Sutraya

Paramārthasāra

The Essence of the Highest Truth · परमार्थसारः

Paramārthasāra

The Essence of the Highest Truth

परमार्थसारः

SK
परं परस्थं गहनाद् अनादिम् एकं निविष्टं बहुधा गुहासु | सर्वालयं सर्वचराचरस्थं त्वाम् एव शम्भुं शरणं प्रपद्ये || १ ||
SK
गर्भाधिवासपूर्वकमरणान्तकदुःखचक्रविभ्रान्तः | आधारम् भगवन्तं शिष्यः पप्रच्छ परमार्थम् || २ ||
SK
आधारकारिकाभिः तं गुरुर् अभिभाषति स्म तत्सारम् | कथयत्य् अभिनवगुप्तः शिवशासनदृष्टियोगेन || ३ ||
SK
निजशक्तिवैभवभराद् अ.ङ्दचतुष्टयम् इदं विभागेन | शक्तिर् माया प्रकृतिः पृथ्वी चेति प्रभावितं प्रभुणा || ४ ||
SK
तत्रान्तर् विश्वम् इदं विचित्रतनुकरणभुवनसंतानम् | भोक्ता च तत्र देही शिव एव गृहीतपशुभावः || ५ ||
SK
नानाविधवर्णानां रूपं धत्ते यथामलः स्फटिकः | सुरमानुषपशुपादपरूपत्वं तद्वद् ईशो ऽपि || ६ ||
SK
गच्छति गच्छति जल इव हिमकरबिम्बं स्थिते स्थितिं याति | तनुकरणभुवनवर्गे तथायम् आत्मा महेशानः || ७ ||
SK
राहुर् अदृश्यो ऽपि यथा शशिबिम्बस्थः प्रकाशते तद्वत् | सर्वगतो ऽप्य् अयम् आत्मा विषयाश्रयणेन धीमुकुरे || ८ ||
SK
आदर्शे मलरहिते यद्वद् वदनं विभाति तद्वद् अयम् | शिवशक्तिपातविमले धीतत्त्वे भाति भारूपः || ९ ||
SK
भारूपं परिपूर्णं स्वात्मनि विश्रान्तितो महानन्दम् | इच्छसंवित्करणैर् निर्भरितम् अनन्तशक्तिपरिपूर्णम् || १० ||
SK
सर्वविकल्पविहीनं शुद्धं शान्तं लयोदयविहीनम् | यत् परतत्त्वं तस्मिन् विभाति षट्ट्रिंशदात्म जगत् || ११ ||
SK
दर्पणबिम्बे यद्वन् नगरग्रामादिचित्रम् अविभागि | भाति विभागेनैव च परस्परं दर्पणाद् अपि च || १२ ||
SK
विमलतमपरमभैरवबोधात् तद्वद् विभागशून्यम् अपि | अन्योन्यं च ततो ऽपि च विभक्तम् आभाति जगद् एतत् || १३ ||
SK
शिवशक्तिसदाशिवताम् ईश्वरविद्यामयीं च तत्त्वदशाम् | शक्तीनां पञ्चानां विभक्तभावेन भासयति || १४ ||
SK
परमं यत् स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य | देवी मायाशक्तिः स्वात्मावरणं शिवस्य इतत् || १५ ||
SK
मायापरिग्रहवशाद् बोधो मलिनः पुमान् पशुर् भवति | कालकलानियतिबलाद् रागाविद्यावशेन संबद्धः || १६ ||
SK
अधुनैव किंचिद् एवेदम् एव सर्वात्मनैव जानामि | मायासहितं कञ्चुकषट्कम् अणोर् अन्तरङ्गम् इदम् उक्तम् || १७ ||
SK
कम्बुकम् इव त.ङ्दुलकणविनिविष्टं भिन्नम् अप्य् अभिदा | भजते तत् तु विशुद्धिं शिवमार्गौन्मुख्ययोगेन || १८ ||
SK
सुखदुःखमोहमात्रं निश्चयसंकल्पनाभिमानाच् च | प्रकृतिर् अथान्तःकरनं बुद्धिमनोऽहंकृतिक्रमशः || १९ ||
SK
श्रोत्रं त्वगक्षिरसना घ्राणं बुद्धीन्द्रियाणि शब्दादौ | वाक्पाणिपादपायूपस्थं कर्मेन्द्रियाणि पुनः || २० ||
SK
एषां ग्राह्यो विषयः सूक्ष्मः प्रविभागवर्जितो यः स्यात् | तन्मात्रपञ्चकं तत् शब्दः स्पर्शो महो रसो गन्धः || २१ ||
SK
एतत्संसर्गवशात् स्थूलो विषयस् तु भूतपञ्चकताम् | अभ्येति नभः पवनस् तेजः सलिलं च पृथ्वी च || २२ ||
SK
तुष इव त.ङ्दुलकणिकाम् आवृणुते प्रकृतिपूर्वकः सर्गः | पृथ्वीपर्यन्तो ऽयं चैतन्यं देहभावेन || २३ ||
SK
परम् आवरणं मल इह सूक्ष्मं मायादिकञ्चुकं स्थूलम् | बाह्यं विग्रहरूपं कोशत्रयवेष्टितो ह्य् आत्मा || २४ ||
SK
अज्ञानतिमिरयोगाद् एकम् अपि स्वं स्वभावम् आत्मानम् | ग्राह्यग्राहकनानावैचित्र्येणावबुध्येत || २५ ||
SK
रसफाणितशर्करिकागुडख.ङ्दाद्या यथेक्षुरस एव | तद्वद् अवस्था भेदाः सर्वे परमात्मनः शम्भोः || २६ ||
SK
विज्ञानान्तर्यामिप्राणविराड्देहजातिपि.ङ्दान्ताः | व्यवहारमात्रम् एतत् परमार्थेन तु न सन्त्य् एव || २७ ||
SK
रज्ज्वां नास्ति भुजङ्गस् त्रासं कुरुते च मृत्युपर्यन्तम् | भ्रान्तेर् महती शक्तिर् न विवेक्तुं शक्यते नाम || २८ ||
SK
तद्वद् धर्माधर्मस्वर्निरयोत्पत्तिमरणसुखदुःखम् | वर्णाश्रमादि चात्मन्य् असद् अपि विभ्रमबलाद् भवति || २९ ||
SK
एतत् तद् अन्धकारं यद् भावेषु प्रकाशमानतया | आत्मानतिरिक्तेष्व् अपि भवत्य् अनात्माभिमानो ऽयम् || ३० ||
SK
तिमिराद् अपि तिमिरम् इदं ग.ङ्दस्योपरि महान् अयं स्फोटः | यद् अनात्मन्य् अपि देहप्राणदाव् आत्ममानित्वम् || ३१ ||
SK
देहप्राणविमर्शनधीज्ञाननभःप्रपञ्चयोगेन | आत्मानम् वेष्टयते चित्रं जालेन जालकार इव || ३२ ||
SK
स्वज्ञानविभवभासनयोगेनोद्वेष्टयेन् निजात्मानम् | इति बन्धमोक्षचित्रां क्रीडां प्रतनोति परमशिवः || ३३ ||
SK
सृष्टिस्थितिसंहारा जाग्रत्स्वप्नौ सुषुप्तम् इति तस्मिन् | भान्ति तुरीये धामनि तथापि तैर् नावृतं भाति || ३४ ||
SK
जाग्रद् विश्वं भेदात् स्वप्नस् तेजः प्रकाशमाहात्म्यात् | प्राज्ञः सुप्तावस्था ज्ञानघनत्वात् ततः परं तुर्यम् || ३५ ||
SK
जलधरधूमरजोभिर् मलिनीक्रियते यथा न गगनतलम् | तद्वन् मायाविकृतिभिर् अपरामृष्टः परः पुरुषः || ३६ ||
SK
एकस्मिन् घटगगने रजसा व्याप्ते भवन्ति नान्यानि | मलिनानि तद्वद् एते जीवाः सुखदुःखभेदजुषः || ३७ ||
SK
शान्ते शान्त इवायं हृष्टे हृष्टो विमोहवति मूढः | तत्त्वगणे सति भगवान् न पुनः परमार्थतः स तथा || ३८ ||
SK
यद् अनात्मन्य् अपि तद्रूपावभासनं तत् पुरा निराकृत्य | आत्मन्य् अनात्मरूपां भ्रान्तिं विदलयति परमात्मा || ३९ ||
SK
इत्थं विभ्रमयुगलकसमूलविच्छेदने कृतार्थस्य | कर्तव्यान्तरकलना न जातु परयोगिनो भवति || ४० ||
SK
पृथिवी प्रकृतिर् माया त्रितयम् इदं वेद्यरूपतापतितम् | अद्वैतभावनबलाद् भवति हि सन्मात्रपरिशेषम् || ४१ ||
SK
रशनाकु.ङ्दलकटकं भेदत्यागेन दृश्यते यथा हेम | तद्वद् भेदत्यागे सन्मात्रं सर्वम् आभाति || ४२ ||
SK
तद् ब्रह्म परं शुद्धं शान्तं अभेदात्मकं समं सकलम् | अमृतं सत्यं शक्तौ विश्राम्यति भास्वरूपायाम् || ४३ ||
SK
इष्यत इति वेद्यत इति संपाद्यत इति च भास्वरूपेण | अपरामृष्टं यद् अपि तु नभःप्रसूनत्वम् अभ्येति || ४४ ||
SK
शक्तित्रिशूलपरिगमयोगेन समस्तम् अपि परमेशे | शिवनामनि परमार्थे विसृज्यते देवदेवेन || ४५ ||
SK
पुनर् अपि च पञ्चशक्तिप्रसरणक्रमेण बहिर् अपि तत् | अ.ङ्दत्रयं विचित्रं सृष्टं बहिरात्मलाभेन || ४६ ||
SK
इति शक्तिचक्रयन्त्रं क्रीडायोगेन वाहयन् देवः | अहम् एव शुद्धरूपः शक्तिमहाचक्रनायकपदस्थः || ४७ ||
SK
मय्य् एव भाति विश्वं दर्पण इव निर्मले घतादीनि | मत्तः प्रसरति सर्वं स्वप्नविचित्रत्वम् इव सुप्तात् || ४८ ||
SK
अहम् एव विश्वरूपः करचरनादिस्वभाव इव देहः | सर्वस्मिन् अहम् एव स्फुरामि भावेषु भास्वरूपम् इव || ४९ ||
SK
द्रष्टा श्रोता घ्राता देहेन्द्रियवर्जितो ऽप्य् अकर्तापि | सिद्धान्तागमतर्कांश् चित्रान् अहम् एव रचयामि || ५० ||
SK
इत्थं द्वैतविकल्पे गलिते प्रविलङ्घ्य मोहिनीं मायाम् | सलिले सलिलं क्षीरे क्षीरम् इव ब्रह्मणि लयी स्यात् || ५१ ||
SK
इत्थं तत्त्वसमूहे भावनया शिवमयत्वम् अभियाते | कः शोकः को मोहः सर्वं ब्रह्मावलोकयतः || ५२ ||
SK
कर्मफलं शुभम् अशुभं मिथ्याज्ञानेन संगमाद् एव | विषमो हि सङ्गदोषस् तस्करयोगो ऽप्य् अतस्करस्येव || ५३ ||
SK
लोकव्यवहारकृतां य इहाविद्याम् उपासते मूढाः | ते यान्ति जन्ममृत्यू धर्माधर्मार्गलाबद्धाः || ५४ ||
SK
अज्ञानकालनिचितं धर्माधर्मात्मकं तु कर्मापि | चिरसंचितम् इव तूलं नश्यति विज्ञानदीप्तिवशात् || ५५ ||
SK
ज्ञानप्राप्तौ कृतम् अपि न फलाय ततो ऽस्य जन्म कथम् | गतजन्मबन्धयोगो भाति शिवार्कः स्वदीधितिभिः || ५६ ||
SK
तुषकम्बुककिंशारुकमुक्तं बीजं यथाङ्कुरं कुरुते | नैव तथाणवमायाकर्मविमुक्तो भवाङ्कुरं ह्य् आत्मा || ५७ ||
SK
आत्मज्ञो न कुतश्चन बिभेति सर्वं हि तस्य निजरूपम् | नैव च शोचति यस्मात् परमार्थे नाशिता नास्ति || ५८ ||
SK
अतिगूढहृदयगञ्जप्ररूढपरमार्थरत्नसंचयतः | अहम् एवेति महेश्वरभावे का दुर्गतिः कस्य || ५९ ||
SK
मोक्षस्य नैव किंचिद् धामास्ति न चापि गमनम् अन्यत्र | अज्ञानग्रन्थिभिदा स्वशक्त्यभिव्यक्तता मोक्षः || ६० ||
SK
भिन्नाज्ञानग्रन्थिर् गतसंदेहः पराकृतभ्रान्तिः | प्रक्षीणपुण्यपापो विग्रहयोगे ऽप्य् असौ मुक्तः || ६१ ||
SK
अग्न्यभिदग्धं बीजं यथा प्ररोहासमर्थताम् एति | ज्ञानाग्निदग्धम् एवं कर्म न जन्मप्रदं भवति || ६२ ||
SK
परिमितबुद्धित्वेन हि कर्मोचितभाविदेहभावनया | सङ्कुचिता चितिर् एतद्देहध्वंसे तथा भाति || ६३ ||
SK
यदि पुनर् अमलं बोधं सर्वसमुत्तीर्नबोद्धृकर्तृमयम् | विततम् अनस्तमितोदितभारूपम् सत्यसंकल्पम् || ६४ ||
SK
दिक्कालकलनविकलं ध्रुवम् अव्ययम् ईश्वरं सुपरिपूर्णम् | बहुतरशक्तिव्रातप्रलयोदयविरचनैककर्तारम् || ६५ ||
SK
सृष्ट्यादिविधिसुवेधसम् आत्मानं शिवमयं विबुध्येत | कथम् इव संसारी स्याद् विततस्य कुतः क्व वा सरणम् || ६६ ||
SK
इति युक्तिभिर् अपि सिद्धं यत्कर्म ज्ञानिनो न सफलं तत् | न ममेदम् अपि तु तस्येति दार्ढ्यतो न हि फलं लोके || ६७ ||
SK
इत्थं सकलविकल्पान् प्रतिबुद्धो भावनासमीरणतः | आत्मज्योतिषि दीप्ते जुह्वज् ज्योतिर्मयो भवति || ६८ ||
SK
अश्नन् यद् वा तद् वा संवीतो येन केनचिच् छान्तः | यत्र क्वचन निवासी विमुच्यते सर्वभूतात्मा || ६९ ||
SK
हयमेधशतसहस्राण्य् अपि कुरुते ब्रह्मघातलक्षाणि | परमार्थविन् न पुण्यैर् न च पापैः स्पृश्यते विमलः || ७० ||
SK
मदहर्षकोपमन्मथविषादभयलोभमोहपरिवर्जी | निःस्तोत्रवषट्कारो जड इव विचरेद् अवादमतिः || ७१ ||
SK
मदहर्षप्रभृतिर् अयं वर्गः प्रभवति विभेदसंमोहात् | अद्वैतात्मविबोधस् तेन कथं स्पृश्यतां नाम || ७२ ||
SK
स्तुत्यं वा होतव्यं नास्ति व्यतिरिक्तम् अस्य किंचन च | स्तोत्रादिना स तुष्येन् मुक्तस् तन् निर्नमस्कृतिवषट्कः || ७३ ||
SK
षट्त्रिंशत्तत्त्वभृतं विग्रहरचनागवाक्षपरिपूर्णम् | निजम् अन्यद् अथ शरीरं घटादि वा तस्य देवगृहम् || ७४ ||
SK
तत्र च परमात्ममहाभैरवशिवदेवतां स्वशक्तियुताम् | आत्मामर्शनविमलद्रव्यैः परिपूजयन्न् आस्ते || ७५ ||
SK
बहिरन्तरपरिकल्पनभेदमहाबीजनिचयम् अर्पयतः | तस्यातिदीप्तसंविज्ज्वलने यत्नाद् विना भवति होमः || ७६ ||
SK
ध्यानम् अनस्तमितं पुनर् एष हि भगवान् विचित्ररूपाणि | सृजति तद् एव ध्यानं संकल्पालिखितसत्यरूपत्वम् || ७७ ||
SK
भुवनावलीं समस्तां तत्त्वक्रमकल्पनाम् अथाक्षगणम् | अन्तर्बोधे परिवर्तयति च यत् सो ऽस्य जप उदितः || ७८ ||
SK
सर्वं समया दृष्ट्या यत् पश्यति यच् च संविदं मनुते | विश्वश्मशाननिरतां विग्रहखट्वाङ्गकल्पनाकलिताम् || ७९ ||
SK
विश्वरसासवपूर्णं निजकरगं वेद्यख.ङ्दककपालम् | रसयति च यत् तद् एतद् व्रतम् अस्य सुदुर्लभं च सुलभं च || ८० ||
SK
इति जन्मनाशहीनं परमार्थमहेश्वराख्यम् उपलभ्य | उपलब्धृताप्रकाशात् कृतकृत्यस् तिष्ठति यथेष्टम् || ८१ ||
SK
व्यापिनम् अभिहितम् इत्थं सर्वात्मानं विधूतनानात्वम् | निरुपमपरमानन्दं यो वेत्ति स तन्मयो भवति || ८२ ||
SK
तीर्थे श्वपचगृहे वा नष्टस्मृतिर् अपि परित्यजन् देहम् | ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः || ८३ ||
SK
पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधनगतिः | पुण्यापुण्यकलङ्कस्पर्शाभावे तु किं तेन || ८४ ||
SK
तुषकम्बुकसुपृथक्कृतत.ङ्दुलकणतुषदलान्तरक्षेपः | त.ङ्दुलकणस्य कुरुते न पुनस् तद्रूपतादात्म्यम् || ८५ ||
SK
तद्वत् कञ्चुकपटलीपृथक्कृता संविद् अत्र संस्कारात् | तिष्ठन्त्य् अपि मुक्तात्मा तत्स्पर्शविवर्जिता भवति || ८६ ||
SK
कुशलतमशिल्पिकल्पितविमलीभावः समुद्गकोपाधेः | मलिनो ऽपि मणिर् उपाधेर् विच्छेदे स्वच्छपरमार्थः || ८७ ||
SK
एवं सद्गुरुशासनविमलस्थिति वेदनं तनूपाधेः | मुक्तम् अप्य् उपाध्यन्तरशून्यम् इवाभाति शिवरूपम् || ८८ ||
SK
शास्त्रादिप्रामाण्याद् अविचलितश्रद्धयापि तन्मयताम् | प्राप्तः स एव पूर्वं स्वर्गं नरकं मनुष्यत्वम् || ८९ ||
SK
अन्त्यः क्षणस् तु तस्मिन् पुण्यां पापां च वा स्थितिं पुष्यन् | मूढानां सहकारीभावं गच्छति गतौ तु न स हेतुः || ९० ||
SK
ये ऽपि तदात्मत्वेन विदुः पशुपक्षिसरीसृपादयः स्वगतिम् | ते ऽपि पुरातनसंबोधसंस्कृतास् तां गतिं यान्ति || ९१ ||
SK
स्वर्गमयो निरयमयस् तद् अयं देहान्तरालगः पुरुषः | तद्भङ्गे स्वौचित्याद् देहान्तरयोगम् अभ्येति || ९२ ||
SK
एवं ज्ञानावसरे स्वात्मा सकृद् अस्य यादृग् अवभातः | तादृश एव तदासौ न देहपाते ऽन्यथा भवति || ९३ ||
SK
करणगणसंप्रमोषः स्मृतिनाशः श्वासकलिलता च्छेदः | मर्मसु रुजाविशेषाः शरीरसंस्कारजो भोगः || ९४ ||
SK
स कथं विग्रहयोगे सति न भवेत् तेन मोहयोगे ऽपि | मरणावसरे ज्ञानि न च्यवते स्वात्मपरमार्थात् || ९५ ||
SK
परमार्थमार्गम् एनं झटिति यदा गुरुमुखात् समभ्येति | अतितीव्रशक्तिपातात् तदैव निर्विघ्नम् एव शिवः || ९६ ||
SK
सर्वोत्तीर्णं रूपं सोपानपदक्रमेण संश्रयतः | परतत्त्वरूढिलाभे पर्यन्ते शिवमयीभावः || ९७ ||
SK
तस्य तु परमार्थमयीं धाराम् अगतस्य मध्यविश्रान्तेः | तत्पदलाभोत्सुकचेतसो ऽपि मरणं कदाचित् स्यात् || ९८ ||
SK
योगभ्रष्टः शास्त्रे कथितो ऽसौ चित्रभोगभुवनपतिः | विश्रान्तिस्थानवशाद् भूत्वा जन्मान्तरे शिवीभवति || ९९ ||
SK
परमार्थमार्गम् एनं ह्य् अभ्यस्याप्राप्य योगम् अपि नाम | सुरलोकभोगभागी मुदितमना मोदते सुचिरम् || १०० ||
SK
विषयेषु सार्वभौमः सर्वजनैः पूज्यते यथा राजा | भुवनेषु सर्वदैवैर् योगभ्रष्टस् तथा पूज्यः || १०१ ||
SK
महता कालेन पुनर् मानुष्यं प्राप्य योगम् अभ्यस्य | प्राप्नोति दिव्यम् अमृतम् यस्माद् आवर्तते न पुनः || १०२ ||
SK
तस्मात् सन्मार्गे ऽस्मिन् निरतो यः कश्चिद् एति स शिवत्वम् | इति मत्वा परमार्थे यथा तथापि प्रयतनीयम् || १०३ ||
SK
इदम् अभिनवगुप्तोदितसंक्षेपं ध्यायतः परं ब्रह्म | अचिराद् एव शिवत्वं निजहृदयावेशम् अभ्येति || १०४ ||
SK
आर्याशतेन तद् इदं संक्षिप्तं शास्त्रसारम् अतिगूढम् | अभिनवगुप्तेन मया शिवचरणस्मरणदीप्तेन || १०५ ||

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Paramārthasāra: Encoded by Marino Faliero (Gandharva-nagaram / DSO).

Source