ्यां कारणाभ्यां परिज्ञानां संकलनं भवत्येकत्वेन व्यवस्थापनं धातुवैराग्यात् फलप्राप्तितश्च /
9479 SK [३२६|०३] तयोश्चावस्थयोरेतदुभयं भवति /
9480 SK [३२६|०३-३२६|०४] अतः सर्वं प्रहाणं संकलय्यैका परिज्ञोच्यते /
9481 SK [३२६|०५] अथ कः कति परिज्ञास्त्यजति लभते वा /
9482 SK [३२६|०६] एकां द्वे पञ्च षट् कश्चिज्जहात्याप्नोति पञ्च न // VAक्K_५.७० //
9483 SK [३२६|०७] एकां त्यजति अर्हत्त्वात् कामवैराग्याद् वा परिहीयमाणः /
9484 SK [३२६|०७-३२६|०८] द्वे परिज्ञे त्यजत्यनागामी रूपवीतरागः कामवैराग्यात् परिहीयमाणः /
9485 SK [३२६|०८-३२६|०९] पञ्च त्यजति वीतरागपूर्वी मार्गान्वयज्ञाने /
9486 SK [३२६|०९-३२६|१०] स ह्यवरभागीयप्रहाणपरिज्ञालाभे पूर्विकाः पञ्च परिज्ञास्त्यजति /
9487 SK [३२६|१०] षट् परिज्ञास्त्यजत्यानुपोऊर्विकः कामवैराग्यात् / लाभे ऽप्येवमेव /
9488 SK [३२६|१०-३२६|११] कश्चिदेकां परिज्ञां लभते /
9489 SK [३२६|११] यः कश्चिदपूर्वा लभते /
9490 SK [३२६|११-३२६|१२] कश्चिद् द्वे यः केवलादारूप्यधातुवैराग्यात् परिहीयते /
9491 SK [३२६|१२] कश्चित् षट् यो ऽनागामिफलात् परिहीयते /
9492 SK [३२६|१२-३२६|१३] पञ्च तु नै कश्चिल्लभते /
9493 SK [३२६|१४] समाप्तः परिज्ञाप्रसङ्गः //
9494 SK =====================================================================
9495 SK [३२६|१५-३२६|१६] अभिधर्मकोशभाष्ये ऽनुशयनिर्द्देशो नाम पञ्चमं कोशस्थानं समाप्त्मिति //
9496 SK [३२६|१७] श्रीलामावाकस्य यदत्र पुण्यम् /
9498 SK =====================================================================
9500 SK =====================================================================
9501 SK [३२७|०३] उक्तं यथा प्रहाणं परिज्ञाख्यां लभते / तदपि च
9502 SK [३२७|०४] क्लेशप्रहाणमाख्यातं सत्यदर्शनभावनात् /
9503 SK [३२७|०५] दर्शनहेया भावनाहेयाश्च क्लेशा इति विस्तरेणाख्यातम् /
9504 SK [३२७|०५-३२७|०६] ताविदानीं दर्शनभावनामार्गौ किमनास्रवौ सास्रवाविति वक्तव्यम् /
9505 SK [३२७|०६] अत इदमुच्यते
9506 SK [३२७|०७] द्विविधो भावनामार्गो दर्शनख्यस्त्वनास्रवः // VAक्K_६.१ //
9507 SK [३२७|०८] द्विधो भवनामार्गो लौकिकोक् लोकोत्तरश्च /
9508 SK [३२७|०८-३२७|०९] दर्शनमार्गस्तु लोकोत्तर एव त्रैधातुकप्रतिपक्षत्वात् /
9509 SK [३२७|०९] नवप्रकाराणां दर्शन हेयानां सकृत्प्रहाणाच्च /
9510 SK [३२७|०९-३२७|१०] न हि लौकिकस्य एषा शक्तिरस्ति /
9511 SK [३२७|११] सत्यदर्शनादित्युक्तम् / कानीमानि सत्यानि कति च /
9512 SK [३२७|१२] सत्यान्युक्तानि चत्वारि
9513 SK [३२७|१३] ववोक्तानि / सास्रवानास्रवधर्मनिर्देशे /
9514 SK [३२७|१३-३२७|१५] ᳚अनास्रवा मार्गसत्यमि᳚ति स्वशब्देन ᳚प्रतिसंख्यानिरोधो यो विसंयोग᳚ इति निरोधसत्यं ᳚दुःखं समुदयो लोक᳚ इत्यत्र दुःखसमुदयसत्ये /
9515 SK [३२७|१५] किमेष एवैषामनुक्रमः / नेत्याह / किं तर्हि /
9516 SK [३२७|१६] दुःखं समुदयस्तथा /
9517 SK [३२७|१७] निरोधमार्ग इति
9518 SK [३२७|१८] एष एषामनुक्रमः / स्वभावस्तु यथा पूर्वमुक्तस्तयैवेतिप्रदर्शनार्थस्तथाशब्दः /
9519 SK [३२७|१८-३२७|१९] स पुनरयम्
9520 SK [३२७|२०] एषां यथा ऽभिसमयं क्रमः // VAक्K_६.२ //
9521 SK [३२८|०१] यस्य हि सत्यस्याभिसमयः पूर्वस्य पूर्वनिर्देशः /
9522 SK [३२८|०१-३२८|०२] इतरथा हि पूर्वं हेतुनिर्देशो ऽभविष्यत् पश्चात् फलनिर्देशः /
9523 SK [३२८|०२] केषाञ्चिदुत्पत्त्यनुकूला देशनाः /
9524 SK [३२८|०३] यथा स्मृत्युपस्थानध्यानादीनाम् /
9525 SK [३२८|०३-३२८|०४] देषाञ्चित्प्ररूपणानुकूला देशना यथा सम्यक् प्रहाणानाम् /
9526 SK [३२८|०४] न ह्येष नियमो यत् पूर्वमुत्पन्नानां प्रहाणाय च्छन्दं जनयति /
9527 SK [३२८|०४-३२८|०५] पश्चादनुत्पन्नानामनुत्पादायेति /
9528 SK [३२८|०५] सत्यानां त्वभिसमयानुकूला देशना /
9529 SK [३२८|०५-३२८|०६] किं पुनः कारणमेवमेषां सत्यानामभिसमयः /
9530 SK [३२८|०६-३२८|०७] यत्र हि सत्तो येन च वाध्यते यतश्च मोक्षं प्रर्थयते तदेवादौ व्यवचारणावस्थायां दुःखसत्यं परीक्ष्यते /
9531 SK [३२८|०७-३२८|०८] पश्चात्को ऽस्य हेतुरिति समुदयसत्यं को ऽस्य निरोध इति निरोधसत्यं को ऽस्य मार्ग इति मार्गसत्यम् /
9532 SK [३२८|०८-३२८|०९] व्याधिं दृष्ट्वा तन्निदानक्षयमेषजान्वेषाणवत् /
9533 SK [३२८|०९] सूत्रे ऽप्येष एव सत्यानां दृष्टान्तो दर्शितः /
9534 SK [३२८|१०] कतमस्मिन् सूत्रे / ᳚चतुर्भिरङ्गैः समन्वागतो भिषक्तल्पसर्त्ते᳚त्यत्र /
9535 SK [३२८|१०-३२८|११] यथा च व्यवचारणावस्थायां सत्यपरीक्षा तथाभिसमयावस्थायां सत्याभिसमयः /
9536 SK [३२८|११-३२८|१२] पूर्ववेधात् /
9537 SK [३२८|१२] दृष्टभूमिनिःसंगाश्वधावनवत् / अभिसमय इति को ऽर्थः /
9538 SK [३२८|१२-३२८|१३] अभिसंबोध इणो बोधनार्थत्वात् /
9539 SK [३२८|१३] करमादनास्रव एव न सास्रवः / स हि निर्वाणाभिमुखः सम्यक्बोधः /
9540 SK [३२८|१४] सम्यगिति तत्त्वेन / तत्र फलभूता उपादानस्कन्धा दुःखसत्यम् /
9541 SK [३२८|१५] हेतुभूताः समुदयसत्यम् / समुदेत्यस्मादिति कृत्वा /
9542 SK [३२८|१५-३२८|१६] अत एव तयोः फलहेतुभावान्नामतो भेदो न द्रव्यतः /
9543 SK [३२८|१६] निरोधमार्गयोस्तु द्रव्यतो ऽपि /
9544 SK [३२८|१६-३२८|१७] आर्यसत्यानीति सूत्र उच्यन्ते /
9545 SK [३२८|१७] को ऽस्यार्थः /
9546 SK [३२८|१७-३२८|१८] आर्याणामेतानिसत्यानि तस्मादार्यसत्यानीति सूत्र एवोक्तम् /
9547 SK [३२८|१८] किमन्येषामेतानि मृषा / सर्वेषामेतानि सत्यान्यविपरीतत्वात् /
9548 SK [३२८|१८-३२८|१९] आर्यैस्तु यथैतानि तथा दृष्टानि नान्यैः /
9549 SK [३२८|१९-३२८|२०] अत आर्याणामेतानि सत्यान्युच्यन्ते न त्वनार्याणां वीपरीतदर्शनात् /
9550 SK [३२८|२१-३२८|२२] ᳚यदार्याः सुखतः प्राहुस्तत् परे दुःखतो बिदुः / यत्परे सुखत्ः प्राहुस्तदार्या दुःखतो बिदुः //᳚
9551 SK [३२८|२३] इति गाथा / द्वे आर्याणां सत्ये द्वे आर्ये चार्याणां च सत्ये इत्यपरे /
9552 SK [३२८|२३-३२८|२४] यथा वेदनैकदेशो दुःखस्वभावः /
9553 SK [३२८|२४] कथं सर्वे सास्रवाः संस्कारा दुःखमित्युच्यन्ते /
9554 SK [३२८|२५-३२८|२६] दुःखास्त्रिदुःखतायोगाद्यथायोगमशेषतः / मनाषा अमनापाश्च तदन्ये चैव सास्रवाः // VAक्K_६.३ //
9555 SK [३२९|०१] तिस्रो हि दुःखता दुःखदुःखता संस्कारदुःखता विपरिणामदुःखता च /
9556 SK [३२९|०१-३२९|०२] ताभिर्यथायोगमशेषतः सर्व सास्रवाः संस्कारा दुःखाः /
9557 SK [३२९|०२] तत्र मनाषा विपरिणामदुःखतया /
9558 SK [३२९|०३] अमनाषा दुःखदुःखतया / तेभ्यो ऽन्ये संस्कारदुःखतया /
9559 SK [३२९|०३-३२९|०४] के पुनर्मनापाः के ऽमनाषाः के क्नोभयथा /
9560 SK [३२९|०४-३२९|०५] तिस्रो वेदना यथाक्रमं तद्वशेन सुखवेदनीयादयो ऽपि संस्कारा मनापादिसंज्ञां लभन्ते /
9561 SK [३२९|०५-३२९|०६] सुखाया हि वेदनाया विपरिणामेन दुःखता /
9562 SK [३२९|०६-३२९|०७] सूत्र उक्तं ᳚सुखा वेदना उत्पादमुखा स्थितिसुखा विपरिणामदुःख्᳚ति /
9563 SK [३२९|०७] दुःखायाः दुःखस्वभावेनैव दुःखता /
9564 SK [३२९|०७-३२९|०८] ᳚दुःखा वेदना उत्पाददुःखा स्थितिदुःखा᳚ इति सूत्रे /
9565 SK [३२९|०८] अदुःखासुखावेदनायाः संस्कारेणैव दुःखता /
9566 SK [३२९|०९] ᳚प्रत्ययाभिसंस्करणाद्यदनित्यं तद्दुःखमि᳚ति /
9567 SK [३२९|०९-३२९|१०] वेदनावत्तद्वेदनीया अपि संस्कारा उच्यन्ते /
9568 SK [३२९|१०] दुःखमेव दुःखता दुःखदुःखता / एवं यावत् संस्कारा एव दुःखतेत्यपरे /
9569 SK [३२९|११] असाधारणत्वात् मनाषा ऽमनापानां विपरिणामदुःखदुःखते उक्ते /
9570 SK [३२९|११-३२९|१२] सर्वे तुसंस्काराः संस्कारदुःखतया दुःखाः /
9571 SK [३२९|१२] तांस्त्वार्या एव पश्यन्ति //
9573 SK [३२९|१३-३२९|१६] ᳚ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वेद्यते पुम्भिः अक्षिगतं तु तथैव हि जनयत्यरतिं च पीडं च / करतलसदृशो बालो न वेत्ति संस्कारदुःखतापक्ष्म अक्षिसदृशस्तु विद्वांस्तेनैवोद्विज्यते गाढमि᳚ति //
9574 SK [३२९|१७-३२९|१८] न हि बालानामावीचिकेष्वपि स्कन्धेषु तथा दुःखबुद्धिः प्रवर्तते यथार्याणां भावाग्रिकेष्वपीति /
9575 SK [३२९|१८] एवं तर्हि मार्गस्यापि संस्कारदुःखताप्रसङ्गः /
9576 SK [३२९|१९] संस्कृतत्वात् / प्रतिकूलं हि दुःखमिति लक्षणान्न मार्गो दुःखम् /
9577 SK [३२९|१९-३२९|२०] न हि तस्योत्पाद आर्याणां प्रतिकूलः सर्वदुःखक्षयावाहनात् /
9578 SK [३२९|२०-३२९|२१] यदापि ते निर्वाणं शान्ततः पश्यन्ति तदापि यदेव दुःखतो दृष्टं तस्यैव निरोधं शान्ततः पश्यन्तिन मार्गस्य /
9579 SK [३२९|२१-३२९|२२] यदापि दुःखमप्यत्रास्ति तस्मात् दुःखमेवार्यसत्यमुच्यते /
9580 SK [३२९|२२-३२९|२३] सुखस्याल्पत्वात् मूद्गादिभावे ऽपि माषराश्यपदेशवदित्येके /
9581 SK [३२९|२३-३२९|२४] को हि विद्वान् परिषेकसुखाणुकेन गण्डसुखमिति व्यवस्येत् /
9583 SK [३२९|२५-३२९|२६] ᳚दुःखस्य च हेतुत्वात् दुःखैश्चानल्पकैः समुदितत्वात् / दुःखे च सति तदिष्टेर्दुःखं सुखमिति व्यवस्यन्ति᳚ इति //
9584 SK [३३०|०१] सहैव तु सुखेन सर्वं भवमार्या दुःखतः पश्यन्ति / संस्कारदुःखतैकरसत्वात् /
9585 SK [३३०|०१-३३०|०२] अतो दुःखमेवार्यासत्यं व्यवस्थाप्यते न सुखम् /
9586 SK [३३०|०२-३३०|०३] कथमिदानीं सुखस्वभावां वेदनां दुःखतः पश्यन्ति /
9587 SK [३३०|०३] अनित्यतया प्रतिकूलत्वात् / यथा रूपसंज्ञादीन्यपि दुःखतः पश्यन्ति /
9588 SK [३३०|०४] न चतान्येवं दुःखानि यथा दुःखवेदनेति / यस्तु मन्यते दुःखहेतुत्वादिति /
9589 SK [३३०|०५] तस्यासौ समुदयाकारः स्यान्न दुःखकारः /
9590 SK [३३०|०५-३३०|०६] आर्याणां चरूपारुप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्तेत /
9591 SK [३३०|०६-३३०|०७] न हि पुनस्तेषां दुःखवेदनाहेतुः स्कन्धा भवन्ति /
9592 SK [३३०|०७] संस्कारदुःखता च सूत्रे किमर्थं पृथगुक्ता भवेत् /
9593 SK [३३०|०७-३३०|०८] यदि तर्ह्यनित्यत्वात् दुःखतःपश्यन्ति /
9594 SK [३३०|०८] अनित्यदुःखाकारयोः कः प्रतिविशेषः /
9595 SK [३३०|०८-३३०|०९] उदयव्ययधर्मित्वादनित्यं पश्यन्ति /
9596 SK [३३०|०९] प्रतिकूलत्वात् दुःखम् /
9597 SK [३३०|०९-३३०|१०] अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्यनित्याकारो दुःखाकारमाकर्षति /
9598 SK [३३०|१०-३३०|११] नास्त्येव सुख वेदनेत्येकीया दुःखैव तु सर्वा /
9599 SK [३३०|११] कथमिदं गम्यते / सूत्राद्युक्तितश्च / कथं तावत्सूत्रात् /
9600 SK [३३०|११-३३०|१२] उक्तं हि भगवता ᳚यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये᳚ति /
9601 SK [३३०|१२-३३०|१३] ᳚दुःखा वेदना दुःखतो द्रष्टव्ये᳚ति /
9602 SK [३३०|१३] ᳚दुःखे सुखमिति संज्ञाविपर्यास᳚ इति / एवं तावत्सूत्रात् / कथं युक्तितः /
9603 SK [३३०|१४] सुखहेत्वव्यवस्थानात् /
9604 SK [३३०|१४-३३०|१५] य एव हि केचित्पानभोजनशीतोष्णादय इष्यन्ते सुखहेतवस्त एवात्युपयुक्ता अकालोपयुक्ताश्च पुनर्दुःखहेतवः संपद्यन्ते /
9605 SK [३३०|१५-३३०|१७] न च युक्ता सुखहेतुबृद्धच्या समेन वा ऽन्यस्मिन्काले दुःखोत्पत्तिरित्यादित एव ते दुःखहेतवो न सुखस्य /
9606 SK [३३०|१७] अन्ते तु तद्दुःखं वृद्धिमापन्नं व्यक्तिमापद्यत इति /
9607 SK [३३०|१७-३३०|१८] एवमीर्यापथविकल्पे ऽपि वक्तव्यम् /
9608 SK [३३०|१८] दुःखप्रतिकारे च सुखबुद्धेर्दुःखविकल्पे च /
9609 SK [३३०|१८-३३०|२०] न हि तावत् सुखमिति वेद्यते किञ्चिद्यावन्न दुःखान्तरेणोपद्रुतो भवति क्षुत्पिपासाशीतोष्णश्रमकामरागप्रभवेण /
9610 SK [३३०|२०-३३०|२१] तस्मात् प्रतीकार एवाविदुषां सुखबुद्धिर्नसुखे दुःखविकल्पे च वालः सुखबुद्धिमुत्पादय्न्ति यथांशादंशं भारं संचारयन्तः /
9611 SK [३३०|२२] तस्मान्नास्त्येव सुखमिति / अस्त्येवेत्याभिवार्मिकाः / एष एव चन्यायः /
9612 SK [३३०|२२-३३०|२३] कथं कृत्वा /
9613 SK [३३०|२३] इदं हि तावदयं प्रष्टव्यः सुखापवादी / किमिदं दुःखं नाम /
9614 SK [३३०|२३-३३०|२४] यद्वाधनात्मकं चेत् /
9615 SK [३३०|२४] कथमिति वक्तव्यम् / उपघातकं चेत् / अनुग्राहकं सुखमिति सिद्धम् /
9616 SK [३३०|२४-३३०|२५] अनभिप्रेतं चेत् /
9617 SK [३३०|२५] अभिप्रेतं सुखमिति सिद्धम् /
9618 SK [३३०|२५-३३०|२६] तदेव ह्यभिप्रेतं पुनरनभिप्रेतं भवत्यार्याणां नैवाल्पकाले /
9619 SK [३३०|२६] तस्मादनिष्पनमभिप्रेतत्वं चेत् / न / अन्यथा ऽनभिप्रेतत्वात् /
9620 SK [३३०|२७] या हि वेदना स्वेन लक्षणेनाभिप्रेता नासौ पोउओनस्तेनैव जात्वनभिप्रेता भवति /
9621 SK [३३०|२७-३३१|०२] तथा ह्येनामाकारान्तरेण विदूषयन्त्यार्याः प्रमादपदं चैनां पश्यन्ति महाभिसंस्कारसाध्यां च विपरिणामिनीं चानित्यां चयेनानभिप्रेता भवति /
9622 SK [३३१|०२] न तु खलु स्वलक्षणाकारेण /
9623 SK [३३१|०३-३३१|०४] यदि चासौ स्वेनात्मनानभिप्रेता भवेन्नैव तस्यां कस्यचिद्रागो भवेद्यतो वैराग्यार्थं प्रकारान्तरेणापि दोषवतीं पश्येयुः /
9624 SK [३३१|०४] तस्मादस्त्येव स्वलक्षणतः सुख वेदना //
9625 SK [३३१|०५-३३१|०७] यत्तु भगवतोक्तं ᳚यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये᳚ति तद्भगवतैव नीतार्थं ᳚संस्कारानित्यतामानन्द मया संघाय भाषितं संस्कारविओपरिणामतां च यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये᳚ति /
9626 SK [३३१|०७-३३१|०८] अतो न दुःख-दुखतां संधायैतदुक्तमिति सिद्धं भवति /
9627 SK [३३१|०८-३३१|०९] यदिच स्वभावत एव सर्वं वेदितव्यं दुःखमभविष्यत्किमर्थमार्यानन्द एवं भगवन्तमप्रक्ष्यत् /
9628 SK [३३१|०९] तिस्र इमे वेदना उक्ता भगवता सुखा दुःखा ऽदुःखासुखा च /
9629 SK [३३१|१०] उक्तं चेदं भगवता ᳚यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये᳚ति /
9630 SK [३३१|१०-३३१|११] किं नु संधाय भगवता भाषितम् यत्किञ्चिद्वेदितमिदमत्र दुःखस्येति /
9631 SK [३३१|११-३३१|१२] एवं हि सो ऽप्रक्ष्यत् किं नु संधाय भाषितं तिस्रो वेदना इति /
9632 SK [३३१|१२] भगवानष्येव व्याकरिष्यत् /
9633 SK [३३१|१२-३३१|१३] इदं मया संधाय भाषितं तिस्रो वेदना इति /
9634 SK [३३१|१३] न त्वेवमाह / तस्मात्सन्त्येव स्वभावतस्तिस्रो वेदनाः /
9635 SK [३३१|१४-३३१|१५] इदं तु संधाय मया भाषितं यत्किम्चिद्वेदितमिदमत्र दुःखस्येत्याभीप्रायिकमेतद्वाक्यं दर्शयति /
9636 SK [३३१|१५] यदष्युक्तं ᳚सुखा वेदना दुःखेति द्रष्टव्ये᳚ति / उभयं तस्यामस्ति /
9637 SK [३३१|१५-३३१|१६] सुखत्वं च स्वभावतोमनापत्वाद् दुःखत्वं च पर्यायतो विपरिणामानित्यधर्मत्वात् /
9638 SK [३३१|१६-३३१|१७] सा तु सुखतो दृश्यमाना बन्धाय कल्पते तदास्वादनात् /
9639 SK [३३१|१७-३३१|१८] दुःखतो दृश्यमाना मोक्षाय कल्पते /
9640 SK [३३१|१८] तद्वैराग्यादिति /
9641 SK [३३१|१८-३३१|१९] यथा दृश्यमाना मोक्षाय कल्पते तथैनां द्रष्टुमाज्ञापयन्ति बुद्धाः /
9642 SK [३३१|१९] कथमिदं गम्यते स्वभावतः सा सुखेति / य दाह
9643 SK [३३१|२०-३३१|२१] ᳚संस्कारानित्यतां ज्ञात्वा अथो विपरिणामताम् / वेदना दुःखतः प्रोक्ता संबुद्धेन प्रजाननेति᳚ //
9644 SK [३३१|२२] यदपि चोक्तं ᳚दुःखे सुखमिति संज्ञाविपर्यास᳚ इति / आभिप्रायिक एष निर्देशः /
9645 SK [३३१|२३] लोकस्य हि सुखसंज्ञा वेदनायां कामगुणेषूपपत्तौ च /
9646 SK [३३१|२३-३३१|२४] तत्र सूखं वेदनां पर्यायेण दुःखं सतीमेकान्तसुखां पश्यतो विपर्यासः /
9647 SK [३३१|२४] एवमुपपत्तिम् /
9648 SK [३३१|२५] तस्मान्नातः सुखवेदना ऽभावसिद्धिः /
9649 SK [३३१|२५-३३१|२६] यदि तु स्वभावत एव सर्वं वेदितं दुःखमभविष्यत् तिस्रो वेदना इति वचने कोगुणो ऽभविष्यत् /
9650 SK [३३१|२६-३३२|०१] लोकानुवृत्त्येति चेत् न /
9651 SK [३३२|०१-३३२|०२] सर्ववेदितदुःखत्वस्य संस्कारविपरिणामानित्यतां संधाय भाषितवचनात् यथाभूतवचनाच्च /
9652 SK [३३२|०२-३३२|०४] ᳚यच्च सुखेन्द्रियं यच्च सौमनस्येन्द्रियं सुखैषा वेदना द्रष्टव्ये᳚ ति विस्तरेणोक्त्वा ᳚येनेमानि पञ्चेन्द्रियाण्येवं यथाभूतं सम्यक् प्रज्ञया दृष्टानि त्रीणि चास्य संयोजनानि प्रहीणानि भवन्ती᳚ त्येवमादि /
9653 SK [३३२|०४-३३२|०५] लोको ऽपि च कथं दुःखां वेदनां त्रिविधां व्यवस्येत् /
9654 SK [३३२|०५] मृद्वधिमात्रमध्यासु यथाक्रमं सुखादिबुद्धिरिति चेत् / न /
9655 SK [३३२|०६] सुखस्यापि त्रिविधत्वात् मृद्वादिषु दुःखेष्वधिमात्रा दिसुखबुद्धिः स्यात् /
9656 SK [३३२|०६-३३२|०८] यदा च गन्धरसस्प्रष्टव्यविशेषजं सुखं वेदयते तदा कतमत् दुःखं मृदुभूतं यत्रास्य सुखबुद्धिर्भवति /
9657 SK [३३२|०८-३३२|०९] अनुत्पन्नविनष्टे चतस्मिन्मृदुनि दुःखे सुतरां सुकबुद्धिः स्यात् /
9658 SK [३३२|०९] अशेषदुःखापगमात् / एवं कामसुखसंमुखीभावे ऽपि वक्तव्यम् /
9659 SK [३३२|१०-३३२|११] कथं च नामेदं योज्यते यन्मृदुनिवेदिते सुव्यक्तस्तीव्रो ऽनुभवो गृह्यते मध्ये पुनरव्यक्त इति /
9660 SK [३३२|११] त्रिषु च ध्यानेषु सुखवचनात् मृदु दुःखं स्यात् /
9661 SK [३३२|११-३३२|१२] ऊर्ध्वमदुःखसुखवचनान्मध्यं दुःखमिति न युज्यते मृद्वादिषु दुःखेषु दुःखेषु सुखादिवेदनाव्यवस्थानम् /
9662 SK [३३२|१२-३३२|१४] उक्तं च भगवता ᳚रूपं चेन्महानामन्नेकान्तदुःखमभविष्यन्न सुखं न सुखानुगतमि᳚त्येवमादि /
9663 SK [३३२|१४] तस्मादप्यस्ति किञ्चित्सुखम् /
9664 SK [३३२|१४-३३२|१५] एवं तावन्न सूत्रात्सुखवेदना ऽभावः सिध्यति /
9665 SK [३३२|१५] यत्पुनः सुखहेत्वव्यवस्थानादित्युक्तम् / हेत्वपरिज्ञानादिदमुच्यते /
9666 SK [३३२|१६] आश्रयविशेषापेक्षो हि विषयः सुखहेतुर्वा भवति दुःखहेतुर्वा / न केवलो विषयः /
9667 SK [३३२|१७-३३२|१८] स यां कामवस्थां प्राप्य सुखहेतुर्भवति न तां पुनः प्राप्य कदाचिन्न भवतीति व्यवस्थित एव सुखहेतुः /
9668 SK [३३२|१८-३३२|२०] तद्यथा स एवाग्निः पाक्यभूतविशेषापेक्षः स्वादुपाकहेतुर्भवति स एवास्वादपाकहेतुः न तु यां पाक्यभूतावस्थां प्राप्य स्वदुपाकहेतुस्तां पुनः प्राप्य न हेतुरित्येष दृष्टान्तः /
9669 SK [३३२|२०-३३२|२१] ध्यानेषु च कथं न व्यवस्थितः सुखहेतुः /
9670 SK [३३२|२१-३३२|२२] यत्तु पुनः दुःखप्रतिकारे सुखबुद्धिरित्युक्तं तत्र विहितः प्रतीकारः /
9671 SK [३३२|२२-३३२|२३] यदा गन्धादिविशेषजं सुखं वेदयते तदा कस्य प्रतीकारेषु सुखबुद्धिर्भवत्यनुत्पन्नविनष्टे च तस्मिन् दुःखे सुतरां सुखबुद्धिः स्यात् /
9672 SK [३३२|२३-३३२|२४] ध्यानजे सुखे कः कस्य प्रतीकार इत्येवमादि /
9673 SK [३३२|२४-३३२|२५] भावसंचारे ऽपि चावस्थान्तरजं सुखमेवोत्पद्यते /
9674 SK [३३२|२५] यावदसौ तादृशी कायावस्था ऽन्तर्घीयते /
9675 SK [३३२|२५-३३२|२६] अन्यथा हि पश्चाद्भूयसी सुखबुद्धिः स्यात् /
9676 SK [३३२|२६] एवं श्रान्तस्येर्यापथविकल्पेषु वेदितव्यम् /
9677 SK [३३२|२७] ᳚अन्ते कुतो दुःखबुद्धिरारम्भो यदि नादित᳚ इति
9678 SK [३३३|०१] चेत् / कायपरिणामविशेषान्मद्यादीनामन्ते माधुर्यशुक्ततावत् /
9679 SK [३३३|०१-३३३|०२] तस्मादस्त्येव सुखा वेदनेति सिद्धम् /
9680 SK [३३३|०२] त्रिदुःखतायोगाद्वा सर्वं सास्रवं दुःखमिति /
9681 SK [३३३|०२-३३३|०३] यत्तु समुदयसत्यं तदेवोच्यते /
9682 SK [३३३|०३] इदमुत्सूत्रम् सूत्रे हि तृष्णैवोक्ता / प्रधान्यादसौ सूत्र उक्ता /
9683 SK [३३३|०३-३३३|०४] अन्ये ऽपि तु समुदयः /
9684 SK [३३३|०४] कथमिदं प्रत्येतव्यम् / अन्यत्रान्यस्यापि वचनात् / उक्तं हि भगवता /
9685 SK [३३३|०५] ᳚कर्म च तृष्णा च अथो अविद्या संस्काराणां हेतुरभिसंपराय᳚ इति /
9686 SK [३३३|०६] पुनश्चोक्तं ᳚पञ्च बीजजातानीति सोपादानस्य विज्ञानस्यैतदधिवचनम् /
9687 SK [३३३|०७] पृथिवीधातुरिति चतसृणां विज्ञानस्थितीनामेतदधिवचनमि᳚ति /
9688 SK [३३३|०७-३३३|०८] तस्मादाभिप्रायिकः सूत्रेषु निर्देशो लाक्षणिकस्त्वभिधर्मे /
9689 SK [३३३|०८-३३३|०९] अपि त्वभिनिर्वृत्तिहेतुं ब्रूवता समुदयसत्यं तृष्णैवोक्ता /
9690 SK [३३३|०९-३३३|१०] उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रूवता गाथायां कर्म च तृष्णा चाविद्योक्ता /
9691 SK [३३३|१०-३३३|११] ᳚कर्महेतुरूपपत्तये तृष्णाहेतुरभिनिर्वृत्तय᳚ इति सूत्रे वचनात् /
9692 SK [३३३|११-३३३|१२] सहेतुसप्रत्ययसनिदानसूत्रक्रमेण वा बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयो ऽष्युक्ताः /
9693 SK [३३३|१२] का पुनरुषपत्तिः का चाभिनिर्वृत्तिः /
9694 SK [३३३|१२-३३३|१३] धातुगतियोन्यादिप्रकारभेदेनात्मभावस्योषपदनमुपपत्तिः /
9695 SK [३३३|१३] अभेदेन पुनर्भवप्रतिसंधानमभिनिर्वृत्तिः /
9696 SK [३३३|१४] तयोर्यथाक्रमं कर्म च भवतृष्णा च हेतुः /
9697 SK [३३३|१४-३३३|१५] तद्यथा बीजं शालिवादिजातिप्रकारभेदेनाङ्कुरोओपपदनस्य हेतुः /
9698 SK [३३३|१५] आपः पुनरभेदेन सर्वङ्कुरप्ररोहमात्रस्येत्येव दृष्टान्तः /
9699 SK [३३३|१६] तृष्णा ऽभिनिर्वृत्तिहेतुरिति का ऽत्र युक्तिः / वीततृष्णस्य जन्माभावात् /
9700 SK [३३३|१६-३३३|१७] उभये ऽपि ब्रियन्ते /
9701 SK [३३३|१७] सतृष्णा वीततृष्णाश्च / सतृष्णा एव जाता दृश्यन्ते न वीततृष्णा इति /
9702 SK [३३३|१८] विना तृष्णया जन्माभावात् / भवस्याभिनिर्वृत्तौ तृष्णाहेतुं प्रतीमः /
9703 SK [३३३|१८-३३३|१९] संततिनमनाच्च /
9704 SK [३३३|१९] यत्र च सतृष्णा तत्राभीक्ष्णं चित्तसंततिं नमन्तीं पश्यामः /
9705 SK [३३३|१९-३३३|२०] तस्मात् पुनर्भवे ऽष्येवमिति व्यवस्यामः / [३३३|२०-३३३|२१] न चात्मभाव एवं केनचिदागृहीतो यथा तृष्णया /
9706 SK [३३३|२१] शुष्कमसूरोपस्नानलेपाङ्गवत् /
9707 SK [३३३|२१-३३३|२२] न चान्यो हेतुरेवमनुषत्तो यथात्मस्नेह इत्येषा युक्तिः /
9708 SK [३३३|२३] चत्वार्यपि सत्यान्युक्तानि भगवता /
9709 SK [३३३|२३-३३३|२४] द्वे अपि सत्ये संवृतिसत्यं परमार्थसत्यं च /
9710 SK [३३३|२४] तयोः किं लक्षणम् /
9711 SK [३३४|०१-३३४|०२] यत्र भिन्नेन तद्बुद्धिरन्यापोहे धिया च तत् / घटार्थवत्संवृतिसत् परमार्थसदन्यथा // VAक्K_६.४ //
9712 SK [३३४|०३] यस्मिन्नवयवशो भिन्ने न तद्बुद्धिर्भवति तत् संवृतिसत् / तद्यथा घटः /
9713 SK [३३४|०४] तत्र हि कपालशो भिन्ने घटबुद्धिर्न भवति /
9714 SK [३३४|०४-३३४|०५] तत्र चान्यानपोह्य धर्मान् बुद्धच्या तद्बुद्धिर्न भवति तच्चापि संवृतिसद्वेदितव्यम् /
9715 SK [३३४|०५] तद्यथाम्बु /
9716 SK [३३४|०५-३३४|०६] तत्र हि बुद्धच्या रूपादीन्धर्मानषोह्याम्बुबुद्धिर्न भवति /
9717 SK [३३४|०६-३३४|०७] तेष्वेव तु संवृतिसंज्ञा कृतेति संवृतिवशात् घटश्चाम्बु चास्तीति ब्रूबन्तः सत्यमेवाहुर्न मृषेत्येतत्संवृतिसत्यम् /
9718 SK [३३४|०७-३३४|०८] अतोन्यथा परमार्थ सत्यम् /
9719 SK [३३४|०८] तत्र भिन्ने ऽपोइ तद्बुधिर्भवत्येव /
9720 SK [३३४|०८-३३४|०९] अन्यधर्मापोहे ऽपि बुद्धच्या तत् परमार्थसत् /
9721 SK [३३४|०९] तद्यथा रूपम् /
9722 SK [३३४|०९-३३४|१०] तत्र हि परमाणुशो भिन्ने वस्तुनि रसार्हानपि च धर्मानपोह्य बुद्धच्या रूपस्य स्वभावबुद्धिर्भवत्येव /
9723 SK [३३४|१०] एवं वेदनादयो ऽपि द्रष्टव्याः /
9724 SK [३३४|१०-३३४|११] एतत् परमार्थेन भावात् परमार्थसत्यमिति /
9725 SK [३३४|११-३३४|१२] यथा लोकोत्तरेन ज्ञानेन गृह्यते तत् पृष्ठलब्धेन वा लौकिकेन तथा परमार्थसत्यम् /
9726 SK [३३४|१२-३३४|१३] यथान्येन तथा संवृतिसत्यम् इति पूर्वाचार्याः /
9727 SK [३३४|१३] उक्तानि सत्यानि /
9728 SK [३३४|१४] कथं पुनस्तेषां दर्शनं भवति / वक्तव्यम् / अत आदिप्राथानमारभ्योच्यते /
9729 SK [३३४|१५] वृत्तस्थः श्रुतचिन्तावान्भावनायां प्रयुज्यते /
9730 SK [३३४|१६] सत्यानि ह द्रष्टुकाम आदित एव शीलं पालयति /
9731 SK [३३४|१६-३३४|१७] ततः सत्यदर्शनस्यानुलोमं श्रुतमुद्गृह्लात्यर्थं वा श्रुणेनि /
9732 SK [३३४|१७-३३४|१८] श्रुत्वा चिन्तयति अविपरीतं चिन्तयित्वा भावनायां प्रयुज्यते /
9733 SK [३३४|१८] समाधौ तस्य श्रुतमयीं प्रज्ञां निश्रित्य चिन्तामयी जायते /
9734 SK [३३४|१८-३३४|१९] चिन्तामयीं निश्रित्य भावनामयी जायते /
9735 SK [३३४|२०] किं पुनरासां प्रज्ञानां लक्षणम् /
9736 SK [३३४|२१] नामोभयार्थविषया श्रुतमय्यादिका धियः // VAक्K_६.५ //
9737 SK [३३४|२२] नामालम्बना किल श्रुतमयी प्रज्ञा / नामार्थालम्बना चिन्तामयी /
9738 SK [३३४|२२-३३४|२३] कदाचिद्वच्यञ्जनेनार्थमाकर्षति कदाचिदर्थेन व्यञ्जनम् /
9739 SK [३३४|२३] अर्थलम्वनैव भावनामयी /
9740 SK [३३४|२४] सा हि व्यञ्जननिरपेक्षा अर्थे प्रवर्तते /
9741 SK [३३४|२४-३३५|०१] तद्यथा ऽम्भसि प्लोतुमशिक्षितः प्लवन्नेव मुञ्चति /
9742 SK [३३५|०१] कियच्छिक्षितः कदाचित् मुञ्चेत् कदाचिदालम्वते /
9743 SK [३३५|०१-३३५|०२] सुशिक्षिता प्लवन् निरपेक्षस्तरतीत्येष दृष्टान्तः इति वैभाषिकाः /
9744 SK [३३५|०२-३३५|०३] अस्यां तु कल्पनायां चिन्तामयी प्रज्ञा न सिद्धच्यतीत्यपरे /
9745 SK [३३५|०३-३३५|०४] याहि नामालम्बना श्रुतमयी प्राप्नोति या ऽर्थालम्बना भावनामयीति /
9746 SK [३३५|०४-३३५|०५] इदं तु लक्षणं नानिरवद्यं विद्यते /
9747 SK [३३५|०५] आप्तवचनप्रामाण्यजातनिश्चयः श्रुतमयी / युक्तिनिध्यानजश्चिन्तामयी /
9748 SK [३३५|०६] समाधिज्जो भावनामयीति / हेतौ मयट्विधानात् /
9749 SK [३३५|०६-३३५|०७] यद्यथा ऽन्नमयाः प्राणाः तृणमय्यो गायः इति /
9750 SK [३३५|०८] तस्य पुनरेवं भावनायां प्रयुक्तस्य कथं भावना संपद्यत इत्याह /
9751 SK [३३५|०९] व्यपकर्षद्वयवतः
9752 SK [३३५|१०] यदि हि कायचित्ताभ्यां व्यपकृष्टो भवति / संसर्गाकुशलवितर्कदूरीकरणात् /
9753 SK [३३५|११] तत्तर्हि व्यपकर्षद्वयं कस्य सुकरं भवति / यो ऽल्पेच्छः संतुष्टश्च /
9754 SK [३३५|१२] नासंतुष्टमहेच्छयोः /
9755 SK [३३५|१३] का पुनरियमसंतुष्टिः / का च महेच्छता /
9756 SK [३३५|१४] लब्धे भूयःस्पृहा ऽतुष्टिरलब्धेच्छा महेच्छाता // VAक्K_६.६ //
9757 SK [३३५|१५] लब्धेषु किल प्रणीतेषु चीवरादिषु भूयस्कामत ऽसंतुष्टिः /
9758 SK [३३५|१५-३३५|१६] अलब्धेषु तत्कामता महेच्छतेत्याभिधार्मिकाः /
9759 SK [३३५|१६-३३५|१७] ननु च सा ऽतिभूयस्कामता ऽलब्ध एव न लब्धे भवतीति को ऽनयोर्विशेष इति वक्तव्यमेतद् /
9760 SK [३३५|१७] एवं तु युज्यते /
9761 SK [३३५|१७-३३५|१८] लब्धेनाप्रणीतेनाप्रभूतेन परितापो ऽसंतुष्टिः /
9762 SK [३३५|१८] अलब्धप्रणीतप्रभूतेच्छा महेच्छता /
9763 SK [३३५|१९] विपर्यासात्तद्विपक्षौ
9764 SK [३३५|२०] असंतुष्टिमहेच्छताविपर्ययेण तत्प्रतिपक्षौ वेदितव्यौ /
9765 SK [३३५|२०-३३५|२१] संतुष्टिश्चाल्पेच्छता चेति /
9766 SK [३३६|०१] त्रिधात्वाप्तामलौ च तौ /
9767 SK [३३६|०२] तद्विपक्षाविति वर्तते / त्रिधातुकौ च पोरतिसंयुक्तौ च / सास्रवानास्रवत्वात् /
9768 SK [३३६|०३] असंतुष्टिमहेच्छते च कामावचर्यावेव /
9769 SK [३३६|०४] कः पुनरनयोरल्पेच्छतासंतुष्टच्योः स्वभाव इत्याह /
9771 SK [३३६|०६] अलोभस्वभावे ह्येते /
9772 SK [३३६|०७] आर्यवंशाश्च
9773 SK [३३६|०८] अलोभ इति वर्तते / आर्याणामेभ्यः प्रसवादार्यवंशाश्चत्वारः /
9774 SK [३३६|०८-३३६|०९] ते ऽप्यलोभस्वभावाः /
9775 SK [३३६|१०] तेषां तुष्टच्यात्मकास्त्रयः // VAक्K_६.७ //
9776 SK [३३६|११] ज्संतुष्टिस्वभावाः / चीवरपिण्डपातशयनासनसंतुष्टयः /
9777 SK [३३६|११-३३६|१२] प्रहाणभावनारामता चतुर्थ आर्यवंशः कथमलोभस्वभावः /
9778 SK [३३६|१२] भवकामरागवैमुख्यात् /
9779 SK [३३६|१३] अथ चतुर्भिरार्यवंशैः किं दर्शितं भगवता /
9780 SK [३३६|१४] कर्मान्तेन त्रिभिर्वृत्तिः
9781 SK [३३६|१५-३३६|१६] धर्मस्वामिना हि भगवता परित्यक्तस्ववृत्तिकर्मान्तेभ्यः शिष्येभ्यो मोक्षार्थमभ्युपगतेभ्यो द्वयं प्रज्ञप्तं वृत्तिश्च कर्म च /
9782 SK [३३६|१६] त्रिभिरार्यवंशैर्वृत्तिश्चतुर्येन कर्म /
9783 SK [३३६|१७] अनया वृत्त्येदं कर्म कुर्वाणा भवन्ती न चिरान्मोक्षं प्राप्स्यन्तीति /
9784 SK [३३६|१७-३३६|१८] कस्मात्पुनरियमीदृशी वृत्तिरिदं च कर्म प्रज्ञप्तम् /
9785 SK [३३६|१९] तृष्णोत्पादविपक्षतः /
9786 SK [३३६|२०] चत्वारस्तृष्णोत्पादाः सूत्र उक्ताः /
9787 SK [३३६|२०-३३६|२१] ᳚चीवरहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यते प्रतितिष्ठन्ति प्रतितिष्ठति अभिनिविशमाना ऽभिनिविशते /
9788 SK [३३६|२१-३३६|२२] पिण्डपातहेतोः शय्यासनहेतोरिति /
9789 SK [३३६|२२] भवविभवहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यत᳚ इति विस्तरः /
9790 SK [३३७|०१] एषां प्रतिपक्षेण चत्वार आर्यवंशा देशिताः /
9791 SK [३३७|०२] ममाह कारवस्त्विच्छातत्कालात्यन्तशान्तये // VAक्K_६.८ //
9792 SK [३३७|०३] स एवार्थः पुनः परिशेषेणोच्यते /
9793 SK [३३७|०३-३३७|०४] ममकारवस्तु चीवरादयो ऽहं कारवस्त्वात्मभावः /
9794 SK [३३७|०४] तत्रेच्छा तृष्णा /
9795 SK [३३७|०४-३३७|०५] तत्र ममकारवस्त्विच्छायास्तत्कालशान्तये त्रय आर्यवंशा भवन्ति /
9796 SK [३३७|०५] उभयेच्छात्यन्तशान्तये चतुर्थ इति /
9797 SK [३३७|०५-३३७|०६] उक्तामिदं यथा भूतस्य भावना संपद्यते /
9798 SK [३३७|०७] तस्य त्वेवं पात्रोभूतस्य कथम् तस्यां भावनायामवतारो भवति /
9799 SK [३३७|०८] तत्रावतारो ऽशुभया चानापानस्मृतेन च /
9800 SK [३३७|०९] स्मृतिरेव स्मृतम् / केषां पुनरशुभया केषामानापानस्मृत्या / यथाक्रमम्
9801 SK [३३७|१०] अधिरागवितर्काणाम्
9802 SK [३३७|११] अधिको रागो वितर्कश्चैषां त इमे अधिरागवितर्काः /
9803 SK [३३७|११-३३७|१२] यो हि प्रत्यासन्नमत्यर्थं रागचरितस्तस्याशुभया /
9804 SK [३३७|१२] यो हि वितर्कचरितस्तस्यानापानस्मृत्येति /
9805 SK [३३७|१२-३३७|१३] अविचित्रालम्बनत्वादेषां वितर्कोपच्छेदाय संवर्तत इत्येके /
9806 SK [३३७|१३-३३७|१४] अशुभा तु यत्र संस्थानविशेषालम्बनत्वाद्वितर्कमावहतीति /
9807 SK [३३७|१४] अवहिमुखत्वादित्यपरे /
9808 SK [३३७|१४-३३७|१५] अशुभा हि चक्षुर्विज्ञानवद्बहिर्मुखी /
9809 SK [३३७|१५] तद्विषयोपनिध्यानात् /
9810 SK [३३७|१५-३३७|१६] तत्र पुनश्चतुर्विधो रागः वर्णरागः संस्थानरागः स्पर्शराग उपचाररागश्च /
9811 SK [३३७|१६-३३७|१७] प्रथमस्य प्रतिपक्षेण विनोलकाद्यालम्बनामशुभां वर्जयन्ति /
9812 SK [३३७|१७-३३७|१९] द्वितियस्य विखादितकविक्षिप्तालम्बनां तृतीयस्य विपटुम्ना पूयनिबद्धास्थ्यालम्बनां चतुर्थस्य निश्चेष्टमृत्कायालम्बनाम् /
9813 SK [३३७|१९] अभदेन तु शस्यते
9814 SK [३३७|२०] शङ्कला सर्वरागिणाम् // VAक्K_६.९ //
9815 SK [३३८|०१-३३८|०२] अस्थिसंकक्लायां हि सर्वमेतच्चतुर्विधं रागस्तु नास्तीति अधिमुक्तिप्रादेशिकमनस्कारत्वादशुभया न क्लेशप्रहाणम् विष्कम्भणं तु /
9816 SK [३३८|०२-३३८|०३] स पुनर् अयम् अशुभां भावयन् योगाचारस् त्रिविध उच्यते /
9817 SK [३३८|०३] आदिकार्मिकः कृतपरिजयो ऽतिक्रान्तमनस्कारश् च / तत्र
9818 SK [३३८|०४] आसमुद्रास्थिविस्तारसंक्षेपाद् आदिकर्मिकः /(६-१०अब्)
9819 SK [३३८|०५] अशुभां भावयितुकाम आदितो योगाचारः /
9820 SK [३३८|०५-३३८|०६] स्वाङ्गावयवे चित्तं निबध्नाति पादाङ्गुष्ठे ललाटे यत्र चास्याभिरतिः /
9821 SK [३३८|०६-३३८|०७] स तत्र मांसक्लेदपीता धिमोक्षक्रमेणास्थिविशोधयन् सकलामस्थिसंकलां पश्यति /
9822 SK [३३८|०७-३३८|०९] तथैव च पुनर्द्वितीयामधिमुच्यते यावद्विहारारामक्षेत्रक्रमेण समुद्रपर्यन्ताम् पृथिवीमस्थिसंकलां पूर्णामधिमुच्यते ऽधिमोक्षाभिवर्धनार्थम् /
9823 SK [३३८|०९-३३८|१०] पुनश्च संक्षिपन्यावदेकामेव स्वमस्थिसंकलामधिमुच्यते चित्तसंक्षेपार्थम् /
9824 SK [३३८|१०] इयता किल कालेनाशुभा ओपरिनिष्पन्ना भवति /
9825 SK [३३८|१०-३३८|११] अयम् आदिकर्मिको योगाचारः /
9826 SK [३३८|१२] पादास्थ्न आकपालार्थत्यागात् कृतजयः स्मृतः // VAक्K_६.१० //
9827 SK [३३८|१३-३३८|१४] स पुनः चित्तसंक्षेपविशेषार्थ तस्यामस्थिशङ्कलायां पादास्थीनि हित्वा शेषं मनसि करोति /
9828 SK [३३८|१४-३३८|१५] एवं क्रमेण यावत् कपालस्यार्धं हित्वा ऽर्धं मनसि करोति क्षयकृतपरिजयः /
9829 SK [३३८|१६] अतिक्रान्तमनस्कारो ब्रूमध्ये चित्तधारणात् /(६-११अब्)
9830 SK [३३८|१७] सो ऽर्धमपि कपालस्य मुक्त्वा ब्रूवोर्मध्ये चित्तं धारयति /
9831 SK [३३८|१७-३३८|१८] अयं किलाशुभायामतिक्रान्तमनस्कारो योगाचारः /
9832 SK [३३८|१८-३३८|१९] अस्त्यशुभा आलल्म्बनपरीत्ततया परीत्ता न वशितापरीत्ततया परीत्तेति चतुष्कोटिकम् /
9833 SK [३३८|१९-३३८|२०] जिताजितमनस्कारयोरजितजितमनस्कारयोश्च स्वकायसमुद्रपर्यन्तालम्बनात् /
9834 SK [३३८|२१] अथ किंस्वभावेयमशुभा कतिभूमिका किमालम्बना क्व चोत्पद्यते /
9835 SK [३३८|२२] यथाक्रमम् /
9836 SK [३३८|२३] अलोभो दशभूः कामदृश्यालम्बा नृजा ऽशुभा // VAक्K_६.११ //
9837 SK [३३८|२४-३३८|२६] अलोभस्वभावा दशभूमिका ससामन्तकध्यानान्तरेषु चतुर्षु ध्यानेषुइ कामधातौ च कामावचर दृष्यालम्बना किं पोओउन्र्दृश्यवस्तुसंस्थाने /
9838 SK [३३८|२५-३३८|२६] अथ एवार्थालम्वनेति सिद्धम् /
9839 SK [३३८|२६] मनुष्येष्वेवोत्पद्यते / नान्यस्यां गतौ / कुत एव धातौ /
9840 SK [३३९|०१] तत्रापि नोत्तरकुरौ / नाम्नैव सिद्धमशुभाकारेति / यदध्विका तदध्वालम्बना /
9841 SK [३३९|०२] अनुत्पत्तिधर्मिणी तु व्यध्वालम्बना / अधिमुक्तिमनस्कारत्वात्सास्रवा /
9842 SK [३३९|०२-३३९|०३] वैराग्यलाभिकी च प्रायोगिकी च /
9843 SK [३३९|०३] उचितानुचितत्वात् /
9844 SK [३३९|०३-३३९|०४] उक्तमशुभायाः सप्रभेदं लक्षणम् /
9845 SK [३३९|०५] आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुर्गीचरा /
9847 SK [३३९|०७] आननमान आश्वासो यो वायुः प्रविशति /
9848 SK [३३९|०७-३३९|०८] अपाननमपानः प्रश्वासो यो वायुः निष्क्रामति /
9849 SK [३३९|०८] तयोः स्मृतिरानापानस्मृतिः / सैव प्रज्ञास्वभावा /
9850 SK [३३९|०८-३३९|०९] स्मृतिवचनं तु स्मृत्युपस्थानवत्तद्वलाधानवृत्तित्वात् /
9851 SK [३३९|०९-३३९|१०] पञ्चसु भूमिसु त्रिषु सामन्तकेषु ध्यानान्तरे कामधातौ चोपेक्षासंप्रयोगित्वात् /
9852 SK [३३९|१०-३३९|११] वितर्कानुगुणत्वात् किल ल्सुखदुःखयोस्तत्प्रतिपक्षस्य ताभ्यामसंप्रयोगः /
9853 SK [३३९|११-३३९|१२] सुखसौमनस्ययोश्चावधानपरिपन्थित्वात् तस्याश्चावधाने साध्यत्वादिति /
9854 SK [३३९|१२-३३९|१३] ये तु मौलेष्वपि ध्यानेषु समापन्नस्योपेक्षामिच्छन्ति नेषामष्टभूमिका /
9855 SK [३३९|१३] परेणाश्वासप्रश्वासानमभूमित्वात् /
9856 SK [३३९|१३-३३९|१४] वाय्वालम्बना चैषा कामधात्वाश्रया /
9857 SK [३३९|१४] देवमनुष्येषु प्रायोगिकी वैराग्यलाभिको च /
9858 SK [३३९|१४-३३९|१५] तत्वमनस्कारश्चैषा /
9859 SK [३३९|१५] इदं धर्माणामेव /
9860 SK [३३९|१६] न बाह्यानाम्
9861 SK [३३९|१७] उपदेशाभावात् / स्वयं च सूक्ष्मधर्मानभिसंबोधात् / सा चेयं
9862 SK [३३९|१८] षड्विधा गणनादिभिः // VAक्K_६.१२ //
9863 SK [३३९|१९] षट्कारणयुक्ता चैषा परिपूर्णा भवति /
9864 SK [३३९|१९-३३९|२०] गणनया ऽनुगमेन स्थापनया उपलक्षणया विवर्त्तेन परिशूद्धच्या च /
9865 SK [३३९|२०-३३९|२२] तत्र च गणना नाम आश्वासप्रश्वासेषु चित्तं दत्त्वा ऽनभिसम्स्कारेण कायं चित्तं चाध्युपेक्ष्य स्मृतिमात्रेण गणयत्येकं द्वौ यावद्दश /
9866 SK [३३९|२२] चित्ताभिसंक्षेप विक्षेपभयान्नाल्पवहुतरा /
9867 SK [३३९|२२-३३९|२३] तस्यां तु त्रयो दोषाः /
9868 SK [३३९|२३] ऊनगणना यदि द्वावेकं गृह्लाति /
9869 SK [३३९|२३-३३९|२४] अधिकगणना यद्येकं द्वाविति /
9870 SK [३३९|२४] संकरो यद्याश्वासं प्रश्वासतो गृह्लाति विपर्ययाद्वा /
9871 SK [३३९|२४-३४०|०१] अतो ऽन्यथा सम्यग्गणना /
9872 SK [३४०|०१] अन्तरविक्षेपे पुनरादितो गणयितव्यं तावद्यावत्समाधि लभते /
9873 SK [३४०|०२] अनुगमो नाम अनभिसंस्कारेणाश्वासप्रश्वासानां गतिमनुगच्छति /
9874 SK [३४०|०२-३४०|०३] कियद्दूरमेते प्रविशन्ति वा निष्क्रामन्ति वा किमेते सर्वशरीरव्याओपिन एकदेशचारिण इति /
9875 SK [३४०|०४] तान् प्रविशतः कण्ठहृदयनाभिकट्युरुजङ्घाप्रवेशक्रम्४ण यावत् पादावनुगच्छति /
9876 SK [३४०|०५] निष्क्रामतो वितस्तिव्यामान्तरं यावद्वायुमण्डलं वैरम्भाश्च वायव इत्यपरे /
9877 SK [३४०|०६] तदेतत्तत्वमनसिकारत्वान्न युक्तम् /
9878 SK [३४०|०६-३४०|०७] स्थापना नाम नासिकाग्रे यावत् पादन्ङ्गुष्ठे स्थितां पश्यति /
9879 SK [३४०|०७] मणिसूत्रवत् /
9880 SK [३४०|०७-३४०|०८] किमनुग्राहका एते उपधातकाः शीता उष्णा इति /
9881 SK [३४०|०८] उपलक्षणा नाम नैते केवला वायव एव /
9882 SK [३४०|०८-३४०|१०] चत्वार्येतानि महाभूतानि महाभूताभिनिर्वृत्तमुपादायरूपं तदाश्रिताश्चित्तचैत्ता इति पञ्चस्कन्धानुपलक्षयति /
9883 SK [३४०|१०-३४०|११] विवर्तो नाम वाय्वालम्बनां वृद्धिं विवर्त्त्योत्तरेषु कुशलमूलेषु संनियोजनं यावदग्रधर्मेषु /
9884 SK [३४०|११] परिशुद्धिर्दर्शनमार्गादिष्ववतारः /
9885 SK [३४०|१२] स्मृत्युपस्थानादिवज्रोपमसमाध्यन्ता विवर्त इत्यपरे / क्षयज्ञानादिशुद्धिरिति /
9886 SK [३४०|१३-३४०|१४] ᳚गणनानुगमः स्थानं लक्षणार्थविवर्त्त्ना परिशुद्धिश्च षोढेयमानापानस्मृतिर्मता᳚ इति संग्रहश्लोकाः /
9887 SK [३४०|१५] तत्र पुनर्वेदितव्यौ
9888 SK [३४०|१६] आनापातौ यतः कायः /
9889 SK [३४०|१७] यद्भूमिको हि कायः तद्भूमिकावेतै / कायैकदेशत्वात् /
9890 SK [३४०|१७-३४०|१८] कायचित्तविशेषसंनिश्रिता आश्वासप्रश्वासा वर्तन्ते /
9891 SK [३४०|१८-३४०|१९] आरुप्यकललादिगतानामभावात् अचित्तचतुर्थध्यानसमापन्नानां च /
9892 SK [३४०|१९-३४०|२०] यदि हि कायः शुषिरो भवति आश्वासप्रश्वासभूमिकं च चित्तं संमुखीभूतमेवं ते वर्त्तन्ते /
9893 SK [३४०|२०-३४०|२१] जायमानस्य चतुर्थध्यानाद्व्युत्तिष्ठमानस्य च प्रविशन्ति भियमाणस्य चतुर्थं च ध्यानं समापद्यमानस्य निष्क्रामन्ति /
9894 SK [३४०|२१-३४०|२२] एतौ चानापानौ /
9895 SK [३४०|२३] सत्त्वाख्यौ
9896 SK [३४०|२४] नासत्त्वसंख्यातौ /
9897 SK [३४०|२५] अनुपात्तकौ /
9898 SK [३४१|०१] इन्द्रियविनिर्भागित्वात् /
9899 SK [३४१|०२] नैःष्यन्दिकौ
9900 SK [३४१|०३] नौपचयिकविपाकजौ / कायोपचयनानुपचयात् छ्हिन्नानां पुनः प्रतिसंधानाच्च /
9902 SK नह्येतद्विपाकरूपस्यास्ति /
9903 SK [३४१|०५] नाधरेण लक्षयेते मनसा च तौ // VAक्K_६.१३ //
9904 SK [३४१|०६] स्वभूम्युपरिभूमिकेन च तयोश्चित्तेनोपलक्षणम् / नावरेणेर्यापथिक नैर्माणिकेन /
9905 SK [३४१|०७] उक्ते द्वे अवतारमुखे / ताभ्यां तु समाधिलब्धा
9906 SK [३४१|०८] निष्पन्नशमथः कुर्यात् स्मृत्युपस्थानभावनाम् /
9907 SK [३४१|०९] विपश्यनायाः संपादनार्थम् / कथं च पुनः कुर्यात् /
9908 SK [३४१|१०] कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात् // VAक्K_६.१४ //
9909 SK [३४१|११] कायं स्वसामान्यलक्षणाभ्यां परीक्षते / वेदनां चित्तं धर्माश्च /
9910 SK [३४१|११-३४१|१२] स्वभाव एवैषां स्वलक्षणम् /
9911 SK [३४१|१२-३४१|१३] सामान्यलक्षणं तु अनित्यता संस्कृतानां दुःखता सास्रवाणां शुन्यता ऽनात्मते सर्वधर्माणाम् /
9912 SK [३४१|१३] कायस्य पुनः कः स्वभावः / भूतभौतिकत्वम् /
9913 SK [३४१|१४] धर्मास्त्रिभ्यो ऽन्ये /
9914 SK [३४१|१४-३४१|१५] सामाहितस्य किल कायं परमाणुशः क्षणिकतश्च पश्यतः कायस्मृत्युपस्थाणं निष्पन्नं भवति /
9915 SK [३४१|१६] अथ स्मृत्युपस्थानानां कः स्वभावः /
9916 SK [३४१|१६-३४१|१७] विविधस्मृत्युपस्थानं स्वभावसंस्र्गालम्बनस्मृत्युपस्थानम् /
9917 SK [३४१|१७] तत्र स्वभावस्मृत्युपस्थानम् /
9919 SK [३४१|१९] कीदृशी प्रज्ञा /
9920 SK [३४१|२०] श्रुतादिमयी
9921 SK [३४२|०१] श्रुतमयी चिन्तामयी भावनामयी च /
9922 SK [३४२|०१-३४२|०२] त्रिविधानि स्मृत्युपस्थानानि श्रुतचिन्ताभावनामयानि /
9923 SK [३४२|०३] अन्ये संसर्गालम्बनाः
9924 SK [३४२|०४] अन्ये तत्सहभुवो धर्माः संसर्गस्मृत्युपस्थानम् /
9925 SK [३४२|०४-३४२|०५] तदालम्बना आलम्बनस्मृत्युपस्थानम् /
9926 SK [३४२|०५] स्वभावस्मृत्युपस्थानं प्रज्ञेति / कुत एव तत् /
9927 SK [३४२|०५-३४२|०६] ᳚कामे कायानुपश्यना स्मृत्युपस्थान᳚मिति वचनात् /
9928 SK [३४२|०६] का पुनरनुपश्यना / प्रज्ञा /
9929 SK [३४२|०६-३४२|०७] तया हि तद्वाननुपश्यः क्रियते /
9930 SK [३४२|०७-३४२|०८] यतश्चोक्त ᳚मध्यात्मं काये कायानुपश्यी विहरती᳚ति /
9931 SK [३४२|०८] अनुपश्यमस्यास्ति दर्शनमित्यनुपश्यी / काये ऽनुपश्यी कायानुपश्यी /
9932 SK [३४२|०९] कस्मात् प्रज्ञा स्मृत्युपस्थानमित्युक्ता भगवता / स्मृत्युद्रेकत्वादिति वैभाषिकाः /
9933 SK [३४२|१०] स्मृतिवलाधानवृत्तित्वादिति यो ऽर्थः / दारूपाटन कीलसंधारणवत् /
9934 SK [३४२|१०-३४२|११] एवं तु युज्यते /
9935 SK [३४२|११] स्मृतिरनयोपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञा यथादृष्टस्याभिलपनात् /
9936 SK [३४२|१२-३४२|१३] तद्यथा ह्युक्तमायुष्मता अनिरुद्धेन ᳚तस्य काये कायानुपशियनो विहरतः कायालल्म्बनानुस्मृतिस्तिष्ठति संतिष्ठत᳚ इति विस्तरः /
9937 SK [३४२|१३-३४२|१४] भगावता ऽपि चोक्तं ᳚तस्य काये कायानुपशियनो विहरत उपस्थिता स्मृतिर्भवत्यसंमूढे᳚ति /
9938 SK [३४२|१४-३४२|१५] यत्र तूक्तं ᳚कथं भिक्षवश्चतुर्णां स्मृत्युपस्थानानां समुदयश्च भवत्यस्तङ्गमश्च /
9939 SK [३४२|१५-३४२|१७] आहरसमुदयात्कायस्य समुदयो भवत्याहारनिरोधात्कायस्यास्तङ्गम᳚इत्यत्रालम्बनमेव स्मृत्युपस्थानमुक्तम् /
9940 SK [३४२|१७] स्मृतिरत्रोपतिष्ठत इति कृत्वा /
9941 SK [३४२|१७-३४२|१८] यथालम्बनं चैषां नाम स्वपरोभयसंतत्यालम्बनत्वात् प्रत्येकमेषां त्रैविध्यम् /
9943 SK [३४२|२०] यथोत्पत्ति
9944 SK [३४२|२१] कस्मात्पुनरेवमुत्पत्तिः / औदारिकस्य पूर्वं दर्शनात् /
9945 SK [३४२|२२-३४२|२३] यतो वा कामरागस्य कायो ऽधष्ठानं स च वेदना ऽभिलाषात्स च चित्तस्यादान्तत्वात् तत्क्लेशाप्रहाणादिति वैभाषिकाः /
9946 SK [३४२|२४] चतुष्कं तु विपर्यासविपक्षतः // VAक्K_६.१५ //
9947 SK [३४३|०१-३४३|०३] शुचिसुखनित्यात्मविपर्यासनां चतुर्णां प्रतिपक्षेण चत्वारि स्मृत्युपस्था नान्युक्तानि यथाक्रमं नाधिकन्यूनानि एवं च त्रीण्यसंभिन्नालम्बनानि चतुर्थमुभयथा /
9948 SK [३४३|०३] यदिधर्मानेव पश्यत्यसंभिन्नालम्बनम् /
9949 SK [३४३|०३-३४३|०४] अथ कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यति संभिन्नालम्बनम् /
9950 SK [३४३|०४-३४३|०५] एवं कायाद्यालम्बनानि स्मृत्युपस्थानान्यभ्यस्य
9951 SK [३४३|०६-३४३|०७] स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः / आनत्यदुःखतः शून्यानात्मतस्तान्विपश्यति // VAक्K_६.१६ //
9952 SK [३४३|०८-३४३|०९] संभिन्नलम्बने धर्मस्मृत्युपस्थाने स्थितस्तान् कायादीन् सर्वानभिसमस्य चतुर्भिराकारैः पश्यति /
9953 SK [३४३|०९] अनित्यतो दुःखतः शून्यतो ऽनात्मतश्च /
9954 SK [३४३|१०] तत् ऊष्मगतोत्पत्तिः
9955 SK [३४३|११-३४३|१२] तस्माद्धर्मस्मृत्युपस्थानादेवमभ्यस्तात् क्रमेणेष्मगतं नाम कुशामूलमुत्पद्यते /
9956 SK [३४३|१२] ऊष्मगतमिवोष्मगतम् / क्लेशेन्धनदहनस्यार्यमार्गाग्नेः पूर्वरूपत्वात् /
9957 SK [३४३|१३] तच्चतुःसत्यगोचरम् /
9958 SK [३४३|१४] तदूष्मगतं प्राकर्षिकत्वाच्चतुःसत्यालम्बनम् /
9959 SK [३४३|१५] षोडशाकारम्
9960 SK [३४३|१६-३४३|१७] दुःखं चतुर्भिराकारैः पश्यत्यनित्यतो दुःखत्ः शून्यतो ऽनात्मतश्च /
9961 SK [३४३|१७] समुदयं चतुर्भिर्हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च /
9962 SK [३४३|१७-३४३|१८] निरोधं चतुर्भिः निरोधतः शान्ततः प्रणीततो निःसरणतश्च /
9963 SK [३४३|१८-३४३|१९] मार्गं चतुर्भिर्मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्च /
9964 SK [३४३|१९] एषां तु विशेषणम् पश्चाद्वक्षयामः /
9965 SK [३४३|२०] ऊष्मभ्यो मूर्धानः
9966 SK [३४३|२१] ते ऽपि तादृशाः // VAक्K_६.१७ //
9967 SK [३४४|०१] यादृशा ऊष्माणश्चतुःसत्यालम्बनाः षोडशाकाराश्च /
9968 SK [३४४|०१-३४४|०२] उत्कृष्टतरत्वात्तु नामान्तरं चल कुशलमूलमूर्धत्वात् मूर्धानः /
9969 SK [३४४|०२] एभ्यो हि पातो ऽतिक्रमो वा /
9970 SK [३४४|०३] उभयाकरणं धर्मेण
9971 SK [३४४|०४] एषां पुनरुभयेषमूष्मगतमूर्ध्नां धर्मस्मृत्युपस्थानेनाकरणम् /
9972 SK [३४४|०४-३४४|०५] किमिदमाकरणम् /
9973 SK [३४४|०५] सत्येष्वकाराणां प्रथमतोविन्यसनम् /
9974 SK [३४४|०६] अन्यैरपि तु वर्धनम् /
9975 SK [३४४|०७] चतुर्भिरपि स्मृत्युपस्थानैरेषां वर्धनम् /
9976 SK [३४४|०७-३४४|०८] विवर्धयतः पूर्वप्रतिलब्धानामंसंमुखीभाबो ऽवहुमानत्वात् /
9977 SK [३४४|०८] मृदुमध्याधिमात्रक्रमाभिवृद्धेभ्यः पुनरुत्पद्यते
9978 SK [३४४|०९] तेभ्यः क्षान्तिः
9979 SK [३४४|१०] अधिमात्रस्य क्षमणादपरिहाणितः / सा ऽपि त्रिप्रकारा मृद्वी मध्या ऽधिमात्रा च /
9980 SK [३४४|११] द्विधा तद्वत्
9981 SK [३४४|१२] यथा मूर्धान उक्ताः एवं मृदुमध्ये क्षान्ती तथैवाकरणात् /
9982 SK [३४४|१२-३४४|१३] विवर्धने त्वयं विशेषः /
9984 SK [३४४|१४] क्षान्त्या धर्मेण वर्धनम् // VAक्K_६.१८ //
9985 SK [३४४|१५] स्मृत्युपस्थानेनैव नान्येन /
9986 SK [३४४|१६] कामाप्तदुःखविषया त्वधिमात्रा
9987 SK [३४४|१७] क्षान्तिरिति वर्त्तते / अप्रधर्मसंश्लेषादसौ कामावचरदुःखालम्बनैव /
9988 SK [३४४|१८] अत एवोष्मगतादीनां त्रैधातुकदुःखद्यालम्बनत्वसिद्धिर्नियमावचनात् /
9989 SK [३४४|१८-३४४|२०] यदा किल रूपारुप्यप्रतिपक्षाद्येकैकसत्यालम्बनापह्लासेन यावत् कावावचरमेव दुखं द्वाभ्यां क्षणाभ्यां मनसि करोत्येषा सर्वैव मध्या क्षान्तिर्यदैकमेव क्षणं तदधिमात्रेति /
9990 SK [३४५|०१] क्षणं च सा /
9991 SK [३४५|०२] क्षणिका चासौ न प्राकर्षिकी /
9992 SK [३४५|०३] तथाग्रधर्माः
9993 SK [३४५|०४] यथैवाधिमात्रा क्षान्तिः /
9994 SK [३४५|०४-३४५|०५] ते ऽपि हि कामावचरदुःखालम्बनाः क्षणिकाश्च लौकिकाश्चैते ऽग्राश्च धर्माः /
9995 SK [३४५|०५] सर्वलौकिकश्रेष्ठत्वादिति लौकिकाग्रधर्माः /
9996 SK [३४५|०५-३४५|०६] विना सभागहेतुना मार्गस्य तत्पुरुषकारेणाकर्षणात् /
9997 SK [३४५|०६-३४५|०७] त एत ऊष्मगतादयः स्मृत्युपस्थानस्वभावत्वात् प्रज्ञात्मका उच्यन्ते /
9998 SK [३४५|०८] सर्वे तु पञ्चस्कन्धाः
9999 SK [३४५|०९] सपरिवारग्रहणात् /
10000 SK [३४५|१०] विनाप्तिभिः // VAक्K_६.१९ //
10001 SK [३४५|११] प्राप्तयो नोष्मगतादिभिः संगृह्यन्ते /
10002 SK [३४५|११-३४५|१२] मा भूदार्यस्य तत्संमुखीभावादूष्मगतादीनां संमुखीभाव इति /
10003 SK [३४५|१२-३४५|१३] तत्र त्रिसत्यालम्बनोष्मगताकरणे धर्मस्मृत्युपस्थानं प्रत्युत्पन्नमनागतानि चत्वारि भाव्यन्ते /
10004 SK [३४५|१४] निरोधसत्यालम्बने तदेवोभयथा / सर्वत्राकाराः सभागाः /
10005 SK [३४५|१४-३४५|१५] विवर्धने चतुर्णामन्यतमदनागतानि चत्वारि /
10006 SK [३४५|१५-३४५|१६] तत्रैव निरोधालम्बने ऽन्त्यमनागतानिचत्वारि आकाराः सर्वे /
10007 SK [३४५|१६] लब्धत्वाद्गोत्राणाम् /
10008 SK [३४५|१६-३४५|१७] मूर्धाकरणे चतुःसत्यालम्बने ऽपि निरोधालम्बनवर्धने चान्त्यमनागतानि चत्वारि आकाराः सर्वे /
10009 SK [३४५|१७-३४५|१८] त्रिसत्यालम्बनवर्धने चतुर्णामन्यतमदनागतानिचत्वारि आकाराः सर्वे /
10010 SK [३४५|१८] क्षान्तीनां सर्वत्र चान्त्यम् /
10011 SK [३४५|१९] अनागतानि चत्वारि आकाराः सर्वे /
10012 SK [३४५|१९-३४५|२०] अग्रधर्मेष्वन्त्यमनागतानि चत्वारि आकाराश्चत्वार एव /
10013 SK [३४५|२०] अन्याभावाद्दर्शनमार्गसादृश्याच्च /
10014 SK [३४५|२१] इति निर्वेधभागीयं चतुर्धा
10015 SK [३४६|०१-३४६|०२] इत्येतानि चत्वारि निर्वेधभागीयानि कुशलमूलानि यदुतोष्मगतं मूर्धानः क्षान्तयो ऽग्रधर्माश्च /
10016 SK [३४६|०२-३४६|०३] एषां द्वे मृदूनी चलत्वात् परिहाणितः क्षान्तयो मध्यमग्रधर्मा अधिमात्रम् /
10017 SK [३४६|०३] निर्वेधभागीयानीति को ऽर्थः / विध विभागे /
10018 SK [३४६|०३-३४६|०५] निश्चितो वेधा निर्वेधः आर्यमार्गस्तेन विचिकित्सा प्रहाणात् सत्यानां च विभजनादिदं दुःखमयं यावत् मार्ग इति /
10019 SK [३४६|०५] तस्य भागो दर्शनमार्गैकदेशः /
10020 SK [३४६|०५-३४६|०६] तस्यावाहकत्वेन हितत्वान्निर्वेधभागीयानि /
10021 SK [३४६|०६] तच्चैतच्चतुर्विधमपोइ निर्वेधभागीयम्
10022 SK [३४६|०७] भावनामयम् /
10023 SK [३४६|०८] न श्रुतचिन्तामयम् /
10024 SK [३४६|०९] अनागम्यान्तरध्यानभूमिकम्
10025 SK [३४६|१०] अनागम्यं ध्यानान्तरं चत्वारि च ध्यानान्यस्य भूमिस्तत्संगृहीतत्वात् /
10026 SK [३४६|११] नोर्ध्व दर्शनमार्गपरिवारत्वात् / तदभावः कामधात्वालम्बनत्वात् /
10027 SK [३४६|११-३४६|१२] तस्य च पूर्वपरिज्ञेयप्रहेयत्वात् /
10028 SK [३४६|१२] तेषां रूपधातौ पञ्चस्कन्धको विपाकः /
10029 SK [३४६|१२-३४६|१३] पूरिपूरकाण्येवनाक्षेपकाणि /
10030 SK [३४६|१३] भवद्वेषित्वात् /
10031 SK [३४६|१४] द्वे त्वधो ऽपि वा // VAक्K_६.२० //
10032 SK [३४६|१५] वाशब्दो मतविकल्पार्थः /
10033 SK [३४६|१५-३४६|१६] भदन्तघोषकस्य तु द्वे प्रथमे निर्वेधभागीये सप्तभूमिके कामावचरे अपि तः /
10034 SK [३४६|१७] सर्वाण्यपि त्वेतानि चत्वारि
10035 SK [३४६|१८] कामाश्रयाणि
10036 SK [३४६|१९] त्रीणि मनुष्येष्वेवोत्पद्यन्ते / त्रिषु द्वीपेषु / उत्पादितपूर्वाणां तु देवेषु संमुखीभावः /
10037 SK [३४६|२०] चतुर्थं देवेष्वपि / त्रीणि स्त्रीपुरुषा उभयाश्रयाणि लभन्ते /
10038 SK [३४६|२१] अग्रधर्मान् द्वच्याश्रयान् लभते ऽङ्गना /
10039 SK [३४७|०१] अग्रधर्मास्तु स्त्र्येव द्वच्याश्रयान् लभते / पुरुषः पुरुषाश्रयानेव /
10040 SK [३४७|०१-३४७|०२] स्त्रीत्व स्याप्रतिसंख्यानिरोधलाभात् /
10041 SK [३४७|०२] कथं निर्वेधभागीयानां त्यागः /
10042 SK [३४७|०३] भूमित्यागात्त्यजत्यार्यस्तानि
10043 SK [३४७|०४-३४७|०५] यद्भूमिकान्यनेन प्रतिलब्धानिभवन्ति तां भूमि त्यजन्नार्यस्तान्यपि त्यजति नान्यथा भूमित्यागः पुनर्भूमिसंचारात् / [३४७|०६] अनार्यस्तु मृत्युना // VAक्K_६.२१ //
10044 SK [३४७|०७] पृथग्जनस्तु निकायसभागत्यागेनैव त्यजतिसत्यसति वा भूमिसंचारे /
10045 SK [३४७|०८] आद्ये द्वेपरिहाण्या च
10046 SK [३४७|०९] त्यजति मृत्युना च पृथग्जन एव / आर्यस्य तु नास्ति ताभ्यां परिहाणिः /
10047 SK [३४७|०९-३४७|१०] क्षान्त्यग्रधर्माभ्यां तु पृथग्जनस्यापि नास्ति परिहाणिः /
10048 SK [३४७|११] मौलेस्तत्रैव सत्यदृक् /
10049 SK [३४७|१२-३४७|१३] यो मौलध्यानभूमिकानि निर्वेधभागीयान्युत्पादयति सतत्रैव जन्माति सत्यान्यवश्यं पश्यति /
10050 SK [३४७|१३] तीव्रसंवेगत्वात् /
10051 SK [३४७|१४] अपूर्वाप्तिर्विहीनेषु
10052 SK [३४७|१५] यदा विहिनेषु पुनर्लाभोभवत्यपूर्वाण्येव तदा लभ्यन्ते न पूर्वं त्यक्तानि /
10053 SK [३४७|१६] प्रतिमोक्षसंवरवदनुचितयत्नसाध्यत्वात् /
10054 SK [३४७|१६-३४७|१७] सति प्रतिसीमादैशिके परेणोत्पादयत्यसति मूलादेव /
10055 SK [३४७|१८] एते पुनर्विहीनिपरिहाणी किंस्वभावे /
10056 SK [३४७|१९] हानी द्वे असमन्वितिः // VAक्K_६.२२ //
10057 SK [३४७|२०] उभे अप्येते असमन्वागमस्वभावे /
10058 SK [३४७|२२] परिहाणिस्तु दोषकृता नावश्यं विहानिः /
10059 SK [३४७|२३] गुणविशेषकृता च सा / परिहीणो ऽप्यूष्मगतलाभी नियतं परिनिर्वाणधर्मा भवति /
10060 SK [३४७|२४] मोक्षभागीयात्को विशेषः / सत्यदर्शनासन्नतरत्वमसत्यन्तराये /
10061 SK [३४८|०१] मूर्धलाभी न मूलच्छित्
10062 SK [३४८|०२-३४८|०३] परिहीणो ऽपि मूर्धलाभी कुशलमूलानि न समुच्छिनत्ति /
10063 SK [३४८|०३] अपायांस्तु पापादानन्तर्याण्यपि कुर्यात् /
10064 SK [३४८|०४] क्षान्तिलाभ्यनपायगः /
10065 SK [३४८|०५-३४८|०६] विहीनायामपि क्षान्तौ न पुनरपायान्याति तद्भूमिककर्मक्लेशदूरीकरणात् /
10066 SK [३४८|०६-३४८|०७] क्षान्तिलाभादेव हि गतियोन्युपपत्त्याश्रयाष्टमादिभवक्लेशानां केषाञ्चिदनुत्पत्तिधर्मता प्रतिलभते /
10067 SK [३४८|०७-३४८|०९] अपायगतीनामण्डजसंस्वेदजयोन्योरसंज्ञिसत्त्वोत्तरकुरुमहाब्रह्मोपपत्तिनां शण्ढपण्डकोभयव्यञ्जनाश्रयाणामष्टमादिभवानां दर्शनहेयक्लेशानां च /
10068 SK [३४८|०९] तां तु यथायोगं मृद्वधिमात्रायां च / मृद्वच्यामपायगतीनाम् /
10069 SK [३४८|१०] अधिमात्रायामितरेषाम् / निर्वेधभागीयानि त्रिगोत्राणि श्रावकादिगोत्रभेदात् / तत्र
10070 SK [३४८|११] शिष्यगोत्रा न्निवर्त्य द्वे बुद्धः स्यात्
10071 SK [३४८|१२] ऊष्मगतं मूर्धानं च श्रावकगोत्रादुत्पन्नं व्यावर्त्य पुनर्बुद्धः स्यादित्यस्ति संभवः /
10072 SK [३४८|१३] क्षान्तौ तु लब्धायां नास्त्येव संभवः / किं कारणम् /
10073 SK [३४८|१३-३४८|१४] अपायानां किल व्यावृत्तत्वात् /
10074 SK [३४८|१४] बोधिसत्त्वाश्च परहित्क्रियापारतन्त्र्यादपायानप्यवगाहन्त इति /
10075 SK [३४८|१४-३४८|१५] तस्यैव तु गोत्रस्याविवर्त्यत्वादसंभवः /
10076 SK [३४८|१६] त्रीण्यपीतरः // VAक्K_६.२३ //
10077 SK [३४८|१७] विवर्त्य स्यादिति वर्तते /
10078 SK [३४८|१७-३४८|१८] त्रीण्यपि निर्वेधभागीयानि श्रावकगोत्राद्वच्यावर्त्य बुद्धादिभवः स्यात् प्रत्येकबुद्ध इत्यर्थः /
10079 SK [३४८|१८-३४८|१९] प्रत्येकबुद्धगोत्राणि तु व्यावर्तयितुमशक्यानि /
10080 SK [३४८|२०] आबोधेः सर्वमेकत्र ध्यानान्त्ये शास्तृखड्गयोः /
10081 SK [३४८|२१] शास्ता बुधः खड्गविषाणकल्पः प्रत्येकबुद्धः /
10082 SK [३४८|२१-३४८|२२] तयोरेकत्रैवासने चतुर्थमेव ध्यानं निश्रित्यनिञ्ज्यपटुसमाधित्वान्निर्वेधभागीयान्यारभ्य यावद्बोधिरुत्पद्यते /
10083 SK [३४९|०१] क्षयानुत्पादज्ञाने हि बोधिरिति पश्चादुपपादयिष्यामः /
10084 SK [३४९|०१-३४९|०२] अशुभामारभ्य यावद्वोधिरित्यपरे /
10085 SK [३४९|०२] येषां तु खड्गादन्यो ऽपि प्रत्येकबुद्धो ऽस्तितद्गोत्राणां व्यावर्तनाप्रतिषेषः /
10086 SK [३४९|०३] किं पुनः प्रथम एव जन्मनि कृतप्रयोगो निर्वेधभागीयान्युत्पादयेत् /
10087 SK [३४९|०३-३४९|०४] नैतदस्ति अवश्यं हि
10088 SK [३४९|०५] प्राक्तेभ्यो मोक्षभागीयं
10089 SK [३४९|०६] उत्पादयितव्यम् / सर्वस्वल्पं हि
10090 SK [३४९|०७] क्षिप्रं मोक्षस्त्रिभिर्भवैः // VAक्K_६.२४ //
10091 SK [३४९|०८] एकस्मिन् जन्मनि मोक्षभागीयं कुशलमूलमुत्पादयेत् / द्वितीये निर्वेधभागीयानि /
10092 SK [३४९|०९] तृतीये आर्यमार्गम् / बीजविरोपण सस्याभिवृद्धिफलोत्पत्तिक्रमवत् /
10093 SK [३४९|०९-३४९|१०] क्रमेण हि संतानस्यास्यां धर्मतायामवतारपरिपाकविमुक्तयो भवन्तीति /
10094 SK [३४९|१०-३४९|११] तच्च पुनर्मोक्षभागीयं वर्णयन्ति /
10095 SK [३४९|१२] श्रुतचिन्तामयं
10096 SK [३४९|१३] न भावनामयम् / कति कर्माणि /
10097 SK [३४९|१४] त्रीणि कर्माणि
10098 SK [३४९|१५] प्राधान्येन तु मनस्कर्म्म /
10099 SK [३४९|१५-३४९|१६] तत्प्रणिधनपरिग्रहात्तु कायवाक्कर्मापि मोक्षभागोयं भवति /
10100 SK [३४९|१६-३४९|१७] कश्चिदेकभिक्षामपि दत्त्वैक शिक्षामपि चादाय मोक्षाभिलाषवलाधानान्मोक्षभागीयान्याक्षिपति /
10101 SK [३४९|१७] तत्त्वेतत् /
10102 SK [३४९|१८] आक्षिप्यते नृषु /
10103 SK [३४९|१९] मनुष्येष्वेव त्रिषु द्वीपेषु / नान्यत्र / प्रज्ञानिर्वेदयोरभावाद्यथायोगम् /
10104 SK [३४९|१९-३४९|२०] उक्तं प्रसङ्गेन मोक्षभागीयम् /
10105 SK [३४९|२१] अभिसमयक्रमस्तु वक्तुमारब्धः / तत्र च यावदग्रधर्मा उक्ताः /
10106 SK [३४९|२१-३४९|२२] शेषं वक्तव्यम् /
10107 SK [३४९|२२] अत इदमुच्यते /
10108 SK [३५०|०१] लौकिकेभ्यो ऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा // VAक्K_६.२५ //
10109 SK [३५०|०२] लौकिकाग्रधर्मानन्तरमनास्रव धर्मज्ञानक्षान्तिरुत्पद्यते / कस्मिन्नालम्बने /
10110 SK [३५०|०३] कामदुःखे /
10111 SK [३५०|०४] कामावचरदुःखमस्या आलम्बनम् / सेयं दुःखे धर्मज्ञानक्षान्तिरित्युच्यते /
10112 SK [३५०|०४-३५०|०५] अनास्रवज्ञानार्थं निःष्यन्देन विशेषणम् /
10113 SK [३५०|०५] कर्मज्ञानार्थं क्षान्तिः / पुष्पफलवृक्षवत् /
10114 SK [३५०|०५-३५०|०६] सैव च नियामावक्रान्तिरित्युच्यते /
10115 SK [३५०|०६] सम्यक्त्वनियामावक्रमणात् /
10116 SK [३५०|०६-३५०|०७] सम्यक्त्वं निर्वाणमुक्तं सूत्रे /
10117 SK [३५०|०७] तत्र नियमो नियाम एकान्तीभावः / तस्याभिगमनमवक्रमणम् /
10118 SK [३५०|०८] तस्यां चोत्पन्नायामार्यपुद्गल उच्यते / अनागतया पृथग्जनत्वं व्यावर्त्यते /
10119 SK [३५०|०८-३५०|०९] एतदेव तस्याः कारित्रमनागतायामभ्युपगम्यते नान्यत् /
10120 SK [३५०|०९-३५०|१०] प्रदीपजातिवत् /
10121 SK [३५०|१०] लौकिकाग्रधर्मैरित्यपरे / न तद्धर्मत्वात्तद्विरोधित्वाददोषः /
10122 SK [३५०|११] शत्रुस्कन्धारुढतद्घातनवत् / उभयैरित्यपरे / आनन्तर्यविमुक्तिमार्गसाध्र्म्यादिति /
10123 SK [३५०|१२] ततो ऽत्रैव धर्मज्ञानं
10124 SK [३५०|१३] ततः पुनर्दुःखे धर्मज्ञानक्षान्तेरनन्तरमत्रैअ कामावचरे दुःखे धर्मज्ञानमुत्पद्यते /
10125 SK [३५०|१४] तत् दुःखे धर्मज्ञानमित्युच्यते / अनास्रवाधिकारः सर्वत्र वेदितव्यः /
10126 SK [३५०|१४-३५०|१५] यथा च कामावचरे दुःखे धर्मज्ञानक्षान्तिर्धर्मज्ञानं चोत्पद्यते
10127 SK [३५०|१६] तथा पुनः /
10128 SK [३५०|१७] शेषे दुःखे ऽन्वयक्षान्तिज्ञाने
10129 SK [३५०|१८] दुःखे धर्मज्ञानानन्तरं रूपारुप्यावचरे दुःखे समस्तालम्बनान्वयज्ञानक्षान्तिरुत्पद्यते /
10130 SK [३५०|१९] सा दुःखे ऽन्वयज्ञानक्षान्तिरित्युच्यते / ततो ऽन्वयज्ञानमुत्पद्यते /
10131 SK [३५०|१९-३५०|२०] तत् दुःखे ऽन्वय ज्ञानमित्युच्यते /
10132 SK [३५०|२०] प्रथमतोधर्मतत्त्वज्ञानाद्धर्मज्ञानम् /
10133 SK [३५०|२०-३५०|२१] तदन्वयादूर्ध्वं दुःखालम्बनमन्वयज्ञानम् /
10134 SK [३५०|२१] तथैवानुगमनात् /
10135 SK [३५०|२१-३५०|२२] यथा चैतानि दुःखसत्ये चत्वारि क्षान्तिज्ञानान्युत्पद्यन्ते
10136 SK [३५१|०१] सत्यत्रये तथा // VAक्K_६.२६ //
10137 SK [३५१|०२] दुःखान्वयज्ञानादनन्तरं कामावचरे समुदये धर्मज्ञानक्षान्तिरुत्पद्यते /
10138 SK [३५१|०२-३५१|०३] ततः समुदये धर्मज्ञानम् /
10139 SK [३५१|०२-३५१|०६] एवं समनन्तरोत्पत्तिक्रमेण शेषे समुदये ऽन्वयज्ञानक्षान्तिः समुदये ऽन्वयज्ञानम् कामावचरदुःखनिरोधे धर्मज्ञानक्षान्तिर्निरोधे धर्मज्ञानं शेषे निरोधे ऽन्वयज्ञानक्षान्तिर्निरोधे ऽन्वयज्ञानं कामवचरदुःखप्रतिपक्षमार्गे धर्मज्ञानक्षान्तिर्मार्गे धर्मज्ञानं शेषे मार्गे ऽन्वयज्ञानक्षान्तिर्मार्गे ऽन्वयज्ञानम् /
10140 SK [३५१|०७] इति षोडशचित्तो ऽयं सत्याभिसमयः
10141 SK [३५१|०८] इत्यनेन क्रमेणायं सत्यानामभिसमयः षोडशचित्तको भवति /
10142 SK [३५१|०८-३५१|०९] ये तर्हि निकायान्तरीयाः सत्यानामेकाभिसमयं वर्णयन्ति /
10143 SK [३५१|०९] अभिप्राय एष द्रष्टव्यः /
10144 SK [३५१|०९-३५१|१०] अभेदेन ह्यभिसमय उच्यते सत्येषु
10146 SK [३५१|१२] दर्शनालम्बकार्याख्यः
10147 SK [३५१|१३] दर्शनाभिसमयो ऽनास्रवया प्रज्ञया सत्यानाम् /
10148 SK [३५१|१३-३५१|१४] आलम्बनाभिसमयस्तत्संप्रयुक्तैर्वेदनादिभिरपि /
10149 SK [३५१|१४] कार्याभिसमयो विप्रयुक्तैरपि शीलजात्यादिभिः /
10150 SK [३५१|१४-३५१|१५] दुःखे हि दृश्यमाने तस्य त्रिविधो ऽभिसमयः समुदयादीनां कार्याभिसमयः /
10151 SK [३५१|१५-३५१|१६] प्रहाणसाक्षात्करणभावनात् /
10152 SK [३५१|१६] तद्यदि सत्यानां दर्शनाभिसमयं प्रत्येकाभिसमयं ब्रूयात् /
10153 SK [३५१|१७] अयुक्तं ब्रूयादाकारभेदात् / अथाप्यनात्माकारेण सर्वेषां दर्शनमिति ब्रूयात् /
10154 SK [३५१|१८] न तर्हि सत्यानां दुःखादितो दर्शनं स्यात् / एवं च सूत्रविरोधः /
10155 SK [३५१|१८-३५१|२१] ᳚इहार्यश्रवकस्य दुःखं वा दुःखतो मनसि कूर्वतः समुदयं वा समुदयतो यावत् मार्ग वा मार्गतो मनसि कुर्वतो ऽनास्रवेण मनसिकारेण संप्रयुक्तो यो धर्माणो प्रविचय᳚ इति /
10156 SK [३५१|२१] भावनामार्ग एवमिति चेत् / न / यथादर्शनं भावनात् /
10157 SK [३५२|०१] अथाप्येकस्य दर्शनाच्छेषेषु व४इत्वलाभादेकाभिसमयं ब्रूयान्न दोषः स्यात् /
10158 SK [३५२|०१-३५२|०२] अन्तरा तु व्युत्थानमस्ति नास्तीति विचार्यं स्यात् /
10159 SK [३५२|०२-३५२|०३] अथ पुनर्ब्रूयात् दुःखमेव परिजानन्समुदयं प्रजहाति निरोधं साक्षात् करोति मार्गं भावयति /
10160 SK [३५२|०३-३५२|०४] अत इकाभिसमय इति /
10161 SK [३५२|०४] एवमपि न दोषः स्यादेकस्य दर्शने शेषाणां कार्याभिसमयवचनात् /
10162 SK [३५२|०४-३५२|०५] दर्शनाभिसमयं तु प्रति सूत्रे सत्यानां क्रमेणाभिसमय उक्तो लक्ष्यते /
10163 SK [३५२|०५-३५२|०७] ᳚नहैव गृहपते सत्यानामेकाभिसमयो ऽपि पूर्वाभिसयय᳚ इति विस्तरेण सदृष्टान्तानि त्रीणि सूत्राणि /
10164 SK [३५२|०७-३५२|०८] ᳚यो दुःखे निष्काङ्क्षो निर्विचिकित्सो बुद्धे ऽपि स᳚ इति सूत्रादेकाभिसमय इति चेत् /
10165 SK [३५२|०८] न / असंमुदाचारावश्यंप्रहाणाभिसंधिवचनात् /
10166 SK [३५२|०८-३५२|०९] य एषौक्तः षोढशचित्तको ऽभिसमयः
10167 SK [३५२|१०] सो ऽग्रधर्मैकभूमिकः // VAक्K_६.२७ //
10168 SK [३५२|११] यद्भूमिको ऽग्रधर्मस्तद्भूमिकान्येतानि षोडश चित्तानि /
10169 SK [३५२|११-३५२|१२] त पुनः षड्भूमिका इत्युक्तं प्राक् /
10170 SK [३५२|१२] कस्मात् पुनः क्षान्तयो ज्ञानानि चवश्यं भवन्ति / यस्मात्
10171 SK [३५२|१३] क्षान्तिज्ञानान्यनन्तर्य मुक्तिमार्गा यथाक्रमम् /
10172 SK [३५२|१४] अनन्तर्यमार्गाः क्षान्तयः क्लेशप्राप्तिविच्छेदं प्रत्यन्तरयितुमशक्यत्वात् /
10173 SK [३५२|१४-३५२|१५] विमुक्तिमार्गास्तु ज्ञानानि /
10174 SK [३५२|१५-३५२|१६] क्लेशप्राप्तिविमुक्तानां विसंयोगप्राप्तिसहोत्पादात् /
10175 SK [३५२|१६] अत उभयैरवश्यं भवितव्यम् /
10176 SK [३५२|१६-३५२|१७] द्वाभ्यां चौरनिष्कासनकपाटपिधानवत् /
10177 SK [३५२|१७-३५२|१८] यदि पुनर्द्वितीयेनानन्तर्यमार्गेणैव सह विसंयोगप्राप्तिरुत्पद्येत किं स्यात् /
10178 SK [३५२|१८] प्रहीणविचिकित्सं ज्ञानं तत्रैवालम्बने नोत्पन्नं स्यात् /
10179 SK [३५२|१८-३५२|१९] क्षान्तिभिः क्लेशप्रहाणान्नव संयोजननिकाया ज्ञानवध्या इति शास्त्रविरोध इति चेत् /
10181 SK [३५२|२०] क्षान्तीनां ज्ञानपरिवारत्वात् / राजपरिवारकृतस्य राजकृतव्यपदेशवत् /
10182 SK [३५२|२१] किं पुनः सर्वाणि षोडशचित्तानि सत्यदर्शनाद्दर्शनमार्गः / नेत्याह / किं तर्हि /
10183 SK [३५२|२२] अदृष्टदृष्टेर्दृण्ट्ङ्मार्गस्तत्र पञ्चदश क्षणाः // VAक्K_६.२८ //
10184 SK [३५३|०१-३५३|०२] दुःखधर्मज्ञानक्षान्तिमारभ्य यावत् मार्गे ऽन्वयज्ञान क्षान्तिरेते पञ्चदश क्षाणा दर्शनमार्गः /
10185 SK [३५३|०२] कि कारणम् / अदृष्टसत्यदर्शनात् /
10186 SK [३५३|०२-३५३|०३] षोडशे तु नास्त्यपोऊर्वं द्रव्यमिति /
10187 SK [३५३|०३] यथाद्रष्टाभ्यसनाद्भावनामार्ग एव /
10188 SK [३५३|०३-३५३|०४] ननु च तेनाष्यदृष्टं पश्यति मार्गे ऽन्वयज्ञानक्षान्तिम् /
10189 SK [३५३|०४] सत्यं प्रति चिन्ता न क्षणम् /
10190 SK [३५३|०४-३५३|०५] न हि क्षणेनादृष्टेन सत्यमदृष्टं भवति /
10191 SK [३५३|०५] यथा नैकेन लुङ्गेनालूनेन देदारमलूनं भवति /
10192 SK [३५३|०५-३५३|०७] फलत्वादष्टज्ञानषोडशाकारभावनात् पूर्वमार्गविहानेः प्रवन्धिकत्वाच्च मार्गान्वयज्ञानं भावनामार्गः /
10193 SK [३५३|०७-३५३|०८] अपरिहाणिस्तुदर्शनहेयक्लेशप्रहाणसंधारणात् /
10194 SK [३५३|०८] अत एव दर्शनमार्ग इति चेत् / न / अतिप्रसङ्गात् /
10195 SK [३५३|०८-३५३|०९] सप्त ज्ञानानि कस्माद्दर्शनमार्गः /
10196 SK [३५३|०९] दर्शनस्यासमाप्तत्वात् /
10197 SK [३५३|०९-३५३|१०] न हि सर्वं सत्यदर्शनं समाप्तमिति तदन्तरालत्वात्तन्यप्पि दर्शनमार्गः /
10198 SK [३५३|१०-३५३|११] उक्तं यथा दर्शनमार्गो भावनामार्ग श्चोत्पद्यते /
10199 SK [३५३|१२] यथेदानीमुत्पन्नार्यमार्गाणां पुद्गलानां व्यवस्थानं तथा वक्ष्यामः /
10200 SK [३५३|१२-३५३|१३] य एते दर्शनमार्गस्वभावाः पञ्चादश क्षण उक्ता वेदितव्यौ
10201 SK [३५३|१४] मृदुतीक्ष्णेन्द्रियौ तेषु श्रद्धाधर्मानुसरिणौ /
10202 SK [३५३|१५] मृद्धिन्द्रियस्तेसु वर्तमानः श्रद्धानुसारीत्युच्यते / तीक्ष्णेन्द्रियो धर्मानुसारीति /
10203 SK [३५३|१६] श्रद्धयानुसारः श्रद्धानुसारः / सो ऽस्यास्तीति श्रद्धानुसारी /
10204 SK [३५३|१६-३५३|१७] श्रद्धयानुसर्तुं शीलमस्येति वा /
10205 SK [३५३|१७] पूर्वं परसंप्रत्ययेनार्थानुसरणात् / एवं धर्मानुसारी /
10206 SK [३५३|१७-३५३|१८] पूर्वं स्वयमेव सूत्रादिभिर्धर्मैरर्थानुसरणात् /
10208 SK [३५३|१९] अहीनभावनाहेयौ फलाद्यप्रतिपन्नकौ // VAक्K_६.२९ //
10209 SK [३५३|२०] फलानामाद्यं स्रोत आपत्तिफलं सर्वफलप्राप्तौ तस्य प्रथमत्वात् /
10210 SK [३५३|२०-३५३|२२] तावेव श्रद्धाधर्मानुसारिणौ यदि पूर्वं लौकिकेन मार्गेणाप्रहीणभावनाहेयौ भवतः सकलवन्धनौ तो स्रोत आपत्तिफलप्रतिपन्नकावुच्येते /
10211 SK [३५३|२३] यावत् पञ्चप्रकारघ्नौ
10212 SK [३५३|२४-३५३|२५] यदि पूर्वं लौकिकेन मार्गेण कामावचराणं भावनाहेयानां यावत् पञ्च प्रकाराः प्रहीणा भवन्ति /
10213 SK [३५३|२५] तथैव प्रथमफलप्रतीपन्नकावुच्येते /
10214 SK [३५४|०१] द्वितीये ऽर्वाङ्नवक्षयात् /
10215 SK [३५४|०२] द्वीतीयनिमित्तं द्वितीये /
10216 SK [३५४|०२-३५४|०३] यदि तयोस्तस्मात् परेण षट् सप्ताष्टौ वा प्रकाराः पूर्वप्रहीणा भवन्ति /
10217 SK [३५४|०३] द्वौ तौ द्वितीयफलप्रतिपन्नकावुच्येते / कतमच्च द्वितीयम् /
10218 SK [३५४|०४] सकृदागामिफलम् /
10219 SK [३५४|०५] कामाद्विरक्ताबुर्ध्व वा तृतीयप्रतिपन्नकौ // VAक्K_६.३० //
10220 SK [३५४|०६-३५४|०७] यदि पुनर्नवमस्यापि प्रकारस्य प्रहाणात् कामधातोर्वीतरागौ भवत ऊर्ध्वं वा यावदाकिञ्चन्यायतनात् तौ तृतीय प्रतीपन्नकावुच्येते /
10221 SK [३५४|०७] कतमच्च तृतीयम् /
10222 SK [३५४|०८] अनागामिफलम् /
10223 SK [३५४|०९] षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः /
10224 SK [३५४|१०] षोडशे तु चित्त उत्पन्ने तौ न पुनः श्रद्धाधर्मानुसारिणावुच्येते /
10225 SK [३५४|१०-३५४|११] नापि प्रतिपन्नकौ /
10226 SK [३५४|११] किं तर्हि / फलस्थो /
10227 SK [३५४|११-३५४|१२] यत्र फले यः प्रतिपन्नको भूतः स तदानीं तत्र फलस्थितो भवति /
10228 SK [३५४|१२] स्रोत आपत्तिफले सकृदागामिफले वा अनागामिफले वा /
10229 SK [३५४|१३] अर्हत्त्वं तु न शक्यमादितः प्राप्तुम् / दर्शनमार्गेण भावनाहेयानामप्रहाणात् /
10230 SK [३५४|१३-३५४|१४] पूर्वं च भवाग्रवैराग्यासंभवात् /
10231 SK [३५४|१५] श्रद्धाधिमुक्तदृष्टच्याप्तौ मृदुतोक्ष्णेन्द्रियौ तदा // VAक्K_६.३१ //
10232 SK [३५४|१६] तस्मिन्काले यो मृद्विन्द्रियः श्रद्धानुसारिपूर्वी स श्रद्धाधिमुक्त इत्युच्यते /
10233 SK [३५४|१७] यस्तीक्ष्णेन्द्रियो धर्मानुसारिपूर्वी स दृष्टिप्राप्त इत्युच्यते /
10234 SK [३५४|१७-३५४|१८] श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वात् /
10235 SK [३५४|१८-३५४|१९] किं पुनः कारणं प्रहीणपञ्चप्रकारो ऽपि षोडशे चित्ते स्रोत आपन्न एवोच्यते न सकृदागामिफलप्रतिपन्नकः /
10237 SK [३५४|२१-३५४|२२] फले फलविशिष्टस्य लाभो मार्गस्य नास्त्यनः / नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः // VAक्K_६.३२ //
10238 SK [३५४|२३] फले हि लभ्यमाने फलविशिष्टो मार्गो न लभ्यत इत्येष नियमः /
10239 SK [३५४|२३-३५४|२४] अतः फलस्थो यावन्न विशेषाय प्रयुज्यते फलान्तरप्राप्तौ तावत् प्रतिपन्नको नोच्यते /
10240 SK [३५४|२४-३५४|२५] एवमन्यत्रापि फले वेदितव्यम् /
10241 SK [३५४|२५-३५५|०१] यस्तु तृतीयध्यानवीतरागो ऽधरां भूमि निश्रित्य नियाममवक्रामति सो ऽवश्यं फलविशिष्टं मार्ग संमुखीकरोति /
10242 SK [३५५|०१-३५५|०२] अन्यथा हि स तस्मादूर्ध्वोपपन्नः सुखेन्द्रियेणासमन्वागतः स्यात् /
10243 SK [३५५|०२-३५५|०३] एवं तावद्भूयः कामवीतरागाणां नियामावक्रान्तौ पुद्गलव्यवस्थानम् /
10244 SK [३५५|०४] आनुपूर्विकं तु वक्तव्यम् / अत इदं तावद्वच्यवस्थाप्यते /
10245 SK [३५५|०४-३५५|०५] यथैते कामधातौ नवप्रकाराः क्लेशा उपदिष्टा एवं
10246 SK [३५५|०६] नवप्रकारा दोषा हि भूमौ भूमौ
10247 SK [३५५|०७] यावद्भवाग्रे / यथा च दोषाः
10248 SK [३५५|०८] तथा गुणाः /
10249 SK [३५५|०९] तत्प्रतिपक्षा अप्यानन्तर्यविमुक्तिमार्गाख्या गुणा भूमौ भूमौ नवप्रकारा एव /
10250 SK [३५५|०९-३५५|१०] कथं कृत्वा /
10251 SK [३५५|११] मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः // VAक्K_६.३३ //
10252 SK [३५५|१२] मृदुमध्याधिमात्रा हि त्रयो मूलप्रकाराः /
10253 SK [३५५|१२-३५५|१३] तेषां पुनः प्रत्येकं मृदुमध्याधिमात्रत्वेन त्रिविधत्वात् नव व्यवस्थाप्यन्ते /
10254 SK [३५५|१३-३५५|१५] तद्यथा मृदुमृदुः प्रकारो मृदुमध्यो मृद्वधिमात्रो मध्यमृदुर्मध्यमध्यो मध्याधिमात्रो ऽधिमात्रमृदुरधिमात्रमध्यो ऽधिमात्राधिमात्रश्चेति /
10255 SK [३५५|१५-३५५|१६] तत्र मृदुमृदुनामार्गेणाधिमात्राधिमात्रस्य क्लेशस्य प्रहाणम् /
10256 SK [३५५|१६] एवं यावदधिमात्राधिमात्रेण मृदुमृदोः /
10257 SK [३५५|१६-३५५|१८] आदित एवाधिमात्रमार्गसंभवादुत्पन्नाधिमात्रमार्गस्य चाधिमात्रक्लेशासंभवात् औदारिको हि मलश्चेलात्पूर्वं निर्दूयते पश्चात् सूक्ष्मः /
10258 SK [३५५|१८-३५५|१९] औदारिकं च तमः सूक्ष्मेणालोकेन हन्यते सूक्ष्मं चाधिमात्रेणेत्येष दृष्टान्तयोगः /
10259 SK [३५५|१९] शुक्ला हि धर्मा वलवन्तो दुर्बलास्तु कृष्णाः /
10260 SK [३५५|१९-३५५|२१] क्षणिकमृदुकेनाप्यार्यमार्गेणानादिसंसारपरंपराप्यायिताधिमात्राणां क्लेशानामुन्मूलत्वात् /
10261 SK [३५५|२१-३५५|२२] बहुकालसंवर्द्धितानां दोषाणां त्रिवृत्कर्षवत् क्षणिकाल्पप्रदीपमहातमोपघातवच्य /
10262 SK [३५५|२२] एवं नवप्रकारेषु क्लेशेषु सर्वत्र
10263 SK [३५५|२३] अक्षीणभावनाहेयः फलस्थः सप्तकृत्परः /
10264 SK [३५६|०१] यस्य हि फलस्थस्यैको ऽपि भावनाहेयः प्रकारो ऽप्रहीणः स स्रोत आपनः /
10265 SK [३५६|०१-३५६|०२] सप्तजन्मानि करोतीति सप्तकृत /
10266 SK [३५६|०२] परः सर्वान्त्यः /
10267 SK [३५६|०२-३५६|०३] न हि सर्वसप्तकृदिति /
10268 SK [३५६|०३] सप्तकृत्वःपरम इति सूत्रपाठः / सप्तकृत्वः परमं जन्मा ऽस्येत्यर्थः /
10269 SK [३५६|०४] प्रकर्षे परमशब्दः / निर्वाणस्रोतो हि मार्गस्तेन तत्र गमनात् /
10270 SK [३५६|०४-३५६|०५] तदसावापन्न आगतः प्राप्त इति स्रोत आपन्नः /
10271 SK [३५६|०५] कथमापन्नः /
10272 SK [३५६|०५-३५६|०६] आद्यमार्गलाभाच्चेत् अष्टमको ऽपि स्यात् /
10273 SK [३५६|०६] आद्यफललाभाच्चेत् भूयो वीतरागो ऽपि स्यात् / कामवीतरागः /
10274 SK [३५६|०७] सर्वफलप्रापिणमधिकृत्याद्यफललाभात् / किं पुनः कारणं स एव नाष्टमकः /
10275 SK [३५६|०८-३५६|०९] प्रतिपन्नकफलमार्गलाभात् दर्शनभावनामार्गलाभात् सकलस्रोतो ऽभिसमयाच्च मार्गान्वयज्ञाने /
10276 SK [३५६|०९-३५६|१०] स एव तस्मादन्यान्सप्तोपपत्तिभवान्मनुष्येषु प्रतिसंदधाति सप्तान्तराभवान् /
10277 SK [३५६|१०] एवं देवेष्वित्यष्टाविंशतियवान् प्रतिसंदधाति /
10278 SK [३५६|१०-३५६|११] सप्तकसामान्यात्तु सप्तकृत्वः /
10279 SK [३५६|११] परम उक्तः / सप्तस्थानकौशलसप्तपर्णवदिति वैभाषिकाः /
10280 SK [३५६|१२-३५६|१३] यत्तर्ह्हि सूत्र उक्तं ᳚अस्थानमनवकाशो यद्दष्टिसंपन्नः पुद्गलो ऽष्टमं भवमभिनिर्वर्तयिष्यति /
10281 SK [३५६|१३] नेदं स्थानं विद्यत᳚ इति / एकस्यां गतावित्यभिप्रायः /
10282 SK [३५६|१३-३५६|१५] यथारुतं वा कल्प्यमाने ऽन्तराभवो ऽपि न स्यात् एवमप्यूरेध्वस्रोतसो भवाग्रपरमस्यैकस्यां गतावष्टम उपपत्तिभावो न प्राप्नोति /
10283 SK [३५६|१५-३५६|१६] कामधात्वभि संधिवचनाददोषः /
10284 SK [३५६|१६] किमत्र ज्ञापकं सूत्रं युक्तिर्वा /
10285 SK [३५६|१६-३५६|१७] इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु सप्तकृत्वो न पोउनरुभयेष्वेव सप्तकृत्व इति /
10286 SK [३५६|१७] एवं हि पठच्यते /
10287 SK [३५६|१८] ᳚सप्तकृत्वो देवाश्च मनुष्याश्चे᳚ति / प्रत्येकमपि तु काश्यपीयाः पठन्ति /
10288 SK [३५६|१९] ᳚सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यानि᳚ति / नात्राभिनिवेष्टव्यम् /
10289 SK [३५६|१९-३५६|२०] यश्च मनुष्येसु स्रोत आपन्नो भवति स तानेवागम्य परिनिर्वाति /
10290 SK [३५६|२०] यो देवेषु स तानेव /
10291 SK [३५६|२१] किं पुनः कारणमष्टमं भवं नाभिनिर्वर्तयति /
10292 SK [३५६|२१-३५६|२२] तावता ककलेनावश्यं संततिपरिपाकात् /
10293 SK [३५६|२२] मार्गो हि स तज्जातीयः / सप्तपदाशीविष दष्टवच्चातुर्थकज्वरवच्च /
10294 SK [३५६|२३] सप्तसंयोजनावशेषत्वाच्च / द्वे अवरभागीये पञ्च चोर्ध्वभागीयानीति /
10295 SK [३५६|२३-३५६|२४] अन्तरेणाप्यार्यमार्गं संमुखीकुर्वाणो न परिनिर्वाति /
10296 SK [३५६|२४-३५६|२५] तावत् भववेदनीयस्य कर्मणो वलाधानात् /
10297 SK [३५६|२५] असति बुद्धोत्पादग्रहस्थ एवार्हत्त्वं प्राप्नोति /
10298 SK [३५६|२५-३५६|२६] अगारं तु पोउनर्नाध्यावसति /
10299 SK [३५६|२६] धर्मताप्रतिलम्भिकं तु भिक्षुलिङ्ग प्रतिलभते /
10300 SK [३५६|२६-३५६|२७] अन्याश्रमिकं लिङ्गेनेत्यपरे /
10301 SK [३५६|२७] कस्मादविनिपातकधर्मा भवति /
10302 SK [३५६|२७-३५६|२९] तद्गामि कर्मानुपचयादुपचितविपाकदानवैगुण्याच्च संततेर्बलवत्कुशला धिवासनात्प्रयोगाशयशुद्धितः /
10303 SK [३५६|२९] अपायनिपाते तु कर्मण्यसौ क्षान्तिमपि नोत्पादयेत् / आह चात्र
10304 SK [३५७|०१-३५७|०४] ᳚कृत्वा बुधो ऽल्पमपि पापमधः प्रयाति कृत्वा बुधो महदपि प्रजहात्यनर्थम् मज्जन्यधो ऽल्पमपि वारिणि संहतं हि पात्रिकृतं महदपि प्लवते तदेव᳚ इति /
10305 SK [२५७|०५] दुःखस्यान्तं करोतीति को दुःखस्यान्तः /
10306 SK [३५७|०५] यस्मात् परेण दुःखं नास्ति /
10307 SK [३५७|०६] अप्रतिसंधिकं दुःखं करोतीत्यर्थः / अथवा निर्वाणमन्तः / कथं निर्वाणं करोति /
10308 SK [३५७|०७] तत्प्राप्तिविवन्धापनयनात् / यथाकाशं कुरु मण्डपं पातयेति भवन्ति वक्तारः /
10309 SK [३५७|०८] अन्यो ऽपि च स्यात्सप्तकृत्वः परमो न तु नियत इति नोच्यते /
10310 SK [३५७|०८-३५७|०९] एवं तावदक्षीणभावनाहेयः फलस्थः सप्तकृत्वः परमो भवति /
10311 SK [३५७|१०] त्रिचतुर्विधमुक्तस्तु द्वित्रिजन्मा कुलङ्कुलः // VAक्K_६.३४ //
10312 SK [३५७|११] स एव स्रोत आपन्नस्त्रिभिः /
10313 SK [३५७|११-३५७|१२] क्लेशप्रहाणतस्त्रिचतुःपोरकारप्रहीणत्वात् /
10314 SK [३५७|१२] इन्द्रियतस्तत्प्रतिपक्षानास्रवेन्द्रियलाभात् /
10315 SK [३५७|१२-३५७|१३] जन्मतो द्वित्रिजन्मावशेषत्वात् /
10316 SK [३५७|१३-३५७|१४] श्लोके तु द्वयोर्ग्रहणं स्रोत आपन्नस्य पश्चात्प्रहीणे सति तत्प्रतिपक्षानास्रवेन्द्रियस्यानुक्तसिद्धत्वात् /
10317 SK [३५७|१४-३५७|१५] जन्म तु कदाचिदल्पीयः स्यात् /[३५७१५] परेण भव्यत्वाद् /
10318 SK [३५७|१५] अतो ऽस्य ग्रहणम् /
10319 SK [३५७|१५-३५७|१६] कस्मान्न पञ्चप्रकारप्रहाणात् /
10320 SK [३५७|१६-३५७|१७] तत्प्रहाणे षष्ठस्यावश्यं प्रहाणात् नहि तस्यैकः प्रकारः फलं विघ्नयितुं समर्थः /
10321 SK [३५७|१७] एकवीचिकस्येव धात्वनतिक्रमात् /
10322 SK [३५७|१७-३५७|१८] स एव कुलङ्कुलो द्विविधः /
10323 SK [३५७|१८-३५७|१९] देवकुलङ्कुलो यो देवेष द्वे त्रीणि वा कुलानि संश्रित्य परिनिर्वाति तत्र वा ऽन्यत्र वा देवनिकाये /
10324 SK [३५७|१९-३५७|२०] मनुष्यकुलङ्कुलो यो मनुष्येषु तत्र वा ऽन्यत्र व द्वीपे परिनिर्वाति /
10325 SK [३५७|२०] स एव पुनः फलस्थः
10326 SK [३५७|२१] आपञ्चमप्रकारघ्नो द्वितीयप्रतीपन्नकः /
10327 SK [३५७|२२-३५७|२३] यस्य फलस्थस्यैकप्रकारोयावत्पञ्चमः प्रहीणो भवति असौ द्वितीयफलप्रतिपन्नको वेदितव्यः /
10328 SK [३५७|२४] क्षीणषष्ठप्रकारस्तु सकृदागाम्यसौ पुनः // VAक्K_६.३५ //
10329 SK [३५८|०१] द्वितीयफलप्राप्तो भवति /
10330 SK [३५८|०१-३५८|०२] देवान् गत्वा सकृन्मनुष्यलोकागमनात्सकृदागामी /
10331 SK [३५८|०२] परेण जन्माघावात् / रागद्वेषमोहानां च तनुत्वादित्युच्यते /
10332 SK [३५८|०३] मृदुप्रकारावशेषत्वात् / स एव पुनः फलस्थः /
10333 SK [३५८|०४] क्षीणसप्ताष्टदोषांश एकजन्मैकवीचिकः /
10334 SK [३५८|०५] तृतीयप्रतिपन्नश्च
10335 SK [३५८|०६] त्रिभिः कारणैः / स एव सकृदागाम्येकवीचिदो वेदितव्यः /
10336 SK [३५८|०६-३५८|०७] सप्ताष्टप्रकारप्रहाणात् /
10337 SK [३५८|०७-३५८|०८] तत्प्रतिपक्षानास्रवेन्द्रियलाभादेकजन्मावशेषत्वात् /
10338 SK [३५८|०८] कथमस्यैकः प्रकारः फलं विध्नयितुम् शक्नोति / धात्वतिक्रमात् /
10339 SK [३५८|०९] अवस्थात्रये हि कर्माणि विध्नायोपतिष्ठन्त᳚ इत्युक्तं प्राक् /
10340 SK [३५८|०९-३५८|१०] यथा कर्माण्येवं क्लेशा अपि वेदितव्या इति /
10341 SK [३५८|१०] विपाकनिःष्यन्दफलभूम्यतिक्रमात् /
10342 SK [३५८|१०-३५८|१२] वीचिर्नामान्तरं तस्य चैकजमव्यवहितत्वात् निर्वाणस्य एकक्लेशप्रकारव्यवहितत्वाद्वा ऽनागामिफलस्यैको वीचिरस्येत्येकवीचिकः /
10343 SK [३५८|१२-३५८|१३] तृतीयफलप्रतिपन्नकश्चैकवीचिको वेदितव्यः प्रहीणसप्ताष्टप्रकारः /
10344 SK [३५८|१३-३५८|१४] पूर्वप्रहीणप्रकारस्तु फलप्राप्तौ न तावत्कुलङ्कुलो भवत्येकवीचिको वा यावत्फलविशिष्टो मार्गो न समुखीकृतः /
10345 SK [३५८|१५] सो ऽनागामी नवक्षयात् // VAक्K_६.३६ //
10346 SK [३५८|१६] स एवपुनः फलस्थो नवप्रकारप्रहाणादनागामी उपदिष्टः /
10347 SK [३५८|१६-३५८|१७] कामधात्वनागमनात् /
10348 SK [३५८|१७-२५८|१८] ᳚पञ्चानामवरभागीयानां संयोजनानां प्रहाणादि᳚त्युच्यते प्रहाणसंकुलनात् /
10349 SK [३५८|१८] अवश्यं द्वे त्रीणि वा पूर्वं प्रहीणानि भवन्ति /
10350 SK [३५८|१९] सो ऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः /
10351 SK [३५८|२०] ऊर्ध्वस्रोताश्च
10352 SK [३५८|२१] अन्तरा परिनिर्वृतिरस्येत्यन्तरापरिनिर्वृतिः /
10353 SK [३५८|२१-३५८|२२] एवमुत्पन्नस्य संस्कारेणासंस्कारेणेति योज्यम् /
10354 SK [३५८|२२] स एवानागामी पुनः पञ्चधा भवति /
10355 SK [३५९|०१] अन्तरापरिनिर्वायी यो ऽन्तराभवे परिनिर्वाति /
10356 SK [३५९|०१-३५९|०२] उपपद्यपरिनिर्वायी य उपपन्नमात्री न चिरात् परिनिर्वात्यभियुक्तवाहिमार्गत्वात् /
10357 SK [३५९|०२] सोपधिशेषनिर्वाणेन /
10358 SK [३५९|०२-३५९|०३] सो ऽप्पि निरूपधिशेषेणेत्यपरे /
10359 SK [३५९|०३] नायुरुत्सर्गावशित्वात् /
10360 SK [३५९|०३-३५९|०४] साभिसंस्कारपरिनिर्वायी किल उपपद्याप्रति प्रस्रब्धप्रयोगः /
10361 SK [३५९|०४] साभिसंस्कारं परिनिर्वात्यभियुक्तावाहिमार्गत्वात् /
10362 SK [३५९|०५] अनभिसंस्कारपरिनिर्वायी त्वंनभिसंस्कारेणाभियोगवाहिमार्गाभावात् /
10363 SK [३५९|०५-३५९|०६] संस्कृतासंस्कृतालम्बनमार्गनिर्वाणादित्यपरे /
10364 SK [३५९|०६] तत्तु न / अतिप्रसङ्गात् /
10365 SK [३५९|०६-३५९|०७] सूत्रे त्वनाभिसंस्कारपरिनिर्वायी पूर्व पठच्यते /
10366 SK [३५९|०७] तथैव च युज्यते /
10367 SK [३५९|०७-३५९|०८] वाह्यवाहिमार्गयोरनभिसंस्काराभिसंस्कारसाध्यत्वादयत्नयत्नप्राप्तितः /
10368 SK [३५९|०८-३५९|०९] उपपद्यपरिनिर्वायिणस्तु वाहितरो ऽधिमात्रतरश्च मार्गो मृदुतराश्चानुशया इति /
10369 SK [३५९|०९-३५९|१०] ऊर्ध्वस्रोता यस्योर्ध्वं गतिर्न तत्रिव परिनिर्वाणं यत्रोपपन्नः /
10370 SK [३५९|१०] स्रोतो गतिरित्येको ऽर्थः /
10371 SK [३५९|११] स ध्याने व्यवकीर्णो ऽकनिष्ठगः // VAक्K_६.३७ //
10372 SK [३५९|१२] ऊर्ध्वस्रोता द्विवधो हेतुतः फलतश्च / हेतुतो व्यवकोर्णाव्यवकीर्णध्यानत्वात् /
10373 SK [३५९|१३-३५९|१४] फलतो ऽकनिष्ठभवाग्रपरमत्वात् तत्र येन ध्यानं व्यवकीर्णं सो ऽकनिष्ठान् गत्वा परिनिर्वाति /
10374 SK [३५९|१५] स प्लुतो ऽर्धप्लुतः सर्वच्युतश्च [३५९|१६] स पुनरेषो ऽकनिष्ठपरम ऊर्ध्वंस्रोतास्त्रिविधः / प्लुतादिभेदात् /
10375 SK [३५९|१६-३५९|१९] तत्र प्लुतो नाम य इह ध्यानानि व्ययकीर्य ध्यानच्यात् ओपरिहीणं प्रथमं ध्यानमास्वाद्य ब्रह्मकायिकेषूपपन्नः पूर्वाभ्यासवशाच्चतुर्थं ध्यानं व्यवकीर्य तस्मात् प्रच्युतो ऽकनिष्ठेषूपपद्यते /
10376 SK [३५९|१९] एष हिमध्यानिमज्जनात् प्लुतः /
10377 SK [३५९|१९-३५९|२०] अर्ध्प्लुतो नाम यस्ततः शुद्धावासेषूपपद्य मध्यादेकमपि स्थानान्तरं विलङ्घच्याकनिष्ठान् प्रविशति /
10378 SK [३५९|२०-३५९|२१] महाब्रह्मस्वार्यो नोपपद्यते दृष्टिस्थानत्वादेकनायकत्वाच्चेति /
10379 SK [३५९|२१-३५९|२२] सर्वच्युतो नाम यः सर्वाणि स्थानान्तराणि संचर्याकनिष्ठान् प्रविशति /
10380 SK [३५९|२२] न च दकाचिदनागामी /
10381 SK [३५९|२२-३५९|२३] तत्रैवोल्पत्यायतने द्वितीयं जन्माभिनिर्वर्तयति /
10382 SK [३५९|२३] विशेषगामित्वात् /
10383 SK [३५९|२३-३५९|२४] एवं चास्य परिपूर्णमनागामित्वं भवति /
10384 SK [३५९|२४] यत्रोपपन्नस्तस्याधस्तत्र चात्यन्तमनागमनात् /
10385 SK [३५९|१४-३५९|१५] एवं तावद्धच्याने व्यवकीर्णे ऽकनिष्टगो वेदितव्यः /
10386 SK [३५९|१५-३५९|२५] ततः
10387 SK [३६०|०१] अन्यो भवाग्रगः /
10388 SK [३६०|०२] अव्यवकीर्णध्यान ऊर्ध्वंस्रोता भवाग्रनिष्ठो भवति /
10389 SK [३६०|०२-३६०|०४] स हि समापत्त्यन्तराण्यास्वादयन् सर्वस्थानान्तरेषूपपद्याप्रविश्यैव शुद्धावसानारुप्यक्रमोत्पत्तितो भवाग्रं गत्वा परिनिर्वाति /
10390 SK [३६०|०४] शमथचरितो ह्येषः /
10391 SK [३६०|०४-३६०|०५] पूर्वकस्तु विपश्यनाचरितः /
10392 SK [३६०|०५] अन्तरापि तु परिनिर्वाणमूर्ध्वंस्रोतसो युज्यमानं पश्यामः /
10393 SK [३६०|०५-३६०|०६] अकनिष्ठभवाग्रपरमत्वं तु परेण गत्यभावाद्यथा सप्त कृत्वःपरमत्वं स्रोत आपन्नस्येति /
10394 SK [३६०|०६-३६०|०७] इमे तावत् पञ्च रुपोपगा अनागामिनः /
10395 SK [३६०|०८] आरुग्यगश्चतुर्धान्यः
10396 SK [३६०|०९] अन्य आरुप्यगो ऽनागामी यो रूपवीतराग इतश्चच्युत्वारुप्येषुपपद्यते /
10397 SK [३६०|०९-३६०|१०] स पुनश्चतुर्विध उपपद्यादिपरिनिर्वायिभेदात् /
10398 SK [३६०|१०] त एते षडनागामिनो भवन्ति / ततः
10399 SK [३६०|११] इह निर्वापको ऽपरः // VAक्K_६.३८ //
10400 SK [३६०|१२] इहैव जन्मन्यपरः परिनिर्वाति / स दृष्टधर्मपरिनिर्वायो सप्तमः /
10401 SK [३६०|१३] पुनस्त्रींस्त्रिविधान् कृत्वा नव रुपोपगाः स्मृताः /
10402 SK [३६०|१४] पुनस्त्रयाणामनागामिनां त्रिधा भेदाद्रूपोपगा नवानागामिनो भवन्ति /
10403 SK [३६०|१५] कतमेषां त्रयाणाम् / अन्तरोपपद्यपरिनिर्वायिणोरुर्ध्वस्रोतसश्च / कथं त्रिधाभेदात् /
10404 SK [३६०|१६] अन्तरापरिनिर्वायिणस्तावदाश्वनाशुचिरपरिनिर्वाणात् दृष्टान्तत्रयेण /
10405 SK [३६०|१६-३६०|१७] उपपद्यपरिनिर्वायिण उपपद्याभिसंस्कारानभिसंस्कारपरिनिर्वाणात् /
10406 SK [३६०|१७-३६०|१८] सर्वे ह्येते त्रयो ऽप्युपपन्न परिनिर्वाणादुपपद्यपरिनिर्वायिणः /
10407 SK [३६०|१८] ऊर्ध्वंस्रोतसः प्लुतादिभेदात् /
10408 SK [३६०|१८-३६०|१९] सर्वेषां वा त्रयाणामाश्वनाशुचिरपरिनिर्वाणादिति त्रित्वम् /
10409 SK [३६०|२०] तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषतः // VAक्K_६.३९ //
10410 SK [३६०|२१] तेषां पुनस्त्रयाणां नवानां चानागामिनां कर्मक्लेशेन्रियविशेषाद्विशेषः /
10411 SK [३६०|२१-३६१|०१] त्रयाणां तावदभिनिर्वृत्त्युपपद्यापरपर्यायवेदनीयकर्मोपचितत्वाद्यथाक्रमं मृदुमध्याधिमात्र क्लेशसमुदाचार त्वादधिमात्रमध्यमुद्विन्द्रियत्वाच्च /
10412 SK [३६१|०१-३६१|०२] तेषामपि नवानां प्र्त्येकमत एव यथायोगं विशेषः /
10413 SK [३६१|०२] प्रथमयोस्त्रिकयोः क्लेशेन्द्रियविशेषात् पूर्ववत् /
10414 SK [३६१|०२-३६१|०३] पश्चिमस्य त्रिकस्यापरपर्यायवेदनीयकर्मविशेषाच्चेति /
10415 SK [३६१|०३-३६१|०४] त एते नवप्रकारक्लेशेन्द्रियत्वान्नवानागामिनो भवन्ति /
10416 SK [३६१|०४] कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिताः /
10417 SK [३६१|०५] ऊर्ध्वंस्रोतुरभेदेन सप्त सद्गतयो मताः /
10418 SK [३६१|०६] ऊर्ध्वं स्रवणधर्मा ऊर्ध्वंस्रोता /
10419 SK [३६१|०६-३६१|०७] तस्याभेदनिर्देशात्सप्त सत्पुरुषगतयः सूत्रे ऽभिहिताः /
10420 SK [३६१|०७] कस्मात् पुनरेता एव सत्पुरुषगतयो नान्याः शैक्षगतयः /
10421 SK [३६१|०७-३६१|०८] एता हि गतयो येषां तेषां सत्येव कर्माणि वृत्तिः कुशले असत्यवृत्तिरकुशले /
10422 SK [३६१|०८-३६१|०९] एताश्च गतीर्गतानां न पुनः प्रत्यागतिरस्ति /
10423 SK [३६१|०९] नत्वेतद्यथोक्तमन्यत्रास्ति / अतः
10424 SK [३६१|१०] सदसद्वृत्त्यवृत्तिभ्यां गताओप्रत्यागतेश्च ताः // VAक्K_६.४० //
10425 SK [३६१|११] सप्त सत्पुरुषगतयो नान्या इति /
10426 SK [३६१|११-३६१|१२] यत्तर्हि सूत्रे एवोक्तं ᳚सत्पुरुषाः कतमः /
10427 SK [३६१|१२] शैक्ष्यः सम्यग्दृष्टच्या समन्वागत᳚ इति विस्तरः /
10428 SK [३६१|१२-३६१|१३] अन्येषामप्यस्ति पोआर्यायिकं सत्पुरुषत्वम् /
10429 SK [३६१|१३-३६१|१४] पञ्चविधस्य पापस्यात्यन्तमकरणसंवरप्रतिलम्भात् प्रायेणाकुशलप्रहाणाच्च /
10430 SK [३६१|१४] येषां तु निष्पर्यायेण तेषामिहाध्हिकारः /
10431 SK [३६१|१५] किं पुनः परिवृत्तजन्मनो ऽप्यनागामिन एष भेदो ऽस्ति / यस्मात्
10432 SK [३६१|१६] न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः /
10433 SK [३६१|१७] कामधातौ परावृत्तजन्मान्तर आर्यो न धात्वन्तरं गच्छति /
10434 SK [३६१|१७-३६१|१८] अनागामि फलं प्राप्य तत्रैव जन्मनि परिनिर्वाणात् /
10435 SK [३६१|१८-३६१|१९] रूपधातौ तु परावृत्तजन्म कदाचिदारुप्यान्प्रविशति /
10436 SK [३६१|१९] य ऊर्ध्वंस्रोता भवाग्रपरमः /
10437 SK [३६१|१९-३६१|२०] यत्तर्हि शक्रेणोक्तं ᳚ये ते देवा अकनिष्ठा इति विश्रुताः /
10438 SK [३६१|२०] अन्ते मे हीयमानस्य तत्रोपपत्तिर्भविष्यति᳚ /
10439 SK [३६१|२०-३६१|२१] अभिधर्मा नभिज्ञत्वादिति वैभाषिकाः /
10440 SK [३६१|२१] भवता ᳚प्यनिवारणं संहर्षणीयत्वा᳚ दिति /
10441 SK [३६२|०१] स चोर्ध्वजश्च नैवाक्षसंचारपरिहाणिभाक् // VAक्K_६.४१ //
10442 SK [३६२|०२-३६२|०३] स च कामधातौ परिवृत्तजन्मा ऊर्ध्वधातूपपन्नश्चार्यो नैवेन्द्रियाणि संचरति नापि कथञ्चित् परिहीयते /
10443 SK [३६२|०३-३६२|०४] किं पुनः कारणं परिवृत्तजन्मान्तास्यार्यस्य रूपारुप्यप्रवेशेन्द्रियसंचारपरिहाणयो नेष्यन्ते /
10444 SK [३६२|०४] यस्मान्न सन्ति / कस्मान्न सन्ति /
10445 SK [३६२|०४-३६२|०५] जन्मान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वादाश्रयविशेषलाभाच्च /
10446 SK [३६२|०६] अथ कस्माद्वीतरागः शैक्षो नान्तराये परिनिर्वायी भवति /
10447 SK [३६२|०६-३६२|०८] मार्गस्याजितत्वादसंमुखीभावतः अनुशयानां च नातिमन्दत्वात् दुःसमतिक्रामत्वात्कामवातोरिति वैभाषिकाः /
10448 SK [३६२|०८] बहु ह्यनेन कर्तव्यं भवति /
10449 SK [३६२|०८-३६२|०९] अकुशलाम्याकृतक्लेशप्रहाणं द्वित्रिश्रामण्यफलप्राप्तिस्त्रिधातुसमतिक्रमश्च /
10450 SK [३६२|०९] तच्चान्तराभवस्थो न शक्तः कर्तुमिति /
10451 SK [३६२|१०] यदुक्तं ᳚स ध्याने व्यवकीर्णे ऽकनिष्ठग᳚ इति /
10452 SK [३६२|१०-३६२|११] अथ कतमद्धच्यानं प्रथमतो व्यवकीर्यते /
10453 SK [३६२|१२] आकीर्यते चतुर्थं प्राक्
10454 SK [३६२|१३] स हि सर्वकर्मण्यः समाधिः सुखप्रतिपदामग्रच्यत्वात् /
10455 SK [३६२|१३-३६२|१४] एवं च पुनः व्यवकीर्यते /
10456 SK [३६२|१४] अर्हन्ननागामी वा प्रवाहयुक्तमनास्रवं चतुर्थं ध्यानं समापद्यते /
10457 SK [३६२|१५] तस्माद्वच्युत्थाय प्रवाहयुक्तं तदेव सास्रवं समापद्यते पुनश्चानास्रवम् /
10458 SK [३६२|१५-३६२|१७] एवं प्रवाहाप्रहासेन यदा किल द्वौ क्षणावनास्रवौ समापद्यते द्वौ सास्रवौ पुनश्चानास्रवावयं व्यवकिरणस्य प्रयोगः /
10459 SK [३६२|१८] निष्पत्ति क्षणमिश्रणात् /
10460 SK [३६२|१९] यदा त्वनास्रवस्य क्षयस्यानन्तरं सास्रवं संमुखीकरोति सास्रवस्यानास्रवम् /
10461 SK [३६२|२०-३६२|२१] एवं सास्रवस्य क्षणस्यानास्रवाभ्यां मिश्रणात् व्यवकिरणं निष्पन्नं भवतीति वैभाषिकाः /
10462 SK [३६२|२१-३६२|२२] द्वौ हि क्षणावानन्तर्यमार्गसदृशौ तृती यो विमुक्तिमार्गसदृश इति /
10463 SK [३६२|२२] एवं चतुर्थं ध्यानं व्यवकीर्य तद्वलेल्नान्यान्यपि व्यवकीर्यन्ते /
10464 SK [३६२|२२-३६२|२३] कामधातौ त्रिषु द्वीपेषु प्रथमं व्यवकीर्यते /
10465 SK [३६२|२३] पश्चात् परिहीणेन रूपधातौ /
10466 SK [३६२|२३-३६२|२४] अशक्यं तु क्षणव्यवकिरणमन्यत्र बुद्धात् /
10467 SK [३६२|२४-३६२|२५] अत इच्छातः प्रवाहत्रयसमापत्तितो निष्पन्नं भवतीति पश्यामः /
10468 SK [३६२|२६] किमर्थं पोउनर्ध्यानं व्यवकीर्यते /
10469 SK [३६३|०१] उपपत्तिविहारार्थं क्लेशभीरुतया ऽपि च // VAक्K_६.४२ //
10470 SK [३६३|०२] त्रिभिः कारणैर्ध्यानं व्यवकिरन्ति /
10471 SK [३६३|०२-३६२|०३] तीक्ष्णेन्द्रिया अनागामिनः शुद्धावासोपपत्त्यर्थं दृष्टधर्मसुखविहारार्थं च /
10472 SK [३६३|०३-३६३|०४] मृद्विन्द्रियाः क्लेशभिरुतया चास्वादनासंप्रयुक्तसमाधिदूरीकरणादपरिहीणार्थम् /
10473 SK [३६३|०४] अर्हन्तस्तु तीक्षणेन्द्रिया दृष्टधर्मसुखविहारार्थम् /
10474 SK [३६३|०५] मृद्विन्द्रियाः क्लेशभीरुत्वाच्चापरिहीणार्थम् /
10475 SK [३६३|०६] अथ कस्मात् पञ्चैव शुद्धावासोपपत्तयः /
10476 SK [३६३|०६-३६३|०७] यदेतद्वच्यवकीर्णभावितं चतुर्थं ध्यानमुक्तम्
10477 SK [३६३|०८] तत्पाञ्चविध्यात्पञ्चैव शुद्धावासोपपत्तयः /
10478 SK [३६३|०९] सा हि व्यवकीर्णभावना पञ्चप्रकारा म्र्दुमध्याधिमात्रतरतमभेदात् /
10479 SK [३६३|०९-३६३|१०] प्रथमायां त्रीणि चित्तानि संमुखीद्रियन्ते /
10480 SK [३६३|१०] अनास्रवं सास्रवमनास्रवं च / द्वितीयायां षट् /
10481 SK [३६३|११] तृतीयायां नव / चतुर्थ्यां द्वादश / पञ्चम्यां पञ्चदश /
10482 SK [३६३|११-३६३|१२] तासां यथासंख्यं पञ्च शुद्धावासाः फलम् /
10483 SK [३६३|१२] यत्तत्र सास्रवं तद्वशात्तेषूपपत्तिः /
10484 SK [३६३|१२-३६३|१३] श्रद्धादीन्द्रियाधिक्यात् पञ्चेत्यपरे /
10485 SK [३६३|१४] निरोधलाभ्यनागामी कायसाक्षी पुनर्मतः // VAक्K_६.४३ //
10486 SK [३६३|१५] निरोधलाभो ऽस्यास्तीति निरोधलाभी /
10487 SK [३६३|१५-३६३|१६] यो हि कश्चिदनागामी निरोधसमापत्तिलाभी स कायसाक्षीत्युच्यते /
10488 SK [३६३|१६-३६३|१७] निर्वाणसदृशस्य धर्मस्य कायेन साक्षात्करणात् /
10489 SK [३६३|१७] कथं पुनः कायेन साक्षात्करोति / चित्ताभावात् कायाश्रयोत्पत्तेः /
10490 SK [३६३|१८] एवं तु भवितव्यम् /
10491 SK [३६३|१८-३६३|१९] स हि तस्माद्व्युत्थायाप्रतिलब्धपूर्वा सविज्ञानकां कायशान्तिं प्रतिलभते /
10492 SK [३६३|१९-३६३|२०] यतो ऽस्यैवं भवति शान्ता वत निरोधसमापत्तिर्निर्वाणसदृशी वत निरोधसमापत्तिरिति /
10493 SK [३६३|२०] एवमनेन तस्याः शान्तत्वं कायेन साक्षत्कृतं भवति /
10494 SK [३६३|२१] प्राप्तिज्ञानसाक्षात्क्रियाभ्यां प्रत्यक्षीकारो हि साक्षात्क्रिया /
10495 SK [३६३|२१-३६३|२२] अष्टादश शैक्षा᳚ इत्यत्र सूत्रे कि कारणं कायसाक्षी नोक्तः /
10496 SK [३६३|२२] कारणाभावात् / कि पुनः कारणम् /
10497 SK [३६३|२३] अनास्रवास्तिस्रः शैक्षास्तत्फां च / तद्विशेषेण हि शैक्षाणां व्यवस्थानम् /
10498 SK [३६३|२३-३६३|२४] निरोधसमापत्तिश्च नैवशैक्षानाशिक्षा फलम् /
10499 SK [३६३|२४] अतो न तद्योगाच्धैक्षविशेष उक्तः /
10500 SK [३६३|२४-३६३|२५] एष तावदनागामिनां यथास्थूलं भेदः /
10501 SK [३६३|२५] सूक्ष्मं तु भिद्यमानाः सहस्रशो भिद्यन्ते /
10502 SK [३६३|२६] अन्तरापरिनिर्वायिणस्त्रयो मृदुमध्याधिमात्रेन्द्रियभेदात् / भूमिभेदाच्चत्वारः /
10503 SK [३६४|०१] परिहाणधर्मादिगोत्रभेदात् षट् /
10504 SK [३६४|०१-३६४|०२] स्थानान्तरभेदात् षोडश भूमिवैराग्यभेदात् षट्त्रिंशत् /
10505 SK [३६४|०२-३६४|०३] रूपधतौ सकलाबन्धनो यावच्चतुर्थध्यानाष्टप्रकारवीतरागः /
10506 SK [३६४|०३] स्थानान्तरगोत्रवैराग्येन्द्रियभेदाद्वानवतानि पञ्चविंशतिः शतानि /
10507 SK [३६४|०४] कथं कृत्वा / एकस्मिन् स्थाने षट् गोत्राणि /
10508 SK [३६४|०४-३६४|०६] गोत्रे गोत्रे नव पुद्गलाः सकलबन्धनो यावदष्टप्रकारवीतरागः स्वस्मात्स्थानात् षण्ण्णवकानि चतुष्पञ्चाशत् षोडश चतुष्पञ्चाशत्कानि चतुःषष्टान्यष्टौ शतानि /
10509 SK [३६४|०६-३६४|०७] इन्द्रियभेदात् पुनस्त्रिगुणा इत्येवं कृत्वा यो ऽधरध्याने नवप्रकारवीतरागः स उत्तरे सकलबन्धन उक्तः /
10510 SK [३६४|०७-३६४|०८] समगणनार्थम् /
10511 SK [३६४|०८-३६४|०९] यथान्तरापरिनिर्वायिण एवं यवदूर्ध्वस्रोतस इत्यभिसमस्य सर्वे चत्वारिंशदूनानि त्रयोदशसहस्राप्यनागामिनां भवन्ति /
10512 SK [३६४|१०] आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपक्षकः /
10513 SK [३६४|११] अनागामीत्यधिकृतम् /
10514 SK [३६४|११-३६४|१२] स खल्वयमनागामी प्रथमध्यानैकप्रकारवैराग्यात् प्रबृति यावत् भवाग्राष्टप्रकारप्रहाणादर्हत्त्वप्रतिपन्नको भवन्ति /
10515 SK [३६४|१३] नवमस्याप्यानन्तर्यपथे
10516 SK [३६४|१४-३६४|१५] नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गे सो ऽर्हत्त्वप्रतिपन्नक एव /
10517 SK [३६४|१६] वज्रोपमश्च सः // VAक्K_६.४४ //
10518 SK [३६४|१७] स चानन्तर्यमार्गो वज्रोपमः समाधिरित्युच्येत /
10519 SK [३६४|१८] सर्वानुशयभेदित्वात् / भिन्नत्वादसौ न पुनः सर्वान् भिनत्ति /
10520 SK [३६४|१८-३६४|१९] सर्वास्तु भेत्तुं समर्थः /
10521 SK [३६४|१९] सर्वानन्तर्यमार्गाणामधिमात्रतमत्वात् /
10522 SK [३६४|१९-३६४|२०] वज्रोपमानां तु बहुभेदं वर्णयन्ति /
10523 SK [३६४|२०-३६४|२१] अनागाम्यसंगृहीता भावाग्रिकदुःखसमुदायालम्बनैर्दुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ /
10524 SK [३६४|२१] निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ /
10525 SK [३६४|२२] निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथमध्याननिरोधालम्बनाश्चत्वारः /
10526 SK [३६४|२२-३६४|२३] एवं यावत् भवाग्रनिरोधालम्बनाश्चत्वारः /
10527 SK [३६४|२३] मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारः /
10528 SK [३६५|०१] कृत्स्नस्यान्वयज्ञानपक्षस्यालम्बनात् /
10529 SK [३६५|०१-३६५|०२] त इमे ज्ञानाकारालम्बनभेदभिन्ना द्वापञ्चाशद्वज्रोपमा भवन्ति /
10530 SK [३६५|०२] यथा ऽनागाम्यसंगृहीता एवं यावच्चतुर्थध्यानसंगृहीताः /
10531 SK [३६५|०३-३६५|०४] आकाशविज्ञानानन्त्याकिञ्चन्यायतनसंगृहीता यथासंख्यमष्टाविंशतिश्चतुर्विंशतिविंशतिश्च भवन्ति /
10532 SK [३६५|०४-३६५|०५] तेषु धर्मज्ञानस्याधोभूमिनिरोधालम्बनस्य चान्वयज्ञानस्याभावात् /
10533 SK [३६५|०५] अधोभूमिप्रतिपक्षालम्बनं तु भवति / तस्यान्यो ऽन्यहेतुत्वादिति /
10534 SK [३६५|०५-३६५|०७] येषां तु मार्गान्वयज्ञानमप्येकैकभूमिप्रतिपक्षालम्बनमिष्टं तेषामष्टाविंशतिमधिकान् प्रक्षीप्यानागम्यसंगृहीता अशीतिर्वज्रोपमा भवन्ति /
10535 SK [३६५|०७-३६५|०८] एवं यावच्चतुर्थध्यान संगृहीताः /
10536 SK [३६५|०८-३६५|०९] आकाशानन्त्यायतनादिषु यथाक्रमं चत्वारिंशत् द्वात्रिंशच्चतुर्विशतिश्च भवन्ति /
10537 SK [३६५|०९] पुनर्गोत्रेन्द्रियभेदात् भूयांसो भवन्ति /
10538 SK [३६५|१०] यस्त्वसौ भावाग्रिको नवमः प्रकार उक्तो यस्य वज्रोपमेन प्रहाणं
10539 SK [३६५|११] तत्क्षयाप्त्या क्षयज्ञानं
10540 SK [३६५|१२] तस्य पुनर्नवमस्य प्रकारस्य सह क्षयप्राप्त्या क्षयज्ञानमुत्पद्यते /
10541 SK [३६५|१२-३६५|१३] वज्रोपमसमाधेरनन्तरं पश्चिमो विमुक्तिमार्गः /
10542 SK [३६५|१३-३६५|१४] अत एव तत्क्षयज्ञानं सर्वास्रवक्षयप्राप्तिसहजत्वात्प्रथमतः /
10543 SK [३६५|१५] अशैक्षो ऽर्हन्नसौ तदा /
10544 SK [३६५|१६-३६५|१७] उत्पन्ने च पुनः क्षयज्ञाने सो ऽर्हत्त्वप्रतिपन्नकः अशैक्षो भवत्यर्हश्चार्हत्त्वफलप्राप्तः /
10545 SK [३६५|१७] फलान्तरं प्रति पुनः शिक्षितव्याभावादशैक्षः /
10546 SK [३६५|१७-३६५|१९] अत एव स परमार्तं करणार्थत्वात् सर्वसरागपूजार्हत्त्वाच्चार्हन्निति सिद्धं भवत्यन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति /
10547 SK [३६५|१९] केन ते शैक्षाः /
10548 SK [३६५|१९-३६५|२०] आस्रवक्षयाय नित्यं शिक्षणशीलत्वाच्छिक्षात्रये अधिशीलमधिचित्तमधिप्रज्ञं च /
10549 SK [३६५|२०] ताः पुनः शीलसमाधिप्रज्ञास्वभावाः /
10550 SK [३६५|२१] पृथग्जनो ऽपि शैक्षः प्राप्नोति / न / यथाभूतं सत्याप्रज्ञानात् पुनश्चापशिक्षणात् /
10551 SK [३६५|२२-३६५|२३] अत एव द्विरभिधानं सूत्रे ᳚शिक्षायां शिक्षते शिक्षायां शिक्षत इति शिवकतस्माच्छैक्ष इत्युच्यत᳚ इति /
10552 SK [३६५|२३-३६५|२४] यः शिक्षत एव नापशिक्षते स शैक्ष इत्यवधारणं यथा विज्ञायेत /
10553 SK [३६५|२४] प्रकृतिस्थ आर्यः कथं शिक्षणशीलः /
10554 SK [३६५|२५] आशयतः / स्थिताध्वगवत् प्राप्त्यनुषङ्गतश्च षिक्षात्रयस्य /
10555 SK [३६५|२५-३६५|२६] अथ शैक्षा धर्माः कतमे /
10556 SK [३६५|२६] शैक्षस्यानास्रवाः / अशैक्षाः कतमे / अशैक्षस्यानास्रवाः /
10557 SK [३६५|२६-३६५|२७] निर्वाणं कस्मान्न शैक्षम् /
10558 SK [३६५|२७] अशैक्षपृथग्जनयोरपि तद्योगात् / कस्मान्नाशैक्षम् /
10559 SK [३६५|२७-३६६|०१] शैक्षपृथग्जनयोरपि तद्योगात् /
10560 SK [३६६|०१] त एते सर्व एवाष्टावार्यपुद्गला भवन्ति /
10561 SK [३६६|०१-३६६|०२] प्रतिपन्नकाश्चत्वारश्च फले स्थिताः /
10562 SK [३६६|०२] तद्यथा स्रोत आपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः स्रोत आपन्नः /
10563 SK [३६६|०३] एवं यावदर्हत्त्वफलसाक्षात्क्रियायै प्रतिंपन्नको ऽर्हन्निति / नामत एते ऽष्टौ भवन्ति /
10564 SK [३६६|०४] द्रव्यतस्तु पञ्च / प्रथमः प्रतिपन्नकश्चत्वारश्च फलस्थाः /
10565 SK [३६६|०४-३६६|०५] शेषाणां प्रतिपन्नकानां त्रिफलस्थाव्यतिरेकात् /
10566 SK [३६६|०५] अनुपूर्वाधिगमं प्रत्येवमुच्यते /
10567 SK [३६६|०५-३६६|०७] भूयःकामवीतरागौ तु स्यातां दर्शनमार्गे सकुदागाम्यनागामिफलप्रतिपन्नकौ न च स्रोत आपन्न सकृदागामिनाविति /
10568 SK [३६६|०८] द्विविधो हि भावनामार्ग उक्तो लौकिको लोकोत्तरश्चेति /
10569 SK [३६६|०८-३६६|०९] केनायं शैक्षंः कुतो वैराग्यं प्राप्नोति /
10570 SK [३६६|१०] लोकोत्तरेण वैराग्यं भवाग्रात्
10571 SK [३६६|११] न लौकिकेन / कि कारणम् /
10572 SK [३६६|११-३६६|१२] तत ऊर्ध्व लौकिकाभावात् स्वभूमिकस्य वा प्रतिपक्षत्वात् /
10573 SK [३६६|१२] कस्मान्न प्रतिपक्षः /
10574 SK [३६६|१२-३६६|१३] तत्क्लेशानुशयितत्वात् /
10575 SK [३६६|१३-३६६|१४] यो हि क्लेशो यत्र वस्तुन्यनुशेते न तस्य तद्वस्तु ओप्रहाणाय संवर्तते यस्य च यः प्रतिपक्षो न तत्र स क्लेशो ऽनुशेते इति /
10576 SK [३६६|१५] अन्यतो द्विधा // VAक्K_६.४५ //
10577 SK [३६६|१६] भवाग्रादन्यतः सर्वतो भूमेलौकिकेनाओपि वैराग्यं लोकोत्तरेणापि / तत्र पुनः
10578 SK [३६६|१७] लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा /
10579 SK [३६६|१८-३६६|१९] लौकिकेन मार्गेणार्यवैराग्यं गच्छतो द्विविधा विसंयोगप्राप्तय उत्पद्यन्ते लौकिक्यो लोकोत्तराश्च /
10580 SK [३६६|२०] लोकोत्तरेण चेत्येके
10581 SK [३६६|२१] लोकोत्तरेणाप्येवमित्यपरे / किं कारणम् /
10582 SK [३६६|२२] त्यवते क्लेशासमन्वयात् // VAक्K_६.४६ //
10583 SK [३६७|०१-३६७|०३] यदि ह्यार्यमार्गेण वैराग्यं प्राप्नुवतो लौकिकी विसंयोगप्रापोतिर्नोत्पद्यते एवं सति य आर्यमार्गेणाकिञ्चन्यायतनाद्वीतरागो ध्यानं निश्रित्येन्द्रियाणि संचरति सकृत्स्नपूर्वमार्गत्यागात्केवलफलमार्गलाभाच्चोर्ध्वभूमिक्लेशविसंयोगेनासमन्वागतः स्यात् /
10584 SK [३६७|०४] त्यक्ते च तस्मिन् तैः क्लेशैः समन्वागतः स्यादिति /
10585 SK [३६७|०५] भवाग्राधविमुक्तोर्ध्वजातवत्त्वसमन्वयः /
10586 SK [३६७|०६-३६७|०७] असत्यामपि तु तस्यां लौकिक्यां विसंयोगप्राप्तौ न तैः समन्वागमः स्यात् /
10587 SK [३६७|०७-३६७|०९] तद्यथा भवाग्रादर्ध प्रकारविमुक्तस्यासत्यामपि तु लौकिक्यां तद्विसंयोगप्राप्तौ त्यक्तायामपि चेन्द्रियसंचारेण लोकोत्तरायां न पुनस्तैः क्लेशैः समन्वागमो भवति /
10588 SK [३६७|०९-३६७|१०] यथा च पृथग्जनस्य प्रथमध्यानभूमेरुर्ध्वं जातस्य कामावचरक्लेशविसंयोगप्राप्तित्यागान्न पुनस्तैः समन्वागमो भवतीत्यज्ञापकमेतत् /
10589 SK [३६७|११] कतपया पुनर्भूम्या कुतो वैराग्यं भवति /
10590 SK [३६७|१२] अनास्रवेण वैराग्यमनागाम्येन सर्वतः // VAक्K_६.४७ //
10591 SK [३६७|१३] आभवाग्रात् /
10592 SK [३६७|१३-३६७|१४] अथ यः सामन्तकं निश्रित्याधरभूमिवैराग्यं प्राप्नोति किमस्यानन्तर्यमागवत्सर्वे विमुक्तिमार्गाः सामन्तकाद्भवन्ति /
10593 SK [३६७|१४] नेत्याह / किं तर्हि /
10594 SK [३६७|१५] ध्यानात्सामन्तकाद्वा ऽन्त्यो मुक्ति मार्गस्त्रिभूजये /
10595 SK [३६७|१६] नव ह्यपपत्तिभूमयः / सर्वकामधातुरष्टौ च ध्यानारुप्याः /
10596 SK [३६७|१६-३६७|१७] तत्र यावत् द्वितीयध्यानवैराग्यं त्रिभूमिजयः /
10597 SK [३६७|१७-३६७|१८] तस्मिन् पश्चिमो विमुक्तिमार्गः सामन्तकाद्भवति ध्यानाद्वा मौलात् /
10598 SK [३६७|१९] नोर्ध्वं सामन्तकात्
10599 SK [३६७|२०] त्रिभूमिजयादूर्ध्वं मौलादेव न पुनः सामन्तकादुपेक्षेन्द्रियसामान्यात् /
10600 SK [३६७|२०-३६७|२१] त्रिषु हि ध्यानेषु सामन्तकमौलयोरिन्द्रियभेदात् कश्चिन्न शक्नोति मौलं ध्यानं प्रवेष्टुम् /
10601 SK [३६८|०१] इन्द्रियसंचारस्य दुष्करत्वात् /
10602 SK [३६८|०१-३६८|०२] अतस्त्रिभूमिवैराग्ये ध्यानसामन्तकादप्यन्यो विमुक्तिमार्गो भवति /
10603 SK [३६८|०३] ᳚अनास्रवेण वैराग्यमनागम्येन सर्वत᳚ इत्युक्तमन्यैस्तु नोक्तम् / अत उच्यते
10604 SK [३६८|०४] आर्यैरष्टाभिः स्वोर्ध्वभूजयः // VAक्K_६.४८ //
10605 SK [३६८|०५-३६८|०६] अनास्रवैरष्टाभिर्ध्यानध्यानान्तरारुप्यैः स्वस्या ऊर्ध्वायाश्च भूमेर्वैराग्यं नाधराया वीतरागत्वात् /
10606 SK [३६८|०६-३६८|०७] तत्र लोकोत्तरा आनन्तर्यविमुक्तिमार्गाः सत्यालम्बनत्वात्सत्याकारप्रवृत्ता इति सिद्धम् /
10607 SK [३६८|०८] विमुक्त्यानन्तर्यपथा लौकिकास्तु यथाक्रमम् /
10608 SK [३६८|०९] शान्ताद्युदाराद्याकाराः
10609 SK [३६८|१०] विमुक्तिमार्गाः शान्ताद्याकारा आनन्तर्यमार्गा औदारिकाद्याकाराः /
10610 SK [३६८|१०-३६८|११] ते पुनर्यथाक्रमम्
10611 SK [३६८|१२] उक्तराधरगोचराः // VAक्K_६.४९ //
10612 SK [३६८|१३] विमुक्तिमार्गा उत्तरां भूमिं शान्ततः प्रणीततो निःसर्णतश्चाकारयन्ति संभवतः /
10613 SK [३६८|१४] आनन्तर्यमार्गा अधरां भूमिमौदारिकतो दुःखिलतः स्थूलभित्तिकतश्च /
10614 SK [३६८|१४-३६८|१५] अशान्तत्वादौदरिकतो महाभिसंस्कारतरत्वात् /
10615 SK [३६८|१५-३६८|१६] अप्रणीतत्वात् दुःखिलतो बहुदौष्ठुल्यतरत्वेन प्रतिकूलभावात् /
10616 SK [३६८|१६-३६८|१७] स्थूलभित्तिकतस्तयैव तद्भूम्यनिःसरणात् भित्त्यनिःसरणवत् /
10617 SK [३६८|१७] एषां विपर्ययेण शान्तप्रणीतनिःसरणाकाराः / गत मानुषङ्गिकम् /
10618 SK [३६८|१८] इदं तु वक्तव्यम् /
10619 SK [३६८|१९] अथ क्षयज्ञानाकनन्तरं किमुत्पद्यते
10620 SK [३६८|२०] यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः
10621 SK [३६८|२१] अकोप्यधर्मा चेदर्हन्भवति क्षयज्ञानात्समनन्तरमनुत्पादज्ञानमस्योत्पद्यते /
10623 SK [३६९|०१] क्षयज्ञानमशैक्षी वा दृष्टिः
10624 SK [३६९|०२-३६९|०३] न चेदकोप्यधर्मा भवति क्षयज्ञानात् क्षवज्ञानमेवोत्पद्यते अशैक्षी वा सम्यग्दृष्टिः /
10625 SK [३६९|०३] न त्वनुत्पादज्ञानं परिहाणिसंभवात् /
10626 SK [३६९|०३-३६९|०४] किं पुनरकोपोयधर्मणः सा नैवोत्पद्यते /
10627 SK [३६९|०५] सर्वस्य सा ऽर्हतः // VAक्K_६.५० //
10628 SK [३६९|०६-३६९|०७] अकोप्यधर्मणो ऽप्यनुत्पादज्ञानात्कदाचिदनुत्पादज्ञानमेवोत्पद्यते कदाचिदशैक्षी सम्यग्दृष्टिः /
10629 SK [३६९|०८] यान्येतानि चत्वारि फलान्युक्तानि कस्यैतानि फलानि / श्रमण्यफलानि /
10630 SK [३६९|०९] किमिदं श्रामण्यं नाम /
10631 SK [३६९|१०] श्रावण्यममलो मार्गंः
10632 SK [३६९|११] अनास्रवो मार्गः श्रमण्यम् / तेन ह्हि श्रमणो भवति / क्लेशसंशमनात् /
10633 SK [३६९|१२-३६९|१३] ᳚शमिता अनेन भवन्ति अनेकविधाः षापका अकुशला धर्मा विस्तरेण यावज्जरामरणीयास्तस्माच्छ्रमण इत्युच्यत᳚ इति सूत्रे वचनात् /
10634 SK [३६९|१३-३६९|१४] अनत्यन्तशमनान्न पृथग्जनः परमार्थश्रमणः /
10635 SK [३६९|१४] तस्य पुनः श्रामण्यस्य /
10636 SK [३६९|१५] संस्कृतासंस्कृतं फलम् /
10637 SK [३६९|१६] संस्कृतासंस्कृतानि हि श्रामण्यफलानि पुनश्चत्वार्युक्तानि सूत्रे / अपि तु
10638 SK [३६९|१७] एकान्ननवतिस्तानि
10639 SK [३६९|१८] कानि पुनस्तानि
10640 SK [३६९|१९] मुक्तिमार्गाः सह क्षयैः // VAक्K_६.५१ //
10641 SK [३६९|२०-३६९|२२] दर्शनहेयप्रहाणायाष्टावानन्त्र्यमार्गा अष्टौ विमुक्तिमार्गा भावनाहेयप्रहाणाय नवसु भूमिषु प्रत्येकं नव प्रकाराणां क्लेशानां प्रहाणाय तावन्त एवानन्तर्यमार्गा विमुक्तिमार्गाश्च /
10642 SK [३६९|२२-३७०|०१] तत्रानन्तर्यमार्गाः श्रामण्यं विमुक्तिमार्गाः संस्कृतानि श्रामण्यफलानि /
10643 SK [३७०|०१] तन्निष्यन्दपुरुषकारफलत्वात् /
10644 SK [३७०|०१-३७०|०२] तेषां क्लेशानां प्रहाणान्यसंस्कृतानि श्रामण्यफलानि /
10645 SK [३७०|०२] एवमेकान्ननवतिर्भवन्ति /
10646 SK [३७०|०२-३७०|०३] एवं तर्हि बुद्धस्योपसंख्यानं कर्तव्यं जायते /
10647 SK [३७०|०३] न कर्तव्यम् / यद्यपि भूयांसि फलानि
10648 SK [३७०|०४] चतुष्फलव्यवस्था तु पञकारणसंभवात् /
10649 SK [३७०|०५-३७०|०६] यस्यां हि प्रहाणमार्गावस्थायां पञ्च कारणानि संभवन्ति तस्यां किअ भगवता फलं व्यवस्थापितम् /
10650 SK [३७०|०६] कतमानि पञ्च /
10651 SK [३७०|०७] पूर्वत्यागो ऽन्यमार्गाप्तिः क्षयसंकलनं फले // VAक्K_६.५२ //
10652 SK [३७०|०८] ज्ञानाष्टकस्य लाभो ऽथ षोडशाकारभावना /
10653 SK [३७०|०९] पूर्वमार्गत्यागो ऽपूर्वमार्गाप्तिः प्रतिपन्नकफलमार्गत्यागलाभात् /
10654 SK [३७०|०९-३७०|१०] प्रहाणसंकलनं सर्वस्यैकप्राप्तिलाभात् /
10655 SK [३७०|१०] युगपदष्टज्ञानलाभश्चतुर्विधनां धर्मान्वयज्ञानानाम् /
10656 SK [३७०|११] षोडशाकारभावना अनित्याद्याकाराणाम् /
10657 SK [३७०|११-३७०|१२] इमानि हि पञ्च कारणानि फले फले भवन्ति /
10658 SK [३७०|१३-३७०|१४] यद्यनास्रवो मार्गः श्रामण्यं कथं लौकिकमार्गप्राप्तं फलद्वयं श्रामण्यफलं युज्यते /
10659 SK [३७०|१५] लौकिकाओप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलल्म् // VAक्K_६.५३ //
10660 SK [३७०|१६-३७०|१७] न हि तत्र लौकिकमार्गफलमेव् प्रहाणं सकृदागामिफलं वा भवत्यनागामिफलं वा /
10661 SK [३७०|१७] किं तर्हि /
10662 SK [३७०|१७-३७०|१८] दर्शनमार्गफलमपि प्रहाणं तत्र मिश्रीक्रियते /
10663 SK [३७०|१८] सर्वस्य तत्फलसंगृहीतैकविसंयोगप्राप्तिलाभात् /
10664 SK [३७०|१८-३७०|१९] अत एव हि सूत्र उक्तं ᳚सकृदागामिफलं कतमत् /
10665 SK [३७०|१९-३७०|२०] यत्त्रयाणां संयोजनानां प्रहाणं रागद्वेषमोहानां च ततुत्वमिति /
10666 SK [३७०|२०] अनागामिफलं कतमत् /
10667 SK [३७०|२०-३७०|२१] यदुत पञ्चानामवरभागीयानां सम्योजनानां प्रहाणमि᳚ति /
10668 SK [३७०|२१] अनास्रवया च विसंयोगाप्राप्त्या तत्प्रहाणं सधार्यते /
10669 SK [३७०|२१-३७०|२२] तद्वलेन परिहीणामरणात् /
10670 SK [३७०|२२] अतो ऽप्यस्य मरणं युक्तं श्रामण्यफलम् /
10671 SK [३७०|२२-३७०|२३] यदेव चैतच्छ्रामण्ययुक्तं /
10672 SK [३७०|२४] ब्राह्मण्यं ब्रह्मचक्रं च तदेव
10673 SK [३७०|२५] क्लेशानां वाहनाद्वाह्मण्यं ब्रह्मचक्रं तु
10674 SK [३७१|०१] ब्रह्मावर्तनात् /
10675 SK [३७१|०२] अनुत्तरब्रह्मण्ययोगात् भगवान्ब्रह्मा /
10676 SK [३७१|०२-३७१|०३] ᳚एष हि भगवान् ब्रह्मा इत्यपि शान्तः शीतीभूत इत्यपी᳚ति सूत्रात् /
10677 SK [३७१|०३] तस्येदं चक्रमिति ब्राह्मं तेन प्रर्तितत्वात् /
10678 SK [३७१|०४] धर्मचक्रं तु दृङ्मार्गः
10679 SK [३७१|०५] चङ्क्रमणाच्चक्रं तत्साधर्म्याद्दर्शनमार्गो धर्मचक्रम् / कथमस्य साधर्म्यम् /
10680 SK [३७१|०६] आशुगत्वाद्यरादिभिः // VAक्K_६.५४ //
10681 SK [३७१|०७] आशुगत्वात्त्यजनक्रमणात् अजितजयजिताध्यवसनादुत्पतननिपत्तनाच्च /
10682 SK [३७१|०७-३७१|०८] एवमाशुगत्वादिभिः अरादिभिः साधर्म्यादार्याष्टाङ्ङ्गो मार्गश्चक्रमिति भदन्तघोषकः /
10683 SK [३७१|०८-३७१|०९] सम्यग्दृष्टिसंकल्पव्यायामस्मृतयो ह्यरस्थानीयाः /
10684 SK [३७१|०९-३७१|१०] सम्यग्वाक्कर्मान्ताजीवा नाभिस्थानीयाः समाधिर्नेमिस्थानीय इति दर्शनमार्गो धर्मचक्रमिति /
10685 SK [३७१|१०-३७१|११] कुत एतत् आर्यकौण्डिन्यस्य तदुत्पत्तौ ᳚प्रवर्त्तितं धर्मचक्रमि᳚ति वचनात् /
10686 SK [३७१|११-३७१|१२] कथं तत्त्रिपरिवर्तं द्वादशाकारं च /
10687 SK [३७१|१२] इदं दुःखमार्यसत्यम् /
10688 SK [३७१|१२-३७१|१३] तत् खलु परिज्ञेयं तत् खलु परिज्ञातमित्येते त्रयः परिवर्ताः /
10689 SK [३७१|१३-३७१|१४] एकैकस्मिंश्च परिवर्ते चक्षुरुदपादि ज्ञानं विद्या बुद्धिरुदपादि इत्येते द्वादशाकाराः /
10690 SK [३७१|१४] प्रतिसत्येमेवं भवन्ति /
10691 SK [३७१|१४-३७१|१५] त्रिकद्वादशकसाधर्म्यात्तु त्रिपरिवर्तं द्वादशाकारमुक्तम् /
10692 SK [३७१|१५] द्वयसप्तस्थानकौशलादेशनावत् /
10693 SK [३७१|१५-३७१|१६] एभिश्च परिवर्तैर्दर्शनभावनाशैक्षमार्गा यथासंख्यं दर्शता इति वैभाषिकाः /
10694 SK [३७१|१६-३७१|१७] यद्येवं न तर्हि दर्शनमार्ग एव त्रिपरिवर्त्तो द्वादशाकार इति कथमसौ धर्मचक्रं व्यवस्थाप्यते /
10695 SK [३७१|१७-३७१|१८] तस्मात्स एव धर्मपर्यायो धर्मचक्रं त्रिपरिर्तं द्वादशाकारं च युज्यते /
10696 SK [३७१|१८] कथं च पुनस्त्रिपरिवर्तम् /
10697 SK [३७१|१९] सत्यानां त्रिः परिवर्त्तनात् / कथं द्वादशाकारम् / चतुर्णां सत्यानां त्रिधाकरणात् /
10698 SK [३७१|२०] दुःखं समुदयो निरोधो मार्ग इति /
10699 SK [३७१|२०-३७१|२१] परिज्ञेयं प्रहेयं साक्षात्कर्तव्यं भावयितव्यमिति /
10700 SK [३७१|२१] परिज्ञातं प्रहीणं साक्षात्कृतं भावितमिति /
10701 SK [३७१|२१-३७१|२२] तस्य पुनः प्रवर्तनं परसंताने गमनमर्थज्ञापनात् /
10702 SK [३७१|२२] अथवा सर्व एवार्यमार्गो धर्मचक्रं वेनेयसंतानक्रमणात् /
10703 SK [३७१|२३-३७१|२४] तत्तु परसंताने दर्शनमार्गोत्पादनाद्वर्तयितुमारब्धमतः प्रवर्तितमित्युच्यते /
10704 SK [३७२|०१] अथ कस्मिन्धातौ कति श्रामण्यफलानि प्राप्यन्ते /
10705 SK [३७२|०२] कामे त्रयाप्तिः
10706 SK [३७२|०३] कामधातावेव त्रयाणां श्रामण्यफलानां प्राप्तिर्नान्यत्र /
10707 SK [३७२|०४] अन्त्यस्य त्रिषु
10708 SK [३७२|०५] अन्त्यं श्रामण्यफलमर्हत्वं तस्य त्रिषु धातुषु प्राप्तिः /
10709 SK [३७२|०५-३७२|०६] फलद्वयस्य तावदवीतरागप्राप्यत्वादूर्ध्वमप्राप्तिर्युक्ता /
10710 SK [३७२|०६] तृतीयस्य तु कस्मादप्राप्तिः /
10711 SK [३७२|०७] नोर्ध्वं हि दृक्पथः /
10712 SK [३७२|०८] ऊर्ध्वं हि कामधातोर्दर्शनमार्गो नास्ति /
10713 SK [३७२|०८-३७२|०९] न च तेन विना ऽस्ति वीतरागस्यानागामि फलप्राप्तिरित्येतत् कारणम् /
10714 SK [३७२|०९] किं पुनः कारणं तत्र दर्शनमार्गो नास्ति /
10715 SK [३७२|१०] आरुप्येषु तावत् श्रवणाभावादधोधात्वनालम्बनाच्च / रूपधातौ तु
10716 SK [३७२|११] असंवेगादिह विधा तत्र निष्ठेति चागमात् // VAक्K_६.५५ //
10717 SK [३७२|१२] रूपावचरा हि पृथग्जनाः समापत्तिमुखसङ्गा दुःखवेदनाभावाच्च न संविजन्ते /
10718 SK [३७२|१२-३७२|१३] न च विना संगेनार्यमार्गः शक्तो लब्धुम् /
10719 SK [३७२|१३] इयं तावद्युक्तिः /
10720 SK [३७२|१३-३७२|१४] आगमो ऽप्ययं ᳚पञ्चानां पुद्गलानामिह विधा तत्र निष्ठा अन्तरापरिनिर्वायिणो यावदूर्ध्वंस्रोतस᳚ इति /
10721 SK [३७२|१५] विधा हि मार्गरम्भो निर्वाणोपायत्वात् /
10722 SK [३७२|१६] इदमुक्तं ᳚यद्यकोप्यः क्षयज्ञानादनुत्पादमति᳚ रिति /
10723 SK [३७२|१६-३७२|१७] तत्र किमर्हतमप्यस्ति भेदः /
10724 SK [३७२|१७] अस्तीत्युच्यते /
10725 SK [३७२|१८] षडर्हन्तो मताः
10726 SK [३७२|१९-३७२|२०] सूत्र उक्तं षडर्हन्तः परिहाणधर्मा चेतनाधर्मा अनुरक्षणा धर्मा स्थिताकम्पोयः प्रतिवेधनाभव्यो ऽकोप्यधर्मा चेति /
10727 SK [३७२|२१] तेषां पञ्च श्रद्धाध्हिमुक्तिजाः /
10728 SK [३७३|०१] अकोक्प्यधर्माणं वर्जयित्वा ऽन्ये पञ्च श्रद्धाधिमुक्ति पूर्वकाः /
10729 SK [३७३|०२] विमुक्तिः सामयिक्येषाम् /
10730 SK [३७३|०३] एषां च पञ्चानां सामयिकी कान्त चेतोविमुक्तिर्वेदितव्या /
10731 SK [३७३|०३-३७३|०४] नित्यानुरक्ष्यत्वात् /
10732 SK [३७३|०४] अत एवैते समयविमुक्ता उच्यन्ते /
10733 SK [३७३|०४-३७३|०५] समयापेक्षाश्चैते ऽधिमुक्ताश्चेति समयविमुक्ता मध्यपदलोपात् धृतघटवत् /
10734 SK [३७३|०५-३७३|०६] एषां हि समयापेक्षासमाधिसंमुखीभाव उपकरणारोग्यदेशविशेषापेक्षत्वात् /
10735 SK [३७३|०७] अकोप्याकोप्यधर्मणः // VAक्K_६.५६ //
10736 SK [३७३|०८] अकोप्यधर्मणस्त्वकोप्या विमुक्तिः / कोपयितुमशक्यत्वादपरिहाणितः /
10737 SK [३७३|०९] अतो ऽसमयमुक्तो ऽसौ
10738 SK [३७३|१०] अत एवासमयविमुक्ति उच्यते / स ह्यसमयापेक्षाविमुक्तिश्च /
10739 SK [३७३|१०-३७३|११] इच्छातः समाधिसंमुखीभावात् /
10740 SK [३७३|११-३७३|१२] कालान्तरात्यन्तविमुक्तितो वा कोप्याकोप्यधर्मणोः समयासमये विमुक्तत्वं परिहाणिसंभवासंभवतः /
10741 SK [३७३|१३] दृष्टिप्रप्तान्वयश्च सः /
10742 SK [३७३|१४] स चाकोप्यधर्मा दृष्टिप्राप्तपूर्वको वेदितव्यः /
10743 SK [३७३|१५] किं पुनरेते षडर्हन्त आदित एव तद्गोत्रा भवन्त्यथ पश्चात् /
10744 SK [३७३|१६] तद्गोत्रा आदितः केचित्केचिदुत्तापनागताः // VAक्K_६.५७ //
10745 SK [३७३|१७] कश्चित्प्रथमत एव चेतनाधर्मगोत्रको भवति /
10746 SK [३७३|१७-३७३|१८] कश्चित्पुनः परिहाणधर्मा भूत्वेन्द्रियाणामुत्तापनया चेतनाधर्मतां गतः /
10747 SK [३७३|१८-३७३|१९] एवं यावदकोओप्यधर्मतां गतो वेदितव्यः /
10748 SK [३७३|१९-३७३|२०] तत्र परिहाणधर्मा यः परिहातुं भव्यो न चेतनादिधर्मा /
10749 SK [३७३|२०] चेतनाधर्मा यश्चेतयितुं भव्यः / अनुरक्षणाधर्मा यो ऽनुरक्षितुं भव्यः /
10750 SK [३७३|२१-३७४|०१] स्थिताकम्प्यो यः परिहाणिप्रत्ययं बलवन्तमन्तरेणानुरक्षन्नपि स्थातुं भव्यो न हातुं नापि वर्धयितुं विनाभियोगेन /
10751 SK [३७४|०१] प्रतिवेधनाभव्यो यो ऽकोप्यः प्रतिवेद्धं भव्यः /
10752 SK [३७४|०२] अकोप्यधर्मा यो नैव परिहातुं भव्यः /
10753 SK [३७४|०२-३७४|०३] प्रथमौ द्वौ पूर्वमेव शैक्षावस्थायां सातत्यसत्कृत्यप्रयोगविकलौ /
10754 SK [३७४|०३] तृतीयः सातत्यप्रयोगी / चतुर्थः सत्कृत्यप्रयोगी /
10755 SK [३७४|०३-३७४|०४] पञ्चम उभयथाप्रयोगी मृद्विन्द्रियस्तु /
10756 SK [३७४|०४] षष्ठ उभयथाप्रयोगी तीक्ष्णेन्द्रियश्च /
10757 SK [३७४|०४-३७४|०५] नचावश्यं वरिहाणधर्मा परिहीयते नापि यावत् प्रतिवेधनाभव्यः प्रतिविध्यति /
10758 SK [३७४|०५-३७४|०६] संभवं तु प्रत्येवमुच्यते /
10759 SK [३७४|०६] एवं कृत्वा धातुत्रये ऽपिषडर्हन्तो युज्यन्ते /
10760 SK [३७४|०६-३७४|०८] येषां त्ववश्यं परिहीयते यावत् प्रतिविध्यति तेषां कामधातौ षट् रूपारुप्यधात्वोः स्थिताकम्प्यो ऽकोप्यधर्मा च /
10761 SK [३७४|०८] तयोःपरिहाणिचेतनेन्द्रियसंचाराभावात् /
10762 SK [३७४|०९] कः पुनरेषां कुतः परिहीयते / फलात् गोत्राद्वा /
10763 SK [३७४|१०] गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः
10764 SK [३७४|११] चेतनाधर्मादीनां चतुर्णां गोत्रात्परिहाणिः /
10765 SK [३७४|११-३७४|१२] न हि परिहाणधर्मा पुनः स्वगोत्रात् परिहीयते /
10766 SK [३७४|१२-३७४|१३] परिहाणधर्मादीनां पञ्चानां फलात् परिहाणिः /
10767 SK [३७४|१३] तेषामपि तु
10768 SK [३७४|१४] न पूर्वकात् /
10769 SK [३७४|१५] यस्य यत् प्रथमगोत्रं स तस्मान्न परिहीयते / शैक्षाशैक्षमार्गाभ्यां दृढीकुतत्वात् /
10770 SK [३७४|१६] शैक्षस्तु लौकिकलोकत्तराभ्यां दृढीकृतत्वात् न परिहीयते स्वगोत्रात् /
10771 SK [३७४|१६-३७४|१७] यत्तु पश्चात् प्रतिलब्धमुत्तापनया तस्मात् परिहीयते /
10772 SK [३७४|१७-३७४|१८] यस्य च यत् प्रथमं फलं स तस्माना परिहीयते /
10773 SK [३७४|१८] शेषात् परिहीयते /
10774 SK [३७४|१८-३७४|१९] अत एव स्रोत आपत्तिफलान्नास्ति परिहाणिः /
10775 SK [३७४|१९] एवं च कृत्वा परिहाणधर्मणस्त्रयः प्रकारा भवन्ति /
10776 SK [३७४|१९-३७४|२०] तदवस्थस्य परिनिर्वाणमिन्द्रियसंचारः /
10777 SK [३७४|२०] परिहाय वा शैक्षत्वम् / चेतनाधर्मणश्चत्वारः /
10778 SK [३७४|२०-३७४|२१] एत एव त्रयः परिहाणधर्मगोत्रप्रत्यागमनं च /
10779 SK [३७४|२१-३७४|२२] एवमन्येषां त्रयाणामेकैकप्रकारवृद्धच्या यथाक्रमं पञ्च षट् सप्त प्रकारा वेदितव्याः /
10780 SK [३७४|२२-३७४|२३] यस्य च यत् प्रथमं गोत्रं स परिहाय शैक्षोभूतस्तत्रैवावतिष्ठते नान्यस्मिन् /
10781 SK [३७४|२३-३७४|२४] अन्यथा हि तद्गोत्रविशेष लभाद् वृद्धिरेवास्य स्यान्न परिहाणिः /
10782 SK [३७४|२५] किं पुनः कारणं प्रथमानाम् नास्ति परिहाणिः / दर्शनहेयानामवस्तुकत्वात् /
10783 SK [३७४|२६] आत्माधिष्ठानप्रवृत्ता ह्येते / सत्कायदृष्टिमूलकत्वात् /
10784 SK [३७५|०१] स चात्मा नास्तीति / असदालम्बनास्तर्हि प्राप्नुवन्ति / नासदालम्बनाः /
10785 SK [३७५|०१-३७५|०२] सत्यालम्बनत्वात् /
10786 SK [३७५|०२] वितथालम्बनास्तु / कतमश्च क्लेशो नैवमस्ति विशेषः /
10787 SK [३७५|०२-३७५|०४] आत्मदृष्टिहि रूपादिके वस्तुनि कारकवेदकवशवर्तित्वेनात्मत्वमभूतमध्यारोपयति तदधिष्ठानानुवृत्ताश्चान्तग्राहदृष्टच्यादय इत्यवस्तुका उच्यन्ते /
10788 SK [३७५|०४-३७५|०६] भावनाहेयास्तु रागप्रतिघमानाविद्या रूपादिके वस्तुनि केवलं सक्त्याघातोन्नत्यसंप्रख्यानभावेन वर्तन्त इति सवस्तुका उच्यन्ते /
10789 SK [३७५|०६-३७५|०७] अस्ति च तच्ध्रातादिमात्रं यत्र तेषां प्रवृत्तयः न त्वात्मादिलेशो ऽपि /
10790 SK [३७५|०७-३७५|०८] तथा हि भावनाहेयानामस्ति प्रतिनियतं वस्तुमनापामनापलक्षणं न तु दर्शनहेयानामात्मादिलक्षणम् /
10791 SK [३७५|०८-३७५|०९] तस्मादप्यवस्तुकाउच्यन्ते /
10792 SK [३७५|०९-३७५|१०] अपि खल्वार्यस्यानुपनिध्यायतः स्मृतिसंप्रमोषात् क्लेश उत्पद्यते नोपनिध्यायतो रज्ज्वामिव सर्पसंज्ञा /
10793 SK [३७५|१०-३७५|१२] न चानुपनिध्यायत आत्मदृष्टच्यादीनामुपपत्तिर्युज्यते सन्तीरकत्वादिति नास्ति दर्शनहेयक्लेश प्रहाणात्परिहाणिः /
10794 SK [३७५|१२] अर्हत्वादपि नास्ति परिहाणिरिति सौत्रान्तिकाः /
10795 SK [३७५|१२-३७५|१३] एष एव चन्यायः /
10796 SK [३७५|१३] कथमिदं गम्यते / आगमाद्युक्तितश्च / कथमागमात् /
10797 SK [३७५|१३-३७५|१४] ᳚तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञया प्रहीणमि᳚त्युक्तम् /
10798 SK [३७५|१४-३७५|१५] आद्यन्तयोश्च फलयोरार्ययैव प्रज्ञया ऽधिगमः / [३७५|१५-३७५|१६] ᳚शैक्षस्य चाप्रमादकरणिये ऽप्रमादकरणीयं वदामी᳚ त्युक्तं ना ऽर्हतः /
10799 SK [३७५|१६-३७५|१७] ᳚अर्हतो ऽप्यहमानन्द लाभसत्कारमन्त्रायकरं वदामी᳚त्यत्र सूत्रे दृष्टधमेसुखविहारमात्रादेव परिहाणिरुक्ता /
10800 SK [३७५|१७-३७५|१८] ᳚या त्वनेनाकोप्यचेतोविमुक्तिः कायेन साक्षात्कृता /
10801 SK [३७५|१८] ततो ऽहं न केनचित् पर्यायेण परिहाणं वदामी᳚ति चोक्तम् /
10802 SK [३७५|१९] सामयिक्या अस्तीति चेत् / वयमप्येवं ब्रूमः / सा तु विचार्या /
10803 SK [३७५|१९-३७५|२०] किमर्हत्त्वमाहोस्विद्धच्यानानीति /
10804 SK [३७५|२०-३७५|२१] मौलो हि ध्यानसमाधिः समये संमुखीभावात्सामयिकी चिमुक्तिरित्युच्यते /
10805 SK [३७५|२१] दृष्टधर्मसुखविहारार्थं च पुनः पुनरेषणीयत्वात्कान्तेत्युच्यते /
10806 SK [३७५|२२] आस्वादनीयत्वादित्यपरे /
10807 SK [३७५|२२-३७५|२३] अर्हत्त्वविमुक्तिस्तु नित्यानुगतत्वान्न युज्यते /सामयिकी अपुनःप्रर्थनीयत्वान्न कान्तेति /
10808 SK [३७५|२३-३७५|२४] यदि चार्हत्त्वात् परिहणिसंभवो ऽभविष्यत् किमर्थं भगवानाधिचेतसिकेभ्य एव दृष्टधर्मसुखविहारेभ्यः परिहाणिमवक्ष्यत् /
10809 SK [३७५|२४-३७५|२५] अतो गम्यते सर्वस्यैवार्हतो विमुक्तिरकोप्यादृष्टध्र्मसुखविहारेत्युस्तु /
10810 SK [३७५|२५-३७५|२६] कश्चित् लाभसत्कारव्याक्षेपदीषात् परिहीयते वशित्वब्र्हशाद्यो मृद्विन्द्रियः /
10811 SK [३७५|२७] कश्चिन्न परिहीयते यस्तीक्ष्णेन्द्रियः / तत्र यः परिहीयते स परिहाणधर्मा /
10812 SK [३७५|२७-३७५|२८] यो न परिहीयते सो ऽपरिहाणधर्मा /
10813 SK [३७५|२८] एवं चेतनाधर्मादयो ऽपि योज्याः /
10814 SK [३७५|२८-३७६|०१] अपरिहाणधर्मस्थिताकम्प्याकोप्यधर्मणां को विशेषः /
10815 SK [३७६|०१] अपरिहाणधर्मा ऽनुत्तापनागतः /
10816 SK [३७६|०२] अकोप्यधर्मा तूत्तापनागतः /
10817 SK [३७६|०२-३७६|०३] तौ हि यं यमेव समापत्तिविशेषमुत्पादयतस्तस्मान्न परिहीयेते /
10818 SK [३७६|०३-३७६|०४] स्थिताकम्प्यस्तु यस्मिन्नेव गुणे स्थितस्तस्मात्केवलं न परिहीयते न त्वन्यमुत्पादयति /
10819 SK [३७६|०४] उत्पादयति वा तस्मात्तु कम्पत इत्येव विशेषो लक्ष्यते /
10820 SK [३७६|०५-३७६|०७] आयुष्मान्भौतिकः शैक्षीभूतः सामयिक्या विमुक्तेरत्यास्वादनान्मृद्विन्द्रियत्वाच्चभीक्ष्णं परिहीयमाणो निर्विण्नः शस्त्रमाधारयन् कायजीवितनिरपेक्षत्वान्मरणकाल एवार्हत्त्वप्राप्तः परिनिर्वृत्तश्च /
10821 SK [३७६|०७] तस्मात्सो ऽपि नार्हत्त्वात् परिहीणः /
10822 SK [३७६|०७-३७६|०८] दशोत्तरे चोक्तम् /
10823 SK [३७६|०८] ᳚एको धर्म उत्पादयितव्यः सामयिकी कान्ता चेतोविमुक्तिः /
10824 SK [३७६|०८-३७६|०९] एको धर्मः साक्षात्कर्तव्यः अकोप्या चेतोविमुक्तिरि᳚ति /
10825 SK [३७६|०९-३७६|१०] यदि चार्हत्त्वं सामयिकी कान्ता चेतोविमुक्तिरभविष्यत् किमर्थं तत्रैव दशके ऽर्हत्त्वस्य द्विग्रहणमकरिष्यात् /
10826 SK [३७६|१०-३७६|११] न च क्वचिदर्हत्त्वमुत्पादयितव्यमुक्तम् /
10827 SK [३७६|११] किं तर्हि /
10828 SK [३७६|११-३७६|१२] साक्षात्कर्तव्यं मृद्विन्द्रियसंगृहीतं चार्हत्त्वमुत्पादयितव्यमिति /
10829 SK [३७६|१२] किमनेन ज्ञापितं भवति /
10830 SK [३७६|१२-३७६|१३] यदि तावदुत्पादयितुं शक्यमित्यदपि शक्यम् /
10831 SK [३७६|१३] अथोत्पादनमर्हतीति /
10832 SK [३७६|१३-३७६|१४] अन्यत्सुतरामर्हति /
10833 SK [३७६|१४] तस्मान्न सामयिकी विमुक्तिरर्हत्त्वम् /
10834 SK [३७६|१४-३७६|१५] कथं तर्हि समयविमुक्तो ऽर्हन्नुच्यते /
10835 SK [३७६|१५] यस्य मृद्विन्द्रियत्वात्समयापेक्षः समाधिसमुखीभावः /
10836 SK [३७६|१५-३७६|१६] विपर्ययादसमयविमुक्तः /
10837 SK [३७६|१६] अभिधर्मे ऽपि चोक्तं ᳚त्रिभिः स्थानेः कामरागानुशयस्योत्पादो भवति /
10838 SK [३७६|१७-३७६|१८] कामरागानुशयिओ ऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार᳚ इति /
10839 SK [३७६|१८] परिपूर्णोत्पत्तिरेवमिति चेत् /
10840 SK [३७६|१९] कस्य वा परिपूर्णकारणस्योत्पत्तिः / एवं तावदागमात् / कथं युक्तितः /
10841 SK [३७६|१९-३७६|२१] यदि तावदर्हतस्तद्रूपः प्रतिपक्ष उत्पन्नो येन क्लेशा अत्यन्तमनुत्पत्तिधर्मतामापन्नाः कथं पुनः परिहीयते /
10842 SK [३७६|२१] अथ नोत्पन्नः / कथं क्षीणास्रवो भवति /
10843 SK [३७६|२१-३७६|२२] अत्यन्तमनयोद्ध्रतायां तद्बीजधर्मतायामक्षीणास्रवो वा पुनः कथमर्हन्भवतीत्येवं युक्तिः /
10844 SK [३७६|२२-३७६|२३] अङ्गारकर्षूपोमं सूत्रं तर्हि परिहार्यम् /
10845 SK [३७६|२३-३७६|२५] यत्रेदमुक्तं ᳚तस्य खलु श्रुतवत आर्यश्रावकस्यैवं चरत एवं विहरतः कदाचित्कर्हिचित् स्मृतिसंप्रमोषादुत्पद्यन्ते पापका अकुशला वितर्का᳚ इति /
10846 SK [३७६|२५] स हि तत्रार्हन्नेव ज्ञापितः /
10847 SK [३७६|२५-३७७|०१] ᳚दीर्घरात्र विवेकनिम्नं चित्तं भवति यावन्निर्वाणप्राग्भारमि᳚ति वचनात् /
10848 SK [३७७|०१-३७७|०२] अर्हतो ह्येतद्बलमन्यत्रोक्तम् /
10849 SK [३७७|०२-३७७|०३] ᳚सर्वैरास्रवस्थानीयैर्धर्मैः शीतीभूतं वान्तीभूतमि᳚ति चाभिधानात् अस्त्येतदेवम् /
10850 SK [३७७|०३-३७७|०४] यावत्तु चारो न सुप्रतिबद्धस्तावदेवं चरतो ऽपि शैक्षस्यास्ति संभवः क्लेशोत्पत्ताविति शैक्षावस्थामधिकृत्यैवं वचनाददोषः /
10851 SK [३७७|०५] प्रतिज्ञायते हि लौकिकमार्गप्रतिलब्धात्फलद्वयात्परिहाणिः /
10852 SK [३७७|०५-३७७|०६] अर्हत्त्वादपि तु परिहाणिं वर्णयन्ति वैभाषिकाः /
10853 SK [३७७|०७] किं पुनरिमे ऽर्हन्त एव षड्गोत्रा भवन्ति अथान्ये ऽपि षड्गोत्रा भवन्ति /
10854 SK [३७७|०८] शैक्षानार्याश्च षड्गोत्राः
10855 SK [३७७|०९] शैक्षपृथग्जना अप्येवं षड्गोत्राः / तत्पूर्वकाण्येव ह्यर्हतां गोत्राणि / अपि तु
10856 SK [३७७|१०] संचारो नास्ति दर्शने // VAक्K_६.५८ //
10857 SK [३७७|११] दर्शनमार्गादन्यत्रेन्द्रियसंचारो भवति / प्रयोगासंभवान्न दर्शनमार्गे /
10858 SK [३७७|११-३७७|१२] कश्चित् पृथग्जनावस्थायामिन्द्रियाणि संचरति /
10859 SK [३७७|१२] कश्चिच्छद्धाधिमुक्तावस्थायाम् /
10860 SK [३७७|१३-३७७|१६] यदिदं सूत्र उक्तं ᳚ये त्वनेन चत्वार आधिचैतसिका दृष्टधर्मसुखविहारा अधिगतास्ततो ऽहमस्यान्यतमान्यतमस्मात् परिहाणिं वदामि या त्वनेनैकाकिना यावदकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता ततो ऽहं न केनचित् पर्यायेण परिहाणिं वदामी᳚ति /
10861 SK [३७७|१६-३७७|१७] कथमकोप्यधर्मणो दृष्ट्धर्मसुखविहारेभ्यः परिहाणिः /
10862 SK [३७७|१८] परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः /
10863 SK [३७७|१९] प्राप्तपरिहाणिर्यदि प्रतिलब्धात् गुणात् परिहीयते /
10864 SK [३७७|१९-३७७|२०] अप्राप्तपरिहाणिर्यदि प्राप्यं गुणं न प्राप्नोति /
10865 SK [३७७|२०] उपभोगपरिहाणिर्यदि प्राप्तगुणं न संमुखीकरोति /
10866 SK [३७७|२०-३७७|२१] आसां पुनः परिहाणीनाम्
10867 SK [३७७|२२] अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा // VAक्K_६.५९ //
10868 SK [३७८|०१] बुद्धस्योपभोगपरिहाणिरेव नान्या / अकोप्यधर्मणः सा चाप्राप्तपरिहाणिश्च /
10869 SK [३७८|०२] पुद्गलविशेषधर्माप्रापणात् / अन्यस्यार्हतः प्राप्तपरिहाणिरप्यस्ति /
10870 SK [३७८|०२-३७८|०३] अत उपभोगपरिहाणिवचनादकोप्यधर्मणः सूत्रविरोधः /
10871 SK [३७८|०३] सर्वस्यानास्रवा विमुक्तिरकोप्या /
10872 SK [३७८|०४] अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् / अत एतद्चोद्यमित्यपरिहाणिवादी /
10873 SK [३७८|०५] अथ योइ ऽर्हत्फलात्परिहीयते किमसौ पुनर्जायते / नास्त्येतत् / यस्मात्
10874 SK [३७८|०६] म्रियते न फलभ्रष्टः
10875 SK [३७८|०७] नैव हि कश्चित्फलात् परिहीणः कालं करोति /
10876 SK [३७८|०७-३७८|०९] ᳚धन्धा भिक्षव आर्यश्रावकस्य स्मृतिसंप्रमोषा अथ च पुनः क्षिप्रमेवान्तं परिक्षयं सपदि संगच्छनीति सूत्रे वचनात् /
10877 SK [३७८|०९] अन्यथा ह्यनाश्वासिकं ब्रह्मचर्यं स्यात् /
10878 SK [३७८|०९-३७८|१०] यतश्च फलात् परिहीयते तत्फलस्थेन यदकार्यं
10879 SK [३७८|११] तादकार्यं करोति न /
10880 SK [३७८|१२] परिहीणो ऽपि संस्तत्फलविरुद्धां क्रियां न करोति / शूरप्रस्खलनापतनवत् /
10881 SK [३७८|१३] अथेन्द्रियाणि संचरतां कत्यानन्तर्यविमुक्तिमार्गा भवन्ति / [३७८|१४] विमुक्त्यानन्तर्यपथा नवोकोप्ये
10882 SK [३७८|१५-३७८|१६] अकोप्यगोत्रे प्रतिविध्यमाने प्रितिवेधभावनाभव्यस्य नवानन्तर्यमार्गा विमुक्तिमार्गाश्च भवन्ति /
10883 SK [३७८|१६] यथार्हत्त्वं प्राप्नुवतः / किं कारणम् /
10884 SK [३७८|१७] अतिसेवनात् // VAक्K_६.६० //
10885 SK [३७८|१८] तस्य मृद्विन्द्रियगोत्रं भवतीति नाल्पेन व्यावर्त्तयितुं शक्यते /
10886 SK [३७८|१८-३७८|१९] शैक्षाशैक्ष मार्गभ्यां दृढीकृतत्वात् /
10887 SK [३७८|२०] दृष्टच्याप्ततायामेकैकः
10888 SK [३७९|०१-३७९|०२] दृष्टिप्राप्तायां प्रतिविध्यमानायामेक एवानन्तर्यमार्गो भवत्येको विमुक्तिमार्गः /
10889 SK [३७९|०२] प्रयोगमार्गस्तु सर्वत्रैक एव / ते पुनः सर्व एवानन्तर्यविमुक्तिमार्गाः
10890 SK [३७९|०३] अनास्रवाः
10891 SK [३७९|०४] न हि सास्रवेण मार्गेणार्याणामिन्द्रियसंचारः / क्व पुनरिन्द्रियाणि वर्धन्ते /
10892 SK [३७९|०५] नृषु वर्धनम् /
10893 SK [३७९|०६] मनुष्येष्वेवेन्द्रियसंचारो नान्यत्र / परिहाण्यसंभवात् /
10894 SK [३७९|०७] कः पुनः कतमां भूमि निश्रित्येन्द्रियाणि संचरति /
10895 SK [३७९|०८] अशैक्षो नव निश्रित्य भूमीः
10896 SK [३७९|०९] अनागम्यस्यानन्तरं चत्वारि ध्यानानि त्रीणि चारुप्याणि /
10897 SK [३७९|१०] शैक्षस्तु षट्
10898 SK [३७९|११] आरुप्यवर्ज्यः / किं कारणम् /
10899 SK [३७९|१२] यतः // VAक्K_६.६१ //
10900 SK [३७९|१३] सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन् /
10901 SK [३७९|१४-३७९|१५] इन्द्रियाणि हि संचरन् फलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा तीक्ष्णेन्द्रियगोत्रकं फलमार्गमेव प्रतिलभते /
10902 SK [३७९|१५-३७९|१६] न चानागामिफलमारुप्यभूमिसंगृहीतमस्तीत्येतत् कारणम् /
10903 SK [३७९|१७] त एते षडेवार्हन्तो नव भवन्ति / इन्द्रियभेदात् / कथं कृत्वा /
10904 SK [३७९|१८] द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः // VAक्K_६.६२ //
10905 SK [३८०|०१] कतमे सप्त श्रावकाः / परिहाणधर्मादयः पञ्च /
10906 SK [३८०|०१-३८०|०२] अकोप्यधर्मा च द्विविध उत्तापनागत आदितश्च तद्गोत्रः अकोप्यभेद एव /
10907 SK [३८०|०२] द्वौ बुद्धौ प्रत्येकबुद्धो बुद्धश्च /
10908 SK [३८०|०३] इत्यते मृदुमृद्वादिनवप्रकारेन्द्रियभेदान्नव पुद्गला भवन्ति /
10909 SK [३८०|०४] सर्व एव त्वार्यपुद्गलाः सप्त भवन्ति /
10910 SK [३८०|०४-३८०|०५] श्रद्धानुसारी धर्मानुसारी श्रद्धाधिमुक्तो दृष्टिओप्राप्तः कायसाक्षी प्रज्ञाविमुक्त उभयतोविमुक्तश्च /
10912 SK [३८०|०६] प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः /
10913 SK [३८०|०७] पुद्गलाः सप्त
10914 SK [३८०|०८] प्रयोगतः श्रद्धाधर्मानुसारिणौ / पूर्वमेव परप्रत्ययधर्मानुसाराभ्यामर्थेषु प्रयोगात् /
10915 SK [३८०|०९] इन्द्रियत श्रद्धाधिमुक्तदृष्टिप्राप्तौ /
10916 SK [३८०|०९-३८०|१०] मृदुतीक्ष्णेन्द्रियत्वात् श्रद्धाधिमोक्षप्रज्ञाधिक्यतः /
10917 SK [३८०|१०-३८०|११] समापत्तितः कायसाक्षी निरोधसमापत्ति साक्षात्करणात् /
10918 SK [३८०|११] विमुक्तितः प्रज्ञाविमुक्तः / समापत्तिविमुक्तितः उभयतोभागविमुक्तः /
10919 SK [३८०|१२] नामत एते सप्त पुद्गलाः /
10920 SK [३८०|१३] षट् त्वेते /
10921 SK [३८०|१४] द्रव्यतस्त्वेते षट् भवन्ति /
10922 SK [३८०|१५] द्वौ द्वौ मार्गत्रये यतः // VAक्K_६.६३ //
10923 SK [३८०|१६] दर्शनमार्गे हि द्वौ पुद्गलौ श्रद्धाधर्मानुसारिणौ / तावेव भावनामार्गे द्वौ भवतः /
10924 SK [३८०|१७] श्रद्धाधिमुक्तदृष्टिप्राप्तौ / तौ पुनरशैक्षमार्गे द्वौ भवतः / समयासमयविमुक्ताविति /
10925 SK [३८०|१८] तत्रेन्द्रियतस्त्रयः / श्रद्धानुसारिणः गोत्रतः पञ्च / मार्गतः पञ्चदश /
10926 SK [३८०|१८-३८०|१९] अष्ट क्षान्तिसप्तज्ञानस्थाः /
10927 SK [३८०|१९] वैराग्यतस्त्रिसप्ततिः / सकलबन्धनः / कामवैराग्यान्नव /
10928 SK [३८०|२०] एवं यावदाकिञ्चन्यायतनवैराग्यात् / आश्रयतो नव / त्रिद्वीपषाड्देवनिकायजाः /
10929 SK [३८०|२१-३८०|२२] इन्द्रियगोत्रमार्गवैराग्याश्रयतः पण्डिताः शतसहस्रं संपद्यन्ते सहस्राणि च सप्तचत्वारिंशच्छतानि चाष्टौ पञ्चविशतिश्च /
10930 SK [३८०|२२] एवमन्ये ऽपि पुद्गलाः संभवतः संख्येयाः /
10931 SK [३८१|०१] कोयिमुभयतोभागविमुक्त इत्युच्यते कश्च प्रज्ञाविमुक्तः /
10932 SK [३८१|०२] निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः /
10933 SK [३८१|०३] यो निरोधसमापत्तिलाभी स उभयतोभागविमुक्तः /
10934 SK [३८१|०३-३८१|०४] प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वात् /
10935 SK [३८१|०४] इतरः प्रज्ञाविमुक्तः /
10936 SK [३८१|०४-३८१|०५] प्रज्ञाबलेन केवलं क्लेशावरणविमुक्तत्वात् /
10937 SK [३८१|०६-३८१|०७] यदुक्तं भगवता ᳚क्लेशान् प्रहायेह हि यस्तु पञ्च अहार्यधर्मा परिपूर्णः शैक्ष᳚ इति /
10938 SK [३८१|०७] कियता परिपूर्णः शैक्षो भवति /
10939 SK [३८१|०८] समापत्तिन्द्रियफलैः पूर्णः शैक्षो ऽभिधीयते // VAक्K_६.६४ //
10940 SK [३८१|०९] त्रिविधा शैक्षस्य परीपूरिः / फलतः इन्द्रियतः समापत्तितश्च /
10941 SK [३८१|०९-३८१|१०] फलत एव श्रद्धाधिमुक्तस्याकायसाक्षिणो ऽनागामिनः /
10942 SK [३८१|१०-३८१|११] इन्द्रियत एव दृष्टिप्राप्तस्यावीतरागस्य /
10943 SK [३८१|११] फलेन्द्रियतो दृष्टिप्राप्तस्य कायसाक्षिणो ऽनागामिनः /
10944 SK [३८१|११-३८१|१२] फलसमापत्तितः श्रद्धाधिमुक्तस्य कायसाक्षिणः /
10945 SK [३८१|१२] फलेन्द्रियसमापत्तितो दृष्टिप्राप्तस्य कायसाक्षिणः /
10946 SK [३८१|१३] समापत्तित एव समापत्तीन्द्रियश्च परिपूर्णत्वं नास्ति विन फलेन /
10947 SK [३८१|१४] अशैक्षपरिपूर्णत्वं द्वाभ्याम्
10948 SK [३८१|१५] इन्द्रियतः समापत्तिश्च /
10949 SK [३८१|१५-३८१|१६] फलेन त्वपरिपूर्णस्याशैक्षत्वमेव नास्तीति नास्य पुनः फलेन परिपूर्णपरिपूर्णत्वं व्यवस्थाप्यते /
10950 SK [३८१|१६-३८१|१७] इन्द्रियत् एवासमयविमुक्तस्य प्रज्ञाविमुक्तस्य /
10951 SK [३८१|१७] समापत्तित एव समयविमुक्तस्योभयभागविमुक्तस्य /
10952 SK [३८१|१७-३८१|१८] इन्द्रियसमापत्तिभ्यामसमयविमुक्तस्योभयतोभागविमुक्तस्य /
10953 SK [३८१|१९-३८१|२०] वहव इमे मार्गभेदा उक्ता लौकिकलोकोक्त्तरदर्शनभावना ऽशैक्षमार्गाः प्रयोगानन्तर्यविमुक्तिविशेषमार्गा इति /
10954 SK [३८१|२०] कतिविध एष समासतो मार्ग इति /
10955 SK [३८१|२१] मार्गः समासतः /
10956 SK [३८१|२२] विशेषमुक्त्यानन्तर्यप्रयोगाख्यश्चतुर्विधः // VAक्K_६.६५ //
10957 SK [३८२|०१] प्रयोगमार्गो यस्मादनन्तर्मानन्तर्यमार्गोत्पत्तिः /
10958 SK [३८२|०१-३८२|०२] आनन्तर्यमार्गो येनावरणं प्रजहाति /
10959 SK [३८२|०२] विमुक्तिमार्गो यस्तत्प्रहेयावरणविनिर्मुक्तस्तत् प्रथमत उत्पद्यते /
10960 SK [३८२|०३] विशेषमार्गो य एभ्यो ऽन्यो मार्गः / कस्मात् मार्ग इत्युच्यते /
10961 SK [३८२|०३-३८२|०४] एष हि निर्वाणस्य पन्था एतेन तद्गमनात् /
10962 SK [३८२|०४] निर्वाणं मार्गयन्त्यनेनेति वा / [३८२|०४-३८२|०५] विमुक्तिविशेषमार्ग योः कथं मार्गत्वम् /
10963 SK [३८२|०५-३८२|०६] तज्जातीयादधिमात्रतरत्वादुत्तरोत्तरप्रापणात् निरूपधिशेषप्रवेशाद्वा /
10964 SK [३८२|०७] मार्ग एव पुनः प्रतिपदित्युक्तो निर्वाणप्रतिपादनात् / चतस्रः प्रतिपदः /
10965 SK [३८२|०८] अस्ति प्रतिपद्दुःखा धन्धाभिज्ञा / अस्ति दुःखा क्षिप्राभिज्ञा /
10966 SK [३८२|०८-३८२|०९] एवं सुखा ऽपि द्विधा /
10968 SK [३८२|१०] ध्यानेषु मार्गः प्रतिपत्सुखा
10969 SK [३८२|११-३८२|१२] चतुर्ध्यानेषु मार्गः सुखा प्रतिपदङ्गपरिग्रह शमथविपश्यना समताभ्यामयिअत्नवाहित्वात् /
10970 SK [३८२|१३] दुःखा ऽन्यभूमिषु /
10971 SK [३८२|१४-३८२|१६] अन्यास्वनागम्यध्यानान्तरारुप्यभूमिषु मार्गो दुःखा प्रतिदङ्गापरिग्रहाच्छमथविपश्यनान्यूनत्वाच्च यत्नवाहित्वात् शमथन्यूने ह्यनागम्यध्यानान्तरे विपश्यनान्यूना आरुप्या इति /
10972 SK [३८२|१६] सा पुनर्द्विविधा ऽपि प्रतिपत्
10973 SK [३८२|१७] धन्याभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु // VAक्K_६.६६ //
10974 SK [३८२|१८-३८२|१९] मृद्विन्द्रियस्य सुखा दुःखा वा प्रतिपद्धन्धाभिज्ञा तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा धन्धाभिज्ञा अस्यां प्रतिपदि /
10975 SK [३८२|१९] सेयं धन्धाभिज्ञा /
10976 SK [३८२|१९-३८२|२०] एवं क्षिप्राभिज्ञा /
10977 SK [३८२|२०] धन्धस्य वा पुद्गलस्येयमिति धन्धाभिज्ञा /
10978 SK [३८२|२०-३८२|२१] पुनरप्येष मार्गो बोधिपक्ष्याख्यां लभते /
10979 SK [३८२|२१] सप्तत्रिंशद्वोधिपक्षा धर्माः / चत्वारि स्मृत्युपस्थानानि /
10980 SK [३८२|२२] चत्वारि सम्यक् प्रहाणानि / चत्वार ऋद्धिपादाः / पञ्चेन्द्रियाणि /
10981 SK [३८२|२२-३८२|२३] पञ्च बलानि /
10982 SK [३८२|२३] सप्त बोध्यङ्गानि / आर्याष्टाङ्गो मार्गः इति / तत्र
10983 SK [३८२|२४] अनुत्पादक्षयज्ञाने बोधिः
10984 SK [३८३|०१] क्षयज्ञानमनुत्पादज्ञानं च / पुद्गलभेदेन तिस्रो बोधय उत्पद्यन्ते /
10985 SK [३८३|०१-३८३|०२] श्रावकबोधिः प्रत्येकबोधिरनुत्तरा सम्यक्संबोधिरिति /
10986 SK [३८३|०२] अशेषाविद्याप्रहाणात् /
10987 SK [३८३|०२-३८३|०३] ताभ्यां स्वर्थस्य यथाभूत कृतापुनःकर्तव्यताववोधाच्च /
10988 SK [३८३|०४] तादनुलोम्यतः /
10989 SK [३८३|०५] सप्तत्रिंशत्तु तत्पक्ष्याः
10990 SK [३८३|०६] बोधेरनुलोमत्वाद्बोधिपक्ष्याः सप्तत्रिंशदुत्पद्यन्ते /
10991 SK [३८३|०७] नामतो द्रव्यतो दश // VAक्K_६.६७ //
10992 SK [३८३|०८] दश द्रव्याणि सर्वे बोधिपक्ष्याः / कतमानि दश /
10993 SK [३८३|०९] श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे /
10994 SK [३८३|१०] प्रश्रब्धिशीलसंकल्पाः
10995 SK [३८३|११] इत्येतानि दश द्रव्याणि / कथं कृत्वा /
10996 SK [३८३|१२] प्रज्ञा हि स्मृत्युपस्थितिः // VAक्K_६.६८ //
10997 SK [३८३|१३] वीर्यं सम्यक्प्रहाणाख्यमृद्धिपादाः समाधयः /
10998 SK [३८३|१४-३८३|१७] प्रज्ञावीर्यसमाधिस्वभाधा हि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः अत इन्द्रियाणि तावद्वलानि च नामग्राहिकया श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाद्रव्याणि च स्मृत्युपस्थानानि धर्मप्रविचयसंबोध्यङ्गं सम्यगृष्टिश्च प्रज्ञैव /
10999 SK [३८३|१७] सम्यक्प्रहाणानि वीर्यसंबोध्यङ्गं सम्यग्व्यायामश्च वीर्यमेव /
11000 SK [३८३|१७-३८३|१८] ऋद्धिपादाः समाधिसम्बोध्यङ्गं सम्यक् समाधिश्च समाधिरेव /
11001 SK [३८३|१८-३८३|१९] स्मृतिसंबोध्यङ्गं सम्यक् स्मृतिश्च स्मृतिरेव /
11002 SK [३८३|१९] किमवशिष्यते /
11003 SK [३८३|१९-३८३|२०] प्रीतिप्रस्रब्ध्युपेक्षसंबोध्यङ्गानि सम्यक्संकल्पः शीलाङ्गनि च /
11004 SK [३८३|२०-३८३|२१] तान्येतानि पञ्च द्रव्याणि एवमेते बोधिपक्ष्या दश द्रव्याणि भवन्ति /
11005 SK [३८३|२१] वैभषिकाणा मेकादश /
11006 SK [३८३|२१-३८४|०१] कायवाक्कर्मणोरसंभिन्नत्वात् शीलाङ्गानि द्वे द्रव्ये इति /
11007 SK [३८४|०१-३८४|०२] यत्त्वेतदुक्तं ᳚प्रज्ञावीर्यसमाधिस्वभावाः स्मृत्युपस्थानादय᳚ इति /
11008 SK [३८४|०२] अत्र वेदितव्यम् /
11009 SK [३८४|०३] प्रधानग्रहणं सर्वे गुनाः प्रायोगिकास्तु ते // VAक्K_६.६९ //
11010 SK [३८४|०४] प्रधानग्रहणेनैवमुक्तम् /
11011 SK [३८४|०४-३८४|०५] सर्वे तु प्रायोगिका गुणाःः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः /
11012 SK [३८४|०५] कस्माद्वीर्य सम्यक्प्रधानमुक्तम् /
11013 SK [३८४|०५-३८४|०६] तेन सम्यक्कायवाङ्मनांसि प्रधीयन्ते /
11014 SK [३८४|०६] समाधिः कस्माद् ऋद्धिपाद उक्तः / तत्प्रतिष्ठत्वात्सर्वगुणसंपत्तेः /
11015 SK [३८४|०७] ये त्वाहुः ᳚समाधिरेवर्द्धिः पादाश्छन्दादय᳚ इति /
11016 SK [३८४|०७-३८४|०८] तेषां द्रव्यतस्त्रयोदश बोधिपक्ष्याः प्राप्नुवन्ति /
11017 SK [३८४|०८] च्छन्दचित्तयोइराधिक्यात्सूत्रं च विरुध्यते /
11018 SK [३८४|०८-३८४|०९] ᳚ऋद्धिम् च वो भिक्षवो दर्शयिष्यामि ऋद्धिपादांशच यावदृद्धिः कतमा /
11019 SK [३८४|०९-३८४|१०] इह भिक्षुरनेकविधमृद्धिविषयं प्रत्यनुभवति /
11020 SK [३८४|१०] एको भूत्वा बहुधा भवती᳚ति विस्तरः /
11021 SK [३८४|११] कस्मादिन्द्रियाण्येव वलान्युक्तानि / मृद्वधिमात्रभेदादवमर्दनीयानवमर्दनीयत्वात् /
11022 SK [३८४|१२] इन्द्रियाणां किङ्कृतो ऽनुक्रमः / श्रद्दधानो हि फलार्थं वीर्यमारभते /
11023 SK [३८४|१२-३८४|१३] आरब्धवीर्यस्य स्मृतिरूपतिष्ठते /
11024 SK [३८४|१३] उपस्थितस्मृतेरविक्षेपाच्चित्तं समाधीयते /
11025 SK [३८४|१३-३८४|१४] समाहितचित्तो यथाभूतं प्रजानातीति /
11026 SK [३८४|१५] कस्यामवस्थायां कतमे ते बोधिपक्ष्याः प्रभाव्यन्ते /
11027 SK [३८४|१६-३८४|१७] आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः / भावने दर्शने चैव सप्त वर्गा यथाक्रमम् // VAक्K_६.७० //
11028 SK [३८४|१८] आदिकर्मिकावस्थायां कायाद्युपलक्षणार्थं स्मृत्युपस्थानानि /
11029 SK [३८४|१८-३८४|१९] विशेषाधिगमेन वीर्यसंबधंनादूष्मगतेषु सम्यक्प्रधानानि /
11030 SK [३८४|१९-३८४|२०] अपरिहाणीयकुशलमूलप्रवेशत्वात् मूर्धष्वृद्धिपादाः /
11031 SK [३८४|२०] अपुनःपरिहाणित आधिपत्यप्राप्तत्वात् क्षान्तिष्विन्द्रियाणि /
11032 SK [३८४|२१] क्लेशानवमर्दनीयत्वाद्ग्रधर्मेषु बलानि लौकिकान्यधर्मानवमर्दनीयत्वाद्वा /
11033 SK [३८४|२१-३८४|२२] बोध्यासन्नत्वात् भावनामार्गे बोध्यङ्गानि /
11034 SK [३८४|२२] गमनप्रभावित्वाद्दर्शनमार्गे मार्गाङ्गानी /
11035 SK [३८४|२३] तस्याशुगामित्वात् / संख्यानुपूर्वीविधानार्थं तु पूर्व सप्तोक्तानि पश्चादष्टौ /
11036 SK [३८४|२३-३८४|२५] तत्र धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं च सम्यग्दृष्टिर्मार्गो मार्गाङ्गं चेति वैभाषिकाः /
11037 SK [३८४|२५-३८४|२६] अपरे पुनरभित्त्वैव क्रमं बोधिपक्ष्याणामानुपूर्वी वर्णयन्ति /
11038 SK [३८४|२६-३८५|०२] ᳚आदित एव तावद्वहुविधविषपव्यासेकविसारिणीनां बुद्धीनां निग्रहार्य स्मृत्युपस्थानानि चेतस उपनिबद्धानि भवन्ति यावदेव गर्धाश्रितानां स्मरसंकल्पानां प्रतिविनोदनाये᳚ति सूत्रे वचनात् /
11039 SK [३८५|०२-३८५|०३] तद्वलेन वीर्यसंवर्धनाच्चतुर्विधकार्यसंपादनाय सम्यक्चित्तं प्रदधातीति सम्यक्प्रधानानि /
11040 SK [३८५|०३-३८५|०४] ततः समाधिविशोधनादृद्धिपादाः /
11041 SK [३८५|०४] समाधिसंनिश्रयेण लोकोत्तरधर्माधिपतिभूतानि श्रद्धादीनीन्द्रियाणि /
11042 SK [३८५|०५] तान्येव च निर्जितविपक्षसमुदाचाराणि बलानि / दर्शनमार्गे बोध्यङ्गानि /
11043 SK [३८५|०६] प्रहमतो धर्मतत्त्वावलोकात् उभयोर्मार्गाङ्गानि /
11044 SK [३८५|०६-३८५|०७] तथा ह्युक्तम् ᳚आर्याष्टाङ्गे खलु मार्गे भावनापरिपूरि गच्छति /
11045 SK [३८५|०७-३८५|०८] चत्वारि स्मृत्युपस्थानानि भावनापरिपूरिं गच्छन्ति यावत् सप्त बोध्यङ्गानी᳚ति /
11046 SK [३८५|०८-३८५|१०] पुनश्चोक्तं ᳚यथाभूतवचनारोचनमिति भिक्षवश्चतुर्णामार्यसत्यानामेतदधिवचनं यथागतेन मार्गेण प्रक्रमणमिति भिक्षो आर्याष्टाङ्गस्य मार्गस्यैतदधिवचनमि᳚ति /
11047 SK [३८५|१०-३८५|११] तस्मादुभयोरार्याष्टाङ्गो मार्ग एष्टव्यः /
11048 SK [३८५|११] सिद्धो ऽनुक्रमः /
11049 SK [३८५|१२] इदं तु वक्तव्यम् /
11050 SK [३८५|१२-३८५|१३] कति बोधिपक्षा धर्माः सास्रवा इति कत्यनास्रवा इति /
11051 SK [३८५|१४] अनास्रवाणि बोध्यङ्गमार्गाङ्गानि
11052 SK [३८५|१५] भावनादर्शनमार्ग योस्तद्वच्यवस्थापनात् /
11053 SK [३८५|१५-३८५|१६] लौकिका अपि हि सम्यग्दृष्टच्यादयः सन्ति /
11054 SK [३८५|१६] ते तु नार्यमार्गशब्दं लभन्ते /
11055 SK [३८५|१७] द्विधेतरे /
11056 SK [३८५|१८] अन्ये बोधिपक्षाः सास्रवाः / कस्यां भूमौ कति बोधिपक्षाः /
11057 SK [३८५|१९] सकलाः प्रथमे ध्याने
11058 SK [३८५|२०] सर्वे सप्तत्रिंशत्प्रथमे ध्याने /
11059 SK [३८५|२१] अनागम्ये प्रीतिवर्जिताः // VAक्K_६.७१ //
11060 SK [३८५|२२] कस्मादनागम्ये प्रीत्यभावः /
11061 SK [३८५|२२-३८५|२३] सामन्तकानां बलवाहनीयत्वादधरभूमिसाशङ्कत्वाच्च /
11062 SK [३८६|०१] द्वितीये ऽन्यत्र संकल्पात्
11063 SK [३८६|०२] द्वितीये ध्याने सम्यक्संकल्पवर्ज्याः षट्त्रिंशदेव / तत्र वितर्काभावात् /
11064 SK [३८६|०३] द्वयोस्तद्द्वयवर्जिताः /
11065 SK [३८६|०४] तृतीयचतुर्थयोर्ध्यानयोः प्रीतिसंकल्पाभ्यां वर्जिताः पञ्चत्रिंशत् /
11066 SK [३८६|०५] ध्यानान्तरे च
11067 SK [३८६|०६] ताभ्यामेव द्वाभ्यां वर्जिताः पञ्चत्रिंशदेव /
11068 SK [३८६|०७] शीलाङ्गैस्ताभ्यां च त्रिष्वरुपिषु // VAक्K_६.७२ //
11069 SK [३८६|०८] वर्जिता इति वर्तते /
11070 SK [३८६|०८-३८६|०९] आरुप्येसु सम्यग्वाक्कर्मान्ताजीवैः प्रीतिसंकल्पाभ्यां च वर्जिता द्वात्रिंशत् /
11071 SK [३८६|१०] कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः /
11072 SK [३८६|११] द्वार्विशतिर्बोधिपक्ष्यास्तयोरनास्रवमार्गाभावात् /
11073 SK [३८६|१२] बोधिपक्षेषु वर्तमानस्य कस्यामवस्थायामवेत्यप्रसादलाभो वेदितव्यः /
11074 SK [३८६|१३] त्रिसत्यदर्शने शीलधर्मावेत्यप्रसादयोः // VAक्K_६.७३ //
11075 SK [३८६|१४] लाभो मार्गाभिसमये बुद्धतत्संघयिओरपि /
11076 SK [३८६|१५-३८६|१६] दुःखसमुदयनिरोधसत्यान्यभिसमयन् धर्मे चावेत्यप्रसादमार्यकान्तानि च शीलानि प्रतिलभते /
11077 SK [३८६|१६-३८६|१७] मार्गसत्यमभिसमयन् बुद्धे तस्य च श्रावकसंघे ऽवेत्यप्रसादं प्रतिलभेते /
11078 SK [३८६|१७-३८६|१८] यो हि तयोः प्रसादः सो ऽशैक्ष्येषु बुद्धकरकेषु धर्मेषु शैक्षायाशैक्षेषु च संघकरकेषु प्रसादः /
11079 SK [३८६|१८] अपि शब्दाच्छीलधर्मावेत्यप्रसादौ च प्रतिलभते /
11080 SK [३८६|१९] को ऽयमिह धर्मो ऽभिप्रेतः /
11081 SK [३८७|०१] धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः // VAक्K_६.७४ //
11083 SK [३८७|०३] अतश्चत्वर्यपि सत्यान्यभिसमयतो धर्मावेत्यप्रसादलाभः /
11084 SK [३८७|०३-३८७|०४] त एते श्रद्धाधिष्ठानभेदान्नामतश्चत्वारो ऽवेत्यप्रसादा उच्यन्ते /
11085 SK [३८७|०५] द्रव्यतस्तु द्वे श्रद्धा शीलं च
11086 SK [३८७|०६-३८७|०७] बुद्धधर्मसंघावेत्यप्रसादाः श्रद्धास्वभावाः आर्यकान्तानि च शीलानि शीलमिति द्वे द्रव्ये भवतः /
11087 SK [३८७|०७] किं पुनरेते सास्रवानास्रवा एकान्तेनावेत्यप्रसादाः /
11088 SK [३८७|०८] निर्मला /
11089 SK [३८७|०९] अवेत्यप्रसादा इति को ऽर्थः / यथाभूतसत्यान्यवबुध्य संप्रत्ययो ऽवेत्यप्रसादः /
11090 SK [३८७|१०] यथा च व्युत्थितः संमुखीकरोति तथैषामानुपूर्वीम् /
11091 SK [३८७|१०-३८७|११] कथं व्युत्थितः संमुखी करोति /
11092 SK [३८७|११-३८७|१२] सम्यक्संबुद्धो वत भगवान् स्वाख्यातो ऽस्य धर्मविनयः सुप्रतिपन्नो ऽस्य श्रावकसंघ इति वैद्यभैषज्योपस्थापकभूतत्वात् /
11093 SK [३८७|१२-३८७|१३] चित्तप्रसादकृतश्च शीलप्रसाद इत्युच्यते चतुर्थ उक्तः /
11094 SK [३८७|१३] एवं प्रसन्नस्यैषा प्रतिपत्तिरिति /
11095 SK [३८७|१४] आरोग्यभूतत्वाद्वा देशिक मार्ग सार्थिकयानवद्वा /
11096 SK [३८७|१४-३८७|१५] सूत्र उक्त᳚मष्टाभिरङ्गै समन्वागतः शैक्षो दर्शभिरङ्गैः समन्वागतो ऽशैक्ष᳚ इति /
11097 SK [३८७|१५-३८७|१६] कस्माच्छैक्षस्य सम्यक् विमुक्तिः सम्यग्ज्ञानं च नोक्तम् /
11098 SK [३८७|१७] नोक्ता विमुक्तिः शैक्षाङ्ग बद्धत्वात् /
11099 SK [३८७|१८] बद्धो हि शैक्षः क्लेशबन्धनैरद्यापीति /
11100 SK [३८७|१८-३८७|१९] कथं बद्धस्यैव सतो विमुक्तिर्व्यवस्थाप्येत /
11101 SK [३८७|१९] न हि बन्धनैकदेशान्मुक्तो मुक्त इत्युच्यते /
11102 SK [३८७|१९-३८७|२०] बिना च विमुक्तच्या कथं विमुक्तिज्ञानम् व्यवस्थाप्यते /
11103 SK [३८७|२०-३८७|२१] अशैक्षस्तु सर्वक्लेशबन्धनात्यन्तनिर्मोक्षाद्विमुक्तितत्प्रत्यात्मज्ञानाभ्यां प्रभावित इति तस्यैव तद्वचनं न्याय्यम् /
11104 SK [३८८|०१] केयं विमुक्तिर्नाम /
11105 SK [३८८|०२] सा पुनर्द्विधा // VAक्K_६.७५ //
11106 SK [३८८|०३] संस्कृता चासंस्कृता च / तत्र /
11107 SK [३८८|०४] असंस्कृता क्लेशहानमधिमुक्तस्तु संस्कृता /
11108 SK [३८८|०५] क्लेशप्रहाणमसंस्कृता विमुक्तिः / अशैक्षाधिमोक्षः संस्कृता विमुक्तिः /
11110 SK [३८८|०७] सैवासंस्कृता विमुक्तिरशैक्षाङ्गयुक्ता / अङ्गानां संस्कृतत्वात् /
11111 SK [३८८|०८] सैव विमुक्ती द्वे
11112 SK [३८८|०९] सैव संस्कृता विमुक्तिर्द्वे विमुक्ती सूत्र उक्ते /
11113 SK [३८८|०९-३८८|१०] चेतो विमुक्तिः प्रज्ञाविमुक्तिश्च /
11114 SK [३८८|१०] विमुक्तिस्क्न्धो ऽपि स एव द्रष्ट्टव्यः /
11115 SK [३८८|१०-३८८|११] यत्तर्हि सूत्र उक्तं ᳚कतमच्च व्याग्राबोध्यायना विमुक्तिपरिशुद्धिप्रधानम् /
11116 SK [३८८|११-३८८|१३] इह भिक्षवो रागाच्चित्तं विरक्तं भवति विमुक्तं द्वेषान्मोहाच्चित्तं विरक्तं भवति विमुक्तमित्यपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये परिपूर्णस्य चानुग्रहाय च्छन्दोवीर्यमि᳚ति विस्तरः /
11117 SK [३८८|१४] तस्मानाधिमोक्ष एव विमुक्तिः / किं तर्हि /
11118 SK [३८८|१४-३८८|१५] तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यं विमुक्तिरित्यपरे /
11119 SK [३८८|१५] उक्ता विमुक्तिः /
11120 SK [३८८|१६] सम्यग्ज्ञानं तु सम्यग्दृष्टिः / व्यतिरिक्तं कतमत् /
11121 SK [३८८|१७] ज्ञानं बोधिर्यथोदिता // VAक्K_६.७६ //
11122 SK [३८८|१८] यैव हि पूर्वं बोधिरुक्ता सैवेह सम्यग्ज्ञानं वेदितव्यम् /
11123 SK [३८८|१८-३८८|१९] यदुत क्षयज्ञानमनुत्पादज्ञानं च /
11124 SK [३८८|२०] कतमत् पुनश्चित्तं विमुच्यते किमतीतमनागतं प्रत्युत्पन्नम् /
11125 SK [३८८|२१-४३८|८२१] विमुच्यते जायमानसशैक्षं चित्तमावृतेः /
11126 SK [३८९|०१] ᳚अनागतं चित्तमुत्पद्यमानं विसुच्यते अशैक्षमावरणेभ्य᳚ इति शास्त्रपाठः /
11127 SK [३८९|०२] किं पुनस्तस्यावरणम् / क्लेशप्राप्तिस्तदुत्पत्तिविवन्धत्वात् /
11128 SK [३८९|०२-३८९|०३] वज्रोपमे हि समाधो स च प्रहीयते /
11129 SK [३८९|०३] तच्चोत्पद्यमानमशैक्षं चित्तं विमुच्यते / सा च प्रहीणा भवति /
11130 SK [३८९|०४] तचाशैक्षं चित्तमुत्पन्नं विमुक्तं च / यत्तर्हि नोत्पद्यमानं लौकिकं च /
11131 SK [३८९|०४-३८९|०५] तदपि विमुच्यते /
11132 SK [३८९|०५] यत्तु नियतमुत्पत्तौ तदेवोक्तम् /
11133 SK [३८९|०५-३८९|०६] लौकिकं कुतो विमुच्यते /
11134 SK [३८९|०६] तत एवोत्पत्त्यावरणात् /
11135 SK [३८९|०६-३८९|०७] ननु चामुक्तस्यापि शैक्षस्य लौकिकमुत्पद्यते न तत्तादृशम् /
11136 SK [३८९|०७] कीदृशं तत् / क्लेशप्राप्तिसहितम् /
11137 SK [३८९|०७-३८९|०८] किमवस्थो मार्गस्तदुत्पत्त्यावरणं प्रजहाति /
11138 SK [३८९|०९] निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम् // VAक्K_६.७७ //
11139 SK [३८९|१०] वर्तमान इत्यर्थः /
11140 SK [३८९|११-३८९|१२] या चासंस्कृता विमुक्तिरुक्ता ये च त्रयोधातव उच्यन्ते प्रहाणधातुर्विंरागधातुनिरोधधातुरिति /
11141 SK [३८९|१२] क एषां विशेषः /
11142 SK [३८९|१३] असंस्कृतैव धात्वाख्या
11143 SK [३८९|१४] सैवासंस्कृता विमुक्तिस्त्रयो धातवः / तत्र पुनः
11144 SK [३८९|१५] विरागो रागसंक्षयः /
11145 SK [३८९|१६] रागस्य प्रहाणं विरागधातुः /
11146 SK [३८९|१७] प्रहाणधातुरन्येषां /
11147 SK [३८९|१८] संक्षय इति वर्तते / रागादन्येषां क्लेशानां प्रहाणं प्रहाणधातुः /
11148 SK [३८९|१९] निरोधाख्यस्तु वस्तुनः // VAक्K_६.७८ //
11149 SK [३८९|२०] संक्षय इत्येवानुवर्तते / क्लेशनिर्मुक्तस्य वस्तुनः प्रहाणं निरोधधातुः /
11150 SK [३८९|२१] येन वस्तु निर्विद्यते विरज्यते ऽपि तेन वस्तुना / चतुष्कोटिकम् / कथं कृत्वा /
11151 SK [३९०|०१] निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः
11152 SK [३९०|०२] दुःखे समुदयक्षान्तिज्ञानैरेव निर्विद्यते नान्यैः /
11153 SK [३९०|०३] विरज्यते /
11154 SK [३९०|०४] सर्वैर्जहाति यैः
11155 SK [३९०|०५] सर्वैरपि दुःखसमुदयनिरोधमार्ग क्षान्तिज्ञानैर्विरज्यते /
11156 SK [३९०|०५-३९०|०६] यैः क्लेशान् प्रजहाति /
11157 SK [३९०|०७] एवं चतुष्कोटिकसंभवः // VAक्K_६.७९ //
11158 SK [३९०|०८] एवं चतुष्कोतिकं सिध्यति / निर्विद्यत एव दुःखसमुदयक्षान्तिज्ञानैः /
11159 SK [३९०|०९] क्लेशान् प्रजहत् निर्वेदवस्त्वालम्बनत्वात् /
11160 SK [३९०|०९-३९०|१०] विरज्यत एव निरोधमार्गक्षान्तिज्ञानैः क्लेशान् प्रजहत् /
11161 SK [३९०|१०] प्रामोद्यवस्त्वालम्बनत्वात् /
11162 SK [३९०|१०-३९०|११] उभयं पूर्वैः क्लेशान् प्रजहत् /
11163 SK [३९०|११] नोभयमुत्तरैः क्लेशानप्रजहदिति /
11164 SK [३९०|११-३९०|१२] तत्र वीतरागः सत्यानि पश्यन्धर्मज्ञानक्षान्तिभिः क्लेशान्न प्रजहाति /
11165 SK [३९०|१२-३९०|१३] ज्ञानैस्तु प्रयोगविमुक्तिविशेषमार्गसंगृहीतैर्न प्रजहातीति /
11166 SK =====================================================================
11167 SK [३९०|१४-३९०|१५] अभिधर्मकोशभाष्ये मार्गपुद्गलनिर्देशो नाम षष्ठं कोशस्थानं समाप्तमिति
11168 SK [३९०|१६] //श्री लामावाकस्य यदत्र पुण्यम् //
11170 SK =====================================================================
11172 SK ===================================================================== [३९१|०२] क्षान्तयश्चोच्यन्ते ज्ञानानि च सम्यग्दृष्टिः सम्यग्ज्ञानं च /
11173 SK [३९१|०३] किं पुनः क्षान्तयो न ज्ञानं सम्यग्ज्ञानं च न दृष्टिः /
11174 SK [३९१|०४] नामला क्षान्तयो ज्ञानं
11175 SK [३९१|०५] तत्प्रहेयस्य विचिकित्सा ऽनुशयस्याग्रहीणत्वात् /
11176 SK [३९१|०५-३९१|०६] दृष्टयस्तु ता सन्तिरणात्मकत्त्वात् यथा च क्षान्तयो दृष्टिर्न ज्ञानमेवं पुनः
11177 SK [३९१|०७] क्षयानुत्पादधीर्न दक् /
11178 SK [३९१|०८] क्षयानमनुत्पादज्ञानं च न दृष्टिरसन्तीरणापरिमार्गणाशयत्वात् /
11179 SK [३९१|०९] तद्न्योभयथार्या धीः
11180 SK [३९१|१०] क्षान्तिक्षयानुत्पादज्ञानेभ्यो ऽन्या ऽनास्रवा प्रज्ञा दृष्टिः ज्ञानं च /
11181 SK [३९१|११] अन्या ज्ञानं
11182 SK [३९१|१२] लौकिकी प्रज्ञा सर्वैव ज्ञानम् /
11183 SK [३९१|१३] दृशश्च षट् // VAक्K_७.१ //
11184 SK [३९१|१४] पञ्च दृष्टयो लौकिकी च सम्यग्दृष्टिः /
11185 SK [३९१|१४-३९१|१५] एषा षड्विधा लौकिकी प्रज्ञादृष्टिः अन्या न दृष्टिः /
11186 SK [३९१|१५] ज्ञानं त्वेषा चान्या च / कियता सर्वज्ञानसंग्रहः / दशभिर्ज्ञानैः /
11187 SK [५९१|१६]३९११६] समासेन तु
11188 SK [३९१|१७] सास्रवानास्रवं ज्ञानं
11189 SK [३९१|१८] तयोः पुनः
11190 SK [३९१|१९] आद्यं संवृतिज्ञापकम् /
11191 SK [३९२|०१] यत्सास्रवं तत्संवृतिज्ञानम् / प्रायेण घटपटस्त्रीपुरुषादिसंवृतिग्रहात् /
11192 SK [३९२|०१-३९२|०२] अज्ञानसंवृतत्वात् इत्यपरे /
11193 SK [३९२|०३] अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च // VAक्K_७.२ //
11194 SK [३९२|०४] अनास्र्वं ज्ञानं द्विधा भिद्यते / धर्मज्ञानमन्वयज्ञानं च /
11195 SK [३९२|०४-३९२|०५] एवगेते द्वे ज्ञाने त्रीणि भवन्ति /
11196 SK [३९२|०५] संवृतिज्ञानं धर्मज्ञानं च / तत्र
11197 SK [३९२|०६] सांवृतं सर्वविषयं
11198 SK [३९२|०७] संवृतिज्ञानस्य सर्वधर्माः सष्कृतासंस्कृता आलम्बनं संभवतः /
11199 SK [३९२|०८] कामदुःखदिगोचरम् /
11200 SK [३९२|०९] धर्मख्यम्
11201 SK [३९२|१०] धर्मज्ञानस्य कामावचरं दुखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् /
11202 SK [३९२|११] अन्वयज्ञानं तूर्ध्वदुःखादिगोचरम् // VAक्K_७.३ //
11203 SK [३९२|१२] अन्वयज्ञानस्य रूपारुप्यावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् /
11204 SK [३९२|१३] ते एव सत्यभेदेन चत्वारि
11205 SK [३९२|१४] ते एव धर्मज्ञानान्वयज्ञाने सत्यभेदेन पुनश्चत्वारि ज्ञानानि भवन्ति /
11206 SK [३९२|१४-३९२|१५] दुःखसमुदयनिरोधमार्गज्ञानानि /
11207 SK [३९२|१५] तदालम्बनत्वात् /
11208 SK [३९२|१६] एते चतुर्विधे /
11209 SK [३९२|१७] अनुत्पादक्षयज्ञाने
11210 SK [३९२|१८-३९२|१९] एते एव धर्मज्ञानान्वयज्ञाने चतुर्विधे अदृष्टिस्वभावे क्षयज्ञानमनुत्पादज्ञानं चोच्यते /
11211 SK [३९२|२०] ते पुनः प्रथमोदिते // VAक्K_७.४ //
11212 SK [३९३|०१] दुःखहेत्वन्वयज्ञाने
11213 SK [३९३|०२-३९३|०३] प्रथमोत्पन्ने तु क्षयज्ञानानुत्पादज्ञाने दुःखसमुदयान्वयज्ञाने दुःखसमुदयाकारैर्भावाग्रिकस्कन्धालम्बनत्वात् /
11214 SK [३९३|०३] किम् खलु वज्रोपमो ऽपि ताभ्यामेकालम्वनो ऽस्ति / [३९३|०४] यदि दुःखसमुदयालम्वनो भवति / अथ निरोधमार्गालम्बनो नैकालम्बनः /
11215 SK [३९३|०५] चतुर्भ्यः परचित्तवित् /
11216 SK [३९३|०६] वेत्तीति वित् ज्ञानम् / परचित्तज्ञानं चतुर्भ्यो ज्ञानेभ्यो द्रष्टव्यम् /
11217 SK [३९३|०६-३९३|०७] धर्मान्वयज्ञानमार्गः संवृतिज्ञानेभ्यः /
11218 SK [३९३|०७] तस्य पुनरयं नियमः
11219 SK [३९३|०८] भूम्यक्षपुद्गलोत्क्रान्तम् नष्टाजातं न वेति तत् // VAक्K_७.५ //
11220 SK [३९३|०९] भूम्यतिक्रान्तं न जानातीति /
11221 SK [३९३|०९-३९३|१०] अधरध्यानभूमिकेनोत्तरध्यानभूमिकमिन्द्रियातिक्रान्तं न जानाति /
11222 SK [३९३|१०-३९३|११] श्रद्धाधिमुक्तसमयमुक्तमार्गेण दृष्टिप्राप्तासमयविमुक्तार्ग पुद्गलोत्क्रान्तं न जानाति /
11223 SK [३९३|११-३९३|१२] अनागाम्यहञ्च्छावक प्रत्येकबुद्धबुद्धमार्ग्गणामधरेणोत्तरं नष्टाजातं न जानाति /
11224 SK [३९३|१२-३९३|१३] अतीतानागतं वर्तमानपर चित्तचैत्तविषयत्वात् /
11225 SK [३९३|१३] किं च भूयः
11226 SK [३९३|१४] त धर्मान्वयधीपक्ष्यमन्यो ऽन्यं
11227 SK [३९३|१५] धर्मज्ञानपक्ष्यं परचित्तज्ञानमन्वयज्ञानपक्ष्यं चित्तं न जानाति /
11228 SK [३९३|१५-३९३|१६] अन्वयज्ञानपक्ष्यं च धर्मज्ञानपक्ष्यं न जानाति /
11229 SK [३९३|१६] कामधातुर्ध्वधातुप्रतिक्षालम्बनत्वात्तयोः /
11230 SK [३९३|१६-३९३|१७] दर्शनमार्गे परचित्तज्ञानं नास्ति /
11231 SK [३९३|१७] तदालम्बनं त्वस्ति /
11232 SK [३९३|१७-३९३|१८] तत्र परचित्तज्ञानेन दर्ज्ञनमार्ग ज्ञातुकामः प्रयोगं कृत्वा प्रथमौ
11233 SK [३९३|१९-३९३|२०] दर्शनक्षणौ / श्रावको वेत्ति खङ्गस्त्रीन् सर्वान्बुद्धो ऽप्रयोगतः // VAक्K_७.६ //
11234 SK [३९३|२१] श्रावको दर्शनमार्गात् परचित्तज्ञानेन द्वौ क्षणौ जानाति /
11235 SK [३९३|२१-३९३|२२] दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं च /
11236 SK [३९३|२२] अन्वयज्ञानपक्षालम्बनस्यान्यप्रयोगसाध्यत्वात् /
11237 SK [३९३|२२-३९४|०१] यावच्च स तत्र प्रयोगमार मते तावदयं षोडशचित्तमनुप्राप्तो भवतीत्यन्तरा न जानाति /
11238 SK [३९४|०१-३९४|०२] प्रत्येकबुद्धस्त्रीन् क्षणान् /
11239 SK [३९४|०२] प्रथमौ च द्वावष्टमं च समुदयान्वयज्ञानं मृदुप्रयोगत्वात् /
11240 SK [३९४|०३] प्रथमद्वितीयपञ्चदशानित्यपरे /
11241 SK [३९४|०३-३९४|०४] बुद्धस्तु सर्वानेव दर्शनमार्गक्षणानप्रयोगेण जानाति /
11242 SK [३९४|०५] अथ क्षयज्ञानानुत्पादज्ञानयोः को विशेषः /
11243 SK [३९४|०६-३९४|०७] क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः / न परिज्ञेयमित्यादिरनुत्पादमतिर्मता // VAक्K_७.७ //
11244 SK [३९४|०८] क्षयज्ञानं कतमत् / दुःखं मे परिज्ञातमिति जानाति /
11245 SK [३९४|०८-३९४|०९] समुदयः प्रहीणो निरोधः साक्षातकृतो मार्गो भावित इति जानाति /
11246 SK [३९४|०९-३९४|१०] तदुपादाय यत् ज्ञानं दर्शनं विद्या बुद्धिर्बोधिः प्रज्ञा आलोको ऽभिसमयमिदमुच्यते क्षयज्ञानम् /
11247 SK [३९४|१०-३९४|११] अनुत्पादज्ञानं कतमत् /
11248 SK [३९४|११-३९४|१२] दुःखं मे परिज्ञातं न पोउनः परिज्ञेयमिति जानाति यावत् मार्गो भावितो न पुनर्भावयितव्य इति /
11249 SK [३९४|१२] तदुपादाये᳚ति विस्तरेणोक्तं शास्त्रे /
11250 SK [३९४|१२-३९४|१३] कथमनास्रवेण ज्ञानेनैवं जानाति /
11251 SK [३९४|१३] तत्पृष्ठलब्धेन व्युत्थित एवं जानाति /
11252 SK [३९४|१३-३९४|१४] अतस्तद्विशेषेण तयोर्विशेषः /
11253 SK [३९४|१४] शास्त्रे ज्ञापिओत इति काश्मीराः /
11254 SK [३९४|१४-३९४|१५] अनास्रवेणाप्येवं जानातीत्यपरे दर्शनवचनं तु भाष्याक्षेपात् /
11255 SK [३९४|१५] ज्प्रत्यक्षवृत्तित्वाद्वा /
11256 SK [३९४|१५-३९४|१६] अत एवोक्तं ᳚यावत् ज्ञानं दर्शनमपि तदि᳚ति /
11257 SK [३९४|१६-३९४|१८] इत्येतानि दश ज्ञानानि भवन्ति यदुत धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं दुःखज्ञानं समुदयञ्ण्यानं निरोधज्ञानं मार्गज्ञानं परचित्तज्ञानं क्षयज्ञानमनुत्पादज्ञानं च /
11258 SK [३९४|१८-३९४|१९] तत्र संवृतिज्ञानमेकं ज्ञानमेकस्य च भागः /
11259 SK [३९४|१९] धर्मज्ञानमेकं ज्ञानं सप्तानां च भागः /
11260 SK [३९४|१९-३९४|२०] दुःखसमुदयनिरोधमार्ग क्षयानुत्पादपरचित्तज्ञानानाम् /
11261 SK [३९४|२०] एवमन्वयज्ञानम् /
11262 SK [३९४|२०-३९४|२१] दुःखज्ञानमेकं ज्ञानं चतुर्णा च भागः /
11263 SK [३९४|२१] धर्मान्वयक्षयानुत्पादज्ञानानाम् / एवं समुदयनिरोधज्ञाने चतुर्णां भागः /
11264 SK [३९४|२२] मार्गज्ञानमेकं ज्ञानं पञ्चानां च भागः / चतुर्णामनन्तरोक्तानां परचित्तस्य च /
11265 SK [३९४|२३] परचित्तज्ञनमेकं ज्ञानं चतुर्णां च भागः / धर्मान्वयमार्ग संवृतिज्ञानानाम् /
11266 SK [३९४|२४] क्षयज्ञानमेकं ज्ञानं षण्णां च भागः / धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानाम् /
11267 SK [३९४|२५] एवमनुत्पादज्ञानम् /
11268 SK [३९४|१६-३९४|२६] कस्मात् पुनरेतानि वीणि सन्ति दश व्यवस्थाप्यन्ते /
11269 SK [३९५|०१-३९५|०२] स्वभावप्रतिपक्षान्यामाकाराकारगोचरात् / प्रयोगकृतकृत्यत्वहेतूपचयोतो दश // VAक्K_७.८ //
11270 SK [३९५|०३] सप्तभिः किल कारणैर्दश ज्ञानानि व्यवस्थाप्यन्ते /
11271 SK [३९५|०३-३९५|०४] स्वभावतः संवृतिज्ञानमपरमार्थज्ञानत्वात् /
11272 SK [३९५|०४] प्रतिपक्षतो धर्मान्वयज्ञाने / कामथातुर्ध्वधातुप्रतिपक्षत्वात् /
11273 SK [३९५|०५] आकारतो दुःखसमुदयज्ञाने / आलम्बनाभेदात् /
11274 SK [३९५|०५-३९५|०६] आकारालम्बनतो निरोधमार्गज्ञाने /
11275 SK [३९५|०६] आकारालम्बनभेदात् / प्रयोगतः परचित्तज्ञानम् / न हि तेन चैत्ता न ज्ञायते /
11276 SK [३९५|०७] चित्तज्ञानार्थे तु प्रयुक्तस्याभिनिष्पत्तेः परचित्तज्ञानमुक्तम् /
11277 SK [३९५|०७-३९५|०८] कृतकृत्यतः क्षयज्ञानं कृतकृत्यसंतानोत्पत्तेः /
11278 SK [३९५|०८-३९५|०९] प्रथमतः हेतूपचयतो ऽनुत्पादज्ञानं सर्वानास्रवहेतुकत्वादिति /
11279 SK [३९५|१०] सकलस्य सकलप्रतिपक्षत्वात् कामधातुप्रतीपक्षो धर्मज्ञानमित्युक्तम् /
11281 SK [३९५|१२] धर्मज्ञाननिरोधे यन्मार्गे वा भावनापथे /
11282 SK [३९५|१३] त्रिधातुप्रतिपक्षस्तत्
11283 SK [३९५|१४] निरोधमार्गज्ञाने भावनामार्गसंगृहीते त्रिधातुप्रतिपक्षः /
11284 SK [३९५|१५] कामधातोस्तु नान्वयम् // VAक्K_७.९ //
11285 SK [३९५|१६] अन्वयज्ञानम् तु सर्वथा नास्ति कामधातुपोरतिपक्षः
11286 SK [३९५|१७] एषां दशानां ज्ञानानां
11287 SK [३९५|१८] धर्मज्ञानान्वयज्ञानं षोड्डशाकारम्
11288 SK [३९५|१९] तान् पुरस्तादुपदेक्ष्यामः /
11290 SK [३९५|२१] तथा च सांवृतं
11291 SK [३९५|२२] संवृतिज्ञानं षोडशाकारमन्यथाकारं च सर्वधर्माणां स्वसामान्यलक्षणादिग्रहणात् /
11292 SK [३९५|२३] स्वैः स्वैः सत्याकारैश्चतुष्टयम् // VAक्K_७.१० //
11293 SK [३९६|०१-३९६|०२] दुःखसमुदयनिरोधमार्ग ज्ञानानि स्वैः स्वैः सत्याकारैः प्रवर्तन्त इत्येकैकं चतुराकारं भवन्ति /
11294 SK [३९६|०३] तथा परमतोज्ञानं निर्मलं
11295 SK [३९६|०४] अनास्रवं परचित्तज्ञानं तथेव / स्वसत्याकारत्वाच्चुतुराकारं मार्गज्ञानत्वात् /
11296 SK [३९६|०५] समलं पुनः /
11297 SK [३९६|०६] शेयस्वलक्षणाकारं [३९६|०७] सास्रवं परचित्तज्ञानं ज्ञेयानां चित्तचैत्तानां यत् स्वलक्षणम् तदाकारयति /
11298 SK [३९६|०८] स्वलक्षणग्राहकत्वात् / लभयमपि तु
11299 SK [३९६|०९] एकैकद्रव्यगोचरम् // VAक्K_७.११ //
11300 SK [३९६|१०-३९६|११] यदा चित्तं गृह्लाति न तदा चित्तानां यदा वेदनां न तदा संज्ञामित्येवमादि /
11301 SK [३९६|११-३९६|१२] यत्तर्हि भगवतीक्तम् ᳚सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाती᳚त्येवमादि /
11302 SK [३९६|१२] न तयोर्दुगपद्ग्रहणम् / वस्त्रमलायुगापद्ग्रहणवत् /
11303 SK [३९६|१२-३९६|१३] सरागं चित्तमिति द्विधा सरागता /
11304 SK [३९६|१३] संसृष्टसरागता संयोइग सरागता च /
11305 SK [३९६|१३-३९६|१४] तत्र सरागं संप्रयुक्तं चित्तं द्वाभ्यां सरागं ततो ऽन्यत्सास्रवं संयोगसरागतया सरागम् /
11306 SK [३९६|१४-३९६|१५] अत्र तु सूत्रे रागसंप्रयुक्तं सरागं रागप्रतिपक्षी विगतरागमित्येके /
11307 SK [३९६|१५-३९६|१६] यदि हि रागेणासंप्रयुक्तं विगतरागं स्यादन्यक्लेशसम्प्रयुक्तमपि स्यात् /
11308 SK [३९६|१६-३९६|१७] एवं तर्हि तदप्रतिपक्षः सास्रवं चित्तमक्लिष्टं नैव सरागं न विगतरागं स्यादित्येवमादि /
11309 SK [३९६|१७-३९६|१८] तस्माद्रागसंप्रयुक्ततया ऽपि सरागं चित्तमत्रेष्टव्यमित्यपरे /
11310 SK [३९६|१८-३९६|१९] एवं यावत्समोहं विगतमोहं च वेदितव्यम् /
11311 SK [३९६|१९] संक्षिप्तं कुशलमालम्बनाभिसंक्षेपात् /
11312 SK [३९६|१९-३९६|२०] विक्षिप्तं क्लिष्टं विक्षेपसंप्रयोगात् /
11313 SK [३९६|२०] संक्षिप्तं मिद्धसंप्रयुक्तं विक्षिप्तमन्यत क्लिष्टमिति पाश्चात्त्याः /
11314 SK [३९६|२१] तदेतन्न वर्णयन्ति / तदेव हि चित्तं संक्षिप्तविक्षिप्तं स्यात् क्लिष्टमिद्धसंप्रयीगात् /
11315 SK [३९६|२२] शास्त्रविरोधश्च स्यात् / ᳚संक्षिप्तं चित्तं यथाभूतं प्रजानाति /
11316 SK [३९६|२२-३९६|२३] तज्ज्ञानं चत्वारि ज्ञानानि धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं मार्गज्ञानमि᳚ति /
11317 SK [३९६|२४] लीनं चित्तं क्लिष्टं कौशीद्यसंप्रयोगात् / प्रगृहीतं कुशलं वीर्यसंप्रयोगात् /
11318 SK [३९६|२४-३९६|२५] परीतां क्लिष्टं व्यवदानपरीत्तैर्निषेवितत्वात् /
11319 SK [३९६|२५] महद्गतं कुशलं तद्विपर्ययात् /
11320 SK [३९६|२५-३९७|०१] मूलमूल्यपरिवारानुपरिवर्तकवलाल्पवहुत्वाच्च /
11321 SK [३९७|०१-३९७|०२] क्लिष्टचित्तं द्वाभ्यामकुशलमूलाभ्यां समुलम् /
11322 SK [३९७|०२] कुशलं त्रिभिः कुशलमूलैः / क्लिष्टमल्पमूल्यमयत्न-साध्यत्वात् /
11323 SK [३९७|०३] कुशलं भुमूल्यं वहाभिसंस्कारसाध्यत्वात् /
11324 SK [३९७|०३-३९७|०४] क्लिष्टं तज्जातीयानागतभावना ऽभावान्न महापरिवारं त्रिभिश्च स्कन्धैः सानुपरिवर्तम् /
11325 SK [३९७|०४-३९७|०५] कुशलं तु महापरिवारं चतुर्भिश्च स्कन्धैः सानुपरिवर्तम् /
11326 SK [३९७|०५-३९७|०६] अल्पबलं खल्वपि क्लिष्टं बहुबलं कुशलम् /
11327 SK [३९७|०६] एकया हि दुःखे धर्मज्ञानक्षान्त्या दशानुशयात्यन्तसमुद्घातः क्रियते /
11328 SK [३९७|०७] तस्मादपि क्लिष्टम् परीत्तं कुशलं महद्गतम् / उद्धतं क्लिष्टमौद्धत्यसंप्रयोगात् /
11329 SK [३९७|०८] अनुद्धतं कुक्शलं तत्प्रतिपक्षत्वात् / एवमब्युपशान्त्ं व्युपशान्तं च /
11330 SK [३९७|०८-३९७|०९] असमाहितं क्लिष्टं विक्षेपसंप्रयोगात् /
11331 SK [३९७|०९] समाहितं कुशलं तत्प्रतिपक्षत्वात् /
11332 SK [३९७|०९-३९७|१०] अभावितं क्लिष्टं प्रतिलम्भतिषेवणभावनाभ्यामभावितत्वात् /
11333 SK [३९७|१०-३९७|११] भावितं कुशलं ताभ्यां भावितत्वात् विमुक्तं क्लिष्टं स्वभावसंतानविमुक्तिभ्यामविमुक्तत्वात् /
11334 SK [३९७|१२] विमुक्तं कुशलं ताभयं विमुक्तत्वादिति वैभाषिकाः / एवं तु सूत्रं नानुलोमितं भवति /
11335 SK [३९७|१३] एषां च पदानां नार्थविशेष उक्तो भवति /
11336 SK [३९७|१३-३९७|१४] सूत्र उक्तं ᳚कथं चित्तमध्यात्मं संक्षिप्तं भवति /
11337 SK [३९७|१४-३९७|१५] यच्चित्तम् स्त्यानमिद्धसहगतमध्यात्मं संनिरोधसहगतं नो तु विपश्यनया समन्वागतम् /
11338 SK [३९७|१५-३९७|१६] कथं वहिर्विक्षिप्तं भवति /
11339 SK [३९७|१६] यच्चित्तं पञ्चसु कामगुणेष्वनुविक्षिप्तं भवत्यनुविसृतमि᳚ति /
11340 SK [३९७|१६-३९७|१७] ननु चोक्तं तदेव चित्तं संक्षिप्तं स्याद्विक्षिप्तं चेति /
11341 SK [३९७|१७-३९७|१८] उक्तमिदमयुक्तं तूक्तं विद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानात् /
11342 SK [३९७|१८] ननु चोक्तं शास्त्रविरोधः स्यादिति /
11343 SK [३९७|१८-३९७|१९] वरं शास्त्रविरोधो न सूत्रविरीधः /
11344 SK [३९७|१९] कथमेषां पदानां नार्थविशेष उक्तो भवति /
11345 SK [३९७|२०-३९७|२१] विक्षिप्तलिलिनोद्धताव्युपशान्तासमाहिताभाविताविमुक्तानां चित्तानामभिन्नलक्षणवचनात् संक्षिप्तप्रगृहीतादीनां च /
11346 SK [३९७|२१] न वै नोक्तः पदानामर्थविशेषो भवति /
11347 SK [३९७|२१-३९७|२२] क्लिष्टसामान्ये ऽपि तद्दोषसंदर्शनात् /
11348 SK [३९७|२२-३९७|२३] इत्यप्येतत् क्लिष्टं चित्तं विक्षिप्तं लीनमिति विस्तरः /
11349 SK [३९७|२३-३९७|२४] एवं कुशलस्यापि गुणविशेषसंदर्शनादुक्त एवर्थविशेषो भवति /
11350 SK [३९७|२४] सूत्रविरोधस्यापरिहारान्नैष एषां पदानामर्थः /
11351 SK [३९७|२४-३९७|२५] यदि च सूत्रे तदेव लीनं चित्तं तदेवोद्धतमित्यभिप्रेतं स्यात् इदं नोक्तं स्यात् /
11352 SK [३९७|२५-३९७|२७] ᳚यस्मिन्समये लीनं चित्तं भवति लयाभिर्शङ्क वा अकालस्तस्मिन्समये प्रस्रब्धिसमाध्युपेक्षासंवोध्यङ्गानां भावनायाः /
11353 SK [३९७|२७-३९७|२८] यस्मिन्सगये उद्धातं चित्तं भवति औद्धत्याभिशङ्कि वा अकालस्तस्मिन्समये धर्मविचयवीर्यप्रीतिसंवोध्यङ्गानां भावनाया᳚ इति /
11354 SK [३९७|२८-३९८|०१] किं पुनर्वोध्यङ्गानां व्यग्रा भावना /
11355 SK [३९८|०१] मनसिकरणं तेषां भावनेष्टा न संमुखीभाव इत्यदोष एषः /
11356 SK [३९८|०१-३९८|०२] कौशीद्याधिकमत्र चित्तं लीनमित्युक्तम् /
11357 SK [३९८|०२] औद्धत्याधिकं चोद्धतमित्यविरोधः /
11358 SK [३९८|०२-३९८|०३] तयोस्तु सहभावात्तदेव चित्तं लीनं तदेवोद्धतमिति ब्रूमः /
11359 SK [३९८|०३] नाभिप्रयिकं वचनं वार्यते /
11360 SK [३९८|०३-३९८|०४] सूत्रे तु नायमभिप्राय इति ब्रूमः /
11361 SK [३९८|०४] यत्तूक्तं ᳚सर्वमेव रागसंप्रयुक्तं चित्तं सरागमि᳚ति /
11362 SK [३९८|०५] कतमच्चित्तं रागसंप्रयुक्तम् / रागप्राप्तिसहितं चेत् /
11363 SK [३९८|०५-३९८|०६] असास्रवमिति सरागं प्राप्नोति शैक्षचित्तम् /
11364 SK [३९८|०६] रागालम्बनं चेत् / अर्हतो ऽपि सास्रवं चित्तं सरागमिति गृह्लीयात् /
11365 SK [३९८|०७] रागालम्बनत्वात् कथं वा तत्सास्रवम् /
11366 SK [३९८|०७-३९८|०८] सामान्य क्लेशालम्बनत्वादिति चेत् /
11367 SK [३९८|०८] एवमपि समोहं गृह्लीयान्मोहालम्बनत्वात् /
11368 SK [३९८|०८-३९८|०९] न च परचित्तज्ञानं प्राप्त्यालम्बनं नापि तच्चित्तालम्बनं रागालम्बनम् /
11369 SK [३९८|०९-३९८|१०] तस्मान्न रागसंप्रयोगात्सरागं चित्तमत्रेष्टम् /
11370 SK [३९८|१०] किं तर्हि /
11371 SK [३९८|१०-३९८|११] रागसंप्रयुक्तं चित्तं सरागमसंप्रयुक्तं विगतरागमिति सूत्राभिग्रायो दृश्यते /
11372 SK [३९८|११-३९८|१२] यत् तूक्तं ᳚विगतरागमस्य तच्चित्तं भवति विगतद्वेषं विगतमोहमनावर्त्तिकधर्मि कामभवे रूपभवे आरुप्यभवे᳚ इति /
11373 SK [३९८|१३] तत्र तत्प्रप्तिविगमं संधायोक्तम् /
11374 SK [३९८|१३-३९८|१४] ननु चोक्तम् अन्यक्लेशसंप्रयुक्तमपि चित्तं रागविप्रयुक्तत्वाद्विगतरागं स्यादि᳚ति /
11375 SK [३९८|१४] एतेनाभिसंधिना न दोषः /
11376 SK [३९८|१४-३९८|१५] न तु तद्विगतरागमिति कृत्वा गृह्यते /
11377 SK [३९८|१५] किं तर्हि / सद्वेषं समोहमित्येवमादि /
11378 SK [३९८|१५-३९८|१६] अलं प्रसङ्गेन सिद्धान्तो वर्ण्यताम् /
11379 SK [३९८|१७] किं परचित्तज्ञानं परचित्तस्याकारमालम्बनं वा गृह्लाति /
11380 SK [३९८|१७-३९८|१९] न गृह्लाति आकारलम्बननिरपेक्षंं हि तद्रक्तमिदं चित्तमिति जानाति नत्वमुष्मिन् रुपे रक्तमिति जानाति /
11381 SK [३९८|१९-३९८|२०] अन्यथा हि तद्रूपालम्बनमपि स्यात् तदालम्बनं च परचित्तं गृह्लतः स्वभावग्रहणं प्राप्नुयात् /
11382 SK [३९८|२०-३९८|२२] सर्वं च परचित्तज्ञानं द्रव्यस्वलक्षणचित्तचैत्तप्रत्युत्पन्नपरसंततिकामरूपप्रतिसंयुक्ताप्रतिसंयुक्तविषयं दर्शनमार्गप्रतिषिद्धं भावनामार्ग उपलभ्यते /
11383 SK [३९८|२२-३९८|२३] शून्यता ऽनिमित्तसमाधि विप्रयुक्तं क्षयानुत्पादज्ञानासंगृहीतमानन्तर्यमार्ग प्रतिषिद्धं च वेदित्तव्यम् /
11384 SK [३९८|२३] उक्तं परचित्तज्ञानम् /
11385 SK [३९९|०१] शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते /
11386 SK [३९९|०२] क्षयानुत्पादज्ञाने शेषे ते चतुर्दशाकारे शून्यानात्मकारौ वर्जयित्वा /
11387 SK [३९९|०२-३९९|०४] पारमार्थिकयोरपि संवृतिभजनात् शीणा मे जातिर्नापरमस्माद्भवं प्रजानामीति तद्वलानुव्यवहारतः /
11388 SK [३९९|०५] किमनास्रवः स्वलक्षणाकारो ऽस्त्यथ न / काश्मीराणां तावत्
11389 SK [३९९|०६] नामलः षोडशभ्यो ऽन्य आकारः
11390 SK [३९९|०७] नास्त्यनास्रवाकारः षोडशाकारनिर्मुक्तः /
11391 SK [३९९|०८] अन्ये ऽस्ति शास्त्रतः // VAक्K_७.१२ //
11392 SK [३९९|०९] श्रन्ये पुनरस्तीत्याहुर्वहिर्देशकाः / कथं गम्यते / शास्त्रतः इति /
11393 SK [३९९|०९-३९९|१०] शास्त्रे ह्येवमाह /
11394 SK [३९९|१०] ᳚स्यादप्रतिसंयुक्तेन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयात् /
11395 SK [३९९|११] अनित्यतो दुःखतः शून्यतो ऽनात्मतः हेतुतः समुदयतः प्रभवतः प्रत्ययतः /
11396 SK [३९९|११-३९९|१२] अस्त्येतस्थानमस्त्येतद्वस्त्विति /
11397 SK [३९९|१२] योगविहितती विजानोयादि᳚ति /
11398 SK [३९९|१२-३९९|१४] नास्यायमर्थो यदस्त्येतत्स्थानमस्त्येतद्वस्त्वित्येवं विजानीयादिति अपि त्वस्त्येतत् स्थानमस्त्येतद्वस्तु यदनित्यादितो विजानीयादिति चेत् /
11399 SK [३९९|१४] न/ अन्यत्रावचनात् /
11400 SK [३९९|१५] एष चेच्छास्त्रार्थो ऽभविष्यत् /
11401 SK [३९९|१५-३९९|१६] यदिदं पठच्यते ᳚स्याद्दर्शनप्रहातव्येन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयादिति /
11402 SK [३९९|१६] आह / विजानीयात् /
11403 SK [३९९|१६-३९९|१८] आत्मत आत्मीयत उच्छेदतः शाश्वततः अहेतुतो ऽक्रियातो ऽपवादतो ऽग्रतः श्रेष्ठतो विशिष्टतः परमतः शुद्धितो मुक्तितो नैर्याणिकतः काङ्क्षातो विमतितो विचिकित्सातः /
11404 SK [३९९|१८-३९९|१९] रज्येत द्विष्यान्मन्येत मुह्येदयोगविहिततो विजानीयादि᳚ति /
11405 SK [३९९|१९] अत्राप्येवं पाठो ऽभविष्यत् /
11406 SK [३९९|१९-३९९|२०] अस्त्येतत् स्थानमस्त्येतद्वस्त्विति /
11407 SK [३९९|२०] न त्वेवं पठच्यते / तस्मान्नास्यायमर्थः /
11408 SK [३९९|२१] किं पुनरिमे षोडशाकारा नामत आहोस्वित् द्रव्यतः /
11409 SK [३९९|२१-३९९|२२] सप्त द्रव्यतो नामतः षोडशेत्येके /
11410 SK [३९९|२२] दुःखकाराश्चत्वारः समुदयनिरोधमार्गाकाराणामेककद्रव्यत्वात् /
11411 SK [३९९|२३] एवं तु वर्णयन्ति /
11412 SK [४००|०१] द्रव्यतः षोडशाकाराः
11413 SK [४००|०२] तत्प्रत्ययाधीनत्वात् अनित्यम् / षीडात्मकत्वात् दुःखम् /
11414 SK [४००|०२-४००|०३] आत्मीयदृष्टिविपक्षेण शून्यम् /
11415 SK [४००|०३] आत्मदृष्टिविपक्षेणानात्मा / हेतुर्वीजधर्मयोगेन /
11416 SK [४००|०३-४००|०४] समुदयः प्रादुर्भावयोइगेन /
11417 SK [४००|०४] प्रभवः प्रबन्धयोगेन /
11418 SK [४००|०४-४००|०५] अभिनिष्पादनार्थेन प्रत्ययः /
11419 SK [४००|०५-४००|०६] तद्यथा मृत्पिण्ददण्दचत्रसूत्रोदकसमवायात् घटाभिनिष्पत्तिर्भवति तद्वदिति /
11420 SK [४००|०६] अक्न्धोपरमत्वात् निरोधः / अग्निनिर्वाषणात् शान्तः /
11421 SK [४००|०६-४००|०७] निरूपद्रव्त्वात् प्रणीतः /
11422 SK [४००|०७] सर्वापक्षालविमुक्तत्वान्निः सरणमिति / गमनार्थेन मार्गः /
11423 SK [४००|०७-४००|०८] योगयुक्तत्वान्न्यायः /
11424 SK [४००|०८] सम्यक्प्रतिपादनार्थेन प्रतिपत् / अत्यन्तसमतिक्रमणान्नैर्याणिक इति /
11425 SK [४००|०९] अथवा अनात्यन्तिकत्वादनित्यम् / अभिन्यासभूतत्वात् दुःखम् /
11426 SK [४००|०९-४००|०१०] अन्तर्व्यापारपुरुषपरहितत्त्वाच्छून्यम् /
11427 SK [४००|१०] अकामकारित्वादनात्मा /
11428 SK [४००|१०-४००|०१०] हेतुरागमनयोगेन /
11429 SK [४००|१०-४००|११] समुदय उन्मज्जनयोगेन /
11430 SK [४००|११] प्रभवः प्रसरणयोगेन / प्रतिसरणार्घेन प्रत्यय इति /
11431 SK [४००|११-४००|१२] असंबन्धः संबन्धोपरमत्वान्निरोधः /
11432 SK [४००|१२] त्रिसंस्कृतलक्षणविमुक्तत्वाच्छान्तः /
11433 SK [४००|१२-४००|१३] कुशलत्वात् प्रणीतः /
11434 SK [४००|१३] परमाश्वासत्वान्निः सरणमिति / कुमार्गविपक्षेण मार्गः /
11435 SK [४००|१३-४००|१४] अन्यायविपक्षेण न्यायः /
11436 SK [४००|१४] निर्वाणपुराविरोधनार्थेन प्रतिपत् / सर्वभवप्रतिपक्षत्वान्नैर्याणिकः /
11437 SK [४००|१५] इत्येषां व्याख्यानमनेकपर्यायः / यथाभिप्रेतं प्रवक्ष्यामः / उदयव्ययत्वादनित्यम् /
11438 SK [४००|१६] प्रतिकूलभावात् / दुःखम् / आत्मरहितत्वाच्छून्यम् / स्वयमनात्मत्वादनात्म /
11439 SK [४००|१७] हेतुसमुदयप्रभवप्रत्ययत्वं तु यदेव सूत्र उक्तम् /
11440 SK [४००|१७-४००|१८] ᳚इमे पञ्चोपादानस्कन्धाश्छन्दमूलकाश्छन्दसमुदयाश्छन्दजातीयाश्छन्दप्रभवा᳚ इति /
11441 SK [४००|१८-४००|१९] प्रभवशब्दः केवलं पश्चात् पठितव्यः शास्त्रे /
11442 SK [४००|१९] कः पुनरेषां विशेषः / चतुर्विधो हि च्छन्दः /
11443 SK [४००|२०] अस्मीत्यभेदेनात्मभाव्च्छन्दः / स्यामित्यभेदेन पुनर्भवच्छन्दः /
11444 SK [४००|२०-४००|२१] इत्यं स्यामिति भेदेन पुनर्भवच्छन्दः /
11445 SK [४००|२१] प्रतिसंधिवन्धच्छन्दश्चतुर्थः / कर्माभिसंस्कारच्छन्दो वा /
11446 SK [४००|२२] तत्र प्रथोमो दुःखस्यादिकारणत्वान्मूलहेतुः / फलस्येव वीजम् /
11447 SK [४००|२२-४००|२३] द्वितीयः समुदयस्तेन तत्समुदागमात्फलस्येवाङ्कुरादिप्रसवः /
11448 SK [४००|२३-४००|२४] तृतीयस्तज्जातीयदुःखप्रत्ययः /
11449 SK [४००|२४] फलस्येव क्षोत्रोदकपाश्यादिकम् /
11450 SK [४००|२४-४००|२६] क्षेत्रादिवशेन हि फलस्य गन्धरसवीर्यविपाकप्रभावभेदा भवन्ति चतुर्थः प्रभवस्ततः एव तत्संभवात् फलस्येव पुष्पावसानमिति /
11452 SK [४००|२६-४०१|०१] तृष्णाविचरितानां द्वौ पञ्चकौ द्वौ चतुष्कौ चत्वारश्छन्दाः /
11453 SK [४०१|०१-४०१|०२] ᳚अस्मीति भिक्षवः साति इत्थमस्मीति भवति एवमस्मीति भवति अन्यथा ऽस्मीति सदस्मीति असदस्मीति /
11454 SK [४०१|०२-४०१|०३] भविष्यामीत्यस्य भवति न भविष्यामि इत्थं भविष्यामि एवं भविष्यामि एवं भविष्यामि श्रन्यथा भविष्यामि /
11455 SK [४०१|०४-४०१|०५] स्यामित्यस्य भवति इत्थं स्याम् एवं स्याम् अन्यथा स्याम् अपितु स्याम् अपीत्थं स्याम् अप्येवं स्याम् अप्यन्यथा स्यामित्यस्य भवति /
11456 SK [४०१|०६] प्रवृत्त्युपर्मत्वान्निरोधः / निर्दुःखत्वाच्छन्तः /
11457 SK [४०१|०६-४०१|०७] ᳚इति हि भिक्षवो दुःखाः संस्काराः शान्तं निर्वाणमि᳚ति वचनात /
11458 SK [४०१|०७] निरुत्तरत्वात् प्रणीतः /
11459 SK [४०१|०७-४०१|०८] अपुनरावृत्तित्वान्निःसरणम् /
11460 SK [४०१|०८] पथिभूतत्वान्मार्गः / यथाभूतप्रवृत्तत्वान्न्यायः /
11461 SK [४०१|०८-४०१|०९] प्रतिनियतत्वात् प्रतिपत् /
11463 SK [४०१|१०] ᳚एष मार्गो हि नास्त्यन्यो दर्शनस्य विशुद्धय᳚ इति
11464 SK [४०१|११] अत्यन्तनिर्याणान्नैर्याणिकः /
11465 SK [४०१|११-४०१|१२] अथवा नित्यसुखात्मीयात्मदृष्टिचरितानां प्रतिपक्षेणानित्यदुःखशुन्यानात्माकाराः /
11466 SK [४०१|१२-४०१|१३] अहेत्वेकहेतुपरिणामबुद्धिपूर्वक दृष्टिचरितानां प्रतिपक्षेण हेतुसमुदयप्रभवप्रत्ययाकाराः /
11467 SK [४०१|१३-४०१|१४] नास्ति मोक्ष इति दृष्टिचरितानां निरोधाकारः /
11468 SK [४०१|१४] दुःखो मोक्ष इति दृष्टिचरितानां शान्ताकारः /
11469 SK [४०१|१४-४०१|१५] ध्यानसुखप्रणीतदृष्टिचरितानां प्रणीताकारः /
11470 SK [४०१|१५-४०१|१६] पुनः पुनः परिहाणितो नात्यन्तिको मोक्ष इति दृष्टिचरितानां निःसरणाकारः /
11471 SK [४०१|१६-४०१|१७] नास्ति मार्गः कुमार्गो ऽयमन्यो मार्गः पुनरावर्ती मार्ग इति दृष्टिचरितानां मार्गन्यायप्रतिपन्नैर्याणिकाकारा इति /
11472 SK [४०१|१८] आकारो नाम क एष धर्मः /
11473 SK [४०१|१९] प्रज्ञाकारः
11474 SK [४०१|२०] एवं तर्हि प्रज्ञा साकारा न भविष्यति / प्रज्ञान्तरासंयोगात् / एवं तु युक्तं स्यात् /
11475 SK [४०१|२१] सर्वेषां चित्तचैत्तानामालम्बनग्रहणप्रकार आकार इति /
11476 SK [४०१|२२] अथ किं प्रज्ञैवाकारयति नेत्याह / किं तर्हि /
11478 SK [४०१|२४] आकारय्न्ति सालम्बाः
11479 SK [४०२|०१] प्रज्ञा चान्ये च सर्वे सालम्बना धर्मा आकारयन्ति /
11480 SK [४०२|०२] सर्वमाकार्यते तु सत् // VAक्K_७.१३ //
11481 SK [४०२|०३] यत्किञ्चिदस्ति सर्वमाकार्यते /
11482 SK [४०२|०३-४०२|०४] तदेवं कृत्वा सिद्धं भवति प्रज्ञा आकारश्चाकारयति चाकार्यन्ते च /
11483 SK [४०२|०४-४०२|०५] आलम्बना आकार्यन्त एवेति /
11484 SK [४०२|०६] अतः परमेषां ज्ञानानां कुशलादिभेदं निर्वेक्ष्यामः /
11485 SK [४०२|०७] त्रिधाद्यं कुशलान्यन्यानि
11486 SK [४०२|०८] संवृतिज्ञानं श्लोकादौ भवत्वादाद्यम् / तत्त्रिविधम् /
11487 SK [४०२|०८-४०२|०९] कुशलाकुशलाव्याकृतम् /
11488 SK [४०२|०९] अन्यानि नव ज्ञानानि कुशलान्येव /
11489 SK [४०२|१०] आद्यं सर्वासु भूमिषु /
11490 SK [४०२|११] कामधाती यावद्भवाग्रे /
11491 SK [४०२|१२] धर्माख्यं षट्सु
11492 SK [४०२|१३] धर्मज्ञानं चतुर्षु ध्यानेष्वनागम्ये ध्यानान्तरे च /
11493 SK [४०२|१४] नवसु त्वन्वयाख्यं
11494 SK [४०२|१५] अन्वयज्ञानं तास्वेव च षट्सु भूमिष्वारुप्यत्रये च /
11495 SK [४०२|१६] तथैव षट् // VAक्K_७.१४ //
11496 SK [४०२|१७] दुःखसमुदयनिरोधमार्गक्षयानुत्पादज्ञानान्यप्येतास्वेव नवसु भूमिष्वभेदेन /
11497 SK [४०२|१८] भेदेन पुन्र्धर्मज्ञानसंगृहीतानि षट्सु अन्वयज्ञान संगृहीतानि नवसु /
11498 SK [४०२|१९] ध्यानेष्वन्यमनोज्ञानं
11499 SK [४०३|०१] परचित्तज्ञानं चतुर्ष्वेव ध्यानेषु नान्यत्र /
11500 SK [४०३|०२] कामरूपाश्रयं च तत् /
11501 SK [४०३|०३] कामरूपधात्वोश्च तत् परचित्तज्ञानं संमुखीक्रियते /
11502 SK [४०३|०४] कामाश्रयं तु धर्मारुयम्
11503 SK [४०३|०५] धर्मज्ञानं तु कामधात्वाश्रयमेव / न रूपारुप्यधात्वोः संमुखीक्रियते /
11504 SK [४०३|०६] अन्यत्त्रैधातुकाश्रयम् // VAक्K_७.१५ //
11505 SK [४०३|०७] किं पुनरन्यत् / परचित्तज्ञानं धर्मज्ञाननिर्मुक्तम् / कृतो भूम्यश्रयनिर्देशः /
11506 SK [४०३|०८] स्मृत्युपस्थानसंग्रहो वक्तव्यः / सो ऽयमुच्यते /
11507 SK [४०३|०९] स्मृत्युपस्थानमेकं धीर्निरोधे
11508 SK [४०३|१०] धीः प्रज्ञा ज्ञानमिति पर्यायाः / निरोधज्ञानमेकं धर्मस्मृत्युपस्थानम् /
11509 SK [४०३|११] परचित्तधीः /
11511 SK [४०३|१३] परचित्तज्ञानं त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि /
11512 SK [४०३|१४] चत्वारि शेषाणि
11513 SK [४०३|१५] निरोधपरचित्तज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि
11514 SK [४०३|१६] कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् /
11515 SK [४०३|१७] धर्मधीगोचरो नव // VAक्K_७.१६ //
11516 SK [४०३|१८] धर्मज्ञानस्य नव ज्ञानान्यालम्बनमन्यत्रान्वयज्ञानात् /
11517 SK [४०४|०१] नव मार्गान्वयदियोः
11518 SK [४०४|०२] अन्वयज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र धर्मज्ञानात् /
11519 SK [४०४|०२-४०४|०३] मार्गज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र संवृतिज्ञानात् /
11520 SK [४०४|०४] दुःखहेतुधियोर्द्वयम् /
11521 SK [४०४|०५] दुःखसमुदयज्ञानयोर्द्वे संवृतिपरचितज्ञाने आलम्बनम् /
11522 SK [४०४|०६] चतुर्णां दश
11523 SK [४०४|०७] संवृतिपरचित्तक्षयानुत्पादज्ञानानां दश ज्ञानान्यालम्बनम् /
11525 SK [४०४|०९] एकस्य निरोधज्ञानस्य नैव ज्ञानमालम्बनम् /
11526 SK [४०४|१०] योज्या धर्माः पुनर्दश // VAक्K_७.१७ //
11527 SK [४०४|११] कतमे दश /
11528 SK [४०४|१२] त्रैधातु कामला धर्मा अकृताश्च द्विधा द्विधा /
11529 SK [४०४|१३] संकृता धर्मा अष्टधा क्रियन्ते /
11530 SK [४०४|१३-४०४|१४] कामरूपारुप्यावचरानास्रवाणां संप्रयुक्तविप्रयुक्तभेदात् /
11531 SK [४०४|१४] असंस्कृता द्विधा क्रियन्ते / कुशलाव्याकृतभेदात् /
11532 SK [४०४|१४-४०४|१५] इमे दश धर्माः कथं योज्याः कस्य ज्ञानस्य कत्यालम्बनमिति /
11533 SK [४०४|१५-४०४|१६] तत्र संवृतिज्ञानस्य सर्वे दश धर्मा आलम्बनम् /
11534 SK [४०४|१६] धर्मज्ञानस्य पञ्च / कामावचरानास्रवा श्चत्वारः कुशलं चासंस्कृतम् /
11535 SK [४०४|१७] अन्वयज्ञानस्य सप्त / रूपारुप्यावचरानास्रवाः षट् कुशलं चासंस्कृतम् /
11536 SK [४०४|१७-४०४|१८] दुःखसमुदयज्ञानयोः कामरूपारुप्यावचराः षट् /
11537 SK [४०४|१८] निरोधज्ञानस्यैकः /
11538 SK [४०४|१८-४०४|१९] कुशलमेवासंस्कृतम् /
11539 SK [४०४|१९] मार्गज्ञानस्य द्वावनास्रवौ / परचित्तज्ञानस्य त्रयः /
11540 SK [४०४|१९-४०४|२०] कामरूपावचरानास्रवाः संप्रयुक्ताः /
11541 SK [४०४|२०-४०४|२१] क्षयानुत्पादज्ञानयोः नव धर्मा आलम्बनमव्याकृतमसंस्कृतं मुक्त्वा /
11542 SK [४०४|२२] स्यादेकेन ज्ञानेन सर्वधर्मान् जानीयात् / न स्यात् / अपि तु
11543 SK [४०५|०१] सांवृतं स्वकलापान्यदेकं विद्यादनात्मतः // VAक्K_७.१८ //
11544 SK [४०५|०२-४०५|०३] संवृतिज्ञानं स्वस्मात्कलापादन्यान् सर्वधर्माननात्वतो जानीयात् सर्वधर्मा अनात्मान इति /
11545 SK [४०५|०३] ज्स्वभावस्तत्सहभुवश्च धर्मास्तस्य स्वकलापः /
11546 SK [४०५|०३-४०५|०४] तेषामग्रहणं विषयविषयिभेदादेकालम्बनत्वादिति /
11547 SK [४०५|०४] संनिकृष्टत्वाच्च /
11548 SK [४०५|०४-४०५|०५] तच्च कामावचरं श्रुतचिन्तामयं रूपावचरं श्रुतमयम् भावनामयम् /
11549 SK [४०५|०५-४०५|०६] तस्य व्यवच्छिन्नभूम्यालम्बनत्वात् /
11550 SK [४०५|०६] अन्यथा हि युगपत्सर्वतो वैराग्यं स्यात् / गतमेतत् /
11551 SK [४०५|०७] इदं तु वक्तव्यम् / कः कतिभिर्ज्ञानैः समन्वागत इति /
11552 SK [४०५|०७-४०५|०८] पृथग्जनस्तावदेकेन समन्वागतः /
11553 SK [४०५|०८] संवृतिज्ञानेन / वीतरागस्तु परचित्तज्ञानेनापि / आर्यः पुनः /
11554 SK [४०५|०९] एकज्ञानान्वितो रागीप्रथमे ऽनास्रवक्षणे /
11555 SK [४०५|१०] कामावीतरागो दुःखधर्मज्ञानक्षान्तवेकेनैव संवृतिज्ञानेन समन्वागतो भवति /
11556 SK [४०५|११] द्वितीये त्रिभिः
11557 SK [४०५|१२] दुःखधर्मज्ञाने त्रिभिः संवृतिज्ञानधर्मज्ञानदुःखज्ञानैः /
11558 SK [४०५|१३] ऊर्ध्वस्तु चतुष्र्वेकैकवृद्धिमान् // VAक्K_७.१९ //
11559 SK [४०५|१४] अतः परं चतुर्षु क्षणेषु एकैकज्ञानवृद्धिरस्य ज्ञातव्या /
11560 SK [४०५|१४-४०५|१५] दुःखे ऽन्वयज्ञाने ऽन्वयज्ञानं वर्धते /
11561 SK [४०५|१५-४०५|१६] समुदयनिरोधमार्गधर्मज्ञानेषु समुदयनिरोधमार्गज्ञानानि वर्धन्त इति मार्गधर्मज्ञाने सप्तभिर्ज्ञानैः समन्वागतो भवति /
11562 SK [४०५|१६-४०५|१७] वीतरागस्तु सर्वत्राधिकेन परचित्तज्ञानेन समन्वागतो वेदितव्यः /
11563 SK [४०५|१८] अथ कस्यामवस्थायां कति ज्ञानानि भव्यन्ते /
11564 SK [४०५|१९] यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने /
11566 SK [४०६|०१-४०६|०२] दर्शनमार्गे यद्यदेवोत्पद्यते क्षान्तिर्ज्ञानं वा तज्जातीयमनागतं भावनां गच्छति तदाकारा एव चत्वारः /
11567 SK [४०६|०२-४०६|०३] कस्माद्दर्शनमार्गे सभागज्ञानाकारभावनैव गोत्राणामपोरतिलब्धत्वात् /
11568 SK [४०६|०४] तत्रैव सांवृतं चान्वयत्रये // VAक्K_७.२० //
11569 SK [४०६|०५-४०६|०६] तत्रैव दर्शनमार्गे संवृतिज्ञानं चापि भाव्यते त्रिषु दुःखसमुदयनिरोधान्वयज्ञानेषु /
11570 SK [४०६|०६] न धर्मज्ञानेष्वकृत्स्नसत्याभिसमयात् /
11571 SK [४०६|०७] अतो ऽभिसमयान्त्याख्यं
11572 SK [४०६|०८] अत एव तदाभिसमयान्तिकं संवृतिज्ञानमाख्यावते /
11573 SK [४०६|०८-४०६|०९] एकैकसत्याभिसमयान्ते भावनात् /
11574 SK [४०६|०९] कस्मान्न मार्गान्वयज्ञाने भावनां गच्छति /
11575 SK [४०६|०९-४०६|१०] मार्गसत्यस्य पूर्व लौकिकेन मार्गेणानभिसमितत्वात् अकृत्स्नाभिसमयाच्च /
11576 SK [४०६|१०-४०६|१२] कृत्स्नं हि दुःखं शक्यते परिज्ञातुं समुदयः प्रहातुं निरोधः साक्षात्कर्तु न तु मार्गः शक्यते कृत्स्नो भावयितुम् इत्यभिसमयान्ताभावान्न तस्मिन्नाभिसमयान्तिकं भाव्यते /
11577 SK [४०६|१२-४०६|१३] समुदयो ऽपि न तदा सर्वः प्रहीणो भवतीति न स्यादाभिसमयान्तिकम् /
11579 SK [४०६|१३-४०६|१४] तत्सत्यदर्शनहेयः सर्वः प्रहीण्नो भवति /
11580 SK [४०६|१४-४०६|१५] मार्गस्तद्दर्शनहेयप्रतिपक्षो न सर्वः शक्यते भावयितुं वहुगोत्रत्वात् इत्यस्ति महान्विशेषः /
11581 SK [४०६|१५] दर्शनमार्गपरिवारत्वादित्यपरे /
11582 SK [४०६|१५-४०६|१६] तदिदं साध्यत्वादज्ञापकम् /
11583 SK [४०६|१६] किं पुनस्तदाभिसमयान्तिकं सम्वृतिज्ञानं कदाचित्संमुखीक्रियते /
11584 SK [४०६|१६-४०६|१७] न कदाचित् एकान्तेन हि
11585 SK [४०६|१८] तदानुत्पत्तिधर्मकम् /
11586 SK [४०६|१९] कथं पुनस्तद्भावितं भवति /
11587 SK [४०६|१९-४०६|२०] अलब्धलाभात् कथमिदानीं तत्प्रतिलब्धं यदि नैव संमुखीकर्तु शक्यते /
11588 SK [४०६|२०] प्राप्तितः /
11589 SK [४०६|२०-४०६|२१] यस्माल्लब्धं तस्माल्लब्धमित्यपूर्वैषा निर्देशजातिः /
11590 SK [४०६|२१] तस्मान्नैवं भावना सिध्यति /
11591 SK [४०६|२१-४०६|२२] एवं तु सिध्यति यद् आहुः पूर्वाचार्याः /
11592 SK [४०६|२२] कथं च पूर्वाचार्या आहुः /
11593 SK [४०६|२२-४०६|२४] लोकोत्तरमार्ग-सामर्थ्यात् संवृतिज्ञानं भाव्यते यद् व्युत्थितः सत्यालम्बनम् विशिष्टतरं लौकिकं ज्ञानं संमुखीकरोति /
11594 SK [४०६|२४-४०७|०१] एष एव च तस्य लाभो यत्-तत्-संमुखीभाव-समर्थाश्रयलाभः /
11595 SK [४०७|०१] गोत्रे हि लब्धे लब्धं गौत्रिकं भवति / एव तु नेच्छन्ति वैभाषिकाः /
11596 SK [४०७|०२] कतिभूमिकं पुनस्तत्संवृतिज्ञानं भाव्यते / दर्शनमार्गस्य
11597 SK [४०७|०३] स्वधोभूमि
11598 SK [४०७|०४] यद्भूमिको दर्शनमार्गो भवति तद्भूमिकम् चावरभूमिकं च संवृतिज्ञानं भाव्यते /
11599 SK [४०७|०५] आनागम्यभूमिकश्चेद्भवति द्विभूमिकं बाव्यते / अनागम्यभूमिकं कामावचरं च /
11600 SK [४०७|०६] एवं यावच्चतुर्थध्यानभूमिके दर्शनमार्गे सप्तभूमिकं संवृतिज्ञानं भाष्यते /
11601 SK [४०७|०७] तत्र पुनः कति स्मृत्युपस्थानानि /
11602 SK [४०७|०८] निरोधे ऽन्त्यं
11603 SK [४०७|०९] निरोधे ऽभिसमिते यत् संवृतिज्ञानं तदन्त्यं स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् /
11604 SK [४०७|०९-४०७|१०] एकस्य परिसंख्यानात्सिद्धं भवति शेषं चत्वारि स्मृत्युपस्थानानीति /
11605 SK [४०७|१०-४०७|११] तच्चैतदाभिसमयान्तिकं संवृतिज्ञानं
11606 SK [४०७|१२] स्वसत्याकारं
11607 SK [४०७|१३] यत्सत्याभिसमयाल्लभ्यते तत्सत्याकारमेव /
11608 SK [४०७|१३-४०७|१४] तदाकारवचनादालम्बनस्य तदेव सत्यमित्युक्तं भवति /
11609 SK [४०७|१४] दर्शनमार्गलभ्यत्वाच्च तत् /
11610 SK [४०७|१५] यत्निकम् // VAक्K_७.२१ //
11611 SK [४०७|१६] प्रायोगिकमित्यर्थः /
11612 SK [४०७|१६-४०७|१७] सपरिवारग्रहणात्कामरूपावचाराणि चतुष्पञ्चस्कन्धस्वभावानि /
11613 SK [४०७|१८] षोडशे षट् सरागस्य
11614 SK [४०७|१९] भाव्यन्त इति वर्तते /
11615 SK [४०७|१९-४०७|२०] अवीतरागस्य षोडशे मार्गान्वयज्ञानक्षणे द्वे ज्ञाने प्रत्युत्पन्ने /
11616 SK [४०७|२०] मार्गज्ञानमार्गान्वयज्ञाने / पुरागतानि षट् भाव्यन्ते /
11617 SK [४०७|२०-४०७|२१] धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानि /
11618 SK [४०८|०१] वीतरागस्य सप्त तु /
11619 SK [४०८|०२] वीतरागस्य परचित्तज्ञानं सप्तमं भाव्यते /
11620 SK [४०८|०३] सरागभावना मार्गे तदूर्ध्वं सप्तभावना // VAक्K_७.२२ //
11621 SK [४०८|०४-४०८|०५] षोडशात् क्षणादुर्ध्वं भावनामार्गे यावन्न वीतरागो भवति तावत् सर्वेषु प्रयोगान्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते /
11622 SK [४०८|०५-४०८|०६] धर्मान्वयदुःखसमुदयनिरोधमार्गसंवृतिज्ञानानि /
11623 SK [४०८|०६] लौकिकश्चेत् भावनामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् /
11624 SK [४०८|०७] लोकोत्तरश्चेत् चतुर्णां धर्मज्ञानानामन्यतमत् /
11625 SK [४०८|०८-४०८|०९] सप्तभूमिजया ऽभिज्ञाकोप्याप्त्याकीर्णभाविते आननतर्यपथेषूर्ध्वं मुक्तिमार्गाष्टके ऽपि च // VAक्K_७.२३ //
11626 SK [४०८|१०] सप्तज्ञानानि भाव्यन्ते इति वर्तते /
11627 SK [४०८|१०-४०८|११] सप्त भूमयः चत्वारि ध्यानानि त्रयश्चारुप्याः /
11628 SK [४०८|११-४०८|१३] तासां जयः वैराग्यं तस्मिन् सप्तभूमिके वैराग्ये पञ्चसु चाभिज्ञासु अकोप्यप्रतिवेधे च व्यवकीर्णभाविते च ध्याने शैक्षस्य यावन्तः आनन्तर्यमार्गास्तेष्वपि सर्वेषु सप्त ज्ञानानि भाव्यन्ते तान्येव /
11629 SK [४०८|१३-४०८|१४] लौकिकेश्चेत् भाव्नामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् /
11630 SK [४०८|१४-४०८|१५] लोकोत्तरश्चेच्चतुर्णामन्वज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् / [४०८|१५] अकोप्यप्रतिवेधे तु संवृतिज्ञानं न भाव्यते /
11631 SK [४०८|१५-४०८|१६] भवाग्राप्रति पक्षत्वात् /
11632 SK [४०८|१६] तत्र जयज्ञानं सप्तमं वेदितव्यम् /
11633 SK [४०८|१६-४०८|१७] सप्तभूमिवैराग्यादपि चोर्ध्वंभवाग्रवैराग्ये विमुक्तिमार्गेष्वष्टासु सप्तैव ज्ञानानि भाव्यन्ते /
11634 SK [४०८|१७-४०८|१८] धर्मान्वयदुःखसमुदयनिरोधमार्गपरचित्तज्ञानानि /
11635 SK [४०८|१८] संवृतिज्ञानं न भाव्यते / भवाग्राप्रतिपक्षत्वात् /
11636 SK [४०८|१८-४०८|१९] प्रत्युत्पन्नं तु चतुर्णामन्वयज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् /
11637 SK [४०८|२०] शैक्षोत्तापनमुक्तौ वा षट्सप्तज्ञानभावना /
11638 SK [४०८|२१-४०८|२३] शैक्षस्येन्द्रियोत्तापनायां विमुक्तिमार्गे सरागस्य षण्णां भावना धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां वितरागस्य सप्तानां परचित्तज्ञानं प्रक्षिप्य /
11639 SK [४०८|२३] संवृतिज्ञानस्याप्युभयोरिति केचित् / तत्र मतविकल्पज्ञापनार्थो वाशब्धः /
11640 SK [४०८|२४] प्रयोगमार्गे तु तयोः संवृतिज्ञानस्यापि भावना /
11641 SK [४०९|०१] आनन्तर्यपथ षण्णां
11642 SK [४०९|०२-४०९|०३] वीतरागस्यावीतरागस्य वा शैक्षस्येन्द्रियोत्तापनायामानन्तर्यमार्गे षण्णां भावना पूर्ववत् /
11643 SK [४०९|०३] न संवृतिज्ञानस्य / दर्शनमार्ग सादृश्यात् /
11644 SK [४०९|०४] न परचित्तज्ञानस्य / सर्वानन्तर्यमार्ग प्रतिपिद्धत्वात् / किमर्थ प्रतिपिध्यते /
11645 SK [४०९|०४-४०९|०५] अप्रतिपक्षत्वात् /
11646 SK [४०९|०६] भवाग्रविजये तथा // VAक्K_७.२४ //
11647 SK [४०९|०७] भवाग्रवैराग्ये ऽप्यानन्तर्यमार्गेषु षण्णां भावना तथैव /
11648 SK [४०९|०८] नवानां तु क्षयज्ञाने
11649 SK [४०९|०९] भवाग्रवैराग्ये नवमो विमुक्तिमार्गः क्षयज्ञानम् /
11650 SK [४०९|०९-४०९|१०] तत्र नवानां ज्ञानानां भावना अन्यत्रानुत्पादज्ञानात् /
11651 SK [४०९|११] अकोप्यस्य दश भावना /
11652 SK [४०९|१२] यस्त्वकोप्यधर्मा भवति तस्य दशानां ज्ञानानां भावना /
11653 SK [४०९|१२-४०९|१३] अनुत्पादज्ञानलाभात् /
11654 SK [४०९|१४] तत्संचरे ऽन्त्यमुक्तौ च
11655 SK [४०९|१५] यो ऽप्यकोप्यतां संचरति तस्याप्यन्त्ये विमुक्तिमार्गे दशानां भावना /
11656 SK [४०९|१६] प्रोक्तशेषे ऽष्टभावना // VAक्K_७.२५ //
11657 SK [४०९|१७] किं पुनः शेषम् /
11658 SK [४०९|१७-४०९|१९] कामवैराग्ये नवमो विमुक्तिमार्गः सप्तभूमिवैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गः अकोप्यप्रतिवेधो ऽष्टौ विमुक्तिमार्गाः सर्वे च वीतरागस्य प्रयोगविशेषमार्गाः /
11659 SK [४०९|१९] तेषु सर्वेष्वष्टौ ज्ञानानि भाव्यन्ते /
11660 SK [४०९|२०] अनागतभावनया क्षयानुत्पादज्ञाने हित्वा / शैक्षस्यैवम् /
11661 SK [४०९|२०-४०९|२१] अशैक्षस्य पुनरभिज्ञादिप्रयोगविमुक्तविशेषमार्गेषु नव ज्ञानानि दश वा /
11662 SK [४०९|२१-४०९|२३] अभिज्ञाव्यवकीर्णभावितानन्तर्यविमुक्तिमार्गेषु त्वष्टौ नव वा द्वयोस्त्वभ्हिज्ञाविमुक्तिमार्गयोरव्याकृतत्वान्न किचिदनागते भाव्यते /
11663 SK [४०९|२३-४१०|०१] पृथग्जनस्य तु कामत्रिध्यानवैराग्यान्त्यविमुक्तिमार्गेषु ध्यानभूमिकेषु च प्रयोगाभिज्ञात्रयविमुक्तिमार्गाप्रमाणादिगुणाभिनिर्हारेषु संवृतिज्ञानमनागतं भाव्यते परचित्तज्ञानं चान्यत्र निर्वेधभागीयेभ्यः /
11664 SK [४१०|०१] तेषु हि परचित्तज्ञानं न भाव्यते / दर्शनमार्गपरिवारत्वात् /
11665 SK [४१०|०२] अन्यत्रापूर्वमार्गलाभे संवाऋतिज्ञानमेवानागतं भाव्यते /
11666 SK [४१०|०३] अथ कस्मिन्मार्गे कतिभूमिकं ज्ञानं भाव्यते /
11667 SK [४१०|०३-४१०|०४] संवृतिज्ञानं तावद्यद्भूमिको मार्गो यां च प्रथमतो भूमि लभते तद्भूमिकमनागतं भाव्यते /
11668 SK [४१०|०४-४१०|०५] अनास्रवं तु न केवलं यद्भूमिको मार्गः /
11669 SK [४१०|०५] किं तर्हि /
11670 SK [४१०|०६] यर्द्वराग्याय यल्लाभस्तत्र चाधश्च भाव्यते /
11671 SK [४१०|०७-४१०|०९] यद्भूमिवैराग्यायापि हि द्विविधो ऽपि मार्गो भवति प्रयोगमार्गादिः यां च भूमि लभते वैराग्यतस्त्द्भूमिकान्यधोभूमिकानि चानास्रवाणि ज्ञानानि भावनां गच्छन्ति /
11672 SK [४१०|१०] सास्रवाश्च क्षयज्ञाने
11673 SK [४१०|११-४१०|१३] क्षयज्ञाने तु सर्वभूमिकाः सास्रवा अपि गुणाः क्षयज्ञानलाभिका भावनां गच्छन्ति अ४उभानापानस्मृतिस्मृत्युपस्थानाप्रमाणविमोक्षादयः रज्जुच्छेदादुच्छ्वसन्तीव पेडासाधर्म्येण /
11674 SK [४१०|१३-४१०|१४] स्वचित्ताधिराज्यप्राप्तस्य प्राप्तिभिः सर्वकुशलधर्मप्रत्युद्गमनादाधिराज्यपोरप्तौ प्राभृतेन विषयप्रत्युद्गमनवत् /
11675 SK [४१०|१५] यत् किचिल्लभ्यते तत्सर्व भाव्यते / यदपूर्व लभ्यते तत् भाव्यते /
11676 SK [४१०|१६] लब्धपूर्व न भाव्यते // VAक्K_७.२६ //
11677 SK [४१०|१७] यद्विहीनं पुनर्लभ्यते न त्त् भाव्यते / भावितोत्सृष्टत्वात् /
11678 SK [४१०|१८] किं खलु प्रतिलम्भ एव भावना नेत्युच्यते / चतुर्विधा हि भावना /
11679 SK [४१०|१९] प्रतिलम्भभावना निषेवणभावना प्रतिपक्षभावना विनिर्धावनभावना च / तत्र
11680 SK [४१०|२०-४१०|२१] प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने / प्रतिपक्षविनिर्धवभावने सास्रवस्य तु // VAक्K_७.२७ //
11681 SK [४११|०१] प्रतिलम्भनिषेवणभावने कुज्ञलसंस्कृतानां धर्माणामनागतानामेका प्रत्युत्पन्नानामुभे /
11682 SK [४११|०२] प्रतिपक्षविनिर्धावनभावने सास्रवाणां धर्माणाम् /
11683 SK [४११|०२-४११|०३] तदेवं कुशलसास्रवाणां चतस्रो भावना भवन्ति /
11684 SK [४११|०३] अनास्रवाणां द्वे क्लिष्टाव्याकृतानां च /
11685 SK [४११|०३-४११|०४] बाह्याभिधर्मिकाणां षट् भाव्नाः /
11686 SK [४११|०४] एताश्चतस्रः संवरभावना विभावन च /
11687 SK [४११|०४-४११|०५] इन्द्रियाणां पूर्वी कायस्योत्तरा /
11688 SK [४११|०५-४११|०६] ᳚षडिगानीन्द्रियाणि सुदान्तानि यावत्सुभावितानि तथा सन्त्यस्मिन्काये क्लेशा᳚ इति विस्तरः /
11689 SK [४११|०६-४११|०७] ते तु प्रतिपक्षनिर्धावभावनान्तर्भूते इति काश्मीराः /
11690 SK [४११|०७-४११|०८] सामान्येन सर्वेषां पुद्गलानां क्षयज्ञाने गुणभावनोक्ता /
11691 SK [४११|०९] अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः /
11692 SK [४११|१०] ये बुद्धस्यैव भगवतः क्षयज्ञाने भावनां गच्छन्ति नान्यस्य / कतमे ऽष्टादश /
11693 SK [४११|११] दश बलानि चत्वारि वैशारद्यानि त्रीणि स्मृत्युपस्थानानि महाकरुणा च /
11694 SK [४११|११-४११|१२] असाधारणं ह्यावेणिकमित्युच्यते /
11696 SK [४११|१३] स्थानास्थाने दश ज्ञानानि
11697 SK [४११|१४] स्थानास्थानज्ञानबलं दश ज्ञानानि /
11698 SK [४११|१५] अष्टौ कर्मफले
11699 SK [४११|१६] कमविपाकज्ञानबलमष्टी ज्ञानानि / निरोधमार्गज्ञाने हित्वा /
11700 SK [४११|१७] नव // VAक्K_७.२८ //
11701 SK [४११|१८] ध्यानाद्यक्षाध्हिमोक्षेषु धातौ च
11702 SK [४११|१९] ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नव ज्ञानानि / निरोध ज्ञानं हित्वा /
11703 SK [४११|१९-४११|२०] एवमिन्द्रियपरापरज्ञान बलं नानाधिमुक्तिज्ञानबलं नानाधातुज्ञानबलं वेदितव्यम् /
11704 SK [४११|२१] प्रतिपत्सु तु /
11706 SK [४१२|०२] नव वेति मतविकल्पा ऽर्थो वाशब्दः / यदि सफला प्रतिपत् गृह्यते /
11707 SK [४१२|०२-४१२|०३] सर्वत्रगामिनी प्रतिपज्ज्ञानबलं दश ज्ञानानि /
11708 SK [४१२|०३] न चेन्नव / अन्यत्र निरोधज्ञानात् /
11709 SK [४१२|०४] संवृतिज्ञानं द्वयोः
11710 SK [४१२|०५] पूर्वनिवासानुस्मृतिज्ञानबलं च संवृतिज्ञानम् /
11711 SK [४१२|०६] षट् दश वा क्षये // VAक्K_७.२९ //
11712 SK [४१२|०७] आस्रवक्षयज्ञानबलं सड् ज्ञानानि धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानिं /
11713 SK [४१२|०८] यदि निरोधज्ञानमेवास्रवक्षयज्ञानम् /
11714 SK [४१२|०८-४१२|०९] अथ क्षीणस्रवसंताने ज्ञानमास्रवक्षयज्ञानं ततो दश ज्ञानानि /
11715 SK [४१२|१०] उक्तः स्वभावो भूमिरिदानीमुच्यते /
11716 SK [४१२|११] प्राङिनविसच्युतोत्पादबलध्यानेषु
11717 SK [४१२|१२] च्युतिरेव च्युतम् / पूर्वनिवासच्युत्युपपतीज्ञानं बलं चतुर्ध्यानभूमिकम् /
11718 SK [४१२|१३] शेषितम् /
11719 SK [४१२|१४] सर्वभूमिषु
11720 SK [४१२|१५] शेषं बलं सर्वभूमिसंगृहीतम् / ताः पुनरेकादश /
11721 SK [४१२|१५-४१२|१६] कामधातुरनागम्य ध्यानान्तरं ध्यानारुप्याश्च /
11722 SK [४१२|१६] सर्वाणि / जम्बूद्वीपपुरुषाश्रयाणि / अन्यत्र दुद्धानुत्पादात् /
11723 SK [४१२|१६-४१२|१७] तदेतद्दशविधं ज्ञानमन्यस्य बलं नोच्यते /
11724 SK [४१२|१७] बुद्धस्यैव बलमिति /
11725 SK [४१२|१८] केनास्य बलमव्याहतम् यतः // VAक्K_७.३० //
11726 SK [४१२|१९] यस्मादस्य सर्वत्र ज्ञेये ज्ञानभव्याहतं वर्तते तस्माद्वलम् /
11727 SK [४१२|१९-४१२|२०] अनेषां तु व्याहन्यते /
11728 SK [४१२|२०-४१३|०१] ज्ञानं ववचिदिच्छतामप्यप्रवृत्तेरिति नार्हति तद्बलाध्यां लब्धुम् /
11729 SK [४१३|०१-४१३|०२] स्थविरशारिपुत्रेण प्रव्रज्यापेक्षपुरुषप्रत्याख्यानं श्येनोपद्रुतस्य पक्षिण उपपत्त्यादीपर्यन्ताज्ञानं चात्रोदाहरणम् /
11730 SK [४१३|०२-४१३|०३] एवं तावदव्याहतज्ञानत्वाद्बुद्धानां ज्ञेयवदनन्तं मानसं बलम् /
11731 SK [४१३|०४] नारायणबलं काये
11732 SK [४१३|०५] काये पुनर्बुद्धस्य नारायणं बलं वर्णयति
11733 SK [४१३|०६] संधिष्वन्ये
11734 SK [४१३|०७] सन्धौ सन्धौ नारायणबलमित्यपरे /
11735 SK [४१३|०७-४१३|०८] मानसवत् कायिकमप्यस्यान तं बलमिति भदन्तः /
11736 SK [४१३|०८] अन्यथा ह्यननतज्ञानबलसहिष्णु नं स्यादिति /
11737 SK [४१३|०८-४१३|०९] नागग्रन्धिशङ्कलाशङ्कुसंधयश्च बुधप्रत्येकबुद्धचक्रवर्तिनः /
11738 SK [४१३|१०] किं पुनर्नारायणस्य बलस्य प्रमाणम् /
11739 SK [४१३|११] दशाधिकम् /
11740 SK [४१३|१२] हस्त्यादिसप्तकबलम्
11741 SK [४१३|१३] यद्दशानां प्राकृतहस्तिनां बलं तदेकस्य गन्धहस्तिनः /
11742 SK [४१३|१३-४१३|१४] एवं महानग्नप्रस्कन्दिवराङ्गचानूरनारायणानां दशोत्तरवृद्धिर्वत्तव्या /
11743 SK [४१३|१४-४१३|१५] प्राकृतगन्धहस्तिमहानग्नप्रस्कन्दिनां दशात्तरवृद्धच्यार्धनारायणं बलं तत् द्विगुणं नारायण मित्यपरे /
11744 SK [४१३|१५-४१३|१६] यथा तु वहुतर तथा युज्यते /
11745 SK [४१३|१७] स्प्रष्टव्यायतनं च तत् // VAक्K_७.३१ //
11746 SK [४१३|१८] तच्चतत्कायिकं बलं सर्वस्यैव स्प्रष्टव्यायतनस्वभावं महाभूतविशेष एव /
11747 SK [४१३|१९] उपादायरूपं सप्तभ्यो ऽर्थान्तरमित्यपरे / उक्तानि वलानि /
11748 SK [४१३|२०] वैशारध्यं चतुर्धा तु
11749 SK [४१३|२१] यथासूत्रम् / एतानि पुनश्चत्वारि वैशारद्यानि
11750 SK [४१४|०१] यथाद्यदशमे बले /
11751 SK [४१४|०२] द्वितीयसप्तमे चैव /
11752 SK [४१४|०३-४१४|०४] यथा स्थानास्थानज्ञानबलमेवं सम्यक्संबुद्धस्य वत मे सते इत्येतद्वैशारद्यं वेदितव्यम् /
11753 SK [४१४|०४] यथास्रवक्षयज्ञानबलमेवं क्षीणास्रवस्य वत मे सत इत्येतद्वैशारद्यम् /
11754 SK [४१४|०५-४१४|०६] यथा कर्मस्वकज्ञानवलमेवं ये वा पुनर्मया श्रावकाणामन्तरायिका धर्मा आध्याता इत्येतद्वैशारद्यम् /
11755 SK [४१४|०६-४१४|०७] यथा सर्वत्रगामिनी प्रतिपज्ज्ञानं वलमेवं यो व पुनर्मया श्रावकाणां निर्याणाय मार्ग आध्यात इत्येतद्वैशारद्यं वेदितव्यम् /
11756 SK [४१४|०७-४१४|०८] कथं न ज्ञानमेव वैशार्द्यम् /
11757 SK [४१४|०८] निर्भयता हि वैशारद्यम् /
11758 SK [४१४|०८-४१४|०९] एभिश्च निर्भयो भवति /
11759 SK [४१४|०९] ज्ञानकृतं वैशारद्यं युज्यते / न ज्ञानमेव /
11760 SK [४१४|१०] त्रीणि स्मृत्युपस्थानानि पर्षद्भेदात् भवन्ति यथासूत्रम् / तत्त्वेतत्
11761 SK [४१४|११] स्मृतिप्रज्ञात्मकं त्रयम् // VAक्K_७.३२ //
11762 SK [४१४|१२] स्मृतिसंप्रज्ञानस्वभावान्येतानि त्रीणि स्मृत्युपस्थानानि /
11763 SK [४१४|१२-४१४|१३] यदा श्रावकस्यापि शुश्रूषमाणाशुश्रूपमाणोभयेष्वानन्दी न भवत्याघातो वा /
11764 SK [४१४|१४] कस्मादेते आवेणिका बुद्धधर्मा उच्यन्ते / सवासनप्रहाणात् /
11765 SK [४१४|१४-४१४|१६] अथवा यस्य श्रावकास्तस्य चच्छूश्रूषमाणाशुश्रूषमाणोभयेषु सौमनस्याद्यवकाशः सुतरां न तथा ऽन्यस्येति तस्यैव तानुत्पादादाश्चर्य व्यवस्थाप्यते नान्यस्येति /
11766 SK [४१४|१७] महाकरुणेदानी वक्तव्या / सेयमुच्यते /
11767 SK [४१४|१८] महाकृपा संवृतिधीः
11768 SK [४१४|१९] संवृतिज्ञानात्मिका महाकरुणा /
11769 SK [४१४|१९-४१४|२०] अन्यथा हि न सर्वसत्त्वालम्बना सिध्येत् न च त्रिदुःखताकारा /
11770 SK [४१४|२०] करुणावत् / कस्मादियं महाकरुणेत्युच्यते /
11771 SK [४१४|२१] संभाराकारगोचरैः /
11772 SK [४१५|०१] समत्वादाधिमाव्याच्च
11773 SK [४१५|०२] सभारेण महापुण्यज्ञानसंभारसमुदागमात् / आकारेण त्रिदुःखताकरणात् /
11774 SK [४१५|०३] आलम्बनेन त्रिधातुकालम्बनात् / समत्येन सर्वसत्त्वेषु समवृत्तित्वात् /
11775 SK [४१५|०३-४१५|०४] अभिमात्रत्वेन सर्वस्त्त्वेषु समवृत्तित्वात् /
11776 SK [४१५|०४] अधिमात्रत्वेन ततो ऽधिमात्रतराभावात् /
11777 SK [४१५|०५] करुणामहाकरुणयोः किं नानाकरणम् /
11778 SK [४१५|०६] नानाकरणमष्ट्धा // VAक्K_७.३३ //
11779 SK [४१५|०७] स्वभावतो ऽद्वेषामोहस्वभावत्वात् /
11780 SK [४१५|०७-४१५|०८] आकारत एकत्रिदुःखताकारत्वात् /
11781 SK [४१५|०८] आलम्बनत एकत्रिधात्वालम्बनत्वात् /
11782 SK [४१५|०८-४१५|०९] भूमितश्चतुर्ध्यानचतुर्थध्यानभूमिकत्वात् /
11783 SK [४१५|०९] संतानतः श्रावकादिबुद्धसंतानजत्वात् /
11784 SK [४१५|०९-४१५|१०] लाभतः कामधातुभवाग्रवैराग्यलभ्यत्वात् /
11785 SK [४१५|१०] अपरित्राणपरित्राणतः अतुल्यकरुणायनाच्च /
11786 SK [४१५|११] किं पुनः सर्वे बुद्धाः सर्वप्रकारसामान्या भवन्ति / नेत्याह /
11787 SK [४१५|१२-४१५|१३] संभारधर्मकायाभ्यां जगतश्चार्थचर्यया / समता सर्वबुद्धानां नायुर्जातिप्रमाणतः // VAक्K_७.३४ //
11788 SK [४१५|१४] त्रिभिः कारणैः साम्यं सर्वबुद्धानाम् /
11789 SK [४१५|१४-४१५|१५] सर्वपुण्यज्ञानसंभारसमुदागमतः धर्मकायपरिनिष्पत्तितः अर्थचर्यया च लोकस्य /
11790 SK [४१५|१५] आयुर्जातिगोत्रप्रमाणकृतस्तु भेदो भवति /
11791 SK [४१५|१६-४१५|१७] चिराल्पतरजीवनात् क्षत्रियव्राह्मणजातिभेदात् काश्यपगौतमादिगोत्रभेदात् अल्पानल्पप्रमाणभेदाच्च यथकालमिति /
11792 SK [४१५|१७-४१५|१९] एतामेव च त्रिविधां संपदं मनसिकुर्वाणेन विदुषा शक्यं बुद्धानां भगवतामन्तिके तीव्रप्रेम गौरवं चोत्पादयितुं यदुत हेतुसंपदं फलसंपदमुपकारसंपदं च /
11793 SK [४१५|१९] तत्र चतुर्धा हेतुसंपत् /
11794 SK [४१५|१९-४१५|२०] सर्वपुण्यज्ञानसंभाराभ्यासो दीर्घकालाभ्यासो निरन्तराभ्यासः सत्कृत्याभ्यासश्च /
11795 SK [४१५|२०] चतुर्विधा फलसंपत् /
11796 SK [४१५|२१] ज्ञानसंपत् प्रहाणसंपत् प्रभावसंपद्रूपकयसंपच्व / चतुर्विधोपकारसंपत् /
11797 SK [४१५|२१-४१५|२३] अपायत्रयसंसारदुःखात्यन्तनिर्मोक्षसंपत् यानत्रयसुगति प्रतिष्ठापनसंपद्वा /
11798 SK [४१५|२३] ज्ञानसंपत् पुनश्चतुर्विधा /
11799 SK [४१५|२३-४१६|०१] अनुपदिष्टज्ञानं सर्वत्रज्ञान सर्वथाज्ञानमयत्नज्ञानं च /
11800 SK [४१६|०१] चतुर्विधा प्रहाणसंपत् /
11801 SK [४१६|०१-४१६|०२] सर्वक्लेशप्रहाणम् अत्यन्तप्रहाणं सवासनप्रहाणं सर्वसमाधिसमापत्त्यावरणप्रहाणं च चतुर्विधा प्रभावसंपत् /
11802 SK [४१६|०२-४१६|०४] बाह्यविषयनिर्माणपरिणामना धिष्ठानवशित्यसंपत् आयुरुत्प्तर्गाधिष्ठानवशित्वसंपत् आवृताकाशदूरक्षीप्रगमनाल्पवहुत्वप्रवेशन वशित्वसंपत् विविधनिजाश्चर्यधर्मसंपच्च /
11803 SK [४१६|०४-४१६|०५] चतुर्विधा रूपकायसंपत् /
11804 SK [४१६|०५] लक्षणसंपत् अनुव्यञ्जनसंपत् बलसंपत् वज्रसारास्थिसंपत् /
11805 SK [४१६|०६] इत्येतत्सामासिकं बुद्धानां माहात्म्यम् / अनन्तप्रभेदं तु तद्भिद्यमानं जायते /
11806 SK [४१६|०७-४१६|०८] तच्च पुनर्बुद्धा एव सकलं ज्ञातुं बक्तुं च समर्थाः यद्यनेकासंख्येयं कल्पं जीवितमधितिष्ठेयुः /
11807 SK [४१६|०८] एवं च तावदनन्ताद्भूतगुणज्ञानप्रभावोपकारमाहरत्नाकरास्तथागताः /
11808 SK [४१६|०९-४१६|१०] अथ चपुनर्बालाः स्वगुणदारिद्रच्यहताधिमोक्षाः श्रुण्वन्तो ऽपि तां तादृशीं गुणसमृद्धिं बुद्धं च नाद्रियन्ते तस्य च धर्मम् /
11809 SK [४१६|१०-४१६|११] पण्डितास्तु पुनर्मज्जाभिरपि तं भगवन्तमभिप्रपद्यन्ते तस्य च धर्मम् /
11810 SK [४१६|११-४१६|१३] ते हे श्रद्धामात्रकेणाप्येकान्तिकेनाभिप्रसन्ना अनियतविपाकानां पापानां राशीनभिभूय दैवीं मानुषीं च श्रियमभिभूय निर्वाणपरायणाः संवर्तन्ते /
11811 SK [४१६|१३] अत एव तथागता अनुत्तरं पुण्यक्षेत्रमुच्यन्ते /
11812 SK [४१६|१४] अवन्ध्येष्ठपोरकृष्टाशुस्वन्तफलत्वात् / उक्तं हि भगवता
11813 SK [४१६|१५-४१६|१६] ᳚ये ऽन्यानपि जिने कारान्करिष्यन्ति विनायके / विचित्रं स्वर्गमागम्य ते लप्स्यन्ते ऽमृतं पदमि᳚ति /
11814 SK [४१६|१७] इमे तावदष्टादश बुद्धानामावेणिका धर्मा उच्यन्ते //
11815 SK [४१६|१८] शिष्यसाधारणा अन्ये धर्माः
11816 SK [४१६|१९] श्रावकसाधारणास्त्वन्ये गुणा बुद्धानाम् /
11817 SK [४१६|२०] केचित् पृथग्जनैः /
11818 SK [४१६|२१] के पुनस्त इति यथायोगम्
11819 SK [४१६|२२] अरणाप्रणिधिज्ञानप्रतिसंविद्गुणादयः // VAक्K_७.३५ //
11820 SK [४१७|०१-४१७|०२] अरणप्रणिधिज्ञानप्रतिसंविदभिज्ञाध्यानारुप्यांप्रमाणविमोक्षाभिभ्वायतनकृत्स्नायतनादयः /
11821 SK [४१७|०२-४१७|०४] तत्रारणा नाम कश्चिदेवार्हन् क्लेशप्रभवं सत्त्वानां दुःखं विदित्वात्मानं च दक्षिणीयविशेषं परेषां तदालम्बनं क्लेशोत्पादं परिहर्तुकामस्तादृशं ज्ञानमुत्पादयति भेन परेषां सर्वथा ऽपि रणं नोत्पादयति /
11822 SK [४१७|०४-४१७|०५] न कस्यचित्तदालम्बनो राग उत्पद्यते द्वेषो मानो वा /
11823 SK [४१७|०५] नैषा प्रतिपत् कञ्चिदेव रणयतीत्यरणा / सा पुनरेषा
11824 SK [४१७|०६] संवृतिज्ञानमरणा
11825 SK [४१७|०७] अयमस्या स्वभावः /
11826 SK [४१७|०८] ध्याने ऽन्त्ये
11827 SK [४१७|०९] चतुर्थध्यान भूमिका सुखप्रतिपदामग्रत्वात् /
11828 SK [४१७|१०] अकोप्यधर्मणः /
11829 SK [३४१|७११-४१७११] नान्यस्यार्हतः /
11830 SK [४१७|११-४१७|१२] अन्यो हि स्वसंतानादपि कदाचित् क्लेशरणं परिहर्तु न शक्नोति /
11832 SK [४१७|१४] मनुष्येष्वेवोत्पद्यते त्रिषु द्वीपेषु /
11833 SK [४१७|१५] अनुत्पन्नकामाप्तसवस्तुक्लेशगोचराः // VAक्K_७.३६ //
11834 SK [४१७|१६-४१७|१७] अनागताः कामावचराः सवस्तुकाः क्लेशाः अस्या आलम्बनं नापरेषां क्लेश उदपादीत्येवं प्रवृत्तत्वात् /
11835 SK [४१७|१७-४१७|१८] अवस्तुकास्तु क्लेशा न शक्याः परिहर्तुं सर्वत्रगाणां सकलस्वभूम्यालम्बनत्वात् /
11836 SK [४१७|१८] यथा चारणोक्ता
11837 SK [४१७|१९] तथैव प्रणिधिज्ञानं
11838 SK [४१८|०१] तदपि हि संवृतिज्ञानं ध्याने ऽन्त्ये ऽकोप्यधर्मणः मनुष्याश्रयं च
11839 SK [४१८|०२] सर्वालम्बं तु तत्
11840 SK [४१८|०३] सर्वधर्मालम्बनं तु प्रणिधिज्ञानमित्येव विशेषः /
11841 SK [४१८|०३-४१८|०४] आरुप्यास्तु न साक्षात् प्राणिधिज्ञानेन ज्ञायन्ते /
11842 SK [४१८|०३] किं तर्हि / निष्पन्नचरितविशेषात् /
11843 SK [४१८|०४-४१८|०५] कर्षकनिदर्शनं चात्रेति वैभाषिकाः /
11844 SK [४१८|०५-४१८|०६] प्रणिधिपूर्वकं ज्ञानं प्रणिधिज्ञानं यद्धि प्रणिधाय प्रान्तकोटिकं चतुर्थ ध्यानं समापद्यते /
11845 SK [४१८|०६] इदं जानीयामिति तद्यथाभूतं जानाति / सर्वस्तत्समाधिविषयः
11846 SK [४१८|०७-४१८|०८] तथा / धर्मार्थयोर्निरुक्तौ च प्रतिभाने च संविदः // VAक्K_७.३७ //
11847 SK [४१८|०९] चतस्रो हि प्रतिसंविदः /
11848 SK [४१८|०९-४१८|१०] धर्मप्रतिसंविदर्थप्रतिसंविन्निरुक्तिप्रतिसंवित्प्रतिभानप्रतिसंविच्च /
11849 SK [४१८|१०-४१८|११] ता अपि धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदस्तथैव यथा ऽरणा /
11850 SK [४१८|११] किमासां तथैव अकोप्यधर्ममनुष्याश्रयत्वम् /
11851 SK [४४१|८११-४१८१२] आलम्बनभूमिस्वभावविशेषस्त्वासां पृथगुच्यते /
11852 SK [४१८|१३] तिस्रो नामथवाग्ज्ञानमविवर्त्य यथाक्रमम् /
11853 SK [४१८|१४-४१८|१५] नामपदव्यञ्जनकायेष्वर्थवाचिता अविवर्त्यज्ञानं धर्माथंनिरुक्तिप्रतिसंविदो यथाक्रमम् /
11854 SK [४१८|१६] चतुर्थीयुक्तोमुक्ताभिलापमार्गवशित्वयोः // VAक्K_७.३८ //
11855 SK [४१८|१७] अविवर्त्यं ज्ञानमिति वर्तते /
11856 SK [४१८|१७-४१८|१८] युक्तमुताभिलापितायां समाधिवशिसंप्रक्याने चाविवर्त्यं ज्ञानं प्रतिभानसंवित् /
11857 SK [४१८|१९] वाङ्मार्गालम्बना चासौ
11858 SK [४१८|२०] वाक्च मार्गश्च तस्याः आल्म्वनम् /
11859 SK [४१८|२१] नव ज्ञानानि
11860 SK [४१९|०१] नवज्ञानस्वभावा प्रतिभानप्रतिसंविदन्यत्र निरोधज्ञानात् /
11861 SK [४१९|०२] सर्वभूः /
11862 SK [४१९|०३] सर्वभूमिका चासौ कामधातौ यावत् भवाग्रे वाङ्मार्गयोरन्यतरालम्बनात् /
11863 SK [४१९|०४] दश षड्वा ऽर्थसंवित्
11864 SK [४१९|०५] अर्थप्रतिभानसंवित् सर्वधर्माश्च्चेदर्था दश ज्ञानानि /
11865 SK [४१९|०५-४१९|०६] निर्वाणं चेदर्थः षट् ज्ञानानि /
11866 SK [४१९|०६] धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानि /
11867 SK [४१९|०७] सा सर्वत्र
11868 SK [४१९|०८] सा पुनरेषा ऽर्थप्रतिसंवित् सर्वभूमिका /
11869 SK [४१९|०९] अन्ये तु सांवृतम् // VAक्K_७.३९ //
11870 SK [४१९|१०-४१९|११] अन्ये तु द्वे धर्मनिरुक्तिप्रतिसविदौ संवृतिज्ञानस्वभावे नामकायादिवागालम्बनस्वभावत्वात् /
11871 SK [४१९|१२] कामध्यानेषु धर्मे वित्
11872 SK [४१९|१३-४१९|१४] धर्मप्रतिसंवित् पञ्चभूमिका कामधातुचतुर्थध्यानसंगृहीता ऊर्ध्वं नामकायाभावात् /
11873 SK [४१९|१५] वाचि प्रथमकामयोः /
11874 SK [४१९|१६] वाङ्निरुक्तिर् इत्य् एको ऽर्थः /
11875 SK [४१९|१६-४१९|१७] निरुक्तिप्रतिसंवित्कामधातुप्रथमध्यानभूमिका ऊर्ध्वं वितर्काभावात् /
11876 SK [४१९|१७] प्रज्ञप्तौ तु प्रतिसंविदामेव निर्देशः /
11877 SK [४१९|१७-४१९|१९] ᳚पदव्यञ्जने तस्यैवर्थे तस्यैकद्विवहुस्त्रीपुरुषाद्यधिवचने तस्यासक्ततायामविवर्त्यज्ञानं धर्माविप्रतिसंविद᳚ इत्यत एवासां क्रमसिद्धिः /
11878 SK [४१९|१९] निर्वचनं निरुक्तिः /
11879 SK [४१९|१९-४१९|२०] यथा रुप्यते तस्माद्रूपमित्येवमादि /
11880 SK [४१९|२०] उत्तरोत्तरप्रतिभा प्रतिभानमित्यपरे /
11881 SK [४१९|२०-४१९|२१] आसां च किल प्रतिसंविदां गणितं बुद्धवचनं शब्दवैद्या हेतुविद्या च पूर्वप्रयोगो यथाक्रमम् /
11882 SK [४१९|२१-४२०|०१] नाप्येतेष्वकृतकौशलस्ता उत्पादयितुं शक्नोतीति / [४२०|०१] बुद्धवचनमेव तु सर्वासां प्रयोगं वर्णयन्ति /
11883 SK [४२०|०२] यस्य चैका तस्यावश्यं चतस्रः प्रतिसंविदी भवन्ति /
11884 SK [४२०|०३] विकलाभिर्न तल्लाभी
11885 SK [४२०|०४] नहि विकलाभिस्ताभिः प्रतिसंविल्लाभी भवति /
11886 SK [४२०|०५] ये चैत उपदिष्टा अरणादयो गुणाः /
11887 SK [४२०|०६] षडेते प्राण्तकोटिकाः // VAक्K_७.४० //
11888 SK [४२०|०७] प्रान्तकोटिकध्यानवलेनैषां लाभः /
11889 SK [४२०|०८] तत्षडिवधं
11890 SK [४२०|०९] तदपि प्रान्तकोटिकं चतुर्थ ध्यानं षडात्मकम् /
11891 SK [४२०|०९-४२०|१०] अरणाप्रणिधिज्ञानं तिस्रः प्रतिसंविदः /
11892 SK [४२०|१०] तदेव प्रन्तकोटिकम् /
11893 SK [४२०|१०-४२०|११] निरुक्तिप्रतिसंविदस्तद्वलेन लाभो न तु सा चतुर्थध्यानभूमिका /
11894 SK [४२०|१२] किं पुनरिदं प्रान्तकोटिकं नाम /
11895 SK [४२०|१२-४२०|१३] ध्यानमन्त्यं चतुर्थं ध्यानम् /
11896 SK [४२०|१४] सर्वभूम्यनुलोमितम् /
11897 SK [४२०|१५] वृद्धिकाष्टागतं तच्च
11898 SK [४२०|१६] कथं सर्वभूम्यनुलोमितम् / कामावचराच्चित्तात्प्रथमं ध्यानं समापद्यते /
11899 SK [४२०|१७] ततो द्वितीयमेवं क्रमेण यावन्नैवसंज्ञानासंज्ञायतनम् /
11900 SK [४२०|१७-४२०|१८] प्रतिलोमं पुनर्यावत्कामावचरं चित्तं ततः पुनरनुलोमं यावच्चतुर्थध्यानमेवं सर्वभूम्यनुलोमितम् /
11901 SK [४२०|१८-४२०|१९] कथम् वृद्धिकाष्टागतम् /
11902 SK [४२०|१९] तथाभावितान्मृदुनो मध्यं मध्यादधिमात्रं समापद्यते /
11903 SK [४२०|१९-४२०|२०] वृद्धिप्रकर्षो हि वृद्धिकाष्टा /
11904 SK [४२०|२०] इदमीदृशं प्रान्तकोटिकं प्रगता ऽन्त कोटिरस्येति कृत्वा /
11905 SK [४२०|२०-४२०|२१] कोटिः पुनरत्र वृद्धिः प्रकारो वा /
11906 SK [४२०|२१] चतुष्कोटिकवत् /
11907 SK [४२०|२२] एते पुनः बुद्धतुणाः
11908 SK [४२१|०१] बुद्धान्यस्य प्रयोगजाः // VAक्K_७.४१ //
11909 SK [४२१|०२] बुद्धादन्यस्य प्रायोगिका न वैराग्यलाभिकाः / बुद्धस्य नास्ति किञ्चित् प्रायोगिकम् /
11910 SK [४२१|०३] तस्य सर्वधर्मेश्वरत्वादिच्छामात्र प्रतिबधः सर्वगुणसंपत्संमुखीभावः /
11911 SK [४२१|०३-४२१|०४] इमे तावच्छ्रादकसाधारणगुणा अभिज्ञादयः पृथग्जनैरपि /
11912 SK [४२१|०५] केयमभिज्ञा नाम /
11913 SK [४२१|०६] ऋद्ध्हिश्रोत्रमनःपूर्वजन्मच्युत्युदयक्षये /
11914 SK [४२१|०७] ज्ञातसाक्षीक्रिया ऽभिज्ञा षड्विधा
11915 SK [४२१|०८] ऋद्धिविषये ज्ञानसाक्षात्क्रिया अभिज्ञा /
11916 SK [४२१|०८-४२१|०९] दिव्यश्रोत्रचेतःपर्यायपूर्वनिवासानुस्मृतिच्युत्युत्पपादास्रवक्षयज्ञानसाक्षात्क्रिया अभिज्ञाः /
11917 SK [४२१|०९] एताः षडभिज्ञा /
11918 SK [४२१|०९-४२१|१०] आसां पञ्च पृथग्जनैः साधारणाः /
11919 SK [४२१|१०] सर्वास्त्वेताः
11920 SK [४२१|११] मुक्तिमार्गधीः // VAक्K_७.४२ //
11921 SK [४२१|१२] विमुक्तिमार्गप्रज्ञास्वभावाः / श्रामण्यफलवत् /
11922 SK [४२१|१३] चतस्रः संवृतिज्ञानं
11923 SK [४२१|१४] चेतःपर्यायास्रवक्षयज्ञानाभिज्ञे हित्वा /
11924 SK [४२१|१५] चेतसि ज्ञानपञ्चकम् /
11925 SK [४२१|१६] चेतःपर्यायाभिज्ञा पञ्च धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि /
11926 SK [४२१|१७] क्षयाभिज्ञा बलं यद्वत्
11927 SK [४२१|१८] यथास्रवक्षयज्ञानवलमुक्तं तथा वेदितव्या / षड् दश ज्ञानानीति /
11928 SK [४२१|१८-४२१|१९] सर्वभूमिका ऽप्येषा तथैव ज्ञात्व्या /
11930 SK [४२२|०१] पञ्च ध्यानचतुष्टये // VAक्K_७.४३ //
11931 SK [४२२|०२] पञ्चाभिज्ञाः चतुर्थध्यानभूमिकाः / कस्मादारुप्यभूमिका न सन्ति /
11932 SK [४२२|०२-४२२|०३] तिस्रस्तावन्न सन्ति /
11933 SK [४२२|०३] रूपालम्बनत्वात् /
11934 SK [४२२|०३-४२२|०४] चेतःपर्यायाभ्हिज्ञापि नास्ति रूपतीर्थाभिनिष्पाद्यत्वात् /
11935 SK [४२२|०४] पूर्वनिवासस्मृतिरप्यनुपूर्वावस्थान्तरमरणाभिनिष्पत्तेः /
11936 SK [४२२|०४-४२२|०५] स्थानगोत्राद्यालम्बनत्वाच्च /
11937 SK [४२२|०५-४२२|०६] परचित्तं हि ज्ञातुकाम आत्मनः कायचित्तयोर्निमित्तमुद्गृह्लाति /
11938 SK [४२२|०६-४२२|०७] कीदृशे ऽपि मे काये कीदृशं चित्तम् भवत्य् एवं परेषामप्याभुजतश्चित्तज्ञानादभिनिष्पन्ना भवति /
11939 SK [४२२|०७] अभिनिष्पन्नायामभिज्ञायां रूपनिरपेक्षो जानाति /
11940 SK [४२२|०७-४२२|०९] पूर्वनिवासं समनुस्मर्तुकामः समनन्तरनिरुद्धमनोविज्ञानो निमित्तमुद्गृह्य तत्समनन्तरप्रातिलोम्येनावस्थान्तराणि मनसिकरोति /
11941 SK [४२२|०९-४२२|१०] यावत्संधिचित्तम् /
11942 SK [४२२|१०] ततो ऽन्तराभवस्यैकक्षणं मरणे ऽपि निष्पन्नो भवति /
11943 SK [४२२|१०-४२२|११] एवं परस्यापि स्मरति /
11944 SK [४२२|११-४२२|२११] अभिनिष्पन्नायां विलङ्घ्यापि स्मरणम् /
11945 SK [४२२|११] अनुभूतपूर्वस्यैव स्मरणम् /
11946 SK [४२२|१२] शुद्धावासानां कथम् स्मरणम् / श्रवणेनानुभूतत्वात् /
11947 SK [४२२|१२-४२२|१३] आरुप्यच्युतस्येहोपपन्नस्य परसंतत्यधिष्ठानेनोत्पादनम् /
11948 SK [४२२|१३] अन्येषां स्वसंतत्यधिष्ठानेन /
11949 SK [४२२|१३-४२२|१४] ऋद्ध्यादीनां तु लघत्वशब्दालोकमनसिकरणं प्रयोगः /
11950 SK [४२२|१४] ताः पुनरेताः पञ्चाभिज्ञाः
11951 SK [४२२|१५] स्वाधोभूविषयाः
11952 SK [४२२|१६] यद्भूमिका ऋद्धच्यभ्हिज्ञा भवति तां भूमि तया गच्छति /
11953 SK [४२२|१६-४२२|१७] निर्मिणोति वा अधरां नोक्तराम् /
11954 SK [४२२|१७-४२२|१८] एवं दिव्यश्रोत्राभिज्ञया स्वभूमिकमेव शब्दं शृणोत्यधरभूमिकं वा नोर्ध्वभूमिकम् /
11955 SK [४२२|१८] चेतः पर्यायाभिज्ञया नोर्ध्वभूमिकं चित्तं जानाति /
11956 SK [४२२|१८-४२२|१९] पूर्वनिवासानुस्मृत्या न स्मरति /
11957 SK [४२२|१९] च्युतोपपादाभिज्ञया न पश्यति /
11958 SK [४२२|१९-४२२|२०] अत एवारुप्यभुमिकं चित्तं चेतःपर्यायपूर्वनिवासभिज्ञाभ्यां न गृह्लात्युर्ध्वभूमिकत्वात् /
11959 SK [४२२|२१] कथमेता लभ्यन्ते / अतुचित्ताः प्रयोगतः
11960 SK [४२२|२२] लभ्या उचितास्तु विरागतः /
11961 SK [४२२|२३] जन्मान्तराभ्यस्ता अभिज्ञा वैराग्यतो लभ्यन्ते वैशेषिक्यः प्रयोगतः /
11962 SK [४२२|२३-४२२|२४] सर्वासां तु प्रयोगेणोत्पादनम् /
11963 SK [४२२|२५] तृतीया त्रीप्युपस्थानानि
11964 SK [४२३|०१] चेतःपर्यायाभिज्ञा त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि /
11965 SK [४२३|०१-४२३|०२] चित्तचैत्तालम्ल्बनत्वात् /
11966 SK [४२३|०३] आद्यं श्रोत्रर्द्विवक्षुषि // VAक्K_७.४४ //
11967 SK [४२३|०४] अभिज्ञेति वर्तते /
11968 SK [४२३|०४-४२३|०५] ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञा आद्यं स्मृत्युपस्थानमित्यर्थः /
11969 SK [४२३|०५] रूपालम्बनत्वात् / ऋद्धिश्चतुर्बाह्यायतनालम्बना ऽन्यत्र शब्दात् /
11970 SK [४२३|०६] दिव्यश्रोत्रचक्षुरभिज्ञे शब्दरूपायतनालम्बने /
11971 SK [४२३|०६-४२३|०७] कथं तर्हि ᳚च्युतोपपादज्ञानेनैव जानाति अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः᳚ इत्येवमादि /
11972 SK [४२३|०७-४२३|०८] न तत्तेन जानाति /
11973 SK [४२३|०८] अभिज्ञापरिवारज्ञानं तु तदन्यदार्याणामुत्पद्यते येनैवं जानन्ति /
11974 SK [४२३|०९] अनिर्धारणाच्छेषे चतुःस्मृत्युपस्थानस्वभावे इति सिद्धम् /
11975 SK [४२३|१०] अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः /
11976 SK [४२३|११] दिव्यचक्षुःश्रोत्राभिज्ञे अव्याकृते / ते पुनश्चक्षुःश्रोत्रविज्ञानसंप्रयुक्तप्रज्ञे /
11977 SK [४२३|१२] कथं तर्हि ते चतुर्ध्यानभूमिके सिध्यतः / आश्रयवशेन तद्भूमिनिर्देशात् /
11978 SK [४२३|१२-४२३|१३] तदाश्रये हि चक्षुःश्रोत्रे चतुर्ध्यानभूमिके /
11979 SK [४२३|१३] आनन्तर्यमार्गवशेन वा /
11980 SK [४२३|१३-४२३|१४] अन्याश्चतस्रः कुशलाः /
11981 SK [४२३|१४] यत्तर्हि प्रकरणेषूक्तम् ᳚अभिज्ञा कतमा / कुशला प्रज्ञे᳚ति /
11982 SK [४२३|१४-४२३|१५] प्रधानिक एष निर्देशो वाहुलिको वा /
11983 SK [४२३|१५] आसां चाभिज्ञानां
11984 SK [४२३|१६] तिस्रो विद्याः
11985 SK [४२३|१७] पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियास्तिस्रः अशैक्ष्यो विद्या उच्यन्ते /
11986 SK [४२३|१८] कस्मादेता एव नान्याः /
11987 SK [४२३|१९] अविद्यायाः पूर्वान्तादौ निवर्त्तनात् // VAक्K_७.४५ //
11988 SK [४२३|२०] एता हि पूर्वापरान्तमध्यसंमोहं व्यावर्तयन्ति यथाक्रमम् / आसां परमार्थेन
11989 SK [४२४|०१] अशैक्ष्यन्त्या
11990 SK [४२४|०२] आस्रवक्षयज्ञानसाक्षात्क्रियैवाशैक्षी विद्या /
11991 SK [४२४|०३] तदास्ये द्वे तत्संतानसुद्भवात् /
11992 SK [४२४|०४] अन्ये द्वे अशैक्ष्यसंतानसंभूतत्वादशैक्ष्यावुच्येते / नैव तु ते शैक्ष्यो नाशैक्ष्यौ /
11993 SK [४२४|०४-४२४|०५] किं पुनरेते अभिज्ञे शैक्ष्यस्य नोच्येते /
11994 SK [४२४|०५] यतः शैक्ष्यौ विद्ये नोच्येते /
11995 SK [४२४|०६] इष्टे शैक्ष्स्य नोक्ते तु विद्ये साविद्यसंततेः // VAक्K_७.४६ //
11996 SK [४२४|०७] न हि साविद्यसंताने विद्याव्यवस्थानं युज्यते / पुनरप्यविद्याभिभवात् /
11997 SK [४२४|०८] आसां चाभिज्ञानाम्
11998 SK [४२४|०९] आद्या तृतीया षष्ठी च प्रातिहार्याणि
11999 SK [४२४|१०-४२४|११] ऋद्धिचेतःपर्यायास्रवक्षयाभिज्ञास्त्रीणि प्रातिहार्याणि यथाक्रमम् ऋद्धच्यादेशनानुशासनप्रातिहार्याणि /
12000 SK [४२४|११-४२४|१२] विनेयमनसामादितो ऽत्यर्थ हरणात् प्रातिहार्याणि प्रातिशब्दयोरादिकर्मबृशार्थत्वात् /
12001 SK [४२४|१२-४२४|१३] प्रतिहतमध्यस्थानां मनांस्येभिः प्रतिहरन्तीति प्रातिहार्याणि वा /
12002 SK [४२४|१३] एषां पुनः
12004 SK [४२४|१५] अग्च्र्यम्
12005 SK [४२४|१६] अनुशासनं प्रतिहार्यमग्च्य म् /
12006 SK [४२४|१७] अव्यभिचारित्वाद्धितेष्टफलयोजनात् // VAक्K_७.४७ //
12007 SK [४२४|१८] ऋद्धच्यादेशने हि विद्यया विकेइयेते /
12008 SK [४२४|१८-४२४|१९] अस्ति हि च गान्धारी नाम विद्या ययाफाशेन गच्छति ईक्षणिका च नाम विद्या यया परचित्तं जानाति /
12009 SK [४२४|१९-४२५|०१] न तु यथाभूतानुशासनम् अन्यथा शक्यं कर्तुमव्य्भिचारित्वात् /
12010 SK [४२५|०१-४२५|०३] प्रधानमावर्जनमात्रं च ताभ्यामनुशासनप्रातिहार्येण तु हितेन इष्टेनफलेन योगो भवत्युपायोपदेशादित्येवावश्यम् ऋद्धिरित्युच्यते /
12011 SK [४२५|०४] केयमृद्धिः / वैभाषिकन्यायेन
12012 SK [४२५|०५] ऋद्धिः समाधिः
12013 SK [४२५|०६] ऋध्यत्यनेनेति कृत्वा योजयितव्यम् / किं तेन समृध्यति /
12014 SK [४२५|०७] गमनं निर्माणं च
12016 SK [४२५|०९] गतिस्त्रिधा /
12017 SK [४२५|१०] शरीरवाहिनी आधिमोक्षिकी मनोजवा च तत्र गतिः /
12018 SK [४२५|११] शास्तुर्मनोजवा
12019 SK [४२५|१२] मनस इवास्या रव इति मनोजवा गतिर्बुद्धस्यैव नान्यस्य /
12020 SK [४२५|१२-४२५|१३] सुदूरमपि देशं चित्तोत्पादकालेल्न गमनात् /
12021 SK [४२५|१३] अत ए᳚वाचिन्त्यो बुद्धानां बुद्धविषय᳚ इत्युक्तं भगवता /
12022 SK [४२५|१४] इतरे तु गती बुद्धस्यानुक्तसिद्धे /
12023 SK [४२५|१५] अन्येषां वाहिन्यप्याधिमोक्षिकी // VAक्K_७.४८ //
12024 SK [४२५|१६] श्रावकप्रत्येकबुद्धानां शरीरवाहिनी च गतिः / पक्षिवत्क्रमेण शरीरवाहनात् /
12025 SK [४२५|१७] आधिमोक्षिकी च दूरस्यासन्नाधिमोक्षेणाशुगमनात् / निर्माणं पुनर्द्विविधम् /
12026 SK [४२५|१८] कामावचरं रूपावचरं च / तत्र तावत्
12027 SK [४२५|१९] कामाप्तं निर्मितं बाह्यं चतुरायतनं
12028 SK [४२५|२०] कामावचरं निर्माणं रूपरसगन्धस्प्रष्टव्यायतनस्वभावम् / तत् पुनर्
12030 SK [४२६|०२] स्वपरशरीरसंबद्धम् /
12031 SK [४२६|०३] रूपाप्तं द्वे तु
12032 SK [४२६|०४] रूपावचरनिर्माणं द्वे रूपस्प्रष्टव्यायतने / तत्र गन्धरसाभावात् /
12033 SK [४२६|०४-४२६|०५] तदपि द्विविधं तथैव /
12034 SK [४२६|०५-४२६|०६] कामधाताविदं चतुर्विधं निर्माणमेवं रूपधातौ-इत्यष्टविधं समासतो निर्माणम् /
12035 SK [४२६|०६-४२६|०७] कथं रूपधातूपपन्नस्य कामावचरनिर्माणे गन्धरसाभ्यां न समन्वागमो भवति /
12036 SK [४२६|०७] वस्त्राभरणवन्न समन्वागमः /
12037 SK [४२६|०७-४२६|०८] द्वच्यायातनं निर्मिणोतीत्यपरे /
12038 SK [४२६|०८] किं खल्वभिज्ञयैव निर्माणं निर्मीयते / नेत्युच्यते / किं तर्हि /
12039 SK [४२६|०९] अभिज्ञाफलैः /
12040 SK [४२६|१०] निर्माणचित्तैस्तानि चतुर्दश // VAक्K_७.४९ //
12041 SK [४२६|११] तानि पुनश्चतुर्दश निर्माणचित्तानि
12042 SK [४२६|१२] यथाक्रमं ध्यानफलं द्वे यावत् पञ्च /
12043 SK [४२६|१३] प्रथमध्यानफलं द्वे कामधातुप्रथमध्यानभूमिके निर्माणचित्ते /
12044 SK [४२६|१३-४२६|१४] द्वितीयध्यानफलं त्रीणि कामधातुप्रथमद्वितीयध्यानभूमिकानि /
12045 SK [४२६|१४-४२६|१५] एवं तृतीयचतुर्थध्यानभूमिकानि चत्वारि पञ्च च योज्यानि /
12046 SK [४२६|१५] स्वभूमिकाधरभूमिकं निर्माणचित्तं ध्यानफलं वेदितव्यम् /
12047 SK [४२६|१६] नोर्ध्वजम् /
12048 SK [४२६|१७] नोर्ध्वभूमिकं निर्माणचित्तमधरध्यानफलमस्ति /
12049 SK [४२६|१७-४२६|१८] द्वितीयादिध्यानफलं कामावचरं निर्माणं प्रथमध्यानभूमिकाद्गतितो विशिष्यते /
12050 SK [४२६|१९] तल्लभो ध्यानवत्
12051 SK [४२६|२०] तेषां च निर्माणचित्तानां ध्यानवल्लाभः / [४२६|२०-४२६|२१] कि खलु निर्माणचित्तादेव स्यात् व्युत्थानम् /
12052 SK [४२६|२१] नास्त्येतत् / यस्मादुत्पद्यते /
12053 SK [४२७|०१] शुद्धात्तत्स्वतश्च
12054 SK [४२७|०२] शुद्धकाद्धच्यानादन्तरं निर्माणचित्तमुत्पद्यते निर्माणचित्तद्वा नान्यतः /
12055 SK [४२७|०३] ततो ऽपि ते // VAक्K_७.५० //
12056 SK [४२७|०४] निर्माणचित्तादपि शुद्धकं ध्यानं निर्माणचित्तं चोत्पद्यते नान्यत् /
12057 SK [४२७|०४-४२७|०५] न हि समाधिफलस्थितस्वाप्रविश्य पुनः समाधिं तस्मात् व्युत्थानमस्ति /
12058 SK [४२७|०५-४२७|०६] सर्वस्य च निर्मितस्य
12059 SK [४२७|०७] स्वभूमिकेन निर्माणं
12060 SK [४२७|०८] नान्यभूमिकेन निर्माणचित्तेनान्यभूमिकं निर्माणं निर्मीयते /
12061 SK [४२७|०९] भाषणं त्वधरेण च /
12062 SK [४२७|१०] स्वभूमिकेन चेति च-शब्दः /
12063 SK [४२७|१०-४२७|११] कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन भाष्यते /
12064 SK [४२७|११] ऊर्ध्वभूमिकस्तु प्रथमध्यानभूमिकेन /
12065 SK [४२७|११-४२७|१२] ऊर्ध्वं विज्ञप्तिसमुत्थापकाभावात् /
12066 SK [४२७|१२] वहूनां निर्मितानां भाषणं
12067 SK [४२७|१३] निर्मात्रैव सहाशास्तुः
12068 SK [४२७|१४] बुद्धादन्यस्य निर्माणं निर्मात्रा सह भाषते /
12069 SK [४२७|१४-४२७|१५] यदा च वहवो निर्मिता भवन्ति तदा युगपत् भाषन्ते /
12070 SK [४२७|१६] एकस्य भाषमाणस्य भाषन्ते सह निर्मिताः /
12071 SK [४२७|१७] एकस्य तूष्णींभूतस्य सर्वेतूष्णीं भवन्ति त᳚ इति गाथा /
12072 SK [४२७|१८] बुद्धस्य पूर्व पश्चाद्वा यथेच्छं निर्मिता भाषन्ते /
12073 SK [४२७|१८-४२७|१९] यदा भाषणचित्तं तदा निर्माणचित्ताभावो निर्माणचित्ताभावान्निर्मिताभाव इति कथमेनं भाषयन्ति /
12074 SK [४२७|२०] अधिष्ठायान्यवर्त्तनात् // VAक्K_७.५१ //
12075 SK [४२८|०१] निर्माणमधिष्ठायावस्थानकामतया ऽन्येन मनसा वाचं प्रवर्तयन्ति /
12076 SK [४२८|०१-४२८|०२] किं जीवित एवाधिष्ठानमनुवर्तते अथ मृतश्चापि /
12077 SK [४२८|०३] मृतस्याप्यस्त्यधिष्ठानं
12078 SK [४२८|०४] आर्यमहाकश्यपाधिष्ठानेन तदस्थिसंकलावस्थानात् / तत्तु
12079 SK [४२८|०५] नास्थिरस्य
12080 SK [४२८|०६] अस्थिरस्य तु भावस्य नास्त्यधिष्ठानम् / आर्यकाश्यपेन मांसादीनामध्हिष्ठानात् /
12081 SK [४२८|०७] अपरे तु न /
12082 SK [४२८|०८] अपरे पुनराहुर्नास्ति मृतस्याधिष्ठानम् /
12083 SK [४२८|०८-४२८|०९] अस्थिशङ्कलावस्थानं तु देवतानुभावादिति /
12084 SK [४२८|०९] किमेकेन चित्तेनैकमेव निर्मित निर्मिणोति /
12085 SK [४२८|१०] आदावेकमनेकेन जितायां तु विपर्ययात् // VAक्K_७.५२ //
12086 SK [४२८|११] आदित एकं निर्मितमनेकेन निर्माणचित्तेन निर्मिणोति /
12087 SK [४२८|११-४२८|१२] जितायां त्वभिज्ञायामेकेन चित्तेनानेकं निर्मिणोति यावन्निर्मातुमिष्टं भवति /
12088 SK [४२८|१२-४२८|१३] अथ किं सर्वनिर्माणचित्तमव्याकृतं भवति /
12089 SK [४२८|१४] अव्याकृतं भावनाजं
12090 SK [४२८|१५] यद्भावनाफलं तदवश्यमव्याकृतं भवति /
12091 SK [४२८|१६] त्रिविधं तूपपतीजम् /
12092 SK [४२८|१७-४२८|१८] उपपत्तिप्रतिलम्भिकं तु निर्माणचित्तं कुशलाकुशलमव्याकृतं भवति देवनागपिशाचादीनाम् /
12093 SK [४२८|१८-४२८|१९] तत्कृतं च स्वपरशरीरनिर्माणं नवायतनिकं भवत्यशब्दरुप्यायतनत्वादिन्द्रियाविनिर्भूतत्वात् /
12094 SK [४२८|१९] न त्विन्द्रियं निर्मीयते /
12095 SK [४२८|१९-४२८|२०] किमेषैव द्विविधर्द्धिभावनामयी चोपपत्तिलाभिका च /
12096 SK [४२८|२०] एषा च द्विविधा
12097 SK [४२९|०१] ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा // VAक्K_७.५३ //
12098 SK [४२९|०२] समास्तः पञ्चविधामृद्ध्हिं वर्णयन्ति /
12099 SK [४२९|०२-४२९|०३] भावनाफलमुपपत्तिलाभिकं मन्त्रजामौषधजां कर्मजां च /
12100 SK [४२९|०३] यथा मान्धातुरन्तराभविकानां च /
12101 SK [४२९|०४] यदिदं दिव्यश्रोत्रमुक्तं चक्षुश्च /
12102 SK [४२९|०४-४२९|०५] किमेते दिव्ये एव आहोस्वित् दिव्ये एव दिव्ये /
12103 SK [४२९|०५] यथा बोधिसत्त्वचक्रवर्तिगृहपतिरत्नानाम् /
12104 SK [४२९|०६] दिव्यश्रोत्राक्षिणी
12105 SK [४२९|०७] यस्मात्ते
12106 SK [४२९|०८] रूपप्रसादौ ध्यानभूमिकौ /
12107 SK [४२९|०९-४२९|११] ध्यानसमापन्नस्य शब्दालोकाभोगप्रयोगेण ध्यानभूमिकानि भूतान्युपादाय रूपप्रसादौ निर्वर्तेते चक्षुःश्रोत्रसामन्तके रूपशब्द्योर्दर्शनश्रवणहेतू इति ध्यानभूमिकत्वात् दिव्ये एव ते चक्षुःश्रोत्रे /
12108 SK [४२९|११] ते च पुनः
12109 SK [४२९|१२] सभागाविकले नित्यं दूरसूक्ष्मादिगोचरे // VAक्K_७.५४ //
12110 SK [४२९|१३-४२९|१४] नास्ति दिव्यं चक्षुः श्रोत्रं च तत्सभागं नित्यं विज्ञानसहितत्वात् नापि विकलं काणविब्रान्ताभावात् /
12111 SK [४२९|१४] रूपावचरसत्त्ववत् /
12112 SK [४२९|१४-४२९|१५] दूरसूक्ष्मवतान्यपि रूपाणि शब्धाश्च तयिओर्विष्यः /
12114 SK [४२९|१६-४२९|१७] दूरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति / मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते //
12115 SK [४२९|१८] कियद्दूरं पुनर्दिव्येन चक्षुषा पश्यति / यस्य यादृशं चक्षुर्भवति /
12116 SK [४२९|१८-४२९|२०] श्रावकप्रत्येकबुद्धबुद्धास्त्वनभ्हिसंस्कारेण साहस्रद्विसाहस्रत्रिसाहस्रकान् लोकधातून् यथासंख्यं पश्यन्ति /
12117 SK [४२९|२०] अभिसंस्कारेण तु
12118 SK [४३०|०१] द्वित्रिसाहस्रकासंख्यदृशो ऽर्हत्खङ्गवैशिकाः /
12119 SK [४३०|०२] सर्वाभ्हिसंस्कारेण सह श्रावको ऽपि द्विसाहस्र लोकधातुं दिव्येन चक्षुषा पश्यति /
12120 SK [४३०|०३] त्रिसाहस्रं खङ्गविषाणकल्पः /
12121 SK [४३०|०३-४३०|०४] बुद्धस्तु भगवानसंख्येयान् लोकहातून् पश्यति यावदेवेच्छति /
12122 SK [४३०|०५] किमृद्धिरेवोपपत्तिलाभिका भवत्यर्हान्यदपि /
12123 SK [४३०|०६] अन्यदप्युपपत्त्याप्तं
12124 SK [४३०|०७] दिव्यश्रोत्रादिकमपि चतुष्टयमुपपत्तिप्रतिलभ्यमस्ति /
12125 SK [४३०|०७-४३०|०८] न तूपपत्त्याप्तं किञ्चिदभिज्ञाख्यां लभते /
12126 SK [४३०|०८] यत्तूपपत्तिप्रतिलम्भिकं दिव्यं चक्षुः
12127 SK [४३०|०९] तद्दृश्यो नान्तरीभवः // VAक्K_७.५५ //
12128 SK [४३०|१०] अभिज्ञाचक्षुषैव ह्यन्तराभवो दृश्यते / नोपपत्तिप्रतिलब्धेन /
12129 SK [४३०|११] चेतोज्ञानं तु तत्त्रेधा
12130 SK [४३०|१२] उपपत्त्याप्तमिति वर्तते /
12131 SK [४३०|१२-४३०|१३] परचित्तज्ञानं तूपपत्तिप्रतिलब्धं त्रिविधं वेदितव्यं कुशलाकुशलाव्याकृतम् /
12132 SK [४३०|१४] तर्कविद्याकृतं च यत् /
12133 SK [४३०|१५-४३०|१६] यच्चापि तार्किकं परचित्तज्ञानं नैमित्तिकानां यच्च विद्याकृतं तदपि त्रिविधं वेदितव्यम् /
12134 SK [४३०|१६] न यथा भावनाफलं कुशलमेव /
12135 SK [४३०|१६-४३०|१७] उपपत्तिप्रतिलम्भिकाभ्यां तु परचित्तज्ञानपूर्वनिवासानुस्मृतिभ्यां
12136 SK [४३०|१८] जानते नारका आदौ
12137 SK [४३०|१९] यावन्न दुःखवेदनाभ्याहता भवन्ति / अन्यगतिस्था नित्यं जानते /
12138 SK [४३०|२०] नृणां नोत्पत्तिलाभिकम् // VAक्K_७.५६ //
12139 SK [४३१|०१] मानुष्याणामेतद्यथोक्तमृद्धच्यादिकं नास्त्युपपत्तिप्रातिलम्भिकम् /
12140 SK [४३१|०१-४३१|०२] यत्तर्हि प्रकृतिजातिस्मरा भवन्ति /
12141 SK [४३१|०२] कर्मविशेषजा ऽसौ तेषाम् /
12142 SK [४३१|०२-४३१|०३] त्रिविधा हि पूर्वनिवासानुस्मृतिर्भावनाफलमुपपत्तिलब्धा कर्मजा चेति //
12143 SK =====================================================================
12144 SK [४३१|०४] * //// अभिधर्मकोशभाष्ये ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम्* ////
12145 SK [४३१|०५] स्थविरश्रीलामावाकस्य यदत्र पुण्यम् /
12147 SK =====================================================================
12149 SK =====================================================================
12150 SK [४३२|०२-४३२|०३] ज्ञानाधिकारेण ज्ञानमयानां गुणानां कृतो निर्देशः /
12151 SK [४३२|०३-४३२|०४] अस्य स्वभावानां तु कर्तव्य इत्यादित एव ध्यानान्यारभ्यन्ते सर्वगुणाश्रयत्वात् /
12152 SK [४३२|०५] द्विधा ध्यानानि
12153 SK [४३२|०६] समासतो द्विविधानि ध्यानान्युपपत्तिसमापत्तिध्यानभेदात् / तानि पुनः
12155 SK [४३२|०८] प्रथमं ध्यानं यावच्चतुर्थम् / तत्र ध्यानोपपत्तयः पुनर्न वक्तव्याः /
12156 SK [४३२|०८-४३२|०९] लोकनिर्देशकोशस्थाने हि
12157 SK [४३२|१०] प्रोक्तास्तदुपपत्तयः /
12158 SK [४३२|११] कथं प्रोक्ताः /
12159 SK [४३२|१२] ᳚पृथक् पृथक् /
12160 SK [४३२|१३] ध्यानं त्रिभूमिकं तत्र चतुर्थ त्वष्टभूमिकमि᳚ति /
12161 SK [४३२|१४] समापत्तिध्यानं तु वक्तव्यम् / अत उच्यते
12162 SK [४३२|१५] समापत्तिः शुभैकाग्य्रं
12163 SK [४३२|१६] अभेदेन कुशलचित्तैकाग्रता ध्यानम् / समाधिस्वभावत्वात् /
12164 SK [४३२|१७] पञ्चस्कन्धास्तु सानुगम् // VAक्K_८.१ //
12165 SK [४३२|१८] सपरिवारं तु पञ्चस्कन्धस्वभावं वेदितव्यम् / केयमेकाग्रता नाम / एकालम्बनता /
12166 SK [४३२|१९] एवं तर्हि चित्तान्येवैकालम्बनानि समाधिर्न चैतसिकं धर्मान्तरमिति प्राप्नोति /
12167 SK [४३३|०१] न चित्तान्येव समाधिः / येन तु तान्येकाग्राणि वर्तन्ते स धर्मः समाधिः /
12168 SK [४३३|०१-४३३|०२] सैव चित्तैकाग्रता /
12169 SK [४३३|०२-४३३|०३] ननु च क्षणिकत्वात्सर्वं चित्तमेकाग्रं द्वितीयस्य तस्मादविक्षेप इति चेत् /
12170 SK [४३३|०३] संप्रयुक्ते समाधिवैयर्थ्यम् /
12171 SK [४३३|०३-४३३|०४] यत एव च स्माधिस्तत एव चित्तानामेकालम्बनत्वं किं नेष्यते /
12172 SK [४३३|०४-४३३|०५] महाभूमिकत्वाच्च समाधेः सर्वचित्तानामेकाग्रताप्रसङ्गः /
12173 SK [४३३|०५] न दुर्बलत्वात्समाधेः / चित्तान्येवैकाग्राणि समाधिः /
12174 SK [४३३|०६-४३३|०७] तथा ह्यधिचित्तं शिक्षा चित्तपरिशुद्धिप्रधानं च सूत्रे चत्वारि ध्यानान्युक्तानीत्यपरे /
12175 SK [४३३|०८] ध्यानमिति कोऽर्थः / ध्यायन्त्यनेनेति / प्रजानन्तीत्यर्थः /
12176 SK [४३३|०८-४३३|०९] समाहितचित्तस्य यथाभूतप्रज्ञानात् /
12177 SK [४३३|०९] चिन्तनार्थो ह्येष धातुः / चिन्तनं च प्रज्ञेति सिद्धान्तः /
12178 SK [४३३|०९-४३३|१०] एवं तर्हि सर्वसमाधिध्यानप्रसङ्गः /
12179 SK [४३३|१०] न / प्रकर्षयुक्ते तन्नामविधानाद्भास्करवत् /
12180 SK [४३३|१०-४३३|११] कश्च प्रकर्षयुक्तः /
12181 SK [४३३|११] यो ऽङ्गसमायुक्तः समाधिः /
12182 SK [४३३|११-४३३|१२] स हि शमथविपश्यनाभ्यां युगन्द्धवाहित्वाद्दृष्टधर्मसुखविहार उक्तः सुखा च प्रतिपदिति /
12183 SK [४३३|१२] सुतरां तेन ध्यायन्ति /
12184 SK [४३३|१३] क्लिष्टस्य कथं ध्यानत्वम् / मिथ्योपनिध्यानात् / अतिप्रसङ्गः /
12185 SK [४३३|१३-४३३|१४] न / तत्प्रतिरूप एव तत्संज्ञाविनेवेशात् पूतिबीजवत् /
12186 SK [४३३|१४] उक्तानि चाकुशलानि ध्यानान्यपि भगवता /
12187 SK [४३३|१५] कीदृशं पुनः कुशलमैकाग्य्रं प्रथमं ध्यानं कीदृशं यावच्चतुर्थम् /
12188 SK [४३३|१५-४३३|१६] प्रथमं तावत्
12189 SK [४३३|१७] विचारप्रीतिसुखवत्
12190 SK [४३३|१८] विचारप्रीतिसुखसंयुक्तं कुशलमैकाग्य्रं तत् प्रथमं ध्यानम् /
12191 SK [४३३|१८-४३३|१९] विचारवचनाद्वितर्को ऽप्युक्तो भवति /
12192 SK [४३३|१९] साहचर्याद्धूमाग्निवत् /
12193 SK [४३३|१९-४३३|२०] न हि प्रीतिसुखवान्विचारो विना वितर्केणास्ति /
12194 SK [४३३|२०] शेषं पुन्र्ध्यानत्रयं
12195 SK [४३३|२१] पूर्वपूर्वाङ्गवर्जितम् /
12196 SK [४३३|२२] शुभैकाग्र्यम् इति वर्तते /
12197 SK [४३३|२२-४३३|२३] विचारविवर्जितं प्रीतिसुखवत् द्वितीयं विचारप्रीतिवर्जितं तृतीयं विचारप्रीतिसुखवर्जितं चतुर्थमिति /
12198 SK [४३३|२३-४३३|२४] यथा ध्यानानि
12199 SK [४३३|२५] तथारूप्याः
12200 SK [४३४|०१] केन प्रकारेण / एते ऽपि हि द्विधा उपपत्तिसमापत्तितः /
12201 SK [४३४|०१-४३४|०२] चत्वारश्च एषामपि चोपपत्तय उक्ताः /
12202 SK [४३४|०२-४३४|०३] समापत्त्यारुप्यास्वभेदेन कुशलैकाग्रतास्वभावा इत्यनेन प्रकारेण सपरिवाराः
12203 SK [४३४|०४] चतुस्कन्धाः
12204 SK [४३४|०५] अनुपरिवर्तिरूपाभावात्
12205 SK [४३४|०६] अधोभूमिविवेकजाः // VAक्K_८.२ //
12206 SK [४३४|०७] चतुर्थध्यानविवेकजं ह्याकाशानन्त्यायतनम् /
12207 SK [४३४|०७-४३४|०८] तद्विवेकजं विज्ञानानन्त्यायतनम् /
12208 SK [४३४|०८] तद्विवेकजमाकिञ्चन्यायतनम् /
12209 SK [४३४|०८-४३४|०९] तद्विवेकजं नैवसंज्ञानासम्ज्ञायतनमित्येवं चत्वार आरुप्याः /
12210 SK [४३४|०९] को ऽयं विवेको नाम / येन मार्गेणाधस्ताद्विमुच्यते /
12211 SK [४३४|०९-४३४|१०] वैराग्यगमनात् /
12212 SK [४३४|१०] त एव चारुप्याः
12213 SK [४३४|११] विभूतरूपसंज्ञाख्याः सह सामन्तकैस्त्रिभिः /
12214 SK [४३४|१२] आकाशानन्त्यायतनसामन्तकं चतुर्थध्यानालम्बनत्वाद्विभूतरूपसंज्ञाख्यां न लभते /
12215 SK [४३४|१३] न हि तत्र रूपसंज्ञा विभूता न विगतेत्यर्थः /
12216 SK [४३४|१३-४३४|१४] यदुक्तं ᳚चतुस्कन्धा᳚ इति साध्यं तावदेतदारुप्येषु रूपं नास्तीति /
12217 SK [४३४|१४] यदि हि स्यात्कथमारुप्या उच्येरन् /
12218 SK [४३४|१४-४३४|१५] ईषद्रूपत्वा दापिङ्गलवत् /
12219 SK [४३४|१५] कीदृशं तावदीषद्रूपं तत्रेष्यते /
12220 SK [४३४|१५-४३४|१६] यदि कायवाक् संवरमात्रं कथं तदभावे तत्संवरौ भविष्यतः /
12221 SK [४३४|१६] न चासति भूते भौतिकं युज्यते /
12222 SK [४३४|१७] अनास्रवसंवरवच्चेत् / सास्रवभूतसद्भावात् / स्मापत्तावपि तत्प्रतिषेध उक्तः /
12223 SK [४३४|१८] अथ कायो ऽप्यस्तीन्द्रियाण्यपि रूपीणि / कथं तदीषद्रूपा इष्यन्ते /
12224 SK [४३४|१८-४३४|१९] परिमाणाल्पत्वाच्चेत् /
12225 SK [४३४|१९] उदकजन्तुकेष्वप्यदृश्यरुपेषु प्रसङ्गः / अच्छत्वाच्चेत् /
12226 SK [४३४|१९-४३४|२०] अन्तराभवरूपावचरेष्वपि प्रसङ्गः /
12227 SK [४३४|२०] यतो नाच्छतरं चेत् / भवाग्रमेवारुप्यं स्यात् /
12228 SK [४३४|२०-४३४|२१] समापत्तिवत्तदुपपत्तिविशेषात् /
12229 SK [४३४|२१-४३४|२२] ध्यानोपपत्तिरूपस्यापि चाधरभूमिकेन्द्रियाग्रहणात् कस्तत्र विशेषः /
12230 SK [४३४|२२] द्वयोरन्वर्था संज्ञा नारुप्यधातोरिति चेत् / का ऽत्र युक्तिः /
12231 SK [४३४|२२-४३४|२५] आयुरुष्मणोः संसृष्टवचनान्नडकलापीद्वयवन्नामरूपयोरन्योन्यनिश्रितवचना ᳚द्विज्ञानप्रत्ययं नामरूपमि᳚ति वचनात् अन्यत्ररूपाद्यावत्संस्कारेभ्यो विज्ञानस्यागतिगतिप्रतिषेधाच्चारूप्येषु रूपास्तित्वसिद्धिरिति चेत् /
12233 SK [४३४|२५-४३४|२६] संप्रधार्यं तावदेतद्यदिदमायुरुष्मणोः संसृष्टत्वमुक्तम् /
12234 SK [४३४|२६] किमिदं कामावचरमायुः संधायोक्तमाहोस्वित्सर्वमिति /
12235 SK [४३४|२६-४३५|०१] यच्च नामरूपयोरन्योन्याश्रितत्वमुक्तं किमिदं कामरूपावचरं नाम संधायोक्तमाहोस्वित्सर्वमिति /
12236 SK [४३५|०१-४३५|०२] यच्च विज्ञानप्रत्ययं नामरूपमुक्तं किमत्र सर्व विज्ञानं नामरूपस्य प्रत्ययमुक्तमाहोस्वित्सर्वे नामरूपं विज्ञानप्रत्ययमिति /
12237 SK [४३५|०३] यच्चान्यत्र रूपादिभ्यो विज्ञानस्यागतिप्रतिषेधः /
12238 SK [४३५|०३-४३५|०४] किमत्र सर्वैरेव तैर्विना तत्प्रतिषेध आहोस्वित् एकेनापीति /
12239 SK [४३५|०४] अविशेषवचनान्न संप्रधार्यमिति चेत् /
12240 SK [४३५|०४-४३५|०५] अतिप्रसङ्गः /
12241 SK [४३५|०५] बाह्यस्यापि ह्यष्मण आयुषा बिना भावो न प्राप्नोति /
12242 SK [४३५|०५-४३५|०६] बाह्यस्यापि च रूपस्य नामाश्रितत्वमविशेषवचनात् /
12243 SK [४३५|०६-४३५|०७] चतुर्विज्ञानस्थितिवच्चाहारचतुष्कवचनाद्रूपारुप्यधात्वोरपि कवडीकाराहारप्रसङ्गः /
12244 SK [४३५|०७-४३५|०८] ᳚अतिक्रम्य देवान् कवडीकारा हारभक्षानि᳚ति वचनात् प्रीत्याहारवचनाच्चाप्रसङ्ग इति चेत् /
12245 SK [४३५|०८-४३५|०९] आरुप्येष्वपि रूपस्याप्रसङ्गः /
12246 SK [४३५|०९] ᳚रूपाणां निःसरणमारुप्याः᳚ /
12247 SK [४३५|०९-४३५|१०] ᳚ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्याः᳚ /
12248 SK [४३५|१०-४३५|११] ᳚अरुपिणः सन्ति सत्त्वाः सर्वशो रूपसंज्ञानां समतिक्रमादि᳚ति वचनात् /
12249 SK [४३५|११] सति हि रुपे स्वं रूपमवश्यं संजानीरन्निति /
12250 SK [४३५|११-४३५|१२] औदारिकमधोभूमिकं रूपमभिसंधायोक्तमिति चेत् /
12251 SK [४३५|१२] कवडीकारे ऽपि तुल्यम् /
12252 SK [४३५|१२-४३५|१३] ध्यानानामपि चाधोभूमिनिःसरणत्वादारुप्य प्रसङ्गः /
12253 SK [४३५|१३] वेदनादिनिःसरणं च किं नोक्ताः /
12254 SK [४३५|१४] अधोभूमिकवेदनानिःसरणात् / रूपजातिं तु कुत्स्नामतिक्रान्ता न वेदनादिजातिम् /
12255 SK [४३५|१५] अतो रूपाणां निःसरणमुक्ताः /
12256 SK [४३५|१५-४३५|१६] भवेन भवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणादसर्वानत्यन्त निःसरणाच्च /
12257 SK [४३५|१६-४३५|१७] ध्यानेसु चोक्तं भगवता ᳚यत्तत्र भवति रूपगतं वा यावद्विज्ञानगतं वेति /
12258 SK [४३५|१७-४३५|१८] आरुप्येषु तूक्तं ᳚यत्तत्र भवति वेदनागतं वा यावद्विज्ञानगतं वे᳚ति /
12259 SK [४३५|१८-४३५|१९] सत्यां तेसु रूपजातौ कस्माद्रूपगतं वेति नावक्ष्यत् /
12261 SK [४३५|२०] नारुप्ये रूपसद्भावः
12262 SK [४३५|२१] कथमिदानीमनल्पकल्पोच्छिन्नाद्रूपात् पुनरपि रुपोत्पत्तिस्ततः प्रच्युतानाम् /
12263 SK [४३५|२२] रुपोत्पत्तिस्तु चित्ततः // VAक्K_८.३ //
12264 SK [४३५|२३] रूपस्य चित्तादेवोत्पत्तिस्तद्विपाकहेतुपरिभाविताल्लब्धवृत्तितः /
12265 SK [४३५|२३-४३५|२४] कथमनाश्रित्य रूपं चित्तं वर्तते /
12266 SK [४३५|२४] कस्मान्न वर्तितव्यम् / इहैवमदर्शनात् /
12267 SK [४३५|२४-४३५|२५] कवडीकारान्तरेणा ऽपि विना रूपधातौ न वर्तितव्यम् /
12268 SK [४३५|२५] किं कारणम् / इहैवमदर्शनात् /
12269 SK [४३५|२५-४३५|२६] उक्तं च पूर्वं यथा वर्तते /
12270 SK [४३५|२६] गतमेतदिदं वक्तव्यम् /
12271 SK [४३६|०१-४३६|०२] किमेपामाकाशानन्त्यायतनादीनामाकाशादय एवालम्बनं यत एवं समाख्यायते /
12272 SK [४३६|०२] न हि / कथं तर्हि / त्रयस्तावत् /
12273 SK [४३६|०३] आकाशानन्त्यविज्ञानानन्त्याकिञ्चन्यसंज्ञकाः /
12274 SK [४३६|०४] तथाप्रयोगात्
12275 SK [४३६|०५-४३६|०६] अनन्तमाकाशमनन्तं विज्ञानं नास्ति किञ्चिदित्येव मनसिकुर्वाणस्तेषु प्रयुज्यन्ते यथासंख्यम् /
12276 SK [४३६|०६] अत एषामेताः संज्ञा इति /
12277 SK [४३६|०७] मान्द्याक्तु नसंज्ञनाप्यसंज्ञकः // VAक्K_८.४ //
12278 SK [४३६|०८] मृदुत्वात्तु संज्ञाया नैवसंज्ञानासंज्ञायतनमुक्तम् /
12279 SK [४३६|०८-४३६|०९] न हि सा पट्वी संज्ञा न च पुनर्नैव संज्ञेति /
12280 SK [४३६|०९-४३६|१०] ᳚यद्यपि तत्राप्येवं प्रयुज्यन्ते संज्ञारोगः संज्ञागण्दः संज्ञाशल्यः आसंज्ञिकसंमोहः एतच्छान्तमेतत्प्रणीतं यदुत नैवसंज्ञानासंज्ञायतनमिति /
12281 SK [४३६|११] कस्मात्तु तैस्तदेवं गृह्यत इत्यवश्यमिदं वक्तव्यं जायते / मृदुत्वात्संज्ञामित्येतदेवोक्तम् /
12282 SK [४३६|१२] इति मौलं समापत्तिद्रव्यमष्टविधं
12283 SK [४३६|१३-४३६|१४] इत्येतान्यष्टौ मौलानि समापत्तिद्रव्याणि यदुत चत्वारि ध्यानानि चत्वार आरुप्या इति /
12284 SK [४३६|१४] तेषां पुनः
12287 SK [४३६|१७] भवाग्रादन्यानि सप्त त्रिविधानि /
12288 SK [४३६|१८] आस्वादनावच्छूद्धानास्रवाणि
12289 SK [४३६|१९] आस्वादनासंप्रयुक्तानि शुद्धकान्यनास्रवाणि च /
12290 SK [४३७|०१] अष्टमं द्विधा // VAक्K_८.५ //
12291 SK [४३७|०२] भवाग्रमास्वादनासंप्रयुक्तं शुद्धकं च / अनास्रव नास्ति / तत्र पुनः
12292 SK [४३७|०३] आस्वादनासंप्रयुक्तं सतृष्णं
12293 SK [४३७|०४] तृष्णा ह्यास्वादना /
12294 SK [४३७|०५] लौकिकं शुभम् /
12296 SK [४३७|०७-४३७|०८] लौकिकं कुशलं समापत्तिद्रव्यं शुद्धकमुच्चयते ऽलोभादि शुद्धधर्मयोगात् /
12297 SK [४३७|०८] किं पुनस्तेनास्वादनासंप्रयुक्तेनास्वाद्यते /
12298 SK [४३७|०९] तत्तदास्वाद्यं
12299 SK [४३७|१०] तच्छुद्धकं समापत्तिद्रव्यं तेनास्वाद्यते समनन्तरातीतम् /
12300 SK [४३७|१०-४३७|११] यदास्वादयति तस्माद्व्युत्थितो येनास्वादयति तत्समापन्नः /
12301 SK [४३७|१२] लोकत्तरमनास्रवम् // VAक्K_८.६ //
12302 SK [४३७|१३] यल्लोकोत्तरं समापत्तिद्रव्यं तदनास्रवम् /
12303 SK [४३७|१३-४३७|१४] एषां च समापत्तिद्रव्याणां ध्यानान्येव भवन्ति नारुप्याः /
12305 SK [४३७|१५] पञ्चाद्ये
12306 SK [४३७|१६] प्रथमे भागे पञ्चाङ्गानि /
12307 SK [४३७|१७] तर्कचारौ च प्रीतिसौख्यसमाधयः /
12308 SK [४३७|१८-४३७|१९] वितर्को विचारः प्रीतिः सुखं चित्तैकाग्रता चेत्येतानि पञ्चाङ्गानि समाधिः किलाङ्गं ध्यानं च /
12309 SK [४३७|१९] शेषाण्यङ्गानीति /
12310 SK [४३७|१९-४३७|२०] यथा चतुरङ्गा सेना एवं पञ्चाङ्गं ध्यानम् /
12311 SK [४३८|०१] प्रीत्यादयः प्रसादश्च द्वितीये ऽङ्गचतुष्टयम् // VAक्K_८.७ //
12312 SK [४३८|०२] द्वितीये ध्याने चत्वार्यङ्गानि /
12313 SK [४३८|०२-४३८|०३] अध्यात्मसंप्रसादः प्रीतिः सुखं चित्तेकाग्रता च /
12314 SK [४३८|०४] तृतीये पञ्च तूपेक्षा स्मृतिः प्रज्ञा सुखं स्थितिः /
12315 SK [४३८|०५] तृतीये तु ध्याने पञ्चाङ्गानि / उपेक्षा स्मृतिः संप्रज्ञानं सुखं स्माधिश्च /
12316 SK [४३८|०६] समाधिपर्यायो हि स्थितिः / ᳚सम्यक्समाधिः कतमः /
12317 SK [४३८|०६-४३८|०७] या चित्तस्य स्थिति᳚रिति सूत्रे वचनात् /
12318 SK [४३८|०८] चत्वार्यन्ते ऽसुखादुःखोपेक्षास्मृतिसमाधयः // VAक्K_८.८ //
12319 SK [४३८|०९] चतुर्थं ध्यानमन्त्यम् / तत्र चत्वार्यङ्गानि /
12320 SK [४३८|०९-४३८|१०] अदुःखासुखा वेदना उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिः समाधिश्च /
12321 SK [४३८|१०-४३८|११] तान्येतान्यष्टादश ध्यानाङ्गानि भवन्ति /
12322 SK [४३८|११] प्रथमतृतीययोः पञ्चाङ्गत्वात् / द्वितीयचतुर्थयोश्चतुरङ्गत्वात् /
12323 SK [४३८|१२] नामत एवम् /
12324 SK [४३८|१३] द्रव्यतो दश चैकं च
12325 SK [४३८|१४] द्रव्यत एतान्येकादश भवन्ति / प्राथमध्यानिकानि पञ्च /
12326 SK [४३८|१४-४३८|१५] द्वितीये ऽध्यात्मसंप्रसादो वर्धते /
12327 SK [४३८|१५] तृतीये उपेक्षास्मृतिसंप्रज्ञानसुखानि / चतुर्थे ऽदुःखासुखा वेदनेति /
12328 SK [४३८|१६] अत एवोच्यते यान्यङ्गानि प्रथमे ध्याने द्वितीये ऽपि तानीति चतुष्कोटिकम् /
12329 SK [४३८|१६-४३८|९१७] प्रथमा कोटिर्वितर्कविचारौ /
12330 SK [४३८|१७] द्वितीया अध्यात्मसंप्रसादः /
12331 SK [४३८|१७-४३८|१८] तृतीया प्रीतिः सुखं चित्तैकाग्रता च /
12332 SK [४३८|१८] चतुर्थी कोटिरुक्तनिर्मुक्ता धर्मा इति /
12333 SK [४३८|१८-४३८|१९] एवं सर्वाणि ध्यानाङ्गानि परस्परं योज्यानि /
12334 SK [४३८|१९] कस्मात् / तृतीये ध्याने सुखं द्रव्यान्तरमुच्यते /
12335 SK [४३८|१९-४३८|२०] यस्मात्तद्वेदनासुखं ध्यानयोस्तु
12336 SK [४३८|२१] प्रस्रब्धिसुखमाद्ययोः /
12337 SK [४३८|२२] प्रथमद्वितीययोस्तु ध्यानयोः प्रस्रब्धिसुखमित्युक्तम् /
12338 SK [४३८|२२-४३८|२३] इह प्रस्रब्धिसुखं तत्र वेदनासुखमिति कुत एतत् /
12339 SK [४३८|२३] द्वयोर्ध्यानसमापत्त्योः सुखेन्द्रियायोगात् /
12340 SK [४३८|२४] न हि तत्तयोः कायिकं युज्यते / समापन्नस्य विज्ञानकायाभावात् /
12341 SK [४३८|२४-४३८|२५] नापि चैतसिकं प्रीतिवचनात् /
12342 SK [४३८|२५] प्रीतिर्हि सौमनस्यम् /
12343 SK [४३८|२५-४३८|२६] न च सुखसौमनस्ययोर्यौगपद्यमस्ति /
12344 SK [४३८|२६] न चापि तयोः पर्यायेण ध्याने वृत्तिर्युक्ता पञ्चाङ्गवचनादिति /
12345 SK [४३९|०१] अपरे पुनराहुः /
12346 SK [४३९|०१-४३९|०२] नास्त्येव चैतसिकं सुखेन्द्रियं त्रिष्वपि हि ध्यानेषु /
12347 SK [४३९|०२] कायिकमेव सुखमङ्गं व्यवस्थापितमिति /
12348 SK [४३९|०२-४३९|०३] यत्तर्हि सुत्र उक्तं ᳚सुखेन्द्रियं कतमत् /
12349 SK [४३९|०३-४३९|०४] यत्सुखवेदनीयेन स्पर्शेन स्पृष्टस्योत्पद्यते कायिकं चैतसिकं सातं वेदितं वेदनागतमिदमुच्यते सुखेन्द्रियमि᳚ति /
12350 SK [४३९|०४] अध्यारोपित एष पाठः /
12351 SK [४३९|०५] केनापि सर्वनिकायान्तरेषु कायिकमित्येव पाठात् /
12352 SK [४३९|०५-४३९|०६] ᳚सुखं च कायेन प्रतिसंवेदयत᳚ इति स्वशब्देन वचनाच्च /
12353 SK [४३९|०६] मनस्कायेनेतिचेत् / एवमुक्त्वा को गुणः /
12354 SK [४३९|०६-४३९|०७] चतुर्थे ध्याने प्रस्रब्धिभूयस्त्वे ऽपि सुखावचनाच्च /
12355 SK [४३९|०७-४३९|०८] सुखवेदनानुकूला प्रस्रब्धिः सुखमिति चेत् /
12356 SK [४३९|०८] तृतीये प्रस्रब्धिसुखावचनं कस्मात् / उपेक्षोपहतत्वादिति चेत् /
12357 SK [४३९|०८-४३९|०९] न उपेक्षयैव तद्वृद्धिः /
12358 SK [४३९|०९] पूर्विकाभ्यस्ताद्विशेषात् /
12359 SK [४३९|०९-४३९|११] ᳚यस्मिन्समये आर्यश्रावकः प्रविवेकजां प्रीतिं कायेन साक्षात्कृत्वोपसंपद्य विहरती᳚त्यत्र सूत्रे प्रस्रब्धिसुखयोः पृथग्वचनान्न प्रस्रब्धिरेव सुखम् /
12360 SK [४३९|११] समापन्नस्य कथम् कायविज्ञानमिति चेत् /
12361 SK [४३९|१२] समाधिविशेषजेन प्रस्रब्धिसंज्ञकेन सुखवेदनीयेन वायुना कायस्फुरणात् /
12362 SK [४३९|१२-४३९|१३] बहिर्विक्षेपास्समाधिब्रंश इति चेत् /
12364 SK [४३९|१३-४३९|१४] समाधिजस्यान्तःकायसंभूतस्य कायसुखस्य समाध्यनुकूलत्वात् /
12365 SK [४३९|१४-४३९|१५] कायविज्ञा नकाले व्युत्थितः स्यादिति चेत् /
12366 SK [४३९|१५] न / अत एव /
12367 SK [४३९|१५-४३९|१६] कामावचरेण कायेन्द्रियेण रूपावचरस्प्रष्टव्यविज्ञानानुत्पत्तिरिति चेत् /
12368 SK [४३९|१६] न / प्रस्रब्धिविज्ञानस्योत्पत्तेः /
12369 SK [४३९|१६-४३९|१७] अनास्रवे अपि स्प्रष्टव्यकायविज्ञाने स्याताम् /
12370 SK [४३९|१७] मा भूत्किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवमिति चेत् /
12371 SK [४३९|१८] कायिकप्रस्रब्धिवोध्यङ्ग वचनात् / इष्टे बोध्यङ्गानुकूलत्वादिति चेत् /
12372 SK [४३९|१९] अनास्रवत्वमप्येवम् / ᳚सास्रवा धर्माः कतमे /
12373 SK [४३९|१९-४३९|२०] चक्षुर्यावदेव स्प्रष्टव्यमि᳚त्यस्य सूत्रस्य विरोधादिति चेत् /
12374 SK [४३९|२०] न / अन्यस्प्रष्टव्य कायविज्ञानाभिसंधिवचनात् /
12375 SK [४३९|२१] न चानास्रवे किञ्चिदङ्गं सास्रवं किचिदनास्रवं स्यादिति चेत् /
12376 SK [४३९|२१-४३९|२२] अयौगपद्यात्को दोषः सुखप्रीत्यसमवधानान्न पञ्चाङ्गं स्यादिति चेत् /
12377 SK [४३९|२२-४३९|२३] न संभवं प्रत्युपदेशान्द्वितर्कविचारवत् /
12378 SK [४३९|२३] साध्यमिति चेत् /
12379 SK [४३९|२३-४३९|२४] सिद्धं चित्तस्यौदारिकसूक्ष्मतयोर्विरोधात् दोषावचनाच्च /
12380 SK [४३९|२४-४३९|२५] तस्माद्यान्येव प्रथमध्याने पञ्चाङ्गानि तेषां द्वित्रिचतुरङ्गापकर्षेण द्वितीयादिध्यानव्यवस्थानम् /
12381 SK [४३९|२५-४४०|०१] अत एव च प्रथमे ध्याने पञ्चानामङ्गत्वमुक्तम् /
12382 SK [४४०|०१] तदपकर्षेणोत्तरध्यानव्यवस्थापनात् / न तु संज्ञादीनामङ्गत्वमुक्तम् /
12383 SK [४४०|०२] किमर्थ वा पञ्चानामेवाङ्गत्वमुक्तम् / उपकारकत्वादिति चेत् / न /
12384 SK [४४०|०२-४४०|०३] वितर्कविचाराभ्यां स्मृतिप्रज्ञयोरपकारकतरत्वात् /
12385 SK [४४०|०३] अस्त्येष एकेषां वादः /
12386 SK [४४०|०३-४४०|०४] नैव तु पूर्वाचार्या एवं निर्दिशन्ति स्म यावन्तः प्रज्ञान्तम् /
12387 SK [४४०|०४] तस्माद्विचार्यमेतत् /
12388 SK [४४०|०४-४४०|०५] अध्यात्मसंप्रसादो नाम क एष धर्मः /
12389 SK [४४०|०५-४४०|०६] वितर्क-विचार-क्षोभ-विरहात् प्रशान्तवाहिता संततेर् अध्यात्मसंप्रसादः /
12390 SK [४४०|०६-४४०|०७] सोर्मिकेव हि नदी वितर्कविचारक्षोभिता संततिर् अप्रसन्ना वर्तते इति /
12391 SK [४४०|०७-४४०|०८] न तर्हि स द्रव्यान्तरम् इति कथं द्रव्यत एकादशाङ्गानि भवन्ति /
12392 SK [४४०|०८] तस्मात्तर्हि
12393 SK [४४०|०९] श्रद्धा प्रसादः
12394 SK [४४०|१०] तस्य हि द्वितीयध्यानलात्समाहिभूमिनिह्सरणे संप्रत्यय उत्पद्यते/
12395 SK [४४०|१०-४४०|११] सो ऽत्रध्यात्मसंप्रसाद इति /
12396 SK [४४०|११] नैव हि वितर्कविचारसमाधयो नाप्यधात्मसंप्रसादो द्रव्यान्तराणीत्यपरे/
12397 SK [४४०|११-४४०|१२] कथमसति द्रव्यान्तरत्वे चैतसिकत्वं सिद्ध्यति /
12398 SK [४४०|१२] अवस्थाविसेसो हि नाम चेतसश्चेतसिको भवति /
12399 SK [४४०|१३] नत्वेष शस्त्रसिद्धान्तः / यदुक्तं ᳚प्रीतिर्हि सौमनस्यम्᳚ इति /
12400 SK [४४०|१३-४४०|१४] कथमिदं गम्यते / किमन्यत् भवतु /
12401 SK [४४०|१४] यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः
12402 SK [४४०|१४-४४०|१५] सौमनस्यं तु त्रिष्वपि ध्यानेषु सुखमिति /
12404 SK [४४०|१४-४४०|१५] यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः सौमनस्यं तु त्रिष्वपि ध्यानेसु सुखमिति /
12405 SK [४४०|१५-४४०|१६] न वै सुखं ध्यानेषु सौमनस्यं युज्यते /
12406 SK [४४०|१७] प्रीतिस्तु सौमनस्यं द्विधागमात् // VAक्K_८.९ //
12407 SK [४४०|१८-४४०|१९] उक्तं हि भगवता अविपरीतकसूत्रे तृतीयं ध्यानमुक्त्वा ᳚अत्रास्योत्पन्नं सौमनस्येन्द्रियमपरिशेषं निरुध्यत इति /
12408 SK [४४०|१९-४४०|२०] चतुर्थे च ध्याने सुखेन्द्रियं निरुध्यत᳚ इत्युक्तम् /
12409 SK [४४०|२०-४४०|२१] पुनश्चोक्तं ᳚सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तङ्गमादि᳚त्यतो ऽपि न तृतीये ध्याने सौमनस्येन्द्रियमस्ति /
12410 SK [४४०|२२] तस्मात् प्रीतिरेव सौमन्स्यं न सुखम् /
12411 SK [४४१|०१-४४१|०२] किं पुनः क्लिष्टेष्वपि ध्यानेषु यथाविहितान्यङ्गानि भवन्ति /
12412 SK [४४१|०२] न हि किं तेषु न विद्यते /
12413 SK [४४१|०३] क्लिष्टेष्वसत्प्रीतिसुखं प्रसादः संप्रधीः स्मृटिः /
12414 SK [४४१|०४] उपेक्षास्मृतिशुद्धिश्च
12415 SK [४४१|०५] प्रथमे ध्याने विवेकजं प्रीतिसुखं नास्ति / क्लेशाविविक्तत्वात् /
12416 SK [४४१|०५-४४१|०६] द्वितीये ध्याने ऽध्यात्मसंप्रसादो नास्ति /
12417 SK [४४१|०६] क्लेशाविलत्वात् / तृतीये स्मृतिसंप्रजन्यं नास्ति /
12418 SK [४४१|०७] क्लिष्टसुखसंब्र्हमितत्वात् / च्चतुर्थे उपेक्षास्मृतिपरिशुद्धिर्नास्ति / क्लेशमलिनत्वात् /
12419 SK [४४१|०८] एवं तावत् केचिदाहुः /
12420 SK [४४१|०९] केचित् प्रस्रब्ध्युपेक्षणे // VAक्K_८.१० //
12421 SK [४४१|१०] केचित्पुनः प्रथमद्वितीययोः क्लिष्टयोः प्रस्रब्धिर्नास्ति /
12422 SK [४४१|१०-४४१|११] तृतीयचतुर्थयोरुपेक्षा नास्ति /
12423 SK [४४१|११] कुशलल्महाभूमिकत्वादनयोरिति /
12424 SK [४४१|११-४४१|१२] त्रीणि च ध्यानानि सेञ्जितानि उक्तानि भगवता /
12425 SK [४४१|१२] सापक्षालत्वात् /
12426 SK [४४१|१३] अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम् /
12427 SK [४४१|१४] के पुनस्ते ऽपक्षालाः /
12428 SK [४४१|१५] वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम् // VAक्K_८.११ //
12429 SK [४४१|१६] वितर्कविचारौ सुखदुःखे सौमनस्यदौर्मनस्ये श्वासप्रश्वासाश्च /
12430 SK [४४१|१६-४४१|१७] एषामष्टानामेकोऽप्यपक्षालश्चतुर्थे नास्त्यतस्तदानेञ्ज्यमुक्तम् /
12431 SK [४४१|१७-४४१|१८] वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेञ्ज्यं चतुर्थं ध्यानं सूत्रे निर्वात प्रदीपनिदर्शनादित्यपरे /
12432 SK [४४१|१९] द्वयोर्ध्यानयोः सौमनस्यमुक्तं प्रीतिवचनात् / तृतीये सुखं चतुर्थे उपेक्षा /
12433 SK [४४१|२०] तस्किं या ध्यानसमापत्तिषु वेदनास्ता एव ध्यानोपपत्तिषु /
12434 SK [४४१|२१] नेत्याह / किं तर्हि /
12435 SK [४४२|०१-४४२|०२] सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते / सुख्होपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु // VAक्K_८.१२ //
12436 SK [४४२|०३] प्रथमध्यानोत्पत्तो तिस्रो वेदनाः /
12437 SK [४४२|०३-४४२|०४] सुखं त्रिविज्ञानकायिकं सौमनस्यं मनोभूमिकम् /
12438 SK [४४२|०४] उपेक्षा चतुर्विज्ञानकायिकी /
12439 SK [४४२|०४-४४२|०५] द्वितीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके /
12440 SK [४४२|०५] सुखं नास्त्यस्य विज्ञानकायाभावात् /
12441 SK [४४२|०५-४४२|०६] तृतीयध्यानोपपत्ती द्वे वेदने /
12442 SK [४४२|०६] सुखोपेक्षे मनोभूमिके / चतुर्थध्यानोपपत्तावुपेक्षैव /
12443 SK [४४२|०७-४४२|०८] यदि द्वितीयादिषु ध्यानेषु त्रयो विज्ञानकाया न संविद्यन्ते वितर्कविचारौ च कथम् ते पश्यन्ति यावत्स्पृशन्ति कथम् चाविज्ञप्ति समुत्थापयन्ति /
12444 SK [४४२|०८-४४२|०९] न वे केषूपपन्नानां चक्षुर्विज्ञानादयोन सन्ति /
12445 SK [४४२|०९] न तु स्वभूमिकाः / किं तर्हि /
12446 SK [४४२|१०] कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् /
12447 SK [४४२|११] द्वितीयादौ तदाद्याप्तं
12448 SK [४४२|१२-४४२|१३] प्रथमध्यानभूमिकं चक्षुःश्रोत्रकायविज्ञानं विज्ञप्तिसमुत्थापकं च द्वितीयादिषु च ध्यानेषु संमुखीकुर्वन्ति /
12449 SK [४४२|१३-४४२|१४] निर्माणचित्तवद्येन ते पश्यन्ति यावद्विज्ञप्ति समुत्थापयन्ति /
12450 SK [४४२|१५] अक्लिष्टाव्याकृतं च तत् // VAक्K_८.१३ //
12451 SK [४४२|१६-४४२|१७] अनिवृताव्याकृतं च तत् प्रथमध्यानभूमिकं विज्ञानं वेदितव्यं यत्ते संमुखीकुर्वन्ति /
12452 SK [४४२|१७] न क्लिष्टं वीतरागत्वान्न कुशलं हीनत्वादिति /
12453 SK [४४२|१८] अवसितं ध्यानकार्यम् /
12454 SK [४४२|१९] अथ शुद्धकादीनां ध्यानारुप्याणां कथं लाभः /
12455 SK [४४२|२०] अतद्वान् लभते शुद्धं वैराग्येणोपपत्तितः /
12456 SK [४४२|२१] असमन्वागतस्तेन शुद्धकं धयनमारुप्यं वा प्रतिलभते / अधोभूमिवैराग्याद्वा /
12457 SK [४४२|२२] अधोभूम्युपपत्तितो वा / अन्यत्र भवाग्रात् / न हि तस्योपपत्तितो लाभः /
12458 SK [४४२|२३] अतद्वानिति किमर्थ समन्वागतः /
12459 SK [४४२|२३-४४२|२४] शुद्धकेन प्रयोगतो ऽपि निर्वेधभागीयं शुद्धकं प्रतिलभते परिहाणितो वा हानभागीयम् /
12460 SK [४४२|२४-४४३|०१] अत एवोच्यते ᳚स्याच्छुद्धकं ध्यानं वैराग्येण प्रतिलभेत वैराग्येण विजह्यात् /
12461 SK [४४३|०१] एवं परिहाण्या चोपपत्त्या च /
12462 SK [४४३|०२] स्याद्धानभागीयं प्रथमं धयानम् / तद्धि कामवैराग्येण लभ्यते /
12463 SK [४४३|०२-४४३|०३] ब्रह्मलोकवैराग्येण त्यज्यते /
12464 SK [४४३|०३] ब्रह्मलोकवैराग्यपरिहाण्या लभ्यते / कामवैराग्यप्रहाण्या त्यज्यते /
12465 SK [४४३|०४] उपरिष्टाद्ब्रह्मलोक उत्पद्यमानो लभते /
12466 SK [४४३|०४-४४३|०५] तस्मात् पुनः कामधातावुपपपद्यमानो विजहातीति /
12467 SK [४४३|०६] अनास्रवं तु वैराग्यात्
12468 SK [४४३|०७] अतद्वान् लभते इति वर्तते /
12469 SK [४४३|०७-४४३|०८] तद्वांस्तु क्षयज्ञानतो ऽप्यशैक्षं लभते इन्द्रियसंचारतो ऽपि शैक्षशैक्षम् /
12470 SK [४४३|०८] ननु च नियामा वक्रान्तितो ऽप्यनास्रवं प्रथमतो लभते /
12471 SK [४४३|०९] नावश्यमानुपूर्विकेणालाभात् / यथा त्ववश्यं लभते तथोक्तम् /
12472 SK [४४३|१०] क्लिष्टं हान्युपपत्तितः // VAक्K_८.१४ //
12473 SK [४४३|११] अतद्वान् लभत इत्येवानुवर्तते /
12474 SK [४४३|११-४४३|१२] परिहाणितो यदि तद्वैराग्यात्परिहीयते /
12475 SK [४४३|१२] उपपत्तितो यद्युपरिभूमेरधरायामुपपद्यते /
12476 SK [४४३|१३] कतमस्मात्समापत्तिद्रव्यादनन्तरं कत्युपपद्यन्ते /
12477 SK [४४३|१३-४४३|१४] अनास्रवप्रथमध्यानान्तरं षडुत्पद्यन्ते /
12478 SK [४४३|१४] स्वभूमिके शुद्धकानास्रवे द्वितीयतृतीयध्यानभूमिके च /
12479 SK [४४३|१४-४४३|१५] आकिञ्चन्यायतनानन्तरं सप्त /
12480 SK [४४३|१५-४४३|१६] स्वभूमिके शुद्धकानास्रवे विज्ञानाकाशानन्त्यायतनभूमिके च /
12481 SK [४४३|१६] भवाग्रं शुद्धकमेवानास्रवाभावात् / द्वितीयध्यानान्तरमष्टौ /
12482 SK [४४३|१६-४४३|१७] स्वभूमिके शुद्धकानास्रवे तृतीयचतुर्थप्रथमध्यानभूमिके च /
12483 SK [४४३|१७] विज्ञानानन्त्यायतनानन्तरं नव /
12484 SK [४४३|१८-४४३|१९] स्वभूमिके द्वे आकाशानन्त्यायतनचतुर्थध्यानभूमिकानि चत्वारि आकिञ्चन्यायतनभवाग्रभूमिकानि त्रीणीति /
12485 SK [४४३|१९] एवमन्यध्यानारुप्यानन्तरं दश द्रव्याणि योज्यानि /
12486 SK [४४३|२०] एष तु संक्षेपः /
12487 SK [४४३|२१] तृतीयाद्यावदूर्ध्वाधो ऽनास्रवानन्तरं शुभम् /
12488 SK [४४३|२२] उत्पद्यते
12489 SK [४४४|०१-४४४|०२] शुभग्रहणेन शुद्धमनास्रवं च गृह्यते कुशलत्वात् अनास्रवस्य समापत्ति द्रव्यस्यानन्तरं स्वभूमिके च शुद्धानास्रवे उत्पद्येते /
12490 SK [४४४|०२] ऊर्ध्वाधोभूमिके च तृतीवाद्यावत् /
12491 SK [४४४|०३] व्युत्क्रान्तकसमापत्तारो हि तृतीयात् परेण लङ्घयितुं नोत्सहन्ते /
12492 SK [४४४|०३-४४४|०४] अन्वयज्ञानानन्तरं चारुप्यान् समापद्यन्ते न धर्मज्ञानानन्तरम् /
12493 SK [४४४|०४-४४४|०५] तस्याधराश्रयालम्बनत्वादिति /
12494 SK [४४४|०५] यथा चानास्रवादनन्तरमुक्तम् वेदितव्यम् /
12495 SK [४४४|०६] तथा शुद्धात् क्लिटं चापि स्वभूमिकम् // VAक्K_८.१५ //
12496 SK [४४४|०७] स्वभूमिकं क्लिष्टमधिकं शुद्धकादनन्तरमुत्पद्यते / शेषं यथैवानास्रवात् /
12497 SK [४४४|०७-४४४|०८] अनास्रवस्य हि समनन्तरं क्लिष्टोत्पत्तिर्नास्तीति /
12498 SK [४४४|०९] क्लिष्टात् स्वं शुद्धकं क्लिष्टं
12499 SK [४४४|१०] क्लिष्टात्समापत्तिद्रव्यादनन्तरं स्वभूमिके शुद्धकक्लिष्टे उत्पद्येते /
12500 SK [४४४|११] एवं चाधरशुद्धकम् /
12501 SK [४४४|१२] क्लेशोत्पीडितो ह्यधरमपि समापत्तिं शुद्धकं बहु मन्यते /
12502 SK [४४४|१२-४४४|१३] यदि क्लिष्टं परिच्छिद्याधः संचरति /
12503 SK [४४४|१३] कुशलात्संचरितो भवति न क्लिष्टात् / अथापरिच्छिद्य कथं संचरति /
12504 SK [४४४|१४-४४४|१५] पूर्वावेधात् पूर्वं हि स एवङ्कामो भवति वरमधस्तात् शुद्धकं नोपरिष्टात् क्लिष्टमिति /
12505 SK [४४४|१५] पूर्वाभिप्रायं च संततिरनुवर्तते सत्त्वानाम् /
12506 SK [४४४|१५-४४४|१६] प्रणिधाय सुप्तस्याभिप्रेतकालप्रबोधवत् /
12507 SK [४४४|१६] अनास्रवं तु क्लिष्टादनन्तरं सर्वथा नोत्पद्यते /
12508 SK [४४४|१६-४४४|१७] समापत्तिकालं प्रत्येतदुक्तम् /
12509 SK [४४४|१७-४४४|१८] शुद्धकात् क्लिष्टाच्च समनन्तरं स्वभूमिकमेव क्लिष्टमुत्पद्यते नान्यभूमिकमिति /
12510 SK [४४४|१९] च्युतौ तु शुद्धकात् क्लिष्टं सर्वं
12511 SK [४४४|२०] च्युतिकाले तु उपपत्तिलाभिकाच्छुद्धकादनन्तरं सर्वभूमिकं क्लिष्टमुत्पद्यते /
12512 SK [४४४|२१] क्लिष्टात्तु नोत्तरम् // VAक्K_८.१६ //
12513 SK [४४५|०१] क्लिष्टात्तु ध्यानारूप्यादनन्तरं च्युतिकाले स्वाधरभूमिकं क्लिष्टमुत्पद्यते /
12514 SK [४४५|०१-४४५|०२] नोर्ध्वभूमिकम् /
12515 SK [४४५|०२-४४५|०३] न च सर्वस्माच्छुद्धकादनाश्रवं समापत्तिद्रव्यमुत्पद्यते /
12516 SK [४४५|०३] किं तर्हि /
12517 SK [४४५|०४] चतुर्धा शुद्धकं हानभागीयादि
12518 SK [४४५|०५] हानभागीयं विशेषभागीयं स्थितिभागीयं निर्वेधभागीयमिति चतुर्विधं शुद्धकम् /
12519 SK [४४५|०६] भवाग्रं तु त्रिविधमन्यत्र विशेषभागीयात् / किमस्य लक्षणम् /
12520 SK [४४५|०७-४४५|०८] यथाक्रमम् / क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत् // VAक्K_८.१७ //
12521 SK [४४५|०९-४४५|१०] क्लेशोत्पत्त्यनुगुणं हानभागीयं स्वभूम्यनुगुणं स्थितिभागीयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम् /
12522 SK [४४५|१०] तस्मादनास्रवमुत्पद्यते /
12523 SK [४४५|११] अथैषां चतुर्णा कति कस्मादनन्तरमुत्पद्यन्ते /
12524 SK [४४५|१२] द्वे त्रीणि त्रीणि चैकं च हान भागाद्यनन्तरम् /
12525 SK [४४५|१३] हानभागीयं हानभाक् / तस्मादनन्तरं द्वे उत्पद्येते / हानिस्थितिभागीये /
12526 SK [४४५|१३-४४५|१४] स्थितिभागीयानन्तरं त्रीण्यन्यत्र निर्वेधभागीयात् /
12527 SK [४४५|१४-४४५|१५] विशेषभागीयादनन्तरं त्रीण्यन्यत्र हानभागीयात् निर्वेधभागीयादनन्तरं तदेवैकमिति /
12528 SK [४४५|१६] कथं व्युत्क्रान्तकसमापत्तिरुत्पद्यते /
12529 SK [४४५|१७] गत्वागम्य द्विधा भूमीरष्टौ श्लिष्टैकलङ्घिताः // VAक्K_८.१८ //
12530 SK [४४५|१८] व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा /
12531 SK [४४५|१९] गत्वेत्यनुलोमं समापद्य / आगम्येति प्रतिलोमं समापद्य /
12532 SK [४४५|१९-४४६|०१] द्विधेति सास्रवानास्रवा भूमीः /
12533 SK [४४६|०१] अष्टाविति ध्यानारुप्यसमापत्तीः / श्लिष्टा इत्यनुक्रमेण /
12534 SK [४४६|०१-४४६|०२] एकलङ्घिता इत्येकामेकामुत्क्रम्य /
12535 SK [४४६|०२-४४६|०३] सास्रवा अष्टौ भूमिरनुलोमप्रतिलोमसमापत्तितो निर्जित्य अनास्रवाश्च सप्त /
12536 SK [४४६|०३-४४६|०४] पश्चात्सास्रवात् प्रथमाद्ध्यानात् सास्रवं तृतीयं समापद्यते /
12537 SK [४४६|०४] तस्मादाकाशानन्त्यायतनं तस्मादाक्ंइचन्यावतनम् /
12538 SK [४४६|०४-४४६|०५] एवं पुनः प्रतिलोमं निर्जित्य अनास्रवा अप्येकलङ्घिता अनुलोमप्रतिलोमं च समापद्यते /
12539 SK [४४६|०६] अयं प्रयोगो व्युत्क्रान्तकसमापत्तेः /
12540 SK [४४६|०६-४४६|०७] यदा तु प्रथमात्सास्रवात् तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवमाकिञ्चन्यायतनम् /
12541 SK [४४६|०८] एवं पुनः प्रतिलोमम् / तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति /
12542 SK [४४६|०८-४४६|०९] अतिविप्रकृष्टत्वान्न चतुर्थी समापद्यते /
12543 SK [४४६|०९-४४६|१०] तां च त्रिषु द्वीपेषु असमयविमुक्त एवार्हन्नुत्पादयति /
12544 SK [४४६|१०] निःक्लेशत्वात्समाधिवशित्वाच्च /
12545 SK [४४६|१०-४४६|११] दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात् समाधौ वशित्वं न तु निष्क्लेशः /
12546 SK [४४६|११-४४६|१२] समयविमुक्तो यद्यपि निःक्लेशो नत्वस्य समाधौ वशित्वमिति /
12547 SK [४४६|१३] केनाश्रयेण कति ध्यानारुप्याः संमुखीक्रियन्ते /
12548 SK [४४६|१४] स्वाधोभूम्याश्रया एव
12549 SK [४४६|१५] ध्यानाश्रया एव
12550 SK [४४६|१६] ध्यानारूप्याः
12551 SK [४४६|१७] भवाग्रं भवाग्रे च संमुखीक्रियते अधश्च यावत्कामधातौ /
12552 SK [४४६|१७-४४६|१८] शेषाणि स्वस्यां भूमावधश्चेति /
12553 SK [४४६|१८-४४६|१९] किं कारणमूर्ध्वोपपन्नो नाधरां समापत्ति संमुखीकरोति /
12554 SK [४४६|१९] तस्मात्तस्य
12555 SK [४४६|२०] वृथाऽधरम् // VAक्K_८.१९ //
12556 SK [४४६|२१] नहि तस्याधरेण समापत्तिद्रव्येण किञ्चित् प्रयोजनं विधीयते / [४४५|२१-४४६|२१] निहीनत्वात् /
12557 SK [४४६|२२] उत्सर्ग कृत्वा ऽपवादं करोति
12558 SK [४४६|२३] आर्याकिञ्चन्यसांमुख्यात् भवाग्रे त्वास्रवक्षयः /
12559 SK [४४६|२४] भवाग्रे तूपपन्नस्यानास्रवाकिञ्चन्यायतनसंमुखीभावादास्रवक्षयो भवति /
12560 SK [४४६|२४-४४६|२५] कथं तत्रोपपन्नस्य तत्संमुखीभावः /
12561 SK [४४६|२५] स्वस्याभावात्तस्य चाभ्यासात् /
12562 SK [४४७|०१] अथैषां ध्यानारूप्याणां किमालम्बनम् /
12563 SK [४४७|०२] सतृष्णाः स्वभवालम्बाः
12564 SK [४४७|०३] आस्वादनासंप्रयुक्ताः स्वभूमिकं भवमालम्बन्ते / भवग्रहणेन सास्रवं वस्तु गृह्यते /
12565 SK [४४७|०४] नाधरमालम्बन्ते वीतरागत्वान्नोत्तरं तृष्णापरिछिन्नत्वात् भूमीनाम् /
12566 SK [४४७|०४-४४७|०५] नानास्रवं कुशलत्वप्रसङ्गादिति /
12567 SK [४४७|०६] ध्यानं सद्विषयं शुभम् // VAक्K_८.२० //
12568 SK [४४७|०७] कुशलं ध्यानं शुभकमनास्रवं च / तत् सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा /
12569 SK [४४७|०८] न मौलाः कुशलारूप्याः सास्रवाधरगोचराः /
12570 SK [४४७|०९-४४७|१०] मौलानां कुशलारूप्याणामधोभूमिकं सास्रवं वस्तु नालम्बनं स्वोर्ध्वभूम्यालम्बनत्वात् /
12571 SK [४४७|१०] अनास्रवं त्वालम्बनम् /
12572 SK [४४७|१०-४४७|११] सर्वान्वयज्ञानपक्ष्यो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः /
12573 SK [४४७|११] सामन्तकानन्तर्यमार्गाणां त्वधरा भूमिरालम्बनम् /
12574 SK [४४७|११-४४७|१२] एषां च पुनस्त्रिविधानां ध्यानानां रूप्यारूप्याणाम्
12575 SK [४४७|१३] अनास्रवेण हीयन्ते क्लेशाः
12576 SK [४४७|१४] न शुद्धकेन / कुत एव क्लिष्टेन / वीतरागत्वान्नाधः /
12577 SK [४४७|१४-४४७|१५] तस्यैव तदप्रतिपक्षत्वान्न स्वभूमौ /
12578 SK [४४७|१५] विशिष्टतरत्वान्नोर्ध्वमिति /
12579 SK [४४७|१६] समन्तकेन च // VAक्K_८.२१ //
12580 SK [४४७|१७] ध्यानारूप्यसामन्तकेन च क्लेशाः प्रहीयन्ते शुद्धकेनापि / अधोभूमिप्रतिपक्षत्वात् /
12581 SK [४४७|१८] कति पुनः सामन्तकानि /
12582 SK [४४७|१९] अष्टौ सामन्तकान्येषां
12583 SK [४४७|२०] एकैकस्यैकैकं येन तत्प्रवेशः / किं तान्यपि त्रिविधानि तथैव च तेषु वेदना /
12584 SK [४४७|२१] नेत्युच्यते /
12585 SK [४४७|२२] शुद्धादुःखासुखानि हि /
12586 SK [४४८|०१-४४८|०२] शुद्धकानि च तान्युपेक्षेन्द्रियसंप्रयुक्तानि च यन्तबाह्यत्वादधोभूम्युद्वेगानपगमात् वैराग्यपथत्वाच्च नास्वादनासंप्रयुक्तानि /
12587 SK [४४८|०३] आर्यं चाद्यं
12588 SK [४४८|०४-४४८|०५] आद्यं सामन्तकमनागम्यं तच्छुद्धकं चानास्रवं च यद्यपि सामन्तकचित्तेन प्रतिसंधिबन्धः क्लिष्टो भवति /
12589 SK [४४८|०५] समाहितस्य तु क्लिष्टत्वं प्रतिषिध्यते /
12590 SK [४४८|०६] त्रिधा केचित्
12591 SK [४४८|०७] केचित्पुनरिच्छन्ति /
12592 SK [४४८|०७-४४८|०८] आस्वादनासंप्रयुक्तमप्यनागम्यं सामन्तकं चोच्यते ध्यानान्तरं च /
12593 SK [४४८|०८] किमिदमेकार्थमाहोस्विन्नानार्थम् / सामन्तकं हि वैराग्यमार्गः /
12594 SK [४४८|०९] अतर्क ध्यानमन्तरम् // VAक्K_८.२२ //
12595 SK [४४८|१०] ध्यानमेव हि वितर्कासंप्रयुक्तं ध्यानान्तरं ध्यानविशेषत्वात् /
12596 SK [४४८|१०-४४८|११] अत एव द्वितीयादिषु ध्यानेषु न व्ययस्थाप्यते विशेषाभावादिति /
12597 SK [४४८|११] तत्पुनर्ध्यानान्तरं
12599 SK [४४८|१३] आस्वादनासंप्रयुक्तम् शुद्धकमनास्रवं च /
12600 SK [४४८|१४] अदुःखासुखं तच्च
12601 SK [४४८|१५] नात्र सुखं दुःखमित्यदुःखासुखमुपेक्षेन्द्रियसंप्रयुक्तमित्यर्थः /
12602 SK [४४८|१५-४४८|१६] न प्रीतिसंप्रयुक्तं साभिसंस्कारवाहित्वात् /
12603 SK [४४८|१६] अत एव दुःखा प्रतिपत् /
12604 SK [४४८|१६-४४८|१७] तस्य तर्हि ध्यानान्तरस्य कः फलविशेषः /
12606 SK [४४८|१८] महाब्रह्मफलं च तत् /
12607 SK [४४८|१९] तां हि ध्यानान्तरिकां भावयित्वा महाब्रह्मा भवति /
12608 SK [४४८|१९-४४८|२०] पुनः सर्वसमाधीन् संकलय्य त्रयः समाधयः उक्ताः सूत्रे /
12609 SK [४४८|२०] सवितर्कः सविचारः समाधिः / अवितर्को विचारमात्रः /
12610 SK [४४९|०१] अवितर्को ऽविचार इति /
12611 SK [४४९|०१-४४९|०२] तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः समाध्हिरिति ज्ञापितम् /
12612 SK [४४९|०२] वितर्कमात्रप्रतिषेधात् / ततः
12613 SK [४४९|०३] सवितर्कविचारोऽधःसमाधिः
12614 SK [४४९|०४] तस्माद्ध्यानान्तरादधःसमाधिः सवितर्कः सविचारः / प्रथमं ध्यानमनागम्यं च /
12615 SK [४४९|०५] परतो ऽद्वयः // VAक्K_८.२३ //
12616 SK [४४९|०६] नात्र द्वयमस्तीत्यद्वयः / परेण तु ध्यानान्तरात्समाधिरवितर्को ऽविचारः /
12617 SK [४४९|०६-४४९|०७] द्वितीयध्यानसामन्तकाद्यावत् भवाग्रम् /
12618 SK [४४९|०७] पुनस्त्रयः उक्ताः /
12619 SK [४४९|०७-४४९|०८] शून्यतासमाधिरप्रणिहित आनिमित्तश्च /
12621 SK [४४९|०९] आनिमित्तः समाकारैः
12622 SK [४४९|१०] निरोधसत्याकारैः संप्रयुक्तः समाधिरानिमित्तश्चतुराकारः /
12623 SK [४४९|१०-४४९|११] निर्वाणं हि दशनिमित्तापगतत्वादनिमित्तम् /
12624 SK [४४९|११] तदालम्बनः समाधिरानिमित्तः /
12625 SK [४४९|११-४४९|१२] पञ्चविषयस्त्रीपुरुषत्रिसंस्कृतलक्षणनिमित्तानि दश /
12626 SK [४४९|१३] शून्यतानात्मशुन्यतः /
12627 SK [४४९|१४] प्रवर्तते
12628 SK [४४९|१५] अनात्मशून्यताकाराभ्यां संप्रयुक्तः शून्यतासमाधिद्वर्च्याकारः /
12629 SK [४४९|१६] अप्रणिहितः सत्याकारैरतः परैः // VAक्K_८.२४ //
12630 SK [४४९|१७] परैः शेषैः सत्याकारैः संप्रयुक्तः समाधिप्रणिहितो दशाकारः /
12631 SK [४४९|१७-४४९|१८] अनित्यदुःखतद्धेतुभ्य उद्वेगात् मार्गस्य च कोलोपमतया ऽवश्यत्याज्यत्वात्तदाकारः समाधिरप्रणिहितः /
12632 SK [४५०|०१] तदतिक्रमाभिमुखत्वात् शून्यतानात्मताभ्यां तु नोद्वेगो निर्वाणसामान्यात् /
12633 SK [४५०|०१-४५०|०२] त एते त्रयः समाधयो द्विविधाः /
12634 SK [४५०|०३] शुद्धामलाः
12635 SK [४५०|०४] शुद्धकाश्चानास्रवाश्च / लौकिकलोकोत्तरत्वात् / लौकिका एकादशसु भूमिषु /
12636 SK [४५०|०५] लोकोत्तरा यत्र मार्गः /
12637 SK [४५०|०६] निर्मलास्तु ते विमोक्षमुखत्रयम् /
12638 SK [४५०|०७] अनास्रवास्त्वेते त्रयः समाधयस्त्रीणि विमोक्षमुखान्युच्यन्ते /
12639 SK [४५०|०७-४५०|०८] शून्यता विमोक्षमुखमप्रणिहितमानिमित्तं विमोक्षमुखमिति /
12640 SK [४५०|०८] मोक्षद्वारत्वात् / पुनश्चोच्यन्ते /
12641 SK [४५०|०९] शून्यताशून्यताद्याख्यास्त्रयो ऽपरसमाधयः // VAक्K_८.२५ //
12642 SK [४५०|१०] शून्यताशून्यता अप्रणिहिताप्रणिहितः आनिमित्तानिमित्तश्च /
12643 SK [४५०|१०-४५०|११] शून्यताद्यालम्बनत्वात्तन्नाम /
12644 SK [४५०|११] तेषां पुनः
12645 SK [४५०|१२] आलम्बेते अक्षैक्षं द्वौ शून्यतश्चाप्यनित्यतः /
12646 SK [४५०|१३] अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते /
12647 SK [४५०|१३-४५०|१४] शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्यताकारेण /
12648 SK [४५०|१४-४५०|१५] अप्रणिहिताप्रणिहितो ऽप्यशैक्षमप्रणिहितमनित्याकारेण /
12649 SK [४५०|१५-४५०|१६] न दुःखतो न हेत्वादितो ऽनास्रवस्यातल्लक्षणत्वान्न मार्गाकारैः दूषणीयत्वात् /
12650 SK [४५०|१७] आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम् // VAक्K_८.२६ //
12651 SK [४५०|१८-४५०|१९] आनिमित्तानिमित्तस्तु समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते /
12652 SK [४५०|१९] शान्ताकारेण / अनास्रवस्य प्रतिसंखयानिरोधाभावात् /
12653 SK [४५०|१९-४५०|२०] न निरोधप्रणीतनिःसरणाकारैरनित्यतानिरोधसाधारणत्वादव्याकृतत्वा दविसंयोगाच्च /
12654 SK [४५०|२०-४५०|२१] एकान्तेन चैते परसमाधयः
12656 SK [४५१|०१] आर्यमार्गद्वेषित्वात् नह्येवमनास्रवा इति / कुत्रोत्पद्यन्ते /
12658 SK [४५१|०३] मनुष्येष्वेव न देवेषु / कस्योत्पद्यन्ते /
12659 SK [४५१|०४] अकोप्यस्य
12660 SK [४५१|०५] नान्यस्यार्हतः / कतिभूमिकाः /
12661 SK [४५१|०६] सप्तसामन्तवर्जिताः /
12662 SK [४५१|०७] सप्त सामन्तकानि हित्वान्यास्वेकादशसु भूमिषु /
12663 SK [४५१|०७-४५१|०८] कामधात्वनागम्यध्यानान्तरध्यानारुप्येषु /
12664 SK [४५१|०८] पुनश्चतस्रः समाधिभावना उच्यन्ते /
12665 SK [४५१|०८-४५१|०९] अस्ति समाधिभावना आसेविता भाविता वहुलीकृता दृष्टधर्मसुखविहाराय संवर्तते᳚ इति विस्तरः /
12667 SK [४५१|१०] समाधिभावना ध्यानं शुभमाद्यं सुखाय हि // VAक्K_८.२७ //
12668 SK [४५१|११] कुशलं प्रथमं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना /
12669 SK [४५१|११-४५१|१२] तदादिकत्वादन्यान्यपि ज्ञेयानि /
12670 SK [४५१|१२-४५१|१३] नावश्यं संपरायसुखविहारायापरिहिणोर्ध्वोपपन्नपरिनिर्वृतानां तदभावात् /
12671 SK [४५१|१४] दर्शनायाक्ष्यभिज्ञेष्टा
12672 SK [४५१|१५] दिव्यचक्षुरभिज्ञा ज्ञानदर्शनाय समाधिभावना /
12673 SK [४५१|१६] धीभेदाय प्रयोगजाः /
12674 SK [४५१|१७] प्रयोगजाः सर्वे गुणास्त्रैधातुका अनास्रवाः प्रज्ञाप्रभेदाय समाधिभावना /
12675 SK [४५१|१८] वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षयभावना // VAक्K_८.२८ //
12676 SK [४५२|०१] यश्चतुर्थध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना /
12677 SK [४५२|०१-४५२|०२] आत्मोपनायिकी किलैषा भगवतो धर्मदेशना /
12678 SK [४५२|०२] अतश्चतुर्भ्य एवाह /
12679 SK [४५२|०२-४५२|०३] कृतः समाधीनां कालगतो निर्देशः /
12680 SK [४५२|०४] इदानीं समाधिसंनिश्रितानां गुणानां निर्देशकाल इति व्याख्यायन्ते
12681 SK [४५२|०५] अप्रमाणानि चत्वारि
12682 SK [४५२|०६] मैत्री करुणा मुदितोपेक्षा च / अप्रमाणसत्त्वालम्बनत्वात् / किमर्थं चत्वार्येव /
12683 SK [४५२|०७] व्यापादादिविपक्षतः /
12684 SK [४५२|०८] व्यापादविंहिसा ऽरतिकामरागव्यापादबहुलानां तत्प्रहाणाय चत्वारि यथासंख्यम् /
12685 SK [४५२|०९] अशुभोपेक्षयोः कामरागप्रतिपक्षत्वे को विशेषः /
12686 SK [४५२|०९-४५२|१०] वर्णरागस्याशुभा मैथुनरागस्योपेक्षेति वैभाषिकाः /
12687 SK [४५२|१०] एवं तु युज्यते /
12688 SK [४५२|१०-४५२|११] मैथूनरागस्याशुभा मातापितृपुत्रज्ञातिरागस्योपेक्षेति /
12690 SK [४५२|१२] मैत्र्यद्वेषः
12691 SK [४५२|१३] अद्वेषस्वभावा मैत्री
12692 SK [४५२|१४] अपि करुणा
12693 SK [४५२|१५] करुणाप्येवम् /
12694 SK [४५२|१६] मुदिता सुमनस्कता // VAक्K_८.२९ //
12695 SK [४५२|१७] सौमनस्यस्वभावा मुदिता /
12696 SK [४५२|१८] उपेक्षा ऽलोभः
12697 SK [४५२|१९] अलोभात्मिकोपेक्षा / कथं व्यापादप्रतिपक्षः / तस्य लोभाकृष्टत्वात् /
12698 SK [४५२|१९-४५२|२०] उभयस्वभावा त्वसौ युज्यते /
12699 SK [४५२|२०] एषां तु मैत्र्यादीनां
12700 SK [४५३|०१] आकारः सुखिता दुःखिता वत /
12701 SK [४५३|०२] मोदन्तामिति सत्त्वाश्च
12702 SK [४५३|०३] सुखिता वत सत्त्वा इति मनसिकुर्वन् मैत्रीं समापद्यते /
12703 SK [४५३|०३-४५३|०५] दुःखिता वत सत्त्वा इति करुणां मोदन्तां वत सत्त्वा इति मुदितां सत्त्वा इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते /
12704 SK [४५३|०५] माध्यस्थ्यात् / अतद्वतां सुखाधिमोक्षत्वात् कथं न विपरीतत्वं भवति /
12705 SK [४५३|०६] सन्त्वित्यभिप्रायात् / आशयस्याविपरीतत्वाद्वा ऽधिमुक्तिसंज्ञानात् /
12706 SK [४५३|०६-४५३|०७] अथवा क एवं विपरीतत्वे दोषः /
12707 SK [४५३|०७] अकुशलत्वमिति चेत् /
12708 SK [४५३|०७-४५३|०८] न कुशलमूलत्वाद्व्यापादादिप्रतिपक्षत्वाच्च /
12709 SK [४५३|०८] उक्त एषामाकारः /
12710 SK [४५३|०९] कामसत्त्वास्तु गोचरः // VAक्K_८.३० //
12711 SK [४५३|१०] कामावचराः सत्त्वा एषामालम्बनम् / तदालम्बनानां व्यापादादीनां प्रतिपक्षत्वात् /
12712 SK [४५३|११] यत्तूक्तमेकां दिशमधिमुच्येतेति तद्भाजनेन भाजनगतं दर्शितम् /
12713 SK [४५३|११-४५३|१२] कतिभूमिकान्येतानि /
12714 SK [४५३|१३] ध्यानयोर्मुदिता
12715 SK [४५३|१४] प्रथमद्वितीयध्यानयोर्मुदिता / सौमनस्यत्वात् /
12716 SK [४५३|१५] अन्यानि षट्सु
12717 SK [४५३|१६] अन्यानि त्रीणि अप्रमाणानि षट्सु भूमिषु /
12718 SK [४५३|१६-४५३|१७] अनागम्ये ध्यानान्तरेध्यानेषु च /
12719 SK [४५३|१७] सप्रयोगमौलग्रहणात् /
12720 SK [४५३|१८] केचित्तु पञ्चसु /
12721 SK [४५३|१९] केचित् पुनः अनागम्यं हित्वा पञ्चस्वेतानीच्छन्ति / दशस्वित्यपरे /
12722 SK [४५३|१९-४५३|२०] कामधातुं सामन्तकानि च प्रक्षिप्य समाहितासमाहितमौलल्प्रयोगग्रहणात् /
12723 SK [४५३|२०-४५३|२१] यदुक्तं ᳚व्यापादादिविपक्षत᳚ इति किमप्रमाणैरपि क्लेशग्रहणं भवति /
12724 SK [४५३|२२] न तैः प्रहाणं
12725 SK [४५४|०१] मौलध्यानभूमिकत्वादधिमुक्तिमनस्कारत्वात्सत्त्वालम्बनत्वाच्च /
12726 SK [४५४|०१-४५४|०२] तत्प्रयोगेण तु व्यापादादिविष्कम्भणात्तत्प्रतिपक्षत्वमुक्तम् /
12727 SK [४५४|०२] प्रहाण दूरीकरणाच्च /
12728 SK [४५४|०२-४५४|०३] कामधात्वनागम्यभूमिकानि हि मैत्र्यादीनि मौलाप्रमाणसदृशानि संविद्यन्ते /
12729 SK [४५४|०३-४५४|०४] तैस्तान्विष्कम्भ्य प्रहाणमार्गैः प्रजहाति /
12730 SK [४५४|०४] ततो वीतरागावस्थायां मौलाप्रमाणलाभात् /
12731 SK [४५४|०४-४५४|०५] बलवत्प्रत्ययलाभे ऽपि तैरनाधृष्यो भवति /
12732 SK [४५४|०५] कथं पुनरादिकर्मिको मैत्र्यां प्रयुज्यते /
12733 SK [४५४|०५-४५४|०७] यथा सुखितमात्मानं मन्यते परान्वा शृणोति बुद्धबोधिसत्त्वार्यश्रावकांस्तथा सत्त्वानां तत्सुखमधिमुच्यते एवं सुखिता वत सन्तु सत्त्वा इति /
12734 SK [४५४|०७-४५४|०८] न चेच्छक्नोति क्लेशस्योद्भतवृत्तित्वात् स मित्रपक्षं त्रिधा भित्त्वा ऽधिमात्रे तत्सुखमधिमुच्यते /
12735 SK [४५४|०८-४५४|०९] ततो मध्ये मृदौ च /
12736 SK [४५४|०९] तेषु चेत्समां मैत्रीं लभते तत उदासीनपक्षे /
12737 SK [४५४|०९-४५४|१०] ततः शत्रूपक्षं त्रिधा भित्त्वा मृदौ तत् सुखमधिमुच्यते /
12738 SK [४५४|१०] ततो मध्ये ऽधिमात्रे च /
12739 SK [४५४|१०-४५४|११] ततश्चेदधिमात्र इव मित्रपक्षे सुखाधिमोक्षो न व्यावर्तते /
12740 SK [४५४|११-४५४|१२] ततः क्रमेण ग्रामराष्ट्रसुखाधिमोक्षो यावदेकां दिशं यावत्सर्व लोकं मैत्र्या स्फुरति /
12741 SK [४५४|१२-४५४|१३] यस्तु सर्वगुणग्राही समैत्रीं क्षिप्रमुत्पादयति /
12742 SK [४५४|१३-४५४|१४] शक्यं हि समुच्छिन्न कुशलमूले ऽपि गुणग्राहिणा भवितुं प्रत्येकबुद्धे च दोष ग्राहिणा पूर्वं पुण्यापुण्यफलसंदर्शनात् /
12743 SK [४५४|१४-४५४|१६] एवं करुणायां मुदितायां च प्रयुज्यते अमी सत्त्वा बहुविधव्यसनीधनिमग्ना अप्येवं दुःखाद्विमुच्येरन् अप्येवातिप्रमोदेरन्नित्यधिमुच्यमान उपेक्षां तूदासीनपक्षादारभते /
12744 SK [४५४|१६-४५४|१७] एतानि चाप्रमाणानि
12745 SK [४५४|१८] नृष्वेव जन्यन्ते
12746 SK [४५४|१९] मनुष्येषूत्पाद्यन्ते / नान्यत्र /
12747 SK [४५४|२०] किं पुनर्य एकेनाप्रमाणेन समन्वागतः सो ऽवश्यं सर्वैः / किन्तु
12748 SK [४५४|२१] त्र्यन्वितो ध्रुवम् // VAक्K_८.३१ //
12749 SK [४५४|२२] तृतीयचतुर्थध्यानोपपन्नो मुदितया न समन्वागतो भवति /
12750 SK [४५४|२२-४५४|२३] त्रिभिस्त्वप्रमाणलाभी नित्यं समन्वागतो भवति /
12751 SK [४५४|२४] अष्टौ विमोक्षाः
12752 SK [४५५|०१] रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः /
12753 SK [४५५|०१-४५५|०२] अध्यात्मरूपसंज्ञी बहिर्धा रूपाणि पश्यतीति द्वितीयः /
12754 SK [४५५|०२-४५५|०३] शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीति तृतीयः /
12755 SK [४५५|०३] चत्वार आरुप्याः / संज्ञावेदितनिरोधश्चाष्टमः / तेषां
12756 SK [४५५|०४] प्रथमावशुभा
12757 SK [४५५|०५] प्रथमौ द्वौ विमोक्षावशुभास्वभावौ /
12758 SK [४५५|०५-४५५|०६] विनीलकाद्याकारत्वात् /
12759 SK [४५५|०६] अत एतयोरशुभावन्नयो वेदितव्यः / एतौ च
12760 SK [४५५|०७] ध्यानयोर्द्वयोः /
12761 SK [४५५|०८] प्रथमद्वितीययोर्ध्यानयोर्नान्यस्यां भूमौ /
12762 SK [४५५|०८-४५५|०९] कामावचरप्रथमध्यानभूमिकयोर्वर्णरागयोः प्रतिपक्षेण यथासंख्यम् /
12763 SK [४५५|१०] तृतीयो ऽन्त्ये
12764 SK [४५५|११] शुभो विमोक्षश्चतुर्थध्याने /
12766 SK [४५५|१३] सो ऽप्यलोभस्वभावो नत्वशूभास्वभावः / शुभाकारत्वात् /
12767 SK [४५५|१३-४५५|१४] सपरिवारास्त्वेते पञ्चस्कन्धस्वभावाः /
12768 SK [४५५|१४] आरुप्यविमोक्षास्तु
12769 SK [४५५|१५] शुभारुप्याः समाहिताः // VAक्K_८.३२ //
12770 SK [४५५|१६-४५५|१७] कुशलाः समाहिता एव चारूप्यविमोक्षाख्यां लभन्ते न क्लिष्टा नाप्यसमाहितास्तद्यथामरणभवे /
12771 SK [४५५|१७] अन्यदाप्यसमाहिताः सन्तीत्यपरे /
12772 SK [४५५|१७-४५५|१८] सामन्तकविमुक्ति मार्गा अपि विमोक्षाख्यां लभन्ते /
12773 SK [४५५|१८] नानन्तर्यमार्गा अधरालम्बनत्वात् /
12774 SK [४५५|१८-४५५|१९] वैमुख्यार्थो हि विमोक्षार्थ इति /
12775 SK [४५५|२०] निरोधस्तु समापत्तिः
12776 SK [४५६|०१] संज्ञावेदितनिरोधस्तु अष्टमो विमोक्षो निरोधसमापत्तिः / सा च पूर्व निर्दिष्टा /
12777 SK [४५६|०२] संज्ञावेदितवैमुख्यात्सर्वसंस्कृताद्वा / समापत्त्यावरणविमोक्षणाद्विमोक्ष इत्यपरे /
12778 SK [४५६|०३] तां तु समापद्यन्ते /
12779 SK [४५६|०४] सूक्ष्मसूक्ष्मादनन्तरम् /
12780 SK [४५६|०५] भवाग्रं हि संज्ञा सूक्ष्मं तत् पुनः सूक्ष्मतरं कृत्वा निरोधं समापद्यन्ते / समापन्नानां तु
12781 SK [४५६|०६] स्वशुद्धकाधरार्येण व्युत्थानं चेतसा ततः // VAक्K_८.३३ //
12782 SK [४५६|०७-४५६|०८] भावाग्रिकेण वा शुद्धकेन चेतसा ततो व्युत्थानं भवत्याकिञ्चन्यायतन भूमिकेन वा सास्रवेण /
12783 SK [४५६|०८-४५६|०९] तदेवं तस्याः सास्रवं समापत्तिचित्तं भवति सास्रवानान्तर्य तु व्युत्थानचित्तमिति /
12784 SK [४५६|०९] एषां च विमोक्षाणां
12785 SK [४५६|१०] कामाप्तदृश्यविषयाः प्रथमाः
12786 SK [४५६|११] कामावचरमेषां रूपायतनमालम्बनममनोज्ञं मनोज्ञं च यथायोगम् /
12787 SK [४५६|१२-४५६|१३] ये त्वरूपिणः / ते ऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः // VAक्K_८.३४ //
12788 SK [४५६|१४-४५६|१५] आरूप्यविमोक्षाणां स्वभूमिकोर्ध्वभूमिकं दुःखं तद्धेतुनिरोधौ चालम्बनं सर्वश्चान्वयज्ञानपक्षो मार्गः /
12789 SK [४५६|१५] अप्रतिसंख्यानिरोधश्चेति वक्तव्यमाकाशं चैकस्येति /
12790 SK [४५६|१६] कस्मान्न तृतीये ध्याने विमोक्षः /
12791 SK [४५६|१६-४५६|१७] द्वितीयध्यानभूमिकवर्णरागाभावात् सुखमण्डेञ्जितत्वाच्च /
12792 SK [४५६|१७] तस्माच्छुभं विमोक्षमुत्पादयति /
12793 SK [४५६|१७-४५६|१८] अशुभया लीनं संततिं प्रमोदयितुं जिज्ञासनार्थं वा /
12794 SK [४५६|१८] कच्चिदशुभाविमोक्षौ निष्पन्नाविति /
12795 SK [४५६|१८-४५६|१९] एवं च पुनस्तौ निष्पन्नौ भवतो यदि शुभतो ऽपि मनसि कुर्वतः क्लेशो नोत्पद्यत इति /
12796 SK [४५६|२०] द्वाभ्यां हि कारणाभ्यां योगिनो विमोक्षादीनुत्पादयन्ति /
12797 SK [४५६|२०-४५६|२१] क्लेशदूरीकरणार्थं समापत्तिवशित्वार्थं च /
12798 SK [४५६|२१] अरणादिगुणाभिनिर्हाराय आर्यायाश्चर्द्धेः /
12799 SK [४५६|२१-४५६|२२] सा पुनर्यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गादीनि क्रियन्ते /
12800 SK [४५६|२२-४५६|२३] कस्मात्तृतीयाष्टमयोरेव साक्षात्करणमुक्तं नान्येषाम् /
12801 SK [४५६|२३-४५६|२४] प्रधानत्वाद्धातुभूमिपर्यन्तावस्थितत्वाच्च /
12802 SK [४५७|०१] अभिभ्वायतनान्यष्टौ
12803 SK [४५७|०२-४५७|०३] अध्यात्मं रूपसंज्ञी वहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णानि दुर्वर्णानि तानि खलु रूपाण्यभिभूयजानात्यभिभूय पश्यतीत्येवंसंज्ञी भवतीदं प्रथममभिभ्वायतनम् /
12804 SK [४५७|०४] एवमधिमात्राणि / अध्यात्ममरूपसंज्ञ्येवमेव / इत्येतानि चत्वारि /
12805 SK [४५७|०४-४५७|०५] अध्यात्ममरूपसंज्ञ्येव पुनर्नीलपीतलोहितावदातानि पश्यतीत्यष्टौ भवन्ति /
12807 SK [४५७|०६] द्वयमाद्यविमोक्षवत् /
12808 SK [४५७|०७] यथा प्रथमो विमोक्ष एवं द्वे अभिभ्वायतने प्रथमद्वितीये /
12809 SK [४५७|०८] द्वे द्वितीयवत्
12810 SK [४५७|०९] यथा द्वितीयो विमोक्ष एवं द्वे अभिभ्वायतने तृतीयचतुर्थे /
12811 SK [४५७|१०] अन्यानि पुनः शुभविमोक्षवत् // VAक्K_८.३५ //
12812 SK [४५७|११] यथा शुभो विमोक्ष एवमन्यानि चत्वारि / अयं तु विशेषः तैर्वैमुख्यमात्रम् /
12813 SK [४५७|१२] एभिस्त्वालम्बनाभिभवनं यथेच्छमधिमोक्षात् क्लेशानुत्पादाच्च /
12814 SK [४५७|१३] दश कृत्स्नानि
12815 SK [४५७|१४] दश कृत्स्नायतनानि निरन्तरकृत्स्नस्फरणात् /
12816 SK [४५७|१४-४५७|१५] पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नानि /
12817 SK [४५७|१५] आकाशविज्ञानानन्त्यायतनकृत्स्ने च / तेषाम्
12818 SK [४५७|१६] अलोभाष्टौ
12819 SK [४५७|१७] प्रथमान्यष्टावलोभस्वभावानि
12820 SK [४५७|१८] ध्याने ऽन्त्ये
12821 SK [४५७|१९] चतुर्थ एव ध्याने /
12822 SK [४५८|०१] गोचरः पुनः /
12824 SK [४५८|०३] कामावचररूपायतनमेषा मालम्बनम् / वायोः स्प्रष्टव्यायतन मित्येके /
12825 SK [४५८|०४] द्वे शुद्धकारुप्ये
12826 SK [४५८|०५] द्वे पश्चिमे कृत्स्ने शुद्धकारूप्यस्वभावे /
12827 SK [४५८|०६] स्वचतुःस्कन्धगोचरे // VAक्K_८.३६ //
12828 SK [४५८|०७] स्वभूमिकाश्चत्वारः स्कन्धा अन्योरालम्बनम् /
12829 SK [४५८|०७-४५८|०८] विमोक्षप्रावेशिकान्यभिभ्वायतनानि /
12830 SK [४५८|०८] अभिभ्वायतनप्रावेशिकानि कृत्स्नायतनानि / उत्तरोत्तरविशिष्टत्वात् /
12831 SK [४५८|०९-४५८|१०] सर्वाणि चैतानि विमोक्षादीनि पृथग्जनार्यसांतानिकानि स्थापयित्वा निरोधविमोक्षम् /
12832 SK [४५८|११] निरोध उक्तः
12833 SK [४५८|१२] निरोधविमोक्षः पूर्वमेवोक्तः सर्वैः प्रकारैः /
12834 SK [४५८|१३] वैराग्यप्रयोगाप्तं तु शेषितम् /
12835 SK [४५८|१४] निरोधादन्यानि विमोक्षादीनि वैराग्यलाभिकानि प्रायोगिकाणि च /
12836 SK [४५८|१४-४५८|१५] उचितानुचितत्वात् /
12837 SK [४५८|१६] त्रिधात्वाश्रयमारूप्यसंज्ञं शेषं मनुष्यजम् // VAक्K_८.३७ //
12838 SK [४५८|१७] आरुप्यविमोक्षा आरुप्यकृत्स्ने च त्रैधातुकाश्रयाणि शेषं मनुष्याश्रयमेव /
12839 SK [४५८|१८] उपदेशसामर्थ्येनोत्पादनात् / कथं रूपारुप्यधात्वोरारूप्यध्यानविशेषोत्पादनम् /
12840 SK [४५८|१९] त्रिभिः कारणैर्ध्यानारूप्यसमापत्तीनामुपपत्तिर्हेतुकर्मधर्मताबलैः / तत्र
12841 SK [४५८|२०] हेतुकर्मबलाद्धात्वोरारूप्योत्पादनं द्वयोः /
12842 SK [४५९|०१] द्वयो रूपारूप्यधात्वोरारूप्यसमापत्त्युत्पादनम् /
12843 SK [४५९|०१-४५९|०३] हेतुबलादासन्नाभीक्ष्णाभ्यासात् कर्मबलाच्चोर्ध्वभूमिकस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात् /
12844 SK [४५९|०३] नह्यधस्तादवीत रागेणोर्ध्व शक्यमुत्पत्तुमिति /
12845 SK [४५९|०४] ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च // VAक्K_८.३८ //
12846 SK [४५९|०५-४५९|०६] रूपधातौ ध्यानोत्पादनमेताभ्यां हेतुकर्मबलाभ्यां धर्मतया च संवर्तनीकाले /
12847 SK [४५९|०६] तदानीं हि सर्वस्त्त्वा एवाधरभूमिकास्तद्ध्यानमुत्पादयन्ति /
12848 SK [४५९|०६-४५९|०७] कृत्स्नानां धर्माणामुद्भूतवृत्तित्वात् /
12849 SK [४५९|०७] कियच्चिरं पुनरयं सद्धर्मः स्थास्यति /
12850 SK [४५९|०७-४५९|०८] यत्रेमे ईदृशानाम् धर्माणां प्रकाराः प्रज्ञायन्ते /
12851 SK [४५९|०९] सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः /
12852 SK [४५९|१०] तत्रागमः सूत्रविनयाभिधर्मा अधिगमो बोधिपक्ष्या इत्येष द्विविधः सद्धर्मः /
12853 SK [४५९|११] धातारस्तस्य वक्तारः प्रतिपत्तार एव च // VAक्K_८.३९ //
12854 SK [४५९|१२] आगमस्य हि धारयितारो वक्तारः / अधिगमस्य प्रतिपत्तारः /
12855 SK [४५९|१२-४५९|१३] अतो यावदेते स्थास्यन्ति तावत्सद्धर्म इति वेदितव्यम् /
12856 SK [४५९|१३] तेषां तु वर्षसहस्र मवस्थानमाहुः /
12857 SK [४५९|१४] अधिगमस्यैवम् / आगमस्य तु भूयांसं कालमित्यपरे /
12858 SK [४५९|१५] यो ऽयमिह शास्त्रे ऽभिधर्म उक्तः किमेष एव शास्त्राभिधर्मो देशितः /
12859 SK [४५९|१६-४५९|१९] काश्मीरवैभाषिकनीतिसिद्धः प्रायो मया ऽयं कथितो ऽभिधर्मः / यद्दुर्गृहीतं तदिहास्मदागः सद्धर्मनीतौ मनयः प्रमाणम् // VAक्K_८.४० //
12860 SK [४६०|०१-४६०|०२] प्रायेण हि काश्मीरवैभाषिकाणां नीत्यादिसिद्ध एषो ऽस्माभिरबिधर्म आख्यातः /
12861 SK [४६०|०२] यदत्रास्माभिर्दुर्गृहीतं सो ऽस्माकमपराधः /
12862 SK [४६०|०२-४६०|०३] सद्धर्मनीतौ तु पुनर्बुद्धा एव प्रमाणं बुद्धपुत्राश्च /
12863 SK [४६०|०४-४६०|०७] निमीलिते शास्तरि लोकचक्षुषि क्षयं गते साक्षिजने च भूयसा / अदृष्टतत्त्वैर्निरवग्रहैः कृतं कुतार्किकैः शासनमेतदाकुलम् // VAक्K_८.४१ //
12864 SK [४६०|०७-४६०|११] गते ऽथ शान्तिं परमां स्वयंभुवि स्वयंभुवः शासनधुर्धरेषु च / जगत्यनाथे गुनघातिभिर्मतैः निरङ्कुशैः स्वैरमिहाद्य चर्यते // VAक्K_८.४२ //
12865 SK [४६०|१२-४६०|१३] इति कण्ठगतप्राणं विदित्वा शासनं मुनेः / बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः // VAक्K_८.४३ //
12866 SK =====================================================================
12867 SK [४६०|१४] // अभिधर्मकोशभाष्ये समापत्तीनिर्देशो नामाष्टमकोशस्थानमिति //
12869 SK =====================================================================
12871 SK =====================================================================
12872 SK [४६१|०२] किं खल्वतो ऽन्यत्र मोक्षो नास्ति / नास्ति /
12873 SK [४६१|०२-४६१|०३] किं कारणम् /
12874 SK [४६१|०३] वितथात्मदृष्टिनिविष्टत्वात् /
12875 SK [४६१|०३-४६१|०४] नहि ते स्कन्धसंतान एवात्मप्रज्ञप्तिं व्यवस्यन्ति /
12876 SK [४६१|०४] किं तर्हि /
12877 SK [४६१|०४-४६१|०५] द्रव्यान्तरमेवात्मानं परिकल्पयन्ति आत्मग्राहप्रभवाश्च सर्वक्लेशा इति /
12878 SK [४६१|०५-४६१|०६] कथं पुनरिदं गम्यते स्कन्धसंतान एवेदमात्माभिधानं वर्तते नान्यस्मिन्नभिधेय इति /
12879 SK [४६१|०६] प्रत्यक्षानुमानाभावात् /
12880 SK [४६१|०६-४६१|०७] ये हि धर्माः सन्ति तेषां प्रत्यक्षमुपलब्धिर्भवत्यसत्यन्तराये /
12881 SK [४६१|०७] तद्यथा षण्णां विषयाणां मनसश्च / अनुमानं च /
12882 SK [४६१|०८] तद्यथा पञ्चानामिन्द्रियाणाम् / तत्रेदमनुमानम् /
12883 SK [४६१|०८-४६१|०९] सति कारणे कारणान्तरस्याभावे कार्यस्याभावो दृष्टो भावे च पुनर्भाविस्तद्यथाङ्कुरस्य /
12884 SK [४६१|०९-४६१|११] सत्येव चाभासप्राप्ते विषये मनस्कारे च कारणे विषयग्रहणस्याभावो दृष्टः पुनश्च भावो ऽन्धवधिरादीनामनन्धावधिरादीनां च /
12885 SK [४६१|११-४६१|१२] अतस्तत्रापि कारणान्तरस्याभावो भावश्च निश्चीयते /
12886 SK [४६१|१२] यच्च तत्कारणान्तरं तदिन्द्रियमित्येतदनुमानम् /
12887 SK [४६१|१२-४६१|१३] न चैवमात्मनो ऽस्तीति नास्त्यात्मा /
12888 SK [४६१|१४] यत्त्र्हि वात्सीपुत्रियाः पुद्गलं सन्तिमिच्छन्ति / विचार्यं तावदेतत् /
12889 SK [४६१|१४-४६१|१५] किं ते द्रव्यत इच्छन्त्याहोस्वित् प्रज्ञप्तितः /
12890 SK [४६१|१५] किं चेदं द्रव्यत इति किं वा प्रज्ञप्तितः /
12891 SK [४६१|१६] रूपादिवत् भावान्तरं चेत् द्रव्यतः /
12892 SK [४६१|१६-४६१|१७] क्षीरादिवत् समुदायश्चेत् प्रज्ञप्तितः /
12893 SK [४६१|१७] किं चातः / यदि तावत् द्रव्यतः /
12894 SK [४६१|१७-४६१|१८] संभिन्न स्वभावत्वात् स्कन्धेभ्यो ऽन्यो वक्तव्य इतरेतरस्कन्धवत् /
12895 SK [४६१|१८] कारणं चास्य वक्तव्यम् / असंस्कृतो वा /
12896 SK [४६१|१९] अतस्तीर्थिकदृष्टिप्रसङ्गो निष्प्रयोजनत्वं च / अथ प्रज्ञप्तितः / वयमप्येवं त्रूमः /
12897 SK [४६१|२०] नैव हि द्रव्यतो ऽस्ति नापि प्रज्ञप्तितः / किं तर्हि /
12898 SK [४६१|२०-४६१|२१] आध्यात्मिकानुपात्तान्वर्त्तमानान् स्कन्धानुपादाय पुद्गलः प्रज्ञप्यते /
12899 SK [४६१|२१-४६१|२२] तदिदमन्धवचनमनुन्मीलितार्थं न बुध्यामहे /
12900 SK [४६१|२२] किमिदमुपादायेति /
12901 SK [४६१|२२-४६१|२३] यद्ययमर्ह्तः स्कन्धानां लक्ष्यते तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति /
12902 SK [४६१|२३] यथा रूपादीनालम्व्य तेष्वेव क्षीरप्रज्ञप्तिः /
12903 SK [४६१|२३-४६१|२४] अथायमर्थः स्कन्धान् प्रतीयेति /
12904 SK [४६१|२४] स्कन्धानां पुद्गलप्रज्ञप्तिकारणत्वात् / स एव दोषः /
12905 SK [प्४६|१२४-४६१२५] न स एवं प्रज्ञप्यते /
12906 SK [४६१|२५] कथं तर्हि यथेन्धनमुपादायाग्निः /
12907 SK [४६१|२५-४६२|०१] कथं चेन्धनमुपादायाग्निः प्रज्ञप्यते /
12908 SK [४६२|०१-४६२|०२] न हि विनेन्धनेनाग्निः प्रज्ञप्यते न चान्य इन्धनादग्निः शक्यते प्रज्ञपयितुं नाप्यनन्यः /
12909 SK [४६२|०२] यदि हान्यः स्यादनुष्णमिन्धनं स्यात् /
12910 SK [४६२|०२-४६२|०३] अथानन्यः स्याद्दाह्यमेव दाहकं स्यात् /
12911 SK [४६२|०३] एवं न च विना स्कन्वैः पुद्गलः प्रज्ञप्यते /
12912 SK [४६२|०३-४६२|०४] न चान्यः स्कन्धेभ्यः शक्यते प्रतिज्ञातुं शाश्वतप्रसङ्गात् /
12913 SK [४६२|०४] नाप्यनन्य उच्छेदप्रसङ्गदिति /
12914 SK [४६२|०५] अङ्ग तावद्ब्रूहि किगिन्धनं को ऽन्निरिति /
12915 SK [४६२|०५-४६२|०६] ततो ज्ञास्यामः कथमिन्धनमुपादायाग्निः प्रज्ञप्यत इति /
12916 SK [४६२|०६-४६२|०७] किमत्र वक्तव्यं दाह्यमिन्धनं दाहको ऽग्निः /
12917 SK [४६२|०७] एतदेवात्र वक्तव्यं किं दाह्यं कोक् दाहक इति /
12918 SK [४६२|०७-४६२|०८] लोके हि तावदप्रदीप्तं काष्ट्ःआदिकमिन्धनमुच्यते दाह्यं च /
12919 SK [४६२|०८] प्रदीप्तमग्निर्दाहकश्च /
12920 SK [४६२|०८-४६२|०९] यच्च भस्वरं चोष्णं च भृशं च तेन हि तदिध्यते ध्यते च /
12921 SK [४६२|०९] संततिविकारापादानात् /
12922 SK [४६२|०९-४६२|१०] तच्चोभयमष्टद्रव्यकं तच्चेग्धनं प्रतीत्याग्निरुत्पद्यते /
12923 SK [४६२|१०-४६२|११] यथा क्षीरं प्रतीत्य दधि मधु प्रतीत्यशुक्तम् /
12924 SK [४६२|११] तस्माधिग्धनमुपादायेत्युच्यते / अन्यश्च स तस्माद्भिन्नकालत्वात् /
12925 SK [४६२|११-४६२|१२] यदि चैयं पुद्गलः स्कन्धान् प्रतीत्योत्पद्यते स तेभ्यो ऽन्यश्चानित्यश्च प्राप्नोति /
12926 SK [४६२|१२-४६२|१४] अथ पुनस्तत्रैव काष्ठादौ प्रदीप्ते यदीष्ण्यं तदग्निस्तत्सहजातानि त्रीणि भूतानीन्धनमिष्यन्ते /
12927 SK [४६२|१४] तयोरपि सिद्धमन्यत्वं लक्षणभेदात् /
12928 SK [४६२|१५] उपादायार्थस्तु वक्तव्यः / कथं तदिन्धनमुपादाय सो ऽग्निः प्रज्ञप्यत इति /
12929 SK [४६२|१६] न हि तत्तस्य कारणं नापि तत् प्रज्ञप्तेः / अग्निरेव हि तत्प्रज्ञप्तेः कारणम् /
12930 SK [४६२|१७] यद्याश्रयार्थ उपादायार्थः सहभावार्थो वा /
12931 SK [४६२|१७-४६२|१८] स्कन्धा अप्येवं पुद्गलस्याश्रयसहभूताः प्राप्नुवन्तीति विस्पष्टमन्यत्वं प्रतिज्ञायते /
12932 SK [४६२|१८-४६२|१९] तदभावे च पुद्गलाभावः प्राप्नोति /
12933 SK [४६२|१९] इन्धनभाव इवाग्न्यभावः /
12934 SK [४६२|२०] यत्तु तदुक्तं यदीन्धनादन्यो ऽग्निः स्यादनुष्णमिन्धनं स्यादिति /
12935 SK [४६२|२०-४६२|२१] किमिदमुष्णं नाम /
12936 SK [४६२|२१-४६२|२२] यदि तावादीष्ण्यम् अनुष्णमेवेन्धनमन्यभूतस्वभावत्वात् /
12937 SK [४६२|२२] अथ यदौष्ण्यवत् /
12938 SK [४६२|२२-४६२|२३] अन्यदपि तदुष्णस्वभावादग्नेरुष्णं सिध्यत्यीष्ण्ययोगादिति /
12939 SK [४६२|२३] नास्त्यन्यत्वे दोषः /
12940 SK [४६२|२३-४६२|२४] अथ पुनः सर्वमेव तत् प्रदीप्तं काष्ठादिकमिन्धनं चाग्निश्चेष्यते /
12941 SK [४६२|२५] तदुपादायार्थश्च वक्तव्यः / स्कन्धा एव च पुद्गला इत्यनन्यत्वमनिवार्यं प्राप्नोति /
12942 SK [४६२|२६] तस्मान्न सिध्यत्येतत् /
12943 SK [४६२|२६-४६३|०१] यथेन्धनमुपादायाग्निः प्रज्ञप्यते एवं स्कधानुपादाय पुद्गलः इति /
12944 SK [४६३|०१-४६३|०२] यदि चायमन्यः स्कन्धेभ्यो न वक्तव्यः ᳚पञ्चविधं ज्ञेयमतीतानागतं प्रत्युपन्नमसंस्कृतमवक्तव्यमि᳚ति न वक्तव्यं प्राप्नोति /
12945 SK [४६३|०२-४६३|०३] नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं वक्तव्यम् /
12946 SK [४६३|०३-४६३|०४] यदा च पुद्गलः प्रज्ञप्यते कि तावत्स्कन्धानुपलभ्य प्रज्ञप्यते आहोस्वित् पुद्गलम् /
12947 SK [४६३|०४-४६३|०५] यदि तावत् स्कन्धांस्तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति /
12948 SK [४६३|०५] पुद्गलस्यानुपलम्भात् /
12949 SK [४६३|०५-४६३|०६] अथ पुद्गलं कथमस्य स्कन्धानुपादाय प्रज्ञप्तिर्भवति /
12950 SK [४६३|०६] पुद्गल एव हि तस्या उपादानं प्राप्नोति /
12951 SK [४६३|०६-४६३|०७] अथ मतं सत्सु स्कन्धेषु पुद्गल उपलभ्यते ततः स्कन्धानुपादायास्य प्रज्ञप्तिरुच्यत इति /
12952 SK [४६३|०७-४६३|०८] तदेवं रूपस्यापि चक्षुर्मनस्कारालोकेषु सत्सूपलम्भात् तानुपादाय प्रज्ञप्तिर्बक्तव्या /
12953 SK [४६३|०८-४६३|०९] रूपवच्च पुद्गलस्यान्यत्वं स्पष्टम् /
12954 SK [४६३|१०] इदं तावद्वक्तव्यम् /
12955 SK [४६३|१०-४६३|११] षण्णां विज्ञानानां कतमेन पुद्गलो विज्ञेयः /
12956 SK [४६३|११] षड्भिरपीत्युच्यते / कथं कृत्वा /
12957 SK [४६३|११-४६३|१३] चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्यपुद्गलं प्रतिभावयति चक्षुर्विज्ञेयः पुद्गलो वक्तव्यः नो तु वक्तव्यो रूपाणि वानो वा /
12958 SK [४६३|१३-४६३|१४] एवं यावत् मनोविज्ञेयान् चेद्धर्मान् प्रतीत्य पुद्गलं प्रतिविभावयति मनोविज्ञेयः पुद्गलो वक्तव्यो नो तु वक्तव्यो धर्मा वा नो वा /
12959 SK [४६३|१४-४६३|१५] एवं तर्हि क्षीरादिभिः समानः प्राप्नोति /
12960 SK [४६३|१५-४६३|१७] चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्य क्षीरं विभावयत्युदकं वा चक्षुर्विज्ञेयं क्षीरमुदकं चेति वक्तव्यं नो तु वक्तव्यं रूपाणि वा नो वा /
12961 SK [४६३|१७] एवं घ्राणजिह्वाकायविज्ञेयं वक्तव्यं नो तु वक्तव्यं स्प्रष्टव्यानि वा नो वा /
12962 SK [४६३|१८] माभूत् क्षीरोदकयोश्चतुष्ट्वप्रसङ्ग इति /
12963 SK [४६३|१८-४६३|१९] अतो यथा रूपादीन्येव क्षीरमुदकं वा प्रज्ञप्यते समस्तान्येवं स्कन्धाः पुद्गल इति सिद्धम् /
12964 SK [४६३|२०] यच्चोच्यते चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य पुद्गलं प्रतिविभावयतीति /
12965 SK [४६३|२१] को ऽस्य वाक्यस्यार्थः /
12966 SK [४६३|२१-४६३|२२] किं तावद्रूपाणि पुद्गलोपलब्धेः कारणं भवतिति आहोस्विद्रूपाण्युपलभमानः पुद्गलमुपलभत इति /
12967 SK [४६३|२२-४६३|२३] यदि रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्यो ऽन्यो न वक्तव्यः /
12968 SK [४६३|२३-४६३|२४] एवं तर्हि रूपमप्यालोकचक्षुर्मनस्कारेभ्यो ऽन्यन्न वक्तव्यम् /
12969 SK [४६३|२४-४६३|२५] तेषां तदुपलब्धिकारणत्वात् /
12970 SK [४६३|२५] अथ रूपाण्युपलभमानः पुद्गलमुपलभते /
12971 SK [४६३|२५-४६३|२६] किं तयैवोपलब्ध्योपलभते आहोस्विदन्यया /
12972 SK [४६३|२६] यदि तयैव /
12973 SK [४६३|२६-४६३|२७] रूपादभिन्नस्वभावः पुद्गलः प्राप्नोति रूप एव वा तत्प्रज्ञाप्तिः /
12974 SK [४६३|२७] इदं च रूपमयं पुद्गलः कथमिदं गम्यते / अथैवं न परिच्छिद्यते /
12975 SK [४६४|०१] कथमिदं प्रतिज्ञायते रूपमप्यस्ति पुद्गलो ऽप्यस्तीति /
12976 SK [४६४|०१-४६४|०२] उपलब्धिवशेन हि तस्यास्तित्वं प्रतिज्ञायते /
12977 SK [४६४|०२] एवं यावद्धर्मेभ्यो वक्तव्यम् /
12978 SK [४६४|०२-४६४|०३] अथान्यया भिन्नकालो पलम्भादन्यो रूपात्प्राप्नोति /
12979 SK [४६४|०३] नीलादिय पीतं क्षणादिव च क्षणान्तरम् /
12980 SK [४६४|०३-४६४|०४] एवं यावद्धर्मेभ्यो वक्तव्यम् /
12981 SK [४६४|०४] अथ रूपपुद्गलवक्तदुपलब्ध्योरप्यन्यानन्यत्वमवक्तव्यम् /
12982 SK [४६४|०५] तेन तर्हि संस्कृते ऽप्यवक्तव्यं भवतीति सिद्धान्तभेदः /
12983 SK [४६४|०५-४६४|०६] यदि चायमस्ति नो तु वक्तव्यो रूपाणि वा तो वा /
12984 SK [४६४|०६-४६४|०७] किं तर्हि भगवतोक्तं ᳚रूपमनात्मा यावद्विज्ञानमनात्मे᳚ति /
12985 SK [४६४|०८] येन चायं चक्षुर्विज्ञानेन पुद्गल उपलभ्यते /
12986 SK [४६४|०८-४६४|०९] किं तद्रूपाणि प्रतीत्योत्पद्यते आहोस्वित् पुद्गलमुभयं वा /
12987 SK [४६४|०९] यदि रूपाणि प्रतीत्योत्पद्यते /
12988 SK [४६४|०९-४६४|१०] नोत्सहिष्यते पुद्गलं विज्ञातुं शब्दादिवत् /
12989 SK [४६४|१०-४६४|११] यमेव हि विषयं चक्षुर्विज्ञानेषु प्रतीत्योत्पद्यते विज्ञानं स एव तस्यालम्बनप्रत्ययः /
12990 SK [४६४|११-४६४|१२] अथ पुद्गलं प्रतीत्योत्पद्यते उभयं वा /
12991 SK [४६४|१२] इदमुत्सूत्रम् /
12992 SK [४६४|१२-४६४|१३] सूत्रे हि निर्धारितं द्वयं प्रतीत्य विज्ञानस्योत्पादो भवतीति /
12993 SK [४६४|१३] ᳚तथा चक्षुर्भिक्षो हेतू रूपाणि प्रत्ययश्चक्षुर्विज्ञानस्योत्पादाय /
12994 SK [४६४|१३-४६४|१४] तत्कस्य हेतोः /
12995 SK [४६४|१४] यत्किञ्चित् भिक्षो चक्षुर्विज्ञानं सर्वं तच्चक्षुः प्रतीत्य रूपाणि चेति /
12996 SK [४६४|१५] अनित्यश्च पुद्गल एवं प्राप्नोति /
12997 SK [४६४|१५-४६४|१६] ᳚ये हि हेतयो ये प्रत्यया विज्ञानस्योत्पादाय ते ऽप्यनित्या᳚ इति सूत्रे वचनात् /
12998 SK [४६४|१६-४६४|१७] अथ पुद्गलो न तस्यालम्बनं न तर्हि तेन विज्ञेयः /
12999 SK [४६४|१८] यदि च पुद्गलः षड्विज्ञानविज्ञेयः प्रतिज्ञायते /
13000 SK [४६४|१८-४६४|१९] स श्रोत्रविज्ञानविज्ञेयत्वाद्रूपादन्यः प्राप्नोति शब्धवत् /
13001 SK [४६४|१९-४६४|२०] चतुर्विज्ञानविज्ञेयत्वाच्छब्दादन्यः प्राप्नोति रूपवत् /
13002 SK [४६४|२०] एवमन्येभ्यो ऽपि योज्यम् / इदं च सूत्रपदं वाधितं भवति /
13003 SK [४६४|२०-४६४|२२] ᳚यानीमानि ब्राह्मण पञ्चेन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविष्यं प्रत्यनुभवन्ति /
13004 SK [४६४|२२] नान्यदन्यस्य गोचरविष्यं प्रत्यनुभवति /
13005 SK [४६४|२२-४६४|२३] तद्यथा चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियम् /
13006 SK [४६४|२३-४६४|२४] मन एषं पञ्चानामिन्द्रियाणां गोचरविषयं प्रत्यनुभवति मनश्चैषां प्रतिसरणमि᳚ति /
13007 SK [४६४|२४] न वा पुद्गलो विषयः /
13008 SK [४६४|२४-४६४|२५] न चेद्विषयो न तर्हि विज्ञेयः /
13009 SK [४६४|२५-४६४|२६] यद्येवं मनैन्द्रियस्याप्यव्यभिचारः प्राप्नोति /
13010 SK [४६४|२६-४६४|२७] षडिमानीन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविषयमाकाङ्क्षन्ती त्युक्तं षट्प्राणकोपमे /
13011 SK [४६४|२७] न त्त्रेन्द्रियमेम्वेन्द्रियं कृत्वोक्तम् /
13012 SK [४६४|२७-४६५|०१] पञ्चानां दर्शनाद्या काङ्क्षणासंभवात् तद्विज्ञानानां च /
13013 SK [४६५|०१-४६५|०२] अतस्तदाधिपत्याध्याकृतमत्र मनोविज्ञानेन्द्रियं कृत्वोक्तम् /
13014 SK [४६५|०२-४६५|०३] यच्च तत्केवलं मन आधिपत्याध्याकृतं मनोविज्ञानं नैवं तदन्येषां विषयमाकाङ्क्षत्यतो नास्त्येष दोषः /
13015 SK [४६५|०३-४६५|०६] उक्तं च भगवता ᳚सर्वाभिज्ञेयं वो भिक्षवो धर्मपर्यायं देशयिष्यामी᳚त्युक्त्वा चक्षुरभिज्ञेयं रूपाणि चक्षुर्विज्ञानं चक्षुःसंस्पर्शो यदपि तच्चक्षुःसंस्पर्शप्रत्ययमध्यात्ममुत्पद्यते वेदितं सुःखं वा अदुःखासुखं वा यावत् मनःसंस्पर्शप्रत्ययम् /
13016 SK [४६५|०६-४६५|०७] अयमुच्यते सर्वाभिज्ञेयपरिज्ञेयो धर्मपर्यायः इति /
13017 SK [४६५|०७] अत एतावदेवाभिज्ञेयं प्रतिज्ञेयं चेत्यवर्धार्यते न पुद्गलः /
13018 SK [४६५|०७-४६५|०८] तस्माद्विज्ञेयो ऽप्यसौ न भवति /
13019 SK [४६५|०८] प्रज्ञाविज्ञानयोः समानविषयत्वात् /
13020 SK [४६५|०८-४६५|०९] चक्षुष च पुद्गलं पश्याम् इति पश्यन्त पौद्गलिका अनात्मना आत्मानं पश्याम इति दृष्टिस्थानमापन्ना भवन्ति /
13021 SK [४६५|१०] सूत्रे च भगवता नीतमेतत् / ᳚स्कन्धेष्वेव पुद्गलाध्ये᳚ति मानुष्यकसूत्रम् /
13022 SK [४६५|११-४६५|१३] ᳚चक्षुःप्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः स्पर्शसहजाता वेदना संज्ञा चेतना इतीमे चत्वारो रुपिणः स्कन्धाश्वक्षुरिन्द्रियं च रूपमेतावन्मनुष्यत्वमुच्यते /
13023 SK [४६५|१३-४६५|१४] अत्रेयं संज्ञा सत्त्वो नरो मनुष्यो मानवश्च पोषः पुरुषः पुद्गलो जीवो जन्तुरिति /
13024 SK [४६५|१४-४६५|१५] अत्रेयं प्रतिज्ञा अहं चक्षुषा रूपाणि पश्यामीति /
13025 SK [४६५|१५-४६५|१६] अत्रायं व्यवहार इत्यपि स आयुष्मानेवंनामा एवञ्जात्य एवङ्गोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवन्दीर्घायुरेवञ्चिरस्थितिक एवमायुःपर्यन्त इति /
13026 SK [४६५|१६-४६५|१७] इति हि भिक्षवः संज्ञामात्रकमेवैत द्व्यवहारमात्रकमेवैतत् /
13027 SK [४६५|१७-४६५|१८] सर्व इमे धर्माः अनित्याः संस्कृताश्चेति ताः प्रतीत्यसमुत्पन्ना इति /
13028 SK [४६५|१८] नीतार्थं च सूत्रं प्रतिसरणमुक्तं भगवता /
13029 SK [४६५|१९] तस्मान्न पुनः परीक्ष्यते /
13030 SK [४६५|१९-४६५|२०] तथा चोक्तं ᳚सर्वमस्तीति ब्राह्मण यावदेव द्वादशायनानी᳚ति /
13031 SK [४६५|२०] यदि चायं पुद्गलो नायतनं न सोस्तीति सिद्धम् /
13032 SK [४६५|२०-४६५|२१] अथायतनं न तर्ह्यवक्तव्यः /
13033 SK [४६५|२१-४६५|२२] तेषामपि चैवं पश्यतो ᳚यावता भिक्षो चक्षुर्यावता रूपाणि विस्तरेण एतावता भिक्षो तथागतः सर्वं च प्रज्ञापयति सर्वप्रज्ञप्तिं चे᳚ति /
13034 SK [४६५|२२-४६५|२५] बिम्बिसारसूत्रे चोक्तम् ᳚आत्मा आत्मेति भिक्षवो बालो ऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो न त्वात्रा त्मा वा आत्मीयं वा दुःखमिदमुत्पद्य मानमुत्पद्यते᳚ इति विस्तरः /
13035 SK [४६५|२५] शैलयाप्यर्हन्त्या मारमारभ्योक्तं /
13036 SK [४६६|०१-४६६|०४] ᳚मन्यसे कि नु सत्त्वेति मारदृष्टिगतं हि ते / शून्यः संस्कारपुञ्जो ऽयं नहि सत्त्व्जोत्र विद्यते //
13037 SK यथैव ह्यङ्गसंभारात्संज्ञा रथ इति स्मृता / एवं स्कन्धानुपादाय संवृत्या सत्त्व उच्यते᳚ // इति /
13038 SK [४६६|०५] क्षद्रके ऽपि चागमे दारिद्रब्राह्मणमथिकृत्योक्तं
13039 SK [४६६|०६-४६६|०७] शृणु त्वं स्वादरे धर्मः सर्वग्रन्थिप्रमोचनम् / यथा संक्लिश्यते चित्तं यथा चित्तं विशुध्यति //
13040 SK [४६६|०८-४६६|०९] आत्मैव ह्यात्मनो नास्ति विपरीतेन कल्प्यते / नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः //
13041 SK [४६६|१०-४६६|११] द्वादशैव भवाङ्गानि स्कन्धायतनधातवः / विचिन्त्य सर्वाण्येतानि पुद्गलो नोपलभ्यते //
13042 SK [४६६|१२-४६६|१३] शून्यमध्यात्मकं पश्य शून्यं पश्य बहिर्गतम् / न लभ्यते सो ऽपि कश्चिद्यो भावयति शून्यतामि᳚ति /
13043 SK [४६६|१४] तथोक्तं ᳚पञ्चादीनवा आत्मोपलम्भे / आत्मदृष्टिर्भवति सत्त्वदृष्टिः /
13044 SK [४६६|१५] निर्विशेषो भवति तीर्थिकैः सार्धम् / उन्मार्गप्रतिपन्नो भवति /
13045 SK [४६६|१५-४६६|१६] शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते न विमुच्यते /
13046 SK [४६६|१६-४६६|१७] आर्यधर्मा अस्य न व्यवदायन्त᳚ इति /
13047 SK [४६६|१७] न वैत एवं ग्रन्धं प्रमाणं कुर्वन्ति / किं कारणम् /
13048 SK [४६६|१७-४६६|१८] नास्माकमयं निकाये पठच्यत इति /
13049 SK [४६६|१८-४६६|१९] किं पुनस्तेषां निकाय एव प्रमाणमाहोस्विद्बुद्धवचनम् /
13050 SK [४६६|१९] यदि निकाय एव प्रमाणं न तर्हि तेषां बुधः शास्ता /
13051 SK [४६६|१९-४६६|२०] न च ते शाक्यपुत्रीया भवन्ति /
13052 SK [४६६|२०] अथ बुद्धवचनं प्रमाणम् / अयं ग्रन्थः कस्मान्न प्रमाणम् /
13053 SK [४६६|२१] नहि किलैतत् बुद्धवचनमिति / किं कारणम् / नास्माकं निकाये पठच्यत इति /
13054 SK [४६६|२२] अयमन्यायो वर्तते / को ऽत्रान्यायः /
13055 SK [४६६|२२-४६६|२४] यो हि ग्रन्थः सर्वेषु निकायान्तरेष्वाम्नायते न च सूत्रं धर्मतां वा बाधते सो ऽस्माभिरपाठान्न बुद्धवचनमिति वचनं केवलं साहसमात्रम् /
13056 SK [४६६|२४] किं चेदमपि तेषां सूत्रं नास्ति ᳚सर्वधर्मा अनातान᳚ इति /
13057 SK [४६७|०१] स्यात् मतम् / नैव हि पुद्गलो धर्म उच्यते नाप्यन्यो धर्मादिति /
13058 SK [४६७|०१-४६७|०२] एवं तर्हि न मनोविज्ञेयः सिध्यति /
13059 SK [४६७|०२] द्वयं प्रतीत्य विज्ञानस्योत्पादः इत्यवधारणात् /
13060 SK [४६७|०२-४६७|०३] इह चैवं विकल्प्यते ᳚अनात्मन्यातेति संज्ञाविपर्यास श्चित्तविपर्यासो दृष्टिविपर्यास᳚ इति /
13061 SK [४६७|०४] अनात्मन्यात्मेति विपर्यासो न त्वात्मनि किं च पुनः /
13062 SK [४६७|०४-४६७|०५] ᳚नात्मा स्कन्धायतनधातवः᳚ यत्तावदुक्तं प्राक् ᳚नो तु वक्तव्यं रूपाणि वा नो वे᳚ति तत्तावदशोचम् /
13063 SK [४६७|०५-४६७|०७] उक्तं च सूत्रान्तरे ᳚ये केचित् भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानि᳚ति /
13064 SK [४६७|०८] तस्मात्सर्व एवानात्मन्यात्मग्राहः /
13065 SK [४६७|०८-४६७|१०] तथोक्तं ᳚ये केचिदनेकविधं पूर्वनिवासं समनुस्मरन्तः समनुस्मार्षुः समनुस्मरन्ति समनुस्मरिष्यन्ति वा पुनः सर्वे त इमानेव ओपञ्चोपादनस्कन्धानि᳚ति /
13066 SK [४६७|१०-४६७|११] यद्येवमिदं कस्मादाह ᳚रूपवानहमभूवमतीते अध्वनी᳚ति /
13067 SK [४६७|११] एवमनेकविधं ये समनुस्मरन्तीति प्रदर्शयति /
13068 SK [४६७|११-४६७|१२] यदि तु रूपवन्तं पुद्गलं पश्येत्सत्कायदृष्टिप्रसङ्गः स्यात् /
13069 SK [४६७|१२] अपाठ एव त्वन्न शरणं स्यात् /
13070 SK [४६७|१२-४६७|१३] तस्मात् प्रज्ञाप्तिसत्पुद्गलो राशिधारावत् /
13071 SK [४६७|१४] यद्येवं तर्हि न बुद्धः सर्वज्ञः प्रप्नोति /
13072 SK [४६७|१४-४६७|१५] न हि किञ्चिच्त्रित्तमस्ति चैत्ता वा यत्सर्वं जानीयात् /
13073 SK [४६७|१५] क्षणिकत्वात् / पुद्गलस्तु जानीयात् /
13074 SK [४६७|१५-४६७|१६] एवं तर्हि चित्तविनाशे पुद्गलस्याविनाशाभ्युपगमात् नित्यत्वमस्याभ्युपेतं भवति /
13075 SK [४६७|१६-४६७|१७] नैव च वयं सर्वत्र ज्ञानसंमुखीभावाद् बुद्धं सर्वज्ञमाचक्ष्महे /
13076 SK [४६७|१७] किं तर्हि / सामर्थ्यात्
13077 SK [४६७|१७-४६७|१९] या ह्यसौ बुद्धाख्या संततिस्तस्या इदमस्ति सामर्थ्यं यदाभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम् /
13078 SK [४६७|१९] आह चात्र /
13079 SK [४६७|२०-४६७|२१] संतानेन समर्थत्वाद्यथाग्निः सर्वभुङ्मतः तथा सर्वविदेष्टव्यो ऽसकृत्सर्वस्य वेदनात् /
13080 SK [४६७|२२] कथमिदं गम्यते / अतीतादिवचनात् /
13081 SK [४६७|२३-४६७|२४] ᳚ये चाभ्यतीताः संबुद्धा ये च बुद्धा अनागताः / यश्च एतर्ह्हि संबुद्धो बहूनां शोकनाशन᳚ इति /
13082 SK [४६८|०१] स्कन्धा एव च त्रैयध्विका इष्यन्ते न पुद्गला युष्माभिः /
13083 SK [४६८|०१-४६८|०२] यदि स्कन्धा एव पुद्गलाः कस्मादिदमाह /
13084 SK [४६८|०२-४६८|०३] ᳚भारं च वो भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं चे᳚ति /
13085 SK [४६८|०३] कस्मादिदं न वक्तव्यं स्यात् /
13086 SK [४६८|०३-४६८|०४] न हि भार एव भारहारो युक्तः /
13087 SK [४६८|०४] किं कारणम् / नह्येवं दृश्यत इति / अवक्तव्यो ऽपि न युक्तः /
13088 SK [४६८|०५] किं कारणम् / न ह्येवं दृश्यते / भारादानस्यापि स्कन्धासंग्रहप्रसङ्गाच्च /
13089 SK [४६८|०६] इत्यर्थमेव भारहारं निर्दिदेश भगवान् /
13090 SK [४६८|०६-४६८|०७] ᳚यो ऽसावायुप्मानेवंनामा यावदेवञ्चिरस्थितिक एवमायुःपर्यन्तः᳚ स एष यथा विज्ञायेत /
13091 SK [४६८|०७-४६८|०८] मान्यथा विज्ञायि नित्यो वा अवक्तव्यं वेति /
13092 SK [४६८|०८-४६८|०९] स्कन्धा एव च स्कन्धानामुपधाताय संवर्तन्ते पूर्वका उत्तरेषामिति भारं च भारहारं च कृत्वोक्ताः /
13093 SK [४६८|०९] उपघातार्थो हि भार इति /
13094 SK [४६८|१०] अस्त्य् एव पुद्गलो यस्माद् उक्तं ᳚नास्ति सत्त्व उपपादुक इति मिथ्यादृष्टिः᳚ /
13095 SK [४६८|११] कश्चैवम् आह नास्ति सत्त्व उपपादुक इति /
13096 SK [४६८|११-४६८|१२] सत्त्वस्तु यथा ऽस्ति तथा विभक्तो भगवतेति ब्रूमो मानुष्यकसूत्रे /
13097 SK [४६८|१२-४६८|१३] तस्माद् यः परत्रोपपादुकसत्त्वाख्यस्कन्धसंतानापवादं करोति तस्यैषा मिथ्यादृष्टिर् नास्ति सत्त्व उपपादुक इति /
13098 SK [४६८|१४] स्कन्धानाम् उपपादुकत्वात् /
13099 SK [४६८|१४-४६८|१५] अथैषा मिथ्यादृष्टिः पुद्गलापवादिका सती किंप्रहातव्या भवेत् /
13100 SK [४६८|१५] नह्येषा दर्शनभावनाप्रहातव्या युज्यते / पुद्गलस्य सत्त्वेष्वन्तर्भावात् /
13101 SK [४६८|१६] ᳚एकः पुद्गलो लोक उत्पद्यमान उत्पद्यते᳚ इति वचनात् न स्कन्धा इति चेत् /
13102 SK [४६८|१७] न / समुदाये ऽप्येकोपचारादेकतिलैकतण्डुलवत् एकराश्येकवचनवच्च /
13103 SK [४६८|१८] संस्कृत इति वा पुद्गलो वक्तव्य उत्पतीमत्त्वाभ्युपगमात् /
13104 SK [४६८|१८-४६८|१९] न स एवमुत्पद्यते यथा स्कन्धा अपूर्वप्रादुर्भावात् /
13105 SK [४६८|१९] किं तर्हि / स्कन्धान्तरोपादानात् /
13106 SK [४६८|१९-४६८|२०] यथा याज्ञिको जातो वैयाकरणो जात इत्युच्यते विद्योपादानात् /
13107 SK [४६८|२०-४६८|२१] भिक्षुर्जातः परिव्राजको जात इति लिङ्गोपादानात् /
13108 SK [४६८|२१] बुद्धोजातो व्याधितो जात इत्यवस्थान्तरोपादानादिति /
13109 SK [४६८|२२] न प्रतिक्षेपात् सूत्र एव हि प्रतिक्षिप्तं भगवता परमार्थशून्यतायाम् /
13110 SK [४६८|२२-४६८|२३] ᳚इति हिभिक्षवो ऽस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते /
13111 SK [४६८|२३-४६८|२४] य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतादिति /
13112 SK [४६८|२४-४६८|२५] फल्गुसूत्रे चोक्तम् ᳚उपादत्त इति फल्गु न वदामीति /
13113 SK [४६८|२५-४६८|२६] तस्मान्नास्ति स्कन्धानां कश्चिदुपादाता नापि निक्षिप्ता /
13114 SK [४६८|२६-४६९|०१] कं च तावद्भवान्याज्ञिकं यावद्वच्या धित मधिमुच्यते /
13115 SK [४६९|०१] दृष्टातं करोति पुद्गलं यदि / सो ऽसिद्धः / अथ चित्तचैत्ताः / न /
13116 SK [४६९|०२] तेषां प्रतिक्षणमपूर्वोत्पत्तिरेव / अथ शरीरम् / तस्यापि तथा /
13117 SK [४६९|०२-४६९|०३] शरीरविद्यालिङ्गवच्च स्कन्धपुद्गलयोरन्यत्वमापद्यते /
13118 SK [४६९|०३] जीर्ण शरीरान्तरमेव ज्याधितं च /
13119 SK [४६९|०३-४६९|०४] प्रतिषिद्धो हि सांख्यीयः परिणामवादः /
13120 SK [४६९|०४] तस्माददृष्टान्ता एते /
13121 SK [४६९|०५-४६९|०६] यदि च स्कन्धानामपूर्वोत्पादो न पुद्गलस्येष्यते सो ऽन्यश्च तेभ्यो नित्यश्च स्फुटं दीपितो भवति /
13122 SK [४६९|०६] पञ्च स्कन्धा एकः पुद्गल इति ब्रूवता कथमन्यत्वं नोच्यते /
13123 SK [४६९|०७] कथं तावत् भूतानि चत्वारि रूपं त्वेकं न च भूतेभ्य्यो ऽन्यद्रूपम् / पाक्षिक एष दोषः /
13124 SK [४६९|०८] कतमस्मिन्पक्ष / भूतमात्रिकपक्षे /
13125 SK [४६९|०८-४६९|०९] तथापि तु यथा भूतमात्रं रूपमेवं स्कन्धमात्रं पुद्गल इत्यभ्युपेतं भवति /
13126 SK [४६९|०९-४६९|१०] यदि स्कन्धमात्रं पुद्गलः कस्मात् भगवता स जीवस्तच्छरीरकन्यो वेति नव्याकृतम् /
13127 SK [४६९|१०] प्रष्टुराशयापेक्षया /
13128 SK [४६९|१०-४६९|११] स हि जीवद्रव्यमेकमन्तर्व्यापार पुरुषमधिकृत्य पृष्टवान् /
13129 SK [४६९|११-४६९|१२] स च कस्मिश्चिन्नास्तीति कथमस्यान्यत्वमनन्यत्वं वा व्याक्रियताम् /
13130 SK [४६९|१२] कौर्मस्येव रोम्णो ऽन्तःखरता मृदुता वा /
13131 SK [४६९|१३] एष च ग्रन्थः पूर्वकैरेव निर्मोचितः /
13132 SK [४६९|१३-४६९|१४] स्थाविरो हि नागसेनःकलिङ्गेन राज्ञोपसंक्रम्योक्तः /
13133 SK [४६९|१४-४६९|१५] ᳚पृच्छेयमहं भदन्तम् बहुवोल्लकाश्च श्रवणा भवन्ति /
13134 SK [४६९|१५] यदि यदेव पृच्छेयं तदेव व्याकुर्या इति / पृच्छेत्युक्तः पृष्टवान् /
13135 SK [४६९|१५-४६९|१६] किं नु स जीवस्तच्छरीरमन्यिओ जीवो ऽन्यच्छरीरमिति /
13136 SK [४६९|१६] अव्याकृतमेतदित्यवोचत् स्थविरः /
13137 SK [४६९|१७] स आह / ननु भदन्तः पूर्वमेव प्रतिज्ञां कारितो ना ऽन्यद्वच्याकर्तव्यमिति /
13138 SK [४६९|१७-४६९|१८] किमिदमन्यदेवोक्तमव्याकृतमेतदिति /
13139 SK [४६९|१८] स्थविर आह /
13140 SK [४६९|१८-४६९|१९] अहमपि महाराजं पृच्छेयं बहुवोल्लकाश्च राजानो भवन्ति /
13141 SK [४६९|१९] यदि यदेव पृच्छेयं तदेव व्याकुर्या इति /
13142 SK [४६९|१९-४६९|२०] पृच्छेत्युक्तः पृष्टवान् /
13143 SK [४६९|२०-४६९|२१] यस्ते ऽन्तःपुरे आभ्रवृक्षस्तस्य किमम्लानि फलानि आहोस्वित् मधुराणीति /
13144 SK [४६९|२१] नैव ममान्तःपुरे कश्चिदाभ्रवृक्षो ऽस्तीत्याह /
13145 SK [४६९|२१-४६९|२२] ननु मया पूर्वमेव महाराजः प्रतिज्ञां कारितो नान्यद्वच्याकर्तव्यमिति /
13146 SK [४६९|२२] किमिदमन्यदेवोक्तमाभ्र एव नास्तीति /
13147 SK [४६९|२३] स आह कथमसतो वृक्षस्य फलानामम्लतां मधुरतां वा व्याकरोमीति /
13148 SK [४६९|२३-४६९|२४] एवमेव महाराज स एव जीवो नास्ति कुतो ऽस्य शरीरादन्यतामनन्यतां वा व्याकरोमीति /
13149 SK [४६९|२५] कस्मात् भगवता ऽपि नोक्तं नास्त्येवेति / प्रष्टुराशयापेक्षया /
13150 SK [४६९|२५-४६९|२७] स हि यस्यापि स्कन्धसंतानस्य जीव इत्याख्या तस्याप्यभावं प्रतीयादिति मिथ्यादृष्टिं पातितः स्यात् /
13151 SK [४६९|२७] प्रतोत्य समुत्पादस्याज्ञानात् /
13152 SK [४६९|२७-४७०|०१] स चतद्देशनाया अक्षमः /
13153 SK [४७०|०१] इतश्चैतदेवं निश्चीयते /
13154 SK [४७०|०१-४७०|०३] यत् भगवतोक्तम् ᳚अस्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां नन्वकल्पं स्याद्वचनाय सर्वधर्मा अनात्मान इति /
13155 SK [४७०|०३-४७०|०५] नास्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां ननु वत्ससगोत्रः परिव्राजकः पूर्वमेव संमूढो भूयस्या मात्रया संमोहमापद्येत अभूत् मे आत्मास मे एतर्हि नास्तीति /
13156 SK [४७०|०५-४७०|०६] अस्त्यात्मेत्यानन्द शाश्वताय परेति /
13157 SK [४७०|०६] नास्त्यात्मेत्यानन्दोच्छेदाय परेतीति विस्तरः / आह चान्न
13158 SK [४७०|०७-४७०|०८] दृष्टिदंष्ट्रावभदं च ब्रंशं चापेक्ष्य कर्मणाम् / देशयन्ति जिना धर्म व्याग्रीपीतापहारवत् //
13159 SK [४७०|०९-४७०|१०] आत्मास्तित्वं ह्युपगतो भिन्नः स्याद्दृष्टिदंष्ट्रया भ्रंशं कुक्शलपोतस्य कुर्यादप्राप्य संवृतिमि᳚ति /
13160 SK [४७०|११-४७०|१२] पुनराह असत्त्वाद्भगवान् जीवं तत्त्वान्यत्वेन नावदत् / नास्तीत्यपि च नावोचन्माभूत् प्राज्ञप्तिकोप्यसन् //
13161 SK [४७०|१३-४७०|१४] यत्र हि स्कन्धसंताने शुभाशुभफलास्तिता / जीवाख्या तत्र सा न स्यात् जीवनास्तित्वदेशनात् //
13162 SK [४७०|१५-४७०|१६] प्रज्ञप्तिमात्रं स्कन्धेसु जीव इत्यपिनावदत् / अभव्यः शून्यतां बोद्धुं तदानीं तादृशो जनः //
13163 SK [४७०|१७-४७०|१८] तथा ह्यात्मास्ति नास्तीति पृष्टो वास्त्येव नावदत् / आशयापेक्षाया प्रष्टुः सति त्वस्तीति नाह किम् //
13164 SK [४७०|१९] शाश्वतलोकादीनामप्यवयाकरणं प्रष्टुराशयापेक्षया /
13165 SK [४७०|१९-४७०|२०] यदि हि तावदात्मा लोक इष्टः स्यात्तस्याभावादयुक्तं चतुर्धा व्याकरणम् /
13166 SK [४७०|२०-४७१|०१] अथ सर्व एव संसारो लोकस्तस्याप्ययुक्तम् /
13167 SK [४७१|०१] शाश्वते लोके न कस्यचित् परिनिर्वाणं प्राप्नुयात् / शाश्वते लोके न कस्यचित् परिनिर्वाणं प्राप्नुयात् /
13168 SK [४७१|०२] अशाश्वते सर्वेपामुच्छेदः प्राप्नुयात् /
13169 SK [४७१|०२-४७१|०३] उभयथात्वे नियमत एकेषां परिनिर्वाणं प्राप्नुयात् एकेषां न /
13170 SK [४७१|०३] अनुभयथात्वे नैव परिनिर्वाणं नापरिनिर्वाणं प्राप्नुयात् /
13171 SK [४७१|०४-४७१|०५] अतो मार्गधीनत्वात् परिनिर्वाणस्य चतुर्धापि नियमो न व्याक्रियते निर्ग्रन्थ४रावकचटकवत् /
13172 SK [४७१|०५] अत एवान्तवान् लोक इति चतुष्काव्याकरणम् / तुल्यार्थो ह्येष चतुष्कः /
13173 SK [४७१|०६-४७१|०७] तथाहि मुक्तिकः परिव्राजक एव चतुष्कं पृष्ट्वा पुनः पृष्टवान् किं नु सर्वो लोको ऽनेन मार्गेण निर्यात्याहोस्विदेकदेशो लोकस्ये᳚ति /
13174 SK [४७१|०७-४७१|०९] स्थविर आनन्द आह ᳚यमेव त्वं मुक्तिक तत्प्रथमतो भगवन्तं प्रश्नं पृष्टवांस्तमे वैतर्हि पृच्छस्यनेन पर्यायेणे᳚ति सर्वम् /
13175 SK [४७१|०९-४७१|१०] भवति तथागतः परं मरनादित्यपि चतुष्कः प्रष्टुराशयापेक्षया न व्याकृतः /
13176 SK [४७१|१०] स हि मुक्त्वामानं तथागतं कृत्वा पृष्टवान् /
13177 SK [४७१|११-४७१|१२] पौद्गलिकस्तु पर्यनुयोज्यः किं कारणं भगवान् जीवन्तं पुद्गलमस्तीति व्याकरोति परं मरणान्न व्याकरोतीति /
13178 SK [४७१|१२] शाश्वत दोषप्रसङ्गः /
13179 SK [४७१|१३-४७१|१४] इदं तर्हि कस्माद्वच्याकरोति ᳚भविष्यसि त्वं मैत्रेयानागते ऽध्वनि तथागतो ऽर्हन् संयक्संबुद्ध᳚ इति /
13180 SK [४७१|१४-४७१|१५] कस्माच्च श्रावकमभ्यतीतं कालगतमुपपत्तौ व्याकरोत्यमुको ऽमुत्रोपपन्न इति /
13181 SK [४७१|१५] एवमपि हि शाश्वतत्वप्रसङ्गः /
13182 SK [४७१|१५-४७१|१७] यदि च भगवान् पूर्वं पुद्गलं दृष्ट्वा परिनिर्वृतं पुनः न पश्यत्यज्ञानान्न व्यकरोतीति सर्वज्ञत्वं शास्तुरुत्पादितं भवति न वा सो ऽस्तीत्यभ्युपगन्तव्यम् /
13183 SK [४७१|१७-४७१|१८] अथ पश्यत्यनुच्यमानो ऽप्यसावस्ति शाश्वतश्चेति सिद्धं भवति /
13184 SK [४७१|१८] अर्थतदपि न वक्तव्यं पश्यति वा नवेति /
13185 SK [४७१|१८-४७१|१९] एवं तर्हि इदमपि शनैः शनैरवक्तव्यं क्रियतां सर्वज्ञो वा न वा भगवान्न वेति /
13186 SK [४७१|१९-४७१|२०] अस्त्येव पुद्गलो यस्मात्सत्यतः स्थितितो नास्ति मे आत्मेति दृष्टिस्थानमुक्तम् /
13187 SK [४७१|२०-४७१|२१] अस्तीत्यपि दृष्टिस्थानमुक्तम् /
13188 SK [४७१|२१] तस्मादज्ञापकमेतत् /
13189 SK [४७१|२१-४७१|२२] उभयमपि त्वेतदन्तग्राहदृष्टि शाश्वतोच्छेददृष्टिसंगृहीतमित्याभिधर्मिकाः /
13190 SK [४७१|२२] तथैव च युक्तम् /
13191 SK [४७१|२२-४७१|२३] ᳚अस्त्यात्मेत्यानन्द शाश्वताय परैति नास्त्यात्मेत्यानन्दोच्छेदाय परैती᳚ति वात्स्यसूत्रे वचनात् /
13192 SK [४७१|२४] यदि तर्हि पुद्गलो नास्ति क एष संसरति /
13193 SK [४७१|२४-४७१|२५] नहि संसार एष संसरतीति युक्तम् /
13194 SK [४७१|२५-४७२|०१] उक्तं च भगवता ᳚अविद्यानिवरणानां सत्त्वनां संधावतां संसरतामि᳚ति /
13195 SK [४७२|०१] अथ पुद्गलः कथं संसरति /
13196 SK [४७२|०१-४७२|०२] स्कन्धान्तरत्यागोपादानात् /
13197 SK [४७२|०२] उक्तोत्तर एष पक्षः /
13198 SK [४७२|०२-४७२|०३] यथातु क्षणिको ऽग्निः संतत्या संसरतीत्युच्यते तथा सत्त्वाख्यः स्क्न्धसमुदायस्तृष्णोपादानः संसरतीत्युच्यते /
13199 SK [४७२|०३-४७२|०५] यदि स्कन्धामात्रमिदं कस्मादाह भगवान् ᳚ग्रहमेव स तेन कालेन तेन समयेन सुनेत्रो नाम शास्ता ऽभूवमि᳚ति /
13200 SK [४७२|०५] कस्मान्न वक्तव्यं स्यात् / अन्यत्वात् स्कन्धानाम् /
13201 SK [४७२|०५-४७२|०६] अथ किं पुद्गलः /
13202 SK [४७२|०६] स एवासौ / शाश्वतो हि स्यात् /
13203 SK [४७२|०६-४७२|०७] तस्मादहमेव स इत्येकसंतानतां दर्शयति /
13204 SK [४७२|०७] यथा स एवाग्निर्दहन्नागत इति /
13205 SK [४७२|०७-४७२|०८] यदि चात्मा भवेत्त्थागता एव सुव्यक्तं पश्येयुः /
13206 SK [४७२|०८] पश्यतां चात्मग्राहो दृढतरः स्यादात्मस्नेहश्च /
13207 SK [४७२|०८-४७२|०९] ᳚आत्मनि च सत्यात्मीयं भवती᳚ति सूत्रे वचनादात्मग्राहो ऽप्येषां स्कन्धेष्वधिकं प्रवर्तेत /
13208 SK [४७२|०९-४७२|१०] सैषा स्यात्सत्कायदृष्टि /
13209 SK [४७२|१०] आत्मीयदृष्टौ च सत्यामात्मीयस्नेहः /
13210 SK [४७२|१०-४७२|११] एवमेषां दृढतरात्मात्मीयस्नेहपरिसादितवन्धनानां मोक्षो दूरतरीभवेत् /
13211 SK [४७२|११-४७२|१२] अथ मतं नैवात्मनि प्रवर्तते स्नेह इति /
13212 SK [४७२|१२-४७२|१३] तत् क इदानीमेष योगो यदनात्मन्यात्मधिमोक्षात् स्नेह उत्पद्यते आत्मन्येव तु नोत्पद्यते /
13213 SK [४७२|१३-४७२|१४] तस्मात् दृष्टच्यर्वुदमेतस्मिन् शासने उत्पन्नं य एष एकेषां पुद्गलग्राह एकेषां सर्वनास्तिताग्राहः /
13214 SK [४७२|१४-४७२|१५] ये ऽपि च द्रव्यान्तरमेवात्मानं मन्यन्ते तीर्थकारास्तेपामेव मोक्षाभावदोषो निष्कम्पः /
13215 SK [४७२|१६-४७२|१७] यदि तर्हि सर्वथापि नास्त्यात्मा कथं क्षणिकेषु चित्तेषु चिरानुभूतस्यार्थस्य स्मरणं भवति प्रत्यभिज्ञानं वा /
13216 SK [४७२|१७-४७२|१८] स्मृतिविषयसंज्ञान्वयाच्चित्तविशेषात् /
13217 SK [४७२|१८] कीदृशाच्चित्तविशेषात् यतो ऽनन्तरं स्मृतिर्भवति /
13218 SK [४७२|१८-४७२|१९] तदाभोगसदृशसम्वन्धिसंज्ञादिमतो ऽनुपहत प्रभावादाश्रयविशेषशोकव्याक्षेपादिभिः /
13219 SK [४७२|२०-४७२|२१] तादृशो ऽपि ह्यतदन्वयश्चित्तविशेषो न समर्थः तां स्मृतिं भवयितुं तदन्वयो ऽपि चान्यादृशो न समर्थस्तां स्मृतिं भवयितुम् /
13220 SK [४७२|२१-४७२|२२] लभयथा तु समर्थ इत्येवं स्मृतिर्भवत्यन्यस्यां सामर्थ्यादर्शनात् /
13221 SK [४७२|२२] कथमिदानीमन्येन चेतसा दृष्टमन्यत्स्मरति /
13222 SK [४७२|२२-४७२|२३] एवं हि देवदत्तचेतसा दृष्टं यज्ञदत्तचेतः स्मरेत् /
13223 SK [४७२|२३] नासम्बन्धात् /
13224 SK [४७२|२३-४७२|२४] न हि तयोः संबन्धो ऽस्ति अकार्य कारणभावाद्यथैकसंतानिकयोः /
13225 SK [४७२|२४-४७२|२५] न च ब्रूमो ऽन्येन चेतसा दृष्टमन्यत्स्मरतीति /
13226 SK [४७२|२५] अपि तु दर्शनचित्तात्स्मृतिचित्तमन्यदुत्पद्यते /
13227 SK [४७२|२५-४७२|२६] संततिपरिणत्या यथोक्तमिति क एवं सति दोषः /
13228 SK [४७२|२६] स्मरणादेव च प्रत्यभिज्ञानं भवति /
13229 SK [४७२|२७] असत्यात्मनिक एष स्मरति / स्मरतीति को ऽर्थः / स्मृत्या विषयं गृह्लाति /
13230 SK [४७२|२८] किं तद्ग्रहणमन्यत्स्मरणात् / स्मृतिं तर्हि कः करोति /
13231 SK [४७२|२८-४७३|०१] उक्तः स यस्तां करोति स्मृतिहेतुचित्तविशेषः /
13232 SK [४७३|०१] यत्तर्हि चैत्रः स्मरतीत्युच्यते /
13233 SK [४७३|०१-४७३|०२] ततो चैत्राख्यात्संतानात्तां भवन्तीं दृष्ट्वोच्यते चैत्रः स्मरतीति /
13234 SK [४७३|०२-४७३|०३] असत्यात्मनि कस्येवं स्मृतिः /
13235 SK [४७३|०३] किंअर्थैषा षष्ठी / स्वाम्यर्था / यथा कस्य कः स्वामी / यथा गोश्चैत्रः /
13236 SK [४७३|०४] कथमसौ तस्याः स्वामी / तदाधीनो हि तस्या वाहदोहादिषु विनियोगः /
13237 SK [४७३|०४-४७३|०५] क्व च पुनः स्मृतिर्विनियोक्तव्या व एवं तस्याः स्वामी मृग्यते /
13238 SK [४७३|०५] स्मर्तव्ये ऽर्थे /
13239 SK [४७३|०५-४७३|०६] किमर्थ विनियोक्तव्या /
13240 SK [४७३|०६] स्मरणार्थम् / अहो सूक्तानि सुखैधितानाम् /
13241 SK [४७३|०६-४७३|०७] सैव हि नाम तदर्थं विनियोक्तव्येति /
13242 SK [४७३|०७] कथं च विनियोक्तव्या / उत्पादनत अहोस्वित्संप्रेषणतः /
13243 SK [४७३|०८] स्मृतिगत्ययोगादुत्पादनतः / हेतुरेव तर्हि स्वामी प्राप्नोति फलमेव च स्वम् /
13244 SK [४७३|०९] यस्माद्धेतोराधिपत्यं फले फलेन च तद्वान् हेतुरिति /
13245 SK [४७३|०९-४७३|१०] यो ह्येव हेतुः स्मृतेस्तस्यैवासौ /
13246 SK [४७३|१०-४७३|१२] यश्चापि स चैत्राभिधानः संस्कारसमूहसंतान एकतो गृहीत्वा गवाख्यस्वामीत्युच्यते स चापि तस्य देशान्तरविकारोत्पत्तौ कारणभावं चेतसि कृत्वा न तु खलु कश्चिदेकश्चैत्रो नामास्ति न चापि गौः /
13247 SK [४७३|१२-४७३|१३] तस्मात्तत्रापि न हेतुभावं व्यतीत्यास्ति स्वामिह्बावः /
13248 SK [४७३|१३] एवं को विजानाति कस्य विज्ञानमित्येवमादिषु वक्तव्यम् /
13249 SK [४७३|१४] तस्य हेतुरिन्द्रियार्थमनस्कारा यथायोगमित्येष विशेषः /
13250 SK [४७३|१५] यो ऽप्याह भावस्य भवित्रपेक्षत्वात् सर्वो हि भावो भवितारमपेक्षते /
13251 SK [४७३|१५-४७३|१६] यथा देवदत्तो गच्छतीत्यत्र गतिर्भावो गन्तारं देवदत्तमपेक्षते /
13252 SK [४७३|१६] तथा विज्ञानं भावः /
13253 SK [४७३|१७] तस्माद्यो विजानाति तेन भवितव्यमिति / स वक्तव्यः /
13254 SK [४७३|१८] को ऽयं देवदत्त इति / यद्यात्मा स एव साध्यः / अथ व्यवहारपुरुषः /
13255 SK [४७३|१८-४७३|१९] सो ऽपि न कश्चिदेकः संस्कारा हि त एवंनामानः /
13256 SK [४७३|१९-४७३|२०] तत्र यथा देवदत्तो गच्छति यथा विजानाति /
13257 SK [४७३|२०] कथं च देवदत्तो गच्छति /
13258 SK [४७३|२०-४७३|२२] क्षणिका हिसंस्कारा अभिन्नसंताना देवदत्त इति बालैरेकसत्त्वपिण्डग्रहेणाधिमुक्ताः स्वस्य संतानस्य देशान्तरे कारणं भवन्त उच्यन्ते गच्छति देवदत्त इति /
13259 SK [४७३|२२] सा च देशान्तरोपत्तिर्गतिरित /
13260 SK [४७३|२२-४७३|२३] ज्वालाशब्दसंतानयोर्गच्छतिगमनाभिधानवत् /
13261 SK [४७३|२३-४७३|२४] त एव च पुनर्विज्ञानस्य कारणं भवन्त उच्यन्ते जानाति देवदत्त इति /
13262 SK [४७३|२४] आर्यैरपि तेषां संज्ञया तथोच्यन्ते व्यवहारार्थम् /
13263 SK [४७३|२५] यत्तर्हि ᳚विज्ञानं विजानाती᳚ति सूत्र उक्तं किं तत्र विज्ञानं करोति /
13264 SK [४७३|२५-४७३|२६] न किञ्चित्करोति /
13265 SK [४७३|२६] यथा तु कार्यं कारणमनुविधीयत इत्युच्यते /
13266 SK [४७३|२६-४७३|२७] सादृश्येनात्मलाभादकुर्वदपि किञ्चित् /
13267 SK [४७३|२७] एवं विज्ञानमपि विजानातीत्युच्यते /
13268 SK [४७३|२७-४७४|०१] सादृश्येनात्मलाभादकुर्वदपि किञ्चित् /
13269 SK [४७४|०१] किं पुनरस्य सादृश्यम् / तदाकारता /
13270 SK [४७४|०१-४७४|०२] अत एव तदिन्द्रियादप्युत्पन्नं विषयं विजानातीत्युच्यते नेन्द्रियम् /
13271 SK [४७४|०२-४७४|०३] अथवा तथा ऽत्रापि विज्ञानसंतानस्य विज्ञाने कारणभावाद्विज्ञानं विजानातीति वचनान्निर्दोषं कारणे दर्तृशब्दनिर्देशात् /
13272 SK [४७४|०४] घण्टा रौतीति यद्वत् /
13273 SK [४७४|०४-४७४|०५] अपि खलु यथा प्रदीपो गच्छति तथा विज्ञानं विजानातीति /
13274 SK [४७४|०५] कथं च प्रदीपो गच्छति /
13275 SK [४७४|०५-४७४|०६] प्रदीप इत्यर्चिषां संतान उपचर्यते /
13276 SK [४७४|०६] स देशान्तरेषूत्पद्यमानस्तं देशं गच्छतीत्युच्यते /
13277 SK [४७४|०६-४७४|०७] एवं विज्ञानमपि चित्तानां संतान उपचर्यते /
13278 SK [४७४|०७] तद्विषयान्तरेषूत्पद्यमानं तं विषयं विजानातीत्युच्यते /
13279 SK [४७४|०८-४७४|०९] यथा चाभिजायते तिष्ठति रूपमित्यत्र भवितुर्भावादनर्थन्तरत्वमेवं विज्ञानस्यापि स्यात् /
13280 SK [४७४|०९-४७४|१०] यदि विज्ञानाद्विज्ञानमुत्पद्यते नात्मानः कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रदिवत् /
13281 SK [४७४|१०] स्थित्यन्यथात्वस्य संस्कृत्लक्षणत्वात् /
13282 SK [४७४|११] एष हि संस्कृतस्य स्वभावो यदवश्यं प्रबन्धस्यान्यथात्वं भवति /
13283 SK [४७४|११-४७४|१३] अन्यथा हि निकामध्यानसमाहितानां सदृशकायचित्तोत्पत्तौ प्रथमक्षणनिंर्विशेषत्वात् पश्चादपि न स्यात् स्वयं व्युत्थानम् /
13284 SK [४७४|१३] क्रमो ऽपि हि चित्तानां नियत एव /
13285 SK [४७४|१३-४७४|१४] यतो नूत्पत्तव्यं तत एव तस्योत्पादात् /
13286 SK [४७४|१४] तुल्याकारमपि हि किञ्चिदुत्पादने समर्थं भवति /
13287 SK [४७४|१४-४७४|१५] गोत्रविशेषात् /
13288 SK [४७४|१५-४७४|१७] यद्यथा स्त्रीचित्तानन्तरं यदि तत्कायविदूषणाचित्तमुत्पन्नं भवति तत्पतिपुत्रादिचित्तं वा पुनश्च पश्चात्संततिपरिणत्या स्त्रीचित्तमुत्पद्यते तत् समर्थ भवति तत्कायविदूषणाचित्तोत्पादने तत्पतिपुत्रादिचित्तोत्पादने वा /
13289 SK [४७४|१७] तद्गोत्रत्वात् /
13290 SK [४७४|१८] अन्यथा न समर्थम् /
13291 SK [४७४|१८-४७४|१९] अथ पुनः पर्यायेण स्त्रीचित्ताद्वहुविधं चित्तमुत्पन्नं वहुतर मासन्नतरं वा तदेवोत्पद्यते /
13292 SK [४७४|१९] तद्भावनाया वलीयस्त्वात् /
13293 SK [४७४|२०] अन्यत्र तत्कालिकात्कायबाह्यप्रत्ययविशेषात् /
13294 SK [४७४|२०-४७४|२१] सैव बलीयसी भावना कस्मान्नित्यं न फलति /
13295 SK [४७४|२१-४७४|२२] स्थित्यन्यथात्वस्य संस्कृतलक्षणत्वात् तस्य चान्यथात्वस्यान्यभावनाफलोत्पत्तावानुगुण्यात् /
13296 SK [४७४|२२] एतद्धि सर्वचित्तप्रकारेषु दिङ्मात्रम् /
13297 SK [४७४|२२-४७४|२३] निरन्तरकारणज्ञाने तु बुद्धानां प्रभुत्वम् //
13298 SK [४७४|२३] एवं ह्याहुः /
13299 SK [४७४|२४-४७४|२५] सर्वाकारकारणमेकस्य मयूरचन्द्रकस्यापि / नासर्वज्ञैर्ज्ञेयं सर्वज्ञबलं हि तज्ज्ञानमि᳚ति //
13300 SK [४७४|२६] प्रागेवारुपिणां चित्तभेदानाम् /
13301 SK [४७५|०१-४७५|०३] य एव त्वयमेकीयस्तीर्थिक आत्मप्रभवां चित्तोत्पत्तिं मन्यते तस्यैवेदं स्फुटं चोद्यमापद्यते कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रादिवदिति /
13302 SK [४७५|०३] मनःसंयोगविशेषापेक्षत्वादिति चेत् / न / अन्यसंयोगासिद्धेः /
13303 SK [४७५|०४-४७५|०५] संयोगिनोस्तु परिच्छिन्नत्वादप्राप्तिपूर्विका प्राप्तिः सम्योग इति लक्षणव्याख्यानाच्चात्मानः परिच्छेदप्रसङ्गः /
13304 SK [४७५|०५-४७५|०६] ततो मनःसम्चारादात्मनः संचारप्रसङ्गो विरागस्य वा /
13305 SK [४७५|०६] प्रदेशसंयोग इति चेत् / न / तस्यैव तत्प्रदेशत्वायोगात् /
13306 SK [४७५|०६-४७५|०८] अस्तु वा संयोगस्तथापि नित्यमविशिष्टे मनसि कथं संयोगविशेषः /
13307 SK [४७५|०८] बुद्धिविशेषापेक्ष इति चेत् /
13308 SK [४७५|०८-४७५|०९] स एव परिचोद्यते कथं बुद्धिविशेष इति /
13309 SK [४७५|०९] संस्कारविशेषापेक्षादात्ममनः संयोगादिति चेत् /
13310 SK [४७५|०९-४७५|१०] चित्तादेवास्तु संस्कारविशेषापेक्षत्वात् / [४७५|१०-४७५|११] नहि किञ्चिदात्मनः उपलभ्यते सामर्थ्मौषध कार्यसिद्धाविव कुहकवैद्यफुःस्वाहानाम् /
13311 SK [४७५|११] सत्यात्मनि तयोः संयोग इति चेत् /
13312 SK [४७५|१२] वाङ्मात्रम् / आश्रयः स इति चेत् / यथा कः कस्याश्रयः /
13313 SK [४७५|१२-४७५|१३] न हि ते चित्रवदरादिवदाधार्ये नापि स कुडच्यकुण्डादिवदाधारो युक्तः /
13314 SK [४७५|१३-४७५|१४] प्रतिघातियुतदोषात् नैव स एवमाश्रयः /
13315 SK [४७५|१४] कथं तर्हि / यथा गन्धादीनां पृथिवीति चेत् /
13316 SK [४७५|१४-४७५|१५] अतिपरितोषिताः स्मः /
13317 SK [४७५|१५] इदमेव हि नः प्रत्यायकं नास्त्यात्मेति /
13318 SK [४७५|१५-४७५|१६] यथा न गन्धादिभ्यो ऽन्या पृथिवीति /
13319 SK [४७५|१६] को हि स गन्धादिभ्यो ऽन्यां पृथिवीं निर्धारयति /
13320 SK [४७५|१६-४७५|१७] व्यपदेशस्तु पृथिव्या गन्धादय इति विशेषणार्थम् /
13321 SK [४७५|१७-४७५|१८] ते ह्येव तदाख्या गन्धादयो यथा प्रतीयेरन्नान्य इति /
13322 SK [४७५|१८] काष्ठप्रतिमायां शरीरव्यपदेशवत् /
13323 SK [४७५|१८-४७५|१९] सत्यपि च संस्कारविशेषापेक्षत्वे कस्मान्न युगपत्सर्वज्ञानोत्पत्तिः /
13324 SK [४७५|१९] यो हि बलिष्ठस्तेनान्येषां प्रतिवन्धः /
13325 SK [४७५|२०] स एव वलिष्ठः कस्मान्नित्यं न फलति / यो ऽस्य न्यायः सो ऽस्तु भावनायाः /
13326 SK [४७५|२१] आत्मा तु निरर्थकः कल्प्यते /
13327 SK [४७५|२२] अवश्यमात्माभ्युपगन्तव्यः /
13328 SK [४७५|२२-४७५|२३] स्मृत्यादीनां गुणपदार्थत्वात् तस्य चार्थादवश्यं द्रव्याश्रितत्वात् तेषां चान्याश्रयायोगादिति चेत् /
13329 SK [४७६|०१] न / न ह्येषां गुणपदार्थत्वं सिद्धम् / सर्वमेव नो विद्यमानं द्रव्य /
13330 SK [४७६|०१-४७६|०२] ᳚षट् द्रव्याणि श्रामण्यफलानी᳚ति वचनात् /
13331 SK [४७६|०२] नाप्येषां द्रव्याश्रितत्वं सिद्धम् /
13332 SK [४७६|०२-४७६|०३] परीक्षितो ह्याश्रयार्थः /
13333 SK [४७६|०३] तस्माद्यत्किञ्चिदेव तत् /
13334 SK [४७६|०४] आत्मन्यसति किमर्थः कर्मारम्भः /
13335 SK [४७६|०४-४७६|०५] अहं सुखी स्यामहं दुःखी न स्यामित्येवमर्थः /
13336 SK [४७६|०५] को ऽसावहं नाम यद्विषयिओ ऽयमहङ्कारः / स्कन्धविषयः / कथं ज्ञायते /
13337 SK [४७६|०६] तेषु स्नेहात् / गौरादिबुद्धिभिः सामानाधिकरण्यात्तु /
13338 SK [४७६|०६-४७६|०८] गौरो ऽहमहं श्यामः स्थूलो ऽहमहं कृशः जीर्णो ऽहमहं युवेति गौरादिबुद्धिभिः सामानाधिकरणो ऽयमहङ्कारो दृश्यते /
13339 SK [४७६|०८] न चात्मन एते प्रकारा दृश्यन्ते / तस्मादपि स्कन्धेष्वयमिति गम्यते /
13340 SK [४७६|०९-४७६|१०] आत्मन उपकारके ऽपि शरीर आत्मोपचारो यथा य एवायं स एवाहं स एवायं मे बृत्य इति भवत्युपकारके ऽपि आत्मोपचारो नत्वहङ्कारः /
13341 SK [४७६|१०-४७६|११] सति शरीरालम्बनत्वे परशरीरालम्वनो ऽपि कस्मान्न भवति /
13342 SK [४७६|११] असंवन्धात् /
13343 SK [४७६|११-४७६|१२] येनैव हि सहास्य संवन्धः कायेन चित्तेन वा यत्रैवायमहङ्कार उत्पद्यते नान्वत्र /
13344 SK [४७६|१२-४७६|१३] अनादौ संसार्र एवमभ्यासात् /
13345 SK [४७६|१३] कश्च संबन्धः / कार्यकारणभावः /
13346 SK [४७६|१३-४७६|१४] यद्यात्मा नास्ति कस्यायमहङ्कारः /
13347 SK [४७६|१४] इदं पुनस्तदेआयातं ᳚किमर्थैषा षष्ठीति /
13348 SK [४७६|१४-४७६|१५] यावद्य एवास्य हेतुस्तस्यैवायमि᳚ति /
13349 SK [४७६|१५] कश्चान्यो हेतुः /
13350 SK [४७६|१५-४७६|१६] पूर्वाहङ्कारपरिभावितं स्वसंततिविषयं सावद्यं चित्तम् /
13351 SK [४७६|१६] असत्यात्मनि क एष सुखितो दुःखितो वा /
13352 SK [४७६|१६-४७६|१७] यस्मिन्नाश्रये सुखमुत्पन्नं दुःखं वा /
13353 SK [४७६|१७] यथा पुष्पितो वृक्षः फलितं वनमिति /
13354 SK [४७६|१७-४७६|१८] कः पुनरनयोराश्रयः /
13355 SK [४७६|१८] षडायतनम् / यथा कृत्वा तथोक्तम् /
13356 SK [४७६|१९] असत्यात्मनि क एषां कर्मणां कर्ता कश्च फलानां भोक्ता भवति /
13357 SK [४७६|१९-४७६|२०] कर्तेति क एष वाह्यर्थः /
13358 SK [४७६|२०] करोतीति कर्ता / भुङ्क्त इति भोक्ता / पर्याय उच्यते नार्थः /
13359 SK [४७६|२१] ᳚स्वतन्त्रः कर्ते᳚ति कर्तृ लक्षणमाचक्षते लाक्षणिकाः /
13360 SK [४७६|२१-४७६|२२] अस्ति पुनः क्वचिदेव कार्ये कस्यचित् स्वातन्त्र्यम् /
13361 SK [४७६|२२] लोके दृष्टं देवदत्तस्य स्नानासनगमनादौ /
13362 SK [४७६|२२-४७६|२३] कः पुनर्भवान् देवदत्तमुदाहरति /
13363 SK [४७६|२३] यद्यात्मानं स एव साध्यः / अथ पञ्चस्कन्धकं स एव् कर्ता /
13364 SK [४७६|२४] त्रिविधं चेदं कर्म कायवाङ्मनस्कर्म /
13365 SK [४७६|२४-४७६|२५] तत्र कायकर्मणि तावत् कायस्य चित्तपरतन्त्रा वृत्तिः /
13366 SK [४७६|२५-४७६|२६] चित्तस्यापि काये स्वकारणपरतन्त्रा वृत्तिस्तस्याप्येवमिति नास्ति कस्यचित् स्वातन्त्र्यम् /
13367 SK [४७६|२६] प्रत्ययपरतन्त्रा हि सर्वे भावाः प्रवर्तन्ते /
13368 SK [४७६|२६-४७६|२७] आत्मनो ऽपि च निरपेक्षस्याकारणत्वाभ्युपगमात्र स्वातन्त्र्यं सिध्यति /
13369 SK [४७६|२८] तस्मान्नैवंलक्षणम् उपलभ्यते कश्चित्कर्ता /
13370 SK [४७६|२८-४७७|०१] यत्तु यस्य प्रधानं कारणं तत्त्स्य कर्तेत्युच्यते /
13371 SK [४७७|०१] न च आत्मनः क्वचिदपि कारणत्वं दृश्यते /
13372 SK [४७७|०१-४७७|०२] तस्मात्स एवमपि न कर्ता युज्यते /
13373 SK [४७७|०२-४७७|०३] स्मृतिजो हि च्छन्दः च्छन्दजो वितर्को वितर्कात्प्रयत्नः प्रयत्नाद्वायुस्ततः कर्मेति किमत्रात्मा कुरुते /
13374 SK [४७७|०३-४७७|०४] फलस्यापिच क उपभोगो यमयमात्मा कुर्वन्नुपभोक्ता कल्प्यते /
13375 SK [४७७|०४] उपलभिरिति चेत् / नात्मनः उपलब्धौ सामर्थ्यं विज्ञाने प्रतिपेधात् /
13376 SK [४७७|०५] असत्यात्मनि कस्मादसत्त्वाधिष्ठानः पापपुण्योपचयो न भवति /
13377 SK [४७७|०५-४७७|०६] वेदनाद्यनाश्रयत्वात् तदाश्रयश्च षडायतनं नात्मा यथा तथोक्तम् /
13378 SK [४७७|०७] कथमसत्यात्मनि वेनष्टात्कर्मण आयत्यां फलोत्पत्तिः /
13379 SK [४७७|०७-४७७|०८] आत्मन्यपि सति कथं विनष्टात् कर्मण आयत्यां फलोत्पत्तिः /
13380 SK [४७७|०८] तदाश्रिताद्धर्माधर्मात् /
13381 SK [४७७|०८-४७७|०९] यथा कःकिमाश्रित इत्युक्तोत्तरैषा वाचो युक्तिः /
13382 SK [४७७|०९] तस्मादनाश्रितादेव धर्माधर्मात् भवतु /
13383 SK [४७७|०९-४७७|१०] नैव तु वयं विनष्टात् कर्मण आयत्यां फलोत्पत्तिं ब्रूमः /
13384 SK [४७७|१०] किं तर्हि /
13385 SK [४७७|१०-४७७|११] तत्संततिपरिणामविशेषाद्वीजफलवत् /
13386 SK [४७७|११] यथा वीजात्फलमुत्पद्यत इत्युच्यते /
13387 SK [४७७|११-४७७|१२] न च तद्विनष्टाद्वीजादुत्पद्यते /
13388 SK [४७७|१२] नाप्यनन्तरमेव / किं तर्हि /
13389 SK [४७७|१२-४७७|१३] तत्संततिपरिणामविशेषादङ्कुरकाण्डपत्रादिक्रमनिष्पन्नात् पुष्पावसानात् /
13390 SK [४७७|१३-४७७|१४] तत् पुनः पुष्पान्निष्पन्नं कस्मात्तस्य वीजस्य फलमित्युच्यते /
13391 SK [४७७|१४] तदाहितं हि तत् परयापुष्पे सामर्थ्यम् /
13392 SK [४७७|१४-४७७|१५] यदि हि तत्पूर्विकान्नभविष्यत् तत्तादृशस्य फलस्योतोपत्तौ न समर्थमभविष्यत् /
13393 SK [४७७|१५-४७७|१६] एवं कर्मणः फलमुत्पद्यत इत्युच्यते /
13394 SK [४७७|१६] न च तद्विनिष्टात्कर्मण उत्पद्यते नाप्यनन्तरमेव /
13395 SK [४७७|१७] किं तर्हि / तत्संततिपरिणामविशेषात् /
13396 SK [४७७|१७-४७७|१८] का पुनः संततिः कः परिणामः को विशेषः /
13397 SK [४७७|१८-४७७|१९] यः कर्मपूर्व उत्तरोत्तरचित्तप्रवसः सा संततिस्तस्या अन्यथोत्पत्तिः परिणामः /
13398 SK [४७७|१९-४७७|२०] स पुनर्थो ऽन्तरं फलोत्पादनसमर्थः सो ऽन्तपरिणामविशिष्टत्वात् परिणमविशेषः /
13399 SK [४७७|२०] तद्याथा सोपादानं मरणचित्तं पुनर्भवस्य /
13400 SK [४७७|२०-४७७|२१] त्रिविधकर्मपूर्वकत्वे ऽपि यत्कर्म गुरु वा भवत्यासन्नमभ्यस्तं वा यत्कृतं सामर्थ्यं द्योत्यते नत्वन्यस्य /
13402 SK [४७७|२३-४७७|२४] ᳚यत् गुरु यच्चासन्नं यच्चाभ्यस्तं कृतं च यत् / पूर्वं पूर्वं पूर्वं वीपच्यते कर्मसंसारे᳚ //
13403 SK [४७७|२५] तत्र विपाकहेत्वाहितं तु विपाकफलदानसामर्थ्यं विपाकं दत्त्वा विनिवर्तते /
13404 SK [४७७|२५-४७७|२६] सभागहेत्वाहितं तु निष्यन्दफलदानसामर्थ्यं क्लिष्टानां प्रतिपक्षोदयाद्विनिवर्तते /
13405 SK [४७७|२७] अक्लिष्टानां चित्तसंतानात्यन्तविनिवृत्तेर्यदा परिनिर्वाति /
13406 SK [४७८|०१] अथ कस्माद्विपाकाद्विपाकान्तरं नोत्पद्यते वीजफलादिव फलान्तरम् /
13407 SK [४७८|०१-४७८|०२] न तावत् दृष्टान्तेन सर्वं समानं भवति /
13408 SK [४७८|०२] तत्रापि तु न फलादेव पुनः फलान्तरमुत्पद्यते /
13409 SK [४७८|०२-४७८|०३] किं तर्हि /
13410 SK [४७८|०३] विक्लित्तिविशेषजाद्विकारविशेषात् /
13411 SK [४७८|०३-४७८|०४] यो हि तत्र भूतप्रकाराङ्कुरं निर्वर्तयति स तस्य वीजं नान्यः /
13412 SK [४७८|०४-४७८|०५] भाविन्या तु संज्ञाया सादृश्याद्वा पूर्वको ऽपि संतानो बीजमित्याख्यायते /
13413 SK [४७८|०५-४७८|०७] एवमिहापि तस्माद्विपाकाद्यदि सदसद्धर्मश्रवणा दिप्रत्ययविशेषजः कुशलसास्रवो ऽकुशलो वा चित्तविकार उत्पद्यते तस्मात्पुनर्विकारान्तरमुत्पद्यते नान्यथेति समानमेतत् /
13414 SK [४७८|०७] अथवा पुनरेतदेवं विज्ञातव्यम् /
13415 SK [४७८|०७-४७८|०९] यथा लाक्षारसरञ्जितात् मातुलुङ्गपुष्पात्संततिपरिणामविशेषजः फले रक्तः केशर उपजायते न च तस्मात् पुनरन्यः एवं कर्मजाद्विपाकात् न पुनर्विपाकान्तरमिति /
13416 SK [४७८|०९-४७८|१०] यथास्थूलमिदमस्मद्बुद्धिगम्यं दर्शितम् /
13417 SK [४७८|१०-४७८|११] नानाविधशक्तिभिन्नैस्तु कर्मभिरधिवासिताः संततय एतामवस्थां गता ईदृशं फलमभिनिवर्तयन्तीति बुद्धानामेव विषयः /
13418 SK [४७८|११] आह खल्वपि
13419 SK [४७८|१२-४७८|१३] ᳚कर्म तद्भावनां तस्या वृत्तिलाभं ततः फलम् / नियमेन प्रजानाति बुद्धादन्यिओ न सर्वथा //
13420 SK [४७८|१४-४७८|१७] इत्येतां सुविहितहेतुमार्गशुद्धां बुद्धानां प्रवचनधर्मतां निशम्य / अन्धानां विविधकुदृष्टिचेष्टितानां तीर्थ्यानां मतमपविध्य यान्त्यनन्धाः //
13421 SK [४७८|१८-४७८|२१] इमं हि निर्वाणपुरैकवर्तिनीं तथागतादित्यवच्ॐ ऽशुभास्वतीम् / निरात्मतामार्यसहस्रवाहितां न मन्दचक्षुर्विवृतामपीक्षते //
13422 SK [४७८|२२-४७८|२३] इति दिङ्मात्रमेवेदमुपदिष्टं सुमेधसाम् / ब्रणदेशोविषस्येव स्वसामर्थ्यविसर्पण इति /
13423 SK [४७९|०१-४७९|०२] पुद्गलकोशमभिधर्मकोशभाष्यं समाप्तमिति / कृतिरियमाचार्यवसुबन्धुपादानामिति //
13424 SK [४७९|०३-४७९|०४] ये धर्महेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् / तेषां च यो निरोध एवंवादी महाश्रमणः //
13425 SK =====================================================================
13426 SK [४७९|०५-४७९|०६] देवधर्मो ऽयं प्रवरमहायान सकलतथागतशासनधूर्द्धरस्य उत्तरापथिकपण्डितस्थविरश्रीलामावाकस्य यदत्र पुण्यमित्यादि /
13427 SK [४७९|०७] // शुभमस्तु //
13428 SK =====================================================================
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Vasubandhu: Abhidharmakośabhāṣya (sa_vasubandhu-abhidharmakozabhASya.htm).
Source